भाषा

ENहिગુ
ग्रंथ पाठ

शिवस्तोत्रावलि · अध्याय 1

1.1

भक्तिविलासाख्यं प्रथमं स्तोत्रम्
ओं
न ध्यायतो न जपतः स्याद् यस्याविधिपूर्वकम् &
एवम् एव शिवभासस् तं नुमो भक्तिशालिनम्

1.2

आत्मा मम भवद्भक्तिसुधापानयुवापि सन् &
लोकयात्रारजोरागात् पलितैर् इव धूसरः

1.3

लब्धतत्संपदां भक्तिमतां त्वत्पुरवासिनाम् &
संचारो लोकमार्गे ऽपि स्यात् तयैव विजृम्भया

1.4

साक्षाद्भवन्मये नाथ सर्वस्मिन् भुवनान्तरे &
किं न भक्तिमतां क्षेत्रम् मन्त्रः क्वैषाम् न सिद्ध्यति

1.5

जयन्ति भक्तिपीयूषरसासववरोन्मदाः &
अद्वितीया अपि सदा त्वद्द्वितीया अपि प्रभो

1.6

अनन्तानन्दसिन्धोस् ते नाथ तत्त्वं विदन्ति ते &
तादृश एव ये सान्द्रभक्त्यानन्दरसाप्लुताः

1.7

त्वम् एवात्मेश सर्वस्य सर्वश् चात्मनि रागवान् &
इति स्वभावसिद्धांस् त्वद्भक्तिं जानञ् जयेज् जनः

1.8

नाथ वेद्यक्षये केन न दृश्यो ऽस्येककः स्थितः &
वेद्यवेदकसंक्षोभे ऽप्य् असि भक्तैः सुदर्शनः

1.9

अनन्तानन्दसरसी देवी प्रियतमा यथा &
अवियुक्तास्ति ते तद्वद् एका त्वद्भक्तिर् अस्तु मे

1.10

सर्व एव भवल्लाभहेतुर् भक्तिमतां विभो &
संविन्मार्गो ऽयम् आह्लाददुःखमोहैस् त्रिधा स्थितः

1.11

भवद्भक्त्यमृतास्वादाद् बोधस्य स्यात् परापि या &
दशा सा मां प्रति स्वामिन् नासवस्येव शुक्तता

1.12

भवद्भक्तिमहाविद्या येषाम् अभ्यासम् आगता &
विद्याविद्योभयस्यापि ता एते तत्त्ववेदिनः

1.13

आमुलाद् वाग्लता सेयं क्रमविस्फारशालिनी &
त्वद्भक्तिसुधया सिक्ता तद्रसाढ्यफलास्तु मे

1.14

शिवो भूत्वा यजेतेति भक्तो भूत्वेति कथ्यते &
त्वम् एव हि वपुः सारं भक्तैर् अद्वयशोधितम्

1.15

भक्तानां भवदद्वैतसिद्ध्यै का नोपपत्तयः &
तदसिद्ध्यै निकृष्टानां कानि नावरणानि वा

1.16

कदाचित् क्वापि लभ्यो ऽसि योगेनेतीश वञ्चना &
अन्यथा सर्वकक्ष्यासु भासि भक्तिमतां कथम्

1.17

प्रत्याहाराद्यसंस्पृष्टो विशेषो ऽस्ति महानयम् &
योगिभ्यो भक्तिभाजाम् यद् व्युत्थाने ऽपि समाहिताः

1.18

न योगो न तपो नार्चाक्रमः को ऽपि प्रनीयते &
अमाये शिवमार्गे ऽस्मिन् भक्तिर् एका प्रशस्यते

1.19

सर्वतो विलसद्भक्तितेजोध्वस्तावृतेर् मम &
प्रत्यक्षसर्वभावस्य चिन्तानाम् अपि नश्यतु

1.20

शिव इत्य् एकशब्दस्य जिह्वाग्रे तिष्ठतः सदा &
समस्तविषयास्वादो भक्तेष्व् एवास्ति को ऽप्य् अहो

1.21

शान्तकल्लोलशीताच्छस्वादुभक्तिसुधाम्बुधौ &
अलौकिकरसास्वादे सुस्थैः को ऽनाम गण्यते

1.22

सादृशैः किं न चर्व्येत भवद्भक्तिमहौषधिः &
तादृशी भगवन् यस्या मोक्षाख्यो ऽनन्तरो रसः

1.23

ता एव परमर्थ्यन्ते सम्पदः सद्भिर् ईश याः &
त्वद् भक्तिरससम्भोगविस्रम्भपरिपोषिकाः

1.24

भवद्भक्तिसुधासारस् तैः किम् अप्य् उपलक्षितः &
ये न रागादि पङ्के ऽस्मिंऌ लिप्यन्ते पतिता अपि

1.25

अणिमादिषु मोक्षान्तेष्व् अङ्गेष्व् एव फलाभिधा &
भवद्भक्तेर् विपक्वाया लताया इव केषु चित्

1.26

चित्रं निसर्गतो नाथ दुःखबीजम् इदं मनः &
त्वद्भक्तिरससंसिक्तम् निःश्रेयसमहाफलम्

मूल पाठ: Śivastotrāvali · Edition: Constantina R. Bailly (repr. Delhi 1990, Garib Dass Oriental Series, 109) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc