शिवस्तोत्रावलि · अध्याय 16
पाशानुद्भेदनाम षोडशं स्तोत्रम्
न किञ्चिद् एव लोकानां भवदावरणं प्रति \वर्{यत् किं चिद् एव भूतानां\एम् \चित् \नरेस्वरपरीक्सा} &
न किञ्चिद् एव भक्तानां भवदावरणं प्रति
अप्य् उपायक्रमप्राप्यः सङ्कुलो ऽपि विशेषणैः &
भक्तिभाजां भवान् आत्मा सकृच् छुद्धो ऽवभासते
जयन्तो ऽपि हसन्त्य् एते जिता अपि हसन्ति च &
भवद्भक्तिसुधापानमत्ताः के ऽप्य् एव ये प्रभो
शुष्ककं मैव सिद्धेय मैव मुच्येय वापि तु &
स्वादिष्ठपरकाष्टाप्तत्वद्भक्तिरसनिर्भरः
यथैवज्ञातपूर्वो ऽयं भवद्भक्तिरसो मम &
घटितस् तद्वद् ईशान स एव परिपुष्यतु
सत्येन भगवन् नान्यः प्रार्थनाप्रसरो ऽस्ति मे &
केवलं स तथा को ऽपि भक्त्यावेशो ऽस्तु मे सदा
भक्तिक्षीवो ऽपि कुप्येयं भवायानुशयीय च &
तथा हसेयं उद्यां च रटेयं च शिवेत्य् अलम्
विषमस्थो ऽपि स्वस्थो ऽपि रुदन्न् अपि हसन्न् अपि &
गम्भीरो ऽपि विचित्तो ऽपि भवेयं भक्तितः प्रभो
भक्तानां नास्ति संवेद्यं त्वदन्तर् यदि वा बहिः &
चिद्धर्मा यत्र न भवान् निर्विकल्पः स्थितः स्वयम्
भक्ता निन्दानुकरे ऽपि तवामृतकणैर् इव &
हृष्यन्त्य् एवान्तराविद्धास् तीक्ष्णरोमाञ्चसूचिभिः
दुःखापि वेदना भक्तिमतां भोगाय कल्पते &
येषां सुधार्द्रा सर्वैव संवित् त्वच्चन्द्रिकामयी
यत्र तत्रोपरुद्धानां भक्तानां बहिरन्तरे &
निर्व्याजं त्वद्वपुःस्पर्शरसास्वादसुखं समम्
तवेश भक्तेर् अर्चायां दैन्यांशं द्वयसंश्रयम् &
विलुप्यास्वादयन्त्य् एके वपुर् अच्छं सुधामयम्
भ्रान्तास् तीर्थदृशो भिन्ना भ्रान्तेर् एव हि भिन्नता &
निष्प्रतिद्वन्द्वि वस्त्व् एकं भक्तानां त्वं तु राजसे
मानावमानरागादिनिष्पाकविमलं मनः &
यस्यासौ भक्तिमांल् लोकतुल्यशीलः कथं भवेत्
रागद्वेषन्धकारो ऽपि येषां भक्तित्विषा जितः &
तेषां महीयसाम् अग्रे कतमे ज्ञानशालिनः
यस्य भक्तिसुधास्नानपानादिविधिसाधनम् &
तस्य प्रारब्धमध्यान्तदशासूच्चैः सुखासिका
कीर्त्यश् चिन्तापदं मृग्यः पूज्यो येन त्वम् एव तत् &
भवद्भक्तिमतां श्लाघ्या लोकयात्रा भवन्मयी
मुक्तिसंज्ञा विपक्वाया भक्तेर् एव त्वयि प्रभो &
तस्याम् आद्यदशारूढा मुक्तकल्पा वयं ततः
दुःखागमो ऽपि भूयान् मे त्वद्भक्तिभरितात्मनः &
त्वत्पराची विभो मा भूद् अपि सौख्यपरम्परा
त्वं भक्त्या प्रीयसे भक्तिः प्रीते त्वयि च नाथ यत् &
तदन्योन्याश्रयं युक्तं यथा वेत्थ त्वम् एव तत्
साकारो वा निराकरो वान्तर् वा बहिर् एव वा &
भक्तिमत्तात्मनां नाथ सर्वथासि सुधामयः
अस्मिन्न् एव जगत्य् अन्तर् भवद्भक्तिमतः प्रति &
हर्षप्रकाशनफलम् अन्यद् एव जगत्स्थितम्
गुह्ये भक्तिः परे भक्तिर् भक्तिर् विश्वमहेश्वरे &
त्वयि शम्भौ शिवे देव भक्तिर् नाम किम् अप्य् अहो
भक्तिर् भक्तिः परे भक्तिर् भक्तिर् नाम समुत्कटा &
तारं विरौमि यत् तीव्रा भक्तिर् मे ऽस्तु परं त्वयि
यतो ऽस्मि सर्वशोभानां प्रसवावनिर् ईश तत् &
त्वयि लग्नम् अनर्घं स्याद् रत्नम् वा यदि वा तृणम्
आवेदकाद् आ च वेद्याद् येषां संवेदनाध्वनि &
भवता न वियोगो ऽस्ति ते जयन्ति भवज्जुषः
संसारसदसो बाह्ये कैश् चित्त्वं परिरभ्यसे &
स्वामिन् परैस् तु तत्रैव ताम्यद्भिस् त्यक्तयन्त्रणैः
पानाशनप्रसाधनसम्भुक्तसमस्तविश्वया शिवया &
प्रलयोत्सवसरभसया दृढम् उपगूढं शिवं वन्दे
परमेश्वरता जयत्य् अपूर्वा तव विश्वेश यदीशितव्यशून्या &
अपरापि तथैव ते ययेदं जगद् आभाति यथा तथा न भाति
मूल पाठ: Śivastotrāvali · Edition: Constantina R. Bailly (repr. Delhi 1990, Garib Dass Oriental Series, 109) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0