शिवस्तोत्रावलि · अध्याय 12
रहस्यनिर्देशनाम द्वादशं स्तोत्रम्
सहकारि न किञ्चिद् इष्यते भवतो न प्रतिबन्धकं दृषि &
भवतैव हि सर्वम् आप्लुतं कथम् अद्यापि तथापि नेक्षसे
अपि भावगणाद् अपीन्द्रियप्रचयाद् अप्य् अवबोधमध्यतः &
प्रभवन्तम् अपि स्वतः सदा परिपश्येयम् अपोढविश्वकम्
कथं ते जायेरन् कथम् अपि च ते दर्शनपथं व्रजेयुः केनापि प्रकृतिमहताङ्केन खचितः &
तथोत्थायोत्थाय स्थलजलतृणादेर् अखिलतः पदार्थद्यान्सृष्टिस्रवदमृतपूरैर्(?) विकिरसि
साक्षत्कृत भवद्रूपप्रसृतामृततर्पिताः &
उन्मूलिततृषो मत्ता विचरन्ति यथारुचि
न तदा न सदा न चैकदेत्य् अपि सा यत्र न कालधीर् भवेत् &
तद् इदं भवदीयदर्शनं न च नित्यं न च कथ्यते ऽन्यथा
त्वद्विलोकनसमुत्कचेतसो योगसिद्धिर् इयती सदास्तु मे &
यद् विशेयम् अभिसन्धिमात्रतस् त्वत्सुधासदनम् अर्चनाय ते
निर्विकल्पभवदीयदर्शनप्रप्तिफुल्लमनसां महात्मनाम् &
उल्लसन्ति विमलानि हेलया चेष्टितानि च वचांसि च स्फुटम्
भवन्भवदीयपादयोर् निवसन्न् अन्तर एव निर्भयः &
भवभूमिषु तासु तास्व् अहं प्रभुम् अर्चेयम् अनर्गलक्रियः
भवदङ्घ्रिसरोरुहोदरे परिलीनो गलितपरैषणः &
अतिमात्रमधूपयोगतः परितृप्तो विचरेयम् इच्छया
यस्य दम्भाद् इव भवत्पूजासङ्कल्प उत्थितः &
तस्याप्य् अवश्यम् उदितं सन्निधानं तवोचितम्
भगवन्न् इतरान् अपेक्षिणा नितराम् एकरसेन चेतसा &
सुलभं सकलोपशायिनं प्रभुम् आतृप्ति पिबेयम् अस्मि किम्
त्वया निराकृतम् सर्वं हेयम् एतत् तद् एव तु &
त्वन्मयं समुपादेयम् इत्य् अयं सारसंग्रहः
भवतो ऽन्तरचारि भावजातं प्रभुवन्मुख्यतयैव पूजितं तत् &
भवतो बहिर् अप्य् अभावमात्रा कथम् ईशान् भवेत् समर्च्यते वा
निःशब्दं निर्विकल्पं च निर्व्याक्षेपम् अथानिसम् &
क्षोभे ऽप्य् अध्यक्षमी क्षेयं त्र्यक्ष त्वाम् एव सर्वतः
प्रकटय निजधाम देव यस्मिंस् त्वम् असि सदा परमेश्वरीसमेतः &
प्रभुचरणरजःसमानकक्ष्याः किम् अविश्वासपदं भान्ति भृत्याः
दर्शनपथम् उपयातो ऽप्य् अपसरसि कुतो ममेश भृत्यस्य &
क्षणमात्रकम् इह न भवसि कस्य न जन्तोर् दृशोर् विषयः
ऐक्यसंविदमृताच्छधारया सन्ततप्रसृतया कदा विभो &
प्लावनात् परमभेदमानयंस् त्वां निजं च वपुर् आप्नुयां मुदम्
अहम् इत्य् अमुतो ऽवरुद्धलोकाद् भवदीयात् प्रतिपत्तिसारतो मे &
अणुमात्रकम् एव विश्वनिष्ठं घटतां येन भवेयम् अर्चिता ते
अपरिमितरूपम् अहं तं तं भावं प्रतिक्षणं पश्यन् &
त्वाम् एव विश्वरूपं निजनाथं साधु पश्येयम्
भवदङ्गगतं तम् एव कस्मान् न मनः पर्यटतीष्टम् अर्थम् अर्थम् &
प्रकृतिक्षतिर् अस्ति नो तथास्य मम चेच्छा परिपूर्यते परैव
शतशः किल ते तवानुभावाद् भगवन् के ऽप्य् अमुनैव चक्षुषा ये &
अपि हालिकचेष्टया चरन्तः परिपश्यन्ति भवद्वपुः सदाग्रे
न सा मतिर् उदेति या न भवति त्वदिच्छामयी सदा शुभम् अथेतरद् भगवतैवम् आचर्यते &
अतो ऽस्मि भवदात्मको भुवि यथा तथा सञ्चरन् स्थि तो ऽनिशम् अबाधितत्वदमलङ्घ्रिपूजोत्सवः
भवदीयगभीरभाषितेषु प्रतिभा सम्यग् उदेतु मे पुरो ऽतः &
तदनुष्ठितशक्तिर् अप्य् अतस् तद्भवदर्चाव्यसनं च निर्विरामम्
व्यवहारपदे ऽपि सर्वदा प्रतिभात्व् अर्थकलाप एष माम् &
भवतो ऽवयवो यथा न तु स्वत एवादरणीयतां गतः
मनसि स्वरसेन यत्र तत्र प्रचरत्य् अप्य् अहम् अस्य गोचरेषु &
प्रसृतो ऽप्य् अविलोल एव युष्मत्परिचर्याचतुरः सदा भवेयम्
भगवन् भवदिच्छयैव दासस् तव जातो ऽस्मि परस्य नात्र शक्तिः &
कथम् एष तथापि वक्त्रबिम्बं तव पश्यामि न जातु चित्रम् एतत्
समुत्सुकास् त्वां प्रति ये भवन्तं प्रत्यर्थरूपाद् अवलोकयन्ति &
तेषाम् अहो किं तदुपस्थितं स्यात् किं साधनं वा फलितं भवेत् तत्
भावा भावतया सन्तु भवद्भावेन मे भव &
तथा न किञ्चिद् अप्य् अस्तु न किञ्चिद् भवतो ऽन्यथा
यन् न किञ्चिद् अपि तन्न किञ्चिद् अप्य् अस्तु किञ्चिद् अपि किञ्चिद् एव मे &
सर्वथा भवतु तावता भवान् सर्वतो भवति लब्धपूजितः
मूल पाठ: Śivastotrāvali · Edition: Constantina R. Bailly (repr. Delhi 1990, Garib Dass Oriental Series, 109) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0