भाषा

ENहिગુ
ग्रंथ पाठ

शिवस्तोत्रावलि · अध्याय 19

19.1

उद्योतनाभिधानम् एकोनविंशं स्तोत्रम्
प्रार्थनाभूमिकातीतविचित्रफलदायकः &
जयत्य् अपूर्ववृत्तान्तः शिवः सत्कल्पपादपः

19.2

सर्ववस्तुनि च यैकनिधानात् स्वात्मनस् त्वद् अखिलं किल लभ्यम् &
अस्य मे पुनर् असौ निजा आत्मा न त्वम् एव घटसे परमास् ताम्

19.3

ज्ञानकर्ममयचिद्वपुर् आत्मा सर्वथैष परमेश्वर एव &
स्याद् वपुस् तु निखिलेषु पदार्थेष्व् एषु नाम न भवेत् किम् उतान्यत्

19.4

विषमार्तिमुषानेन फलेन त्वद्दृगात्मना &
अभिलीय पथा नाथ ममास्तु त्वन्मयी गतिः

19.5

भवदमलचरणचिन्तारत्नलतालङ्कृता कदा सिद्धिः &
सिद्धजनमानसानां विस्मयजननी घटेत मम भवतः

19.6

कर्हि नाथ विमलं मुखबिम्बं तावकं समवलोकयितास्मि &
यत्स्रवत्य् अमृतपूरम् अपूर्वं यो निमज्जयति विश्वम् अशेषम्

19.7

ध्यातमात्रमुदितं तव रूपं कर्हि नाथ परमामृतपूरैः &
पूरयेत् त्वदविभेदविमोक्षाख्यातिदूरविवराणि सदा मे

19.8

त्वदीयानुत्तररसासङ्गसंत्यक्तचापलम् &
नाद्यापि मे मनो नाथ कर्हि स्याद् अस्तु शीघ्रतः

19.9

मा शुष्ककटुकान्य् एव परं सर्वाणि सर्वदा &
तवोपहृत्य लब्धानि द्वन्द्वान्य् अप्य् आपतन्तु मे

19.10

नाथ सांमुख्यम् आयान्तु विशुद्धास् तव रश्मयः &
यावत् कायमनस्तापतमोभिः परिलुप्यताम्

19.11

देव प्रसीद यावन् मे त्वन्मार्गपरिपन्थिकाः &
परमार्थमुषो वश्या भूयासुर् गुणतस्कराः

19.12

त्वद् भक्तिसुधासारैर् मानसम् आपूर्यतां ममाशु विभो &
यावद् इमा उह्यन्तां निःशेषासारवासनाः प्लुत्वा

19.13

मोक्षदशायां भक्तिस् त्वयि कुत इव मर्त्यधर्मिणो ऽपि न सा &
राजति ततो ऽनुरूपाम् आरोपय सिद्धिभूमिकाम् अज माम्

19.14

सिद्धिलवलाभलुब्धं माम् अवलेपेन मा विभो संस्थाः &
क्षामस् त्वद्भक्तिमुखे प्रोल्लसदणिमादिपक्षतो मोक्षः

19.15

दासस्य मे प्रसीदतु भगवान् एतावद् एव ननु याचे &
दाता त्रिभुवननाथो यस्य न तन्मादृशां दृशो विषयः

19.16

त्वद्वपुःस्मृतिसुधारसपूर्णे मानसे तव पदाम्बुजयुग्मम् &
मामके विकसद् अस्तु सदैव प्रस्रवन्मधु किम् अप्य् अतिलोकम्

19.17

अस्ति मे प्रभुर् असौ जनको ऽथ त्र्यम्बको ऽथ जननी च भवानी &
न द्वितीय इह को ऽपि ममास्तीत्य् एव निर्वृततमो विचरेयम्

मूल पाठ: Śivastotrāvali · Edition: Constantina R. Bailly (repr. Delhi 1990, Garib Dass Oriental Series, 109) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc