भाषा

ENहिગુ
ग्रंथ पाठ

शिवस्तोत्रावलि · अध्याय 15

15.1

भक्तिस्तोत्रनाम पञ्चदशं
त्रिमलक्षालिनो ग्रन्थाः सन्ति तत्पारगास्तथा &
योगिनः पण्डिताः स्वस्थास् त्वद्भक्ता एव तत्त्वतः

15.2

मायीयकालनियतिरागाद्याहारतर्पिताः &
चरन्ति सुखिनो नाथ भक्तिमन्तो जगत्तटे

15.3

रुदन्तो वा हसन्तो वा त्वाम् उच्चैः प्रलपन्त्य् अमी &
भक्ताः स्तुतिपदोच्चारोपचाराः पृथग् एव ते

15.4

न विरक्तो न चापीशो मोक्षाकाङ्क्षी त्वदर्चकः &
भवेयम् अपि तूद्रिक्तभक्त्यासवरसोन्मदः

15.5

बाह्यं हृदय एवान्तर् अभिहृत्यैव यो ऽर्चति &
त्वाम् ईश भक्तिपीयूषरसपूरैर् नमामि तम्

15.6

धर्माधर्मात्मनोर् अन्तः क्रिययोर् ज्ञानयोस् तथा &
सुखदुःखात्मनोर् भक्ताः किम् अप्य् आस्वादयन्त्य् अहो

15.7

चराचरपितः स्वामिन् अप्य् अन्धा अपि कुष्ठिनः &
शोभन्ते परम् उद्दामभवद्भक्तिविभूषणाः

15.8

शिलोञ्छपिच्छकशिपुविच्छायाङ्गा अपि प्रभो &
भवद्भक्तिमहोष्मणो राजराजम् अपीशते

15.9

सुधार्द्रायां भवद्भक्तौ लुठताप्य् आरुरुक्षुणा &
चेतसैव विभो ऽर्चन्ति केचित् त्वाम् अभितः स्थिताः

15.10

रक्षणीयं वर्धनीयं बहुमान्यम् इदं प्रभो &
संसारदुर्गतिहरं भवद्भक्तिमहाधनम्

15.11

नाथ ते भक्तजनता यद्य् अपि त्वयि रागिणी &
तथापीर्ष्यां विहायास्यास् तुष्टास्तु स्वामिनी सदा

15.12

भवद्भावः पुरो भावी प्राप्ते त्वद्भक्तिसम्भवे &
लब्धे दुग्धमहाकुम्भे हता दधनि गृध्नुता

15.13

किम् इयं न सिद्धिर् अतुला किं वा मुख्यं न सौख्यम् आस्रवति &
भक्तिर् उपचीयमाना येयं शम्भोः सदातनी भवति

15.14

मनसि मलिने मदीयेमग्ना त्वद्भक्तिमणिलता कष्टम् &
न निजान् अपि तनुते तानपौरुषेयान् स्वसम्पदुल्लासान्

15.15

भक्तिर् भगवति भवति त्रिलोकनाथे ननूत्तमा सिद्धिः &
किं त्व् अणिमादिकविरहात् सैव न पूर्णेति चिन्ता मे

15.16

बाह्यतो ऽन्तर् अपि चोत्कटोन्मिषत्त्र्यम्बकस्तवकसौरभाः शुभाः &
वासयन्त्य् अपि विरुद्धवासनान् योगिनो निकटवासिनो ऽखिलान्

15.17

ज्योतिर् अस्ति कथयापि न किं चिद् विश्वम् अप्य् अतिसुषुप्तम् अशेषम् &
यत्र नाथ शिवरात्रिपदे ऽस्मिन् नित्यम् अर्चयति भक्तजनस् त्वाम्

15.18

सत्त्वं सत्यगुणे शिवे भगवति स्फारीभवत्व् अर्चने चूडायां विलसन्तु शङ्करपदप्रोद्यद्रजःसङ्चयाः &
रागादिस्मृतिवासनाम् अपि समुच्छेत्तुं तमो जृम्भतां शम्भो मे भवतात् त्वदात्मविलये त्रैगुण्यवर्गो ऽथवा

15.19

संसाराध्वा सुदूरः खरतरविविधव्याधिदग्धाङ्गयष्टिः भोगा नैवोपभुक्ता यद् अपि सुखम् अभूज् जातु नन्नो चिराय &
इत्थं व्यर्थो ऽस्मि जातः शशिधरचरणाक्रान्तिकान्तोत्तमाङ्गस् त्वद्भक्तश् चेति तन् मे कुरु सपदि महासम्पदो दीर्घदीर्घाः

मूल पाठ: Śivastotrāvali · Edition: Constantina R. Bailly (repr. Delhi 1990, Garib Dass Oriental Series, 109) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc