भाषा

ENहिગુ
ग्रंथ पाठ

शिवस्तोत्रावलि · अध्याय 2

2.1

सर्वात्मपरिभावनाख्यं द्वितीयं स्तोत्रम्
अग्नीषोमरविब्रह्मविष्णुस्थावरजङ्गम &
स्वरूप बहुरूपाय नमः संविन्मयाय ते

2.2

विश्वेन्धनमहाक्षारानुलेपशुचिवर्चसे &
महानलाय भवते विश्वैकहविषे नमः

2.3

परमामृतसान्द्राय शीतलाय शिवाग्नये &
कस्मै चिद् विश्वसंप्लोषविषमाय नमो ऽस्तु ते

2.4

महादेवाय रुद्राय शङ्कराय शिवाय ते &
महेश्वरायापि नमः कस्मै चिन् मन्त्रमूर्तये

2.5

नमो निकृत्तनिःशोषत्रैलोक्यविगलद्वसा- &
वसेकविषमायापि मङ्गलाय शिवाग्नये

2.6

समस्तलक्षनायोग एव यस्योपलक्षणम् &
तस्मै नमो ऽस्तु देवाय कस्मै चिद् अपि शम्भवे

2.7

वेदागमविरुद्धाय वेदागमविधायिने &
वेदागमसतत्त्वाय गुह्याय स्वामिने नमः

2.8

संसारैकनिमित्ताय संसारैकविरोधिने &
नमः सम्साररूपाय निःसंसाराय शम्भवे

2.9

मूलाय मध्यायाग्राय मूलमध्याग्रमूर्तये &
क्षीनाग्रमध्यमूलाय नमः पूर्णाय शम्भवे

2.10

नमः सुकृतसंभरविपाकः सकृद् अप्य् असौ &
यस्य नामग्रहस् तस्मै दुर्लभाय शिवाय ते

2.11

नमश्चराचराकारपरेतनिचयैः सदा &
क्रीडते तुभ्यम् एकस्मै चिन्मयाय कपालिने

2.12

मायाविने विशुद्धाय गुह्याय प्रकटात्मने &
सूक्ष्माय विश्वरूपाय नमश् चित्राय शम्भवे

2.13

ब्रह्मेन्द्रविष्णुनिर्व्यूढजगत्संहारकेलये &
आश्चर्यकरणीयाय नमस् ते सर्वशक्तये

2.14

तटेष्व् एव परिभ्रान्तैः लब्धास् तास् ता विभूतयः &
यस्य तस्मै नमस् तुभ्यम् अगाधहरसिन्धवे

2.15

मायामयजगत्सान्द्रपङ्कमध्याधिवासिने &
अलेपाय नमः शम्भुशतपत्राय शोभिने

2.16

मङ्गलाय पवित्राय निधये भूषणात्मने &
प्रियाय परमार्थाय सर्वोत्कृष्टाय ते नमः

2.17

नमः सततबद्धाय नित्यनिर्मुक्तिभागिने &
बन्धमोक्षविहीनाय कस्मै चि द् अपि शम्भवे

2.18

उपहासैकसारे ऽस्मिन्न् एतावति जगत्त्रये &
तुभ्यम् एवाद्वितीयाय नमो नित्यसुखासिने

2.19

दक्षिणाचारसाराय वामाचाराभिलाषिणे &
सर्वाचाराय शर्वाय निराचाराय ते नमः

2.20

यथा तथापि यः पूज्यो यत्र तत्रापि यो ऽर्चितः &
यो ऽपि वा सो ऽपि वा यो ऽसौ देवस् तस्मै नमो ऽस्तु ते

2.21

मुमुक्षुजनसेव्याय सर्वसन्तापहारिणे &
नमो विततलावण्यवराय वरदाय ते

2.22

सदा निरन्तरानन्दरसनिर्भरिताखिल- &
त्रिलोकाय नमस् तुभ्यं स्वामिने नित्यपर्वणे

2.23

सुखप्रधानसंवेद्यसम्भोगैर् भजते च यत् &
त्वाम् एव तस्मै घोराय शक्तिवृन्दाय ते नमः

2.24

मुनीनाम् अप्य् अविज्ञेयं भक्तिसम्बन्धचेष्टिताः &
आलिङ्गन्त्य् अपि यं तस्मै कस्मै चिद् भवते नमः

2.25

परमामृतकोशाय परमामृतराशये &
सर्वपारम्यपारम्यप्राप्याय भवते नमः

2.26

महामन्त्रमयं नौमि रूपं ते स्वच्छशीतलम् &
अपूर्वमोदसुभगं परामृतरसोल्वणम्

2.27

स्वातन्त्र्यामृतपूर्णत्वद् ऐक्यख्यातिमहापटे &
चित्रं नास्त्य् एव यत्रेश तन् नौमि तव शासनम्

2.28

सर्वाशङ्कासनिं सर्वालक्ष्मीकालानलं तथा &
सर्वामङ्गल्यकल्पान्तं मार्गं माहेश्वरं नुमः

2.29

जय देव नमो नमो ऽस्तु ते सकलं विश्वम् इदं तवाश्रितम् &
जगतां परमेश्वरो भवान् परमेकः शरणागतो ऽस्मि ते

मूल पाठ: Śivastotrāvali · Edition: Constantina R. Bailly (repr. Delhi 1990, Garib Dass Oriental Series, 109) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc