शिवस्तोत्रावलि · अध्याय 3
प्रणयप्रसादाख्यं तृतीयं स्तोत्रम्
सदसत्त्वेन भावानां युक्ता या द्वितयी गतिः &
ताम् उल्लङ्घ्य तृतीयस्मै नमश् चित्राय शम्भवे
आसुरर्षिजनाद् अस्मिन्न् अस्वतन्त्रे जगत्त्रये &
स्वतन्त्रास् ते स्वतन्त्रस्य ये तवैवानुजीविनः
अशेषविश्वखचितभवद्वपुर् अनुस्मृतिः &
येषाम् भवरुजाम् एकं भेषजं ते सुखासिनः
सितातपत्रं यस्येन्दुः स्वप्रभापरिपूरितः &
चामरं स्वर्धुनीस्रोतः स एकः परमेश्वरः
प्रकाशां शीतलाम् एकां शुद्धां शशिकलाम् इव &
दृशं वितर मे नाथ काम् अप्य् अमृतवाहिनीम्
त्वच्चिदानन्दजलधेश् च्युताः संवित्तिविप्रुषः &
इमाः कथं मे भगवन् नामृतास्वादसुन्दराः
त्वयि रागरसे नाथ न मग्नं हृदयं प्रभो &
येषाम् अहृदया एव ते ऽवज्ञस्पदम् ईदृशाः
प्रभुणा भवता यस्य जातं हृदयमेलनम् &
प्राभवीणां विभूतीनां परमेकः स भाजनम्
हर्षाणाम् अथ शोकानां सर्वेषां प्लावकः समम् &
भवद्ध्यानामृतापूरो निम्नाणिम्नभुवाम् इव
केव न स्याद् दृशा तेषां सुखसम्भारनिर्भरा &
येषाम् आत्माधिकेनेश न क्वापि विरहस् त्वया
गर्जामि बत नृत्यामि पूर्णा मम मनोरथाः &
स्वामी ममैष घटितो यत् त्वम् अत्यन्तरोचनः
नान्यद् वेद्यं क्रिया यत्र नान्यो योगो विदा च यत् &
ज्ञानं स्यात् किं तु विश्वैकपूर्णा चित्त्वं विजृम्भते
दुर्जयानाम् अनन्तानाम् दुःखानां सहसैव ते &
हस्तात् पलायिता येषां वाचि शश्वच्छिवध्वनिः
उत्तमः पुरुषो ऽन्यो ऽस्ति युष्मच्छेषविशेषितः &
त्वं महापुरुषस् त्व् एको निःशेषपुरुषाश्रयः
जयन्ति ते जगद्वन्द्या दासास् ते जगतां विभो &
संसारार्णव एवैष येषां क्रीडामहासरः
आसतां तावद् अन्यानि दैन्यानीह भवज्जुषाम् &
त्वम् एव प्रकटीभूया इत्य् अनेनैव लज्ज्यते
मत्परं नास्ति तत्रापि जापको ऽस्मि तदैक्यतः &
तत्त्वेन जप इत्य् अक्षमालया दिशसि क्वचित्
सतो ऽवश्यं परमसत् सच् च तस्मात् परं प्रभो &
त्वं चासतः सतश् चान्यस् तेनासि सदसन्मयः
सहस्रसूर्यकिरणाधिकशुद्धप्रकाशवान् &
अपि त्वं सर्वभुवनव्यापको ऽपि न दृश्यसे
जडे जगति चिद्रूपः किल वेद्ये ऽपि वेदकः &
विभुर् मिते च येनासि तेन सर्वोत्तमो भवान्
अलम् आक्रन्दितैर् अन्यैर् इयद् एव पुरः प्रभोः &
तीव्रं विरौमि यन् नाथ मुह्याम्य् एवं विदन्न् अपि
मूल पाठ: Śivastotrāvali · Edition: Constantina R. Bailly (repr. Delhi 1990, Garib Dass Oriental Series, 109) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0