भाषा

ENहिગુ
ग्रंथ पाठ

शिवस्तोत्रावलि · अध्याय 18

18.1

आविष्कारनाम अष्टादशं स्तोत्रम्
जगतो ऽन्तरतो भवन्तम् आप्त्वा पुनर् एतद् भवतो ऽन्तराल् लभन्ते &
जगदीश तवैव भक्तिभाजो न हि तेषाम् इह दूरतो ऽस्ति किञ्चित्

18.2

क्वचिद् एव भवान् क्वचिद् भवानी सकलार्थक्रमगर्भिणी प्रधाना &
परमार्थपदे तु नैव देव्या भवतो नापि जतत्त्रयस्य भेदः

18.3

नो जानते सुभगम् अप्य् अवलेपवन्तो लोकाः प्रयत्नसुभगा निखिल हि भावाः &
चेतः पुनर् यद् इदम् उद्यतम् अप्य् अवैति नैवात्मरूपम् इह हा तद् अहो हतो ऽस्मि

18.4

भवन्मयस्वात्मनिवासलब्धसम्पद्भराभ्यर्चितयुष्मदङ्घ्रिः &
न भोजनाच्छादनम् अप्य् अजस्रम् अपेक्षते यस् तम् अहं नतो ऽस्मि

18.5

सदा भवद्देहनिवासस्वस्थो ऽप्य् अन्तः परं दह्यत एष लोकः &
तवेच्छया तत् कुरु मे यथात्र त्वदर्चनानन्दमयो भवेयम्

18.6

स्वरसोदितयुष्मदङ्घ्रिपद्मद्वयपूजामृतपानसक्तचित्तः &
सकार्थचयेष्व् अहं भवेयम् सुखसंस्पर्शनमात्रलोकयात्रः

18.7

सकलव्यवहारगोचरे स्फुटम् अन्तः स्पुरति त्वयि प्रभो &
उपयान्त्य् अपयान्ति चानिशम् मम वस्तूनि विभान्तु सर्वदा

18.8

सततम् एव तवैव पुरे ऽथवाप्य् अरहितो विचरेयम् अहं त्वया &
क्षणलवो ऽप्य् अथ मा स्म भवेत् स मे न विजये ननु यत्र भवन्मयः

18.9

भवदङ्गपरिस्रवत्सुशीतामृतपूरैर् भरिते समन्ततो ऽपि &
भवदर्चनसम्पदेह भक्तास् तव संसारसरो ऽन्तरे चरन्ति

18.10

महामन्त्रतरुच्छायाशीतले त्वन्महावने &
निजात्मनि सदा नाथ वसेयं तव पूजकः

18.11

प्रतिवस्तु समस्तजीवतः प्रतिभासि प्रतिभामयो यथा &
मम नाथ तथा पुरः प्रथां व्रज नेत्रत्रयशूलशोभितः

18.12

अभिमानचरूपहारतो ममताभक्तिभरेण कल्पितात् &
परितोषगतः कदा भवान् मम सर्वत्र भवेद् दृशः पदम्

18.13

निवसन्परमामृताब्धिमध्ये भवदर्चाविधिमात्रमग्नचित्तः &
सकलं जनवृत्तम् आचरेयं रसयन् सर्वत एव किञ्चनापि

18.14

भवदीयम् इहास्तु वस्तु तत्त्वं विवरीतुं क इवात्र पात्रम् अर्थे &
इदम् एव हि नामरूपचेष्टाद्यसमं ते हरते हरो ऽसि यस्मात्

18.15

शान्तये न सुखलिप्सुता मनाग् भक्तिसम्भृतमदेषु तैः प्रभोः &
मोक्षमार्गणफलापि नार्थना स्मर्यते हृदयहारिणः पुरः

18.16

जागरेतरदशाथवा परा यापि काचन मनाग् अवस्थितेः &
भक्तिभाजनजनस्य साखिला त्वत्सनाथमनसो महोत्सवः

18.17

आमनो ऽक्षवलयस्य वृत्तयः सर्वतः शिथिलवृत्तयो ऽपि ताः &
त्वाम् अवाप्य दृढदीर्घसंविदो नाथ भक्तिधनसोष्मणां कथम्

18.18

न च विभिन्नम् असृज्यत किञ्चिद् अस्त्य् अथ सुखेतरद् अत्र न निर्मितम् &
अथ च दुःखि च भेदि च सर्वथाप्य् असमविस्मयधाम नमो ऽस्तु ते

18.19

खरनिषेधखदामृतपूरणोच्छलितधौतविकल्पमलस्य मे &
दलितदुर्जयसंशयवैरिणस् त्वदवलोकनम् अस्तु निरन्तरम्

18.20

स्फुटम् अविश माम् अथाविशेयं सततं नाथ भवन्तमस्मि यस्मात् &
रभसेन वपुस् तवैव साक्षात् परमासत्तिगतः समर्चयेयम्

18.21

त्वयि न स्तुतिशक्तिर् अस्ति कस्याप्य् अथवास्त्य् एव यतो ऽतिसुन्दरो ऽसि &
सततं पुनर् अर्थितं ममैतद् यद् अविश्रान्ति विलोकयेयम् ईशम्

मूल पाठ: Śivastotrāvali · Edition: Constantina R. Bailly (repr. Delhi 1990, Garib Dass Oriental Series, 109) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc