शिवस्तोत्रावलि · अध्याय 5
स्वबलनिदेशनाख्यं पञ्चमं स्तोत्रम्
त्वत्पादपद्मसम्पर्कमात्रसम्भोगसङ्गिनम् &
गलेपादिकया नाथ मां स्ववेश्म प्रवेशय
भवत्पादाम्बुजरजोराजिरञ्जितमूर्धजः &
अपाररभसारब्धनर्तनः स्याम् अहं कदा
त्वद् एकनाथो भगवन्न् इयद् एवार्थये सदा &
त्वदन्तर्वसतिर् मूको भवेयं मान्यथा बुधः
अहो सुधानिधे स्वामिन्न् अहो मृष्ट त्रिलोचन &
अहो स्वादो विरूपक्षेत्य् एव नृत्येयम् आरटन्
त्वत्पादपद्मसंस्पर्शपरिमीलितलोचनः &
विजृम्भेयभवद्भक्तिमदिरामदघूर्णितः
चित्तभूभृद् भुवि विभो वसेयं क्वापि यत्र सा &
निरन्तरत्वत्प्रलापमयी वृत्तिर् महारसा
यत्र देवीसमेतस् त्वम् आसौधादा च गोपुरात् &
बहुरूपः स्थितस् तस्मिन् वास्तव्यः स्याम् अहं पुरे
समुल्लसन्तु भगवन् भवद्भानुमरीचयः &
विकसत्वेष यावन् मे हृत्पद्मः पूजनाय ते
प्रसीद भगवन् येन त्वत्पदे पतितं सदा &
मनो मे तत्तदास्वाद्य क्षीवेद् इव गलेद् इव
प्रहर्षाद् वाथ शोकाद् वा यदि कुङ्याद् धटाद् अपि &
बाह्याद् अथान्तराद् भावात् प्रकटीभव मे प्रभो
बहिर् अप्य् अन्तर् अपि तत् स्यन्दमानं सदास्तु मे &
भवत्पादाम्बुजस्पर्शामृतम् अत्यन्तशीतलम्
त्वत्पादसंस्पर्शसुधासरसो ऽन्तर्निमज्जनम् &
को ऽप्य् एष सर्वसम्भोगलङ्घी भोगो ऽस्तु मे सदा
निवेदितम् उपादत्स्व रागादि भगवन् मया &
आदाय चामृतीकृत्य भुङ्क्ष्व भक्तजनैः समम्
अशेषभुवनाहारनित्यतृप्तः सुखासनम् &
स्वामिन् गृहाण दासेषु प्रसादालोकनक्षणम्
अन्तर्भक्तिचमत्कारचर्वणामीलितेक्षणः &
नमो मह्यं शिवायेति पूजयम् स्यां तृणान्य् अपि
अपि लब्धभवद्भावः स्वात्मोल्लासमयं जगत् &
पश्यन् भक्तिरसाभोगैर् भवेयम् अवियोजितः
आकाम्क्षणीयम् अपरं येन नाथ न विद्यते &
तव तेनाद्वितीयस्य युक्तं यत् परिपूर्णता
हस्यते नृत्यते यत्र रागद्वेषादि भुज्यते &
पीयते भक्तिपीयूषरसस् तत् प्राप्नुयां पदम्
तत् तद् अपूर्वामोदत्वच्चिन्ताकुसुमवासना दृढताम् &
एतु मम मनसि यावन्न् अश्यतु दुर्वासनागन्धः
क्व नु रागादिषु रागः क्व च हरचरणाम्बुजेषु रागित्वम् &
इत्थं विरोधरसिकं बोधय हितम् अमर मे हृदयम्
विचरन् योगदशास्व् अपि विषयव्यावृत्तिवर्तमानो ऽपि &
त्वच्चिन्तामदिरामदतरलीकृतहृदय एव स्याम्
वाचि मनोमतिषु तथा शरीरचेष्टासु करणरचितासु &
सर्वत्र सर्वदा मे पुरःसरो भवतु भक्तिरसः
शिवशिवशिवेति नामनि तव निरवधि नाथ जप्यमाने ऽस्मिन् &
आस्वादयन् भवेयं कम् अपि महारसम् अपुनरुक्तम्
स्फुरदनन्तचिदात्मकविष्टपे परिनिपीतसमस्तजडाध्वनि &
अगणितापरचिन्मयगण्डिके प्रविचरेयम् अहं भवतो ऽर्चिता
स्ववपुषि स्फुटभासिनि शाश्वते स्थितिकृते न किम् अप्य् उपयुज्यते &
इति मतिः सुदृढा भवतात् परं मम भवच्चरणाब्जरजः शुचेः
किम् अपि नाथ कदाचन चेतसि स्फुरति तद् भवदंघ्रितलस्पृशाम् &
गलति यत्र समस्तमिदं सुधासरसि विश्वम् इदं दिश मे सदा
मूल पाठ: Śivastotrāvali · Edition: Constantina R. Bailly (repr. Delhi 1990, Garib Dass Oriental Series, 109) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0