शिवस्तोत्रावलि · अध्याय 20
चर्वनाभिधानम् विम्शम् स्तोत्रम्
नथं त्रिभुवननाथं भूतिसितं त्रिनयनं त्रिशूलधरम् &
उपवीतीकृतभोगिनम् इन्दुकलाशेखरं वन्दे
नौमि निजतनुविनिस्मरदंशुकपरिवेषधवलपरिधानम् &
विलसत्कपालमालाकल्पितनृत्तोत्सवाकल्पम्
वन्दे तान् दैवतं येषां हरश् चेष्टा हरोचिताः &
हरैकप्रवणाः प्राणाः सदा सौभाग्यसद्मनाम्
क्रीडितं तव महेश्वरतायाः पृष्ठतो ऽन्यद् इदम् एव यथैतत् &
इष्टमात्रघटितेष्व् अवदानेष्व् आत्मना परम् उपायम् उपैमि
त्वद्धाम्नि विश्ववन्द्ये ऽस्मिन्न् इयति क्रीडने सति &
तव नाथ कियान् भूयान्न् आनन्दरससम्भवः
कथं स सुभगो मा भूद्यो गौर्या वल्लभो हरः &
हरो ऽपि मा भूद् अथ किं गौर्याः परमवल्लभः
ध्यानामृतमयं यस्य स्वात्ममूलम् अनश्वरम् &
संविल्लतास् तथारूपास् तस्य कस्यापि सत्तरोः
भक्तिकण्डूसम् उल्लासावसरे परमेश्वर &
महानिकषपाषाणस्थूणा पूजैव जायते
सदा स्र्ष्टिविनोदाय सदा स्थितिसुखासिने &
सदा त्रिभुवनाहारतृप्ताय स्वामिने नमः
न क्वापि गत्वा हित्वापि न किंचिद् इदम् एव ये &
भव्यं त्वद्धाम पश्यन्ति भव्यास् तेभ्यो नमो नमः
भक्तिलक्ष्मीसमृद्धानां किम् अन्यद् उपयाचितम् &
एतया वा दरिद्रणां किम् अन्यद् उपयाचितम्
दुःखान्य् अपि सुखायन्ते विषम् अप्य् अमृतायते &
मोक्षायते च संसारो यत्र मार्गः स शङ्करः
मूले मध्ये ऽवसाने च नास्ति दुःखं भवज्जुषां &
तथापि वयम् ईशान सीदामः कथम् उच्यताम्
ज्ञानयोगादिनान्येषाम् अप्य् अपेक्षितुम् अर्हति &
प्रकाशः स्वैरिणाम् इव भवान् भक्तिमतां प्रभो
भक्तानां नार्तयो नाप्य् अस्त्य् आध्यानं स्वात्मनस् तव &
तथाप्य् अस्ति शिवेत्य् एतत् किम् अप्य् एषां बहिर्मुखे
सर्वाभासावभासो यो विमर्शवलितो ऽखिलम् &
अहम् एतद् इति स्तौमि तां क्रियाशक्तिम् ईश ते
वर्तन्ते जन्तवो ऽशेषा अपि ब्रह्मेन्द्रविष्णवः &
ग्रसमानास् ततो वन्दे देव विश्वं भवन्मयम्
सतो विनाशसम्बन्धान् मत्परं निखिलं मृषा &
एवमेवोद्यते नाथ त्वया संहारलीलया
ध्यातम् आत्मुपतिष्ठत एव त्वद्वपुर् वरद भक्तिधनानाम् &
अप्य् अचिन्त्यम् अखिलाद्भुतचिन्ताकर्तृतां प्रति च ते विजयन्ते
तावकभक्तिरसासवसेकाद् इव सुखितमर्ममण्डलस्फुरितैः &
नृत्यति वीरजनो निशि वेतालकुलैः कृतोत्साहः
आरब्धा भवदभिनुतिर् अमुना येनाङ्गकेन मम शम्भो &
तेनापर्यन्तम् इमं कालं दृढम् अखिलम् एव भविषीष्ट
मूल पाठ: Śivastotrāvali · Edition: Constantina R. Bailly (repr. Delhi 1990, Garib Dass Oriental Series, 109) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0