भाषा

ENहिગુ
ग्रंथ पाठ

शिवस्तोत्रावलि · अध्याय 17

17.1

दिव्यक्रीडाबहुमाननाम सप्तदसं स्तोत्रम्
अहो को ऽपि जयत्य् एष स्वादुः पूजामहोत्सवः &
यतो ऽमृतरसास्वादम् अश्रूण्य् अपि ददत्य् अलम्

17.2

व्यापाराः सिद्धिदाः सर्वे ये त्वत्पूजापुरःसराः &
भक्तानां त्वन्मयाः सर्वे स्वयं सिद्धय एव ते

17.3

सर्वदा सर्वभावेषु युगपत् सर्वरूपिणम् &
त्वाम् अर्चयन्त्य् अविश्रन्तं ये ममैते ऽधिदेवताः

17.4

ध्यानायसतिरस्कारसिद्धस् त्वत्स्पर्शनोत्सवः &
पूजाविधिर् इति ख्यातो भक्तानां स सदास् तु मे

17.5

भक्तानां समतासारविषुवत्समयः सदा &
त्वद्भावरसपीयूषरसेन्नैषां सदार्चनम्

17.6

यस्यानारम्भपर्यन्तौ न च कालक्रमः प्रभो &
पूजात्मासौ क्रिया तस्याः कर्तारस् त्वज्जुषः परम्

17.7

ब्रह्मादीनाम् अपीशास्ते ते च सौभाग्यभागिनः &
येषां स्वप्ने ऽपि मोहे ऽपि स्थितस् त्वत्पूजनोत्सवः

17.8

जपतां जुह्वतां स्नातां ध्यायतां न च केवलम् &
भक्तानां भवदभ्यर्चामहो यावद् यदा तदा

17.9

भवत्पूजासुधास्वादसम्भोगसुखिनः सदा &
इन्द्रादीनाम् अथ ब्रह्ममुख्यानाम् अस्ति कः समः

17.10

जगत्क्षोभैकजनके भवत्पूजामहोत्सवे &
यत्प्राप्यं प्राप्यते किंचिद् भक्ता एव विदन्ति तत्

17.11

त्वद्धाम्नि चिन्मये स्थित्वा षट्त्रिंशत्तत्त्वकर्मभिः &
कायवाक्चित्तचेष्टाद्यैर् अर्चये त्वां सदा विभो

17.12

भवत्पूजामयासङ्गसम्भोगसुखिनो मम &
प्रयातु कालः सकलो ऽप्य् अनन्तो ऽपीयदर्थये

17.13

भवत्पूजामृतरसाभोगलम्पटत विभो &
विवर्धताम् अनुदिनं सदा च फलतां मम

17.14

जगद्विलयसञ्जातसुधैकरसनिर्भरे &
त्वदब्धौ त्वां महात्मानम् अर्चन्नासीय सर्वदा

17.15

अशेषवासनाग्रन्थिविच्छेदसरलं सदा &
मनो निवेद्यते भक्तैः स्वादु पूजाविधौ तव

17.16

अधिष्ठायैव विषयानिमाः करणवृत्तयः &
भक्तानां प्रेषयन्ति स्वत्पूजार्थम् अमृतासवम्

17.17

भक्तानां भक्तिसंवेगमहोष्मविवशात्मनाम् &
को ऽन्यो निर्वाणहेतुः स्यात् त्वत्पूजामृतमज्जनात्

17.18

सततं त्वत्पदाभ्यर्चासुधापानमहोत्सवः &
त्वत्प्रसादैकसम्प्राप्तिहेतुर् मे नाथ कल्पताम्

17.19

अनुभूयासमीशान प्रतिकर्म क्षणात् क्षणम् &
भवत्पूजामृतापानमदास्वादमहामुदम्

17.20

दृष्टर्थ एव भक्तानां भवत्पूजामहोद्यमः &
तदैव यद् असम्भाव्यं सुखम् आस्वादयन्ति ते

17.21

यावन् न लब्धस् त्वत्पूजासुधास्वादमहोत्सवः &
तावन् नास्वादितो मन्ये लवो ऽपि सुखसम्पदः

17.22

भक्तानां विषयन्वेषाभासायासाद् विनैव सा &
अयत्नसिद्धं त्वद्धामस्थितिः पूजासु जायते

17.23

न प्राप्यम् अस्ति भक्तनां नाप्य् एषाम् अस्ति दुर्लभम् &
केवलं विचरन्त्य् एते भवत्पूजामदोन्मदाः

17.24

अहो भक्तिभरोदारचेतसां वरद त्वयि &
स्लाघ्यः पूजाविधिः को ऽपि यो न याच्ञाकलंकितः

17.25

का न शोभा न को ह्लादः का समृद्धिर् न वापरा &
को वा न मोक्षः को ऽप्य् एष महादेवो यद् अर्च्यते

17.26

अन्तरुल्लसदच्छाच्छभक्तिपीयूषपोषितम् &
भवत्पूजोपयोगाय शरीरम् इदम् अस्तु मे

17.27

त्वत्पादपूजासम्भोगपरतन्त्रः सदा विभो &
भूयासं जगताम् ईश एकः स्वच्छन्दचेष्टितः

17.28

त्वद्ध्यानदर्शनस्पर्शतृषि केषाम् अपि प्रभो &
जायते शीतलस्वादु भवत्पूजामहासरः

17.29

यथा त्वम् एव जगतः पूजासम्भोगभाजनम् &
तथेश भक्तिमान् एव पूजासम्भोगभाजनम्

17.30

को ऽप्य् असौ जयति स्वामिन् भवत्पूजामहोत्सवः &
षट्त्रिंशतो ऽपि तत्त्वानां क्षोभो यत्रोल्लसत्य् अलम्

17.31

नमस् तेभ्यो विभो येषां भक्तिपीयूषवारिणा &
पूज्यान्य् एव भवन्ति त्वत्पूजोपकरणान्य् अपि

17.32

पूजारम्भे विभो ध्यात्वा मन्त्राधेयां त्वदात्मताम् &
स्वात्मन्य् एव परे भक्ता मान्ति हर्षेण न क्वचित्

17.33

राज्यलाभादिवोत्फुल्लैः कैश् चित् पूजामहोत्सवे &
सुधासवेन सकला जगती संविभज्यते

17.34

पूजामृतापानमयो येषां भोगः प्रतिक्षणम् &
किं देवा उत मुक्तास् ते किं वा के ऽप्य् एव ते जनाः

17.35

पूजोपकरणीभूतविश्ववेशेन गौरवम् &
अहो किम् अपि भक्तानां किम् अप्य् एव च लाघवम्

17.36

पूजामयाक्षविक्षेपक्षोभादेवामृतोद्गमः &
भक्तानां क्षीरजलधिक्षोभाद् इव दिवौकसाम्

17.37

पूजां के चन मन्यन्ते धेनुं कामदुघाम् इव &
सुधाधाराधिकरसां धयन्त्य् अन्तर्मुखाः परे

17.38

भक्तानाम् अक्षविक्षेपो ऽप्य् एष संसारसंमतः &
उपनीय किम् अप्य् अन्तः पुष्णात्य् अर्चामहोत्सवम्

17.39

भक्तिक्षोभवशाद् ईश स्वात्मभूते ऽर्चनं त्वयि &
चित्रं दैन्याय नो यावद् दीनतायाः परं फलम्

17.40

उपचारपदं पूजा केषां चित् त्वत्पदाप्तये &
भक्तानां भवदैकात्म्यनिर्वृत्तिप्रसरस् तु सः

17.41

अप्य् असम्बद्धरूपार्चाभक्त्युन्मादनिरर्गलैः &
वितन्यमाना लभते प्रतिष्ठां त्वयि काम् अपि

17.42

स्वादुभक्तिरसास्वादस्तब्धीभूतमनश् च्युताम् &
शम्भो त्वम् एव ललितः पूजानां किल भाजनम्

17.43

परिपूर्णानि शुद्धानि भक्तिमन्ति स्थिराणि च &
भवत्पूजाविधौ नाथ साधनानि भवन्तु मे

17.44

अशेषपूजासत्कोशे त्वत्पूजाकर्मणि प्रभो &
अहो करणवृन्दस्य कापि लक्ष्मीर् विजृम्भते

17.45

एषा पेशलिमा नाथ तवैव किल दृश्यते &
विश्वेश्वरो ऽपि भृत्यैर् यद् अर्च्यसे यश् च लभ्यसे

17.46

सदामुर्त्ताद् अमूर्त्ताद्वा भावाद् यद् वाप्य् अभावतः &
उत्थेयान् मे प्रशस्तस्य भवत्पूजामहोत्सवः

17.47

कामक्रोधाभिमानैस् त्वाम् उपहरीकृतैः सदा &
ये ऽर्चयन्ति नमस् तेभ्यस् तेषां तुष्टो ऽस्मि तत्त्वतः

17.48

जयत्य् एष भवद्भक्तिभाजां पूजाविधिः परः &
यस् तृणैः क्रियमानो ऽपि रत्नैर् एवोपकल्पते

मूल पाठ: Śivastotrāvali · Edition: Constantina R. Bailly (repr. Delhi 1990, Garib Dass Oriental Series, 109) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc