शिवस्तोत्रावलि · अध्याय 6
अध्वविस्फुरणाख्यं सस्थम् स्तोत्रम्
क्षणमात्रम् अपीशान वियुक्तस्य त्वया मम &
निबिडं तप्यमानस्य सदा भूया दृशः पदम्
वियोगसारे संसारे प्रियेण प्रभुणा त्वया &
अवियुक्तः सदैव स्यां जगतापि वियोजितः
कायवाङ्मनसैर् यत्र यामि सर्वं त्वम् एव तत् &
इत्य् एष परमार्थो ऽपि परिपूर्णो ऽस्तु मे सदा
निर्विकल्पो महानन्दपूर्णो यद्वद् भवांस् तथा &
भवत्स्तुतिकरी भूयाद् अनुरूपैव वाङ् मम
भवदावेशतः पश्यन् भावं भावं भवन्मयम् &
विचरेयं निराकाङ्क्षः प्रहर्षपरिपूरितः
भगवन्भवतः पूर्णम् पश्येयम् अखिलं जगत् &
तावतैवास्मि सन्तुष्टस् ततो न परिखिद्यसे
विलीयमानास् त्वय्य् एव व्योम्नि मेघलवा इव &
भावा विभान्तु मे शश्वत् क्रमनैर्मल्यगामिनः
स्वप्रभाप्रसरध्वस्तापर्यन्तध्वान्तसन्ततिः &
सन्ततं भातु मे को ऽपि भवमध्याद् भवन्मणिः
कां भूमिकां नाधिशेषे किं तत् स्याद् यन् न ते वपुः &
श्रान्तस् तेनाप्रयासेन सर्वतस् त्वाम् अवाप्नुयाम्
भवदङ्गपरिष्वङ्गसम्भोगः स्वेच्छयैव मे &
घटताम् इयति प्राप्ते किं नाथ न जितं मया
प्रकटीभव नान्याभिः प्रार्थनाभिः कदर्थनाः &
कुर्मस् ते नाथ ताम्यन्तस् त्वाम् एव मृगयामहे
मूल पाठ: Śivastotrāvali · Edition: Constantina R. Bailly (repr. Delhi 1990, Garib Dass Oriental Series, 109) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0