भाषा

ENहिગુ
ग्रंथ पाठ

शिवस्तोत्रावलि · अध्याय 4

4.1

सुरसोद्बलाख्यां चतुर्थं स्तोत्रम्
चपलम् असि यद् अपि मानस तत्रापि श्लाघ्यसे यतो भजसे &
शरणानाम् अपि शरणं त्रिभुवनगुरुम् अम्बिकाकान्तम्

4.2

उल्लङ्घ्य विविधदैवतसोपानक्रमम् उपेय शिवचरणान् &
आश्रित्याप्य् अधरतरां भूमिं नाद्यापि चित्रम् उज्झामि

4.3

प्रकटय निजम् अध्वानं स्थगयतराम् अखिललोकचरितानि &
यावद् भवामि भगवंस् तव सपदि सदोदितो दासः

4.4

शिव शिव शम्भो शङ्कर शरणागतवत्सलाशु कुरु करुणाम् &
तव चरणकमलयुगलस्मरणपरस्य हि सम्पदो ऽदूरे

4.5

तावकाङ्घ्रिकमलासनलीना ये यथारुचि जगद् रचयन्ति &
ते विरिञ्चिम् अधिकारमलेनालिप्तम् अस्ववशम् ईश हसन्ति

4.6

त्वत्प्रकाशवपुषो न विभिन्नं किं चन प्रभवति प्रतिभातुम् &
तत् सदैव भगवन् परिलब्धो ऽसीश्वर प्रकृतितो ऽपि विदूरः

4.7

पादपङ्कजरसं तव के चिद् भेदपर्युषितवृत्तिम् उपेताः &
के चनापि रसयन्ति तु सध्यो भातम् अक्षतवपुर् द्वयशून्यम्

4.8

नाथ विद्युद् इव भाति विभाते या कदा चन ममामृतदिग्धा &
सा यदि स्थिरतरैव भवेत् तत् पूजितो ऽसि विधिवत् किम् उतान्यत्

4.9

सर्वम् अस्यपरम् अस्ति न किं चिद् वस्त्व् अवस्तु यदि वेति महत्या &
प्रज्ञाय व्यवसितो ऽत्र यथैव त्वं तथैव भव सुप्रकटो मे

4.10

स्वेच्छयैव भगवन् निजमार्गे कारितः पदम् अहं प्रभुनैव &
तत् कथं जनवद् एव चरामि त्वत्पदोचितम् अवैमि न किं चित्

4.11

को ऽपि देव हृदि तेषु तावको जृम्भते सुभगभाव उत्तमः &
त्वत्कथाम्बुदनिनादचातका येन ते ऽपि सुभगीकृताश् चिरम्

4.12

त्वज्जुषां त्वयि कयापि लीलया राग एष परिपोषम् आगतः &
यद् वियोगभुवि सङ्कथा तथा संस्मृतिः फलति संगमोत्सवम्

4.13

यो विचित्ररससेकवर्धितः शङ्करेति शतशो ऽप्य् उदीरितः &
शब्द आविशति तिर्यगाशयेष्व् अप्य् अयं नवनवप्रयोजनः

4.14

ते जयन्ति मुखमण्डले भ्रमन् अस्ति येषु नियतं शिवध्वनिः &
यः शाशीव प्रसृतो ऽमृताशयात् स्वादु संस्रवति चामृतं परम्

4.15

परिसमाप्तम् इवोग्रम् इदं जगद् विगलितो ऽविरलो मनसो मलः &
तद् अपि नास्ति भवत्पुरार्गलकवाटविघट्टनम् अण्व पि

4.16

सततफुल्लभवन्मुखपङ्कजोदरविलोकनलालसचेतसः &
किम् अपि तत् कुरु नाथ मनाग् इव स्फुरसि येन ममाभिमुखस्थितिः

4.17

त्वदविभेदमतेर् अपरं नु किं सुखम् इहास्ति विभूतिर् अथापरा &
तद् इह तावकदासजनस्य किं कुपथम् एति मनः परिहृत्य ताम्

4.18

क्षणम् अपीह न तावकदासतां प्रति भवेयम् अहं किल भाजनम् &
भवदभेदरसासवम् आदराद् अविरतं रसयेयम् अहं न चेत्

4.19

न किल पश्यति सत्यम् अयं जनस् तव वपुर् द्वयदृष्टिमलीमसः &
तद् अपि सर्वविदाश्रितवत्सलः किम् इदम् आरटितं न शृणोषि मे

4.20

स्मरसि नाथ कदाचिद् अपीहितं विषयसौख्यम् अथापि मयार्थितम् &
सततम् एव भवद्वपुरीक्षणामृतमभीष्टमलं मम देहि तत्

4.21

किल यदैव शिवाध्वनि तावके कृतपदो ऽस्मि महेश तवेच्छया &
शुभशतान्युदितानि तदैव मे किम् अपरं मृगये भवतः प्रभो

4.22

यत्र सो ऽस्तम् अयम् एति विवस्वांश् चन्द्रमः प्रभृतिभिः सह सर्वैः &
कापि सा विजयते शिवरात्रिः स्वप्रभाप्रसरभास्वररूपा

4.23

अप्य् उपार्जितम् अहं त्रिषु लोकेष्व् अधिपत्यम् अमरेश्वर मन्ये &
नीरसं तद् अखिलं भवदङ्घ्रिस्पर्शनामृतरसेन विहीनम्

4.24

बत नाथ दृढो ऽयम् आत्मबन्धो भवदख्यातिमयस् त्वयैव कॢप्तः &
यद् अयं प्रथमानम् एव मे त्वाम् अवधीर्य श्लथते न लेशतो ऽपि

4.25

महताम् अमरेश पूज्यमानो ऽप्य् अनिशं तिष्ठसि पूजकैकरूपः &
बहिरन्तरपीह दृश्यमानः स्फुरसि द्रष्टृशरीर एव शश्वत्

मूल पाठ: Śivastotrāvali · Edition: Constantina R. Bailly (repr. Delhi 1990, Garib Dass Oriental Series, 109) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc