भाषा

ENहिગુ
ग्रंथ पाठ

शिवस्तोत्रावलि · अध्याय 7

7.1

विधुरविजयनामधेयं सप्तमं स्तोत्रम्
त्वय्य् आनन्दसरस्वति समरसताम् एत्य नाथ मम चेतः &
परिहरतु सकृद् इयन्तं भेदाधीनं महानर्थम्

7.2

एतन् मम न त्व् इदम् इति रागद्वेषादिनिगडदृढमूले &
नाथ भवन्मयतैक्यप्रत्ययपरशुः पतत्वन्तः

7.3

गलतु विकल्पकलङ्कावली समुल्लसतु हृदि निरर्गलता &
भगवन्न् आनन्दरसप्लुतास्तु मे चिन्मयी मूर्तिः

7.4

रागादिमयभवाण्डकलुठितं त्वद्भक्तिभावनाम्बिका तैस् तैः &
आप्याययतु रसैर् मां प्रवृद्धपक्षो यथा भवामि खगः

7.5

त्वच्चरणभावनामृतरससारास्वादनैपुणं लभताम् &
चित्तम् इदं निःशेषितविषयविषासङ्गवासनावधि मे

7.6

त्वद्भक्तितपनदीधितिसंस्पर्शवशान् ममैष दूरतरम् &
चेतोमणिर् विमूञ्चतुरागादिकतप्तवह्निकणान्

7.7

तस्मिन् पदे भवन्तं सततम् उपश्लोकयेयम् अत्युच्चैः &
हरिहर्यश्वविरिञ्चा अपि यत्र बहिः प्रतीक्षन्ते

7.8

भक्तिमदजनितविभ्रमवशेन पश्येयम् अविकलं करणैः &
शिवमयम् अखिलं लोकं क्रियाश् च पूजामयी सकलाः

7.9

मामकमनोगृहीतत्वद्भक्तिकुलाङ्गनाणिमादिसुतान् &
सूत्वा सुबद्धमूला ममेति बुद्धिं दृढीकुरुताम्

मूल पाठ: Śivastotrāvali · Edition: Constantina R. Bailly (repr. Delhi 1990, Garib Dass Oriental Series, 109) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc