भाषा

ENहिગુ
ग्रंथ पाठ

शिवस्तोत्रावलि · अध्याय 13

13.1

संग्रहस्तोत्रनाम त्रयोदशं स्तोत्रम्
संग्रहेन सुखदुःखलक्षणं मां प्रति स्थितम् इदं शृणु प्रभो &
सौख्यम् एष भवता समागमः स्वामिना विरह एव दुःखिता

13.2

अन्तर् अप्य् अतितराम् अणीयसी या त्वदप्रथनकालिकास्ति मे &
ताम् अपीश परिमृज्य सर्वतः स्वं स्वरूपम् अमलं प्रकाशय

13.3

तावके वपुषि विश्वनिर्भरे चित्सुधारसमये निरत्यये &
तिष्ठतः सततम् अर्चतः प्रभुं जीवितं मृतम् अथान्यद् अस्तु मे

13.4

ईश्वरो ऽहम् अहम् एव रूपवान् पण्डितो ऽस्मि सुभगो ऽस्मि को ऽपरः &
मत्समो ऽस्ति जगतीति शोभते मानिता त्वदनुरागिणः परम्

13.5

देवदेव भवदद्वयामृताख्यातिसंहरणलब्धजन्मना &
तद् यथास्थितपदार्थसंविदा मां कुरुष्व चरणार्चनोचितम्

13.6

ध्यायते तद् अनु दृश्यते ततः स्पृश्यते च परमेश्वरः स्वयम् &
यत्र पूजनमहोत्सवः स मे सर्वदास्तु भवतो ऽनुभावतः

13.7

यद्य् अथास्थितपदार्थदर्शनं युष्मदर्चनमहोत्सवश् च यः &
युग्मम् एतद् इतरेतराश्रयं भक्तिशालिषु सदा विजृम्भते

13.8

तत्तदिन्द्रियमुखेन सन्ततं युष्मदर्चनरसायनासवम् &
सर्वभावचषकेषु पूरितेष्व् आपिबन्न् अपि भवेयम् उन्मदः

13.9

अन्यवेद्यम् अणुमात्रम् अस्ति न स्वप्रकाशम् अखिलं विजृम्भते &
यत्र नाथ भवतः पुरे स्थितं तत्र मे कुरु सदा तवार्चितुः

13.10

दासधाम्नि विनियोजितो ऽप्य् अहं स्वेच्छयैव परमेश्वर त्वया &
दर्शनेन न किम् अस्मि पात्रितः पादसंवहनकर्मणापि वा

13.11

शक्तिपातसमये विचारणं प्राप्तम् ईश न करोषि कर्हिचित् &
अद्य मां प्रति किम् आगतं यतः स्वप्रकाशनविधौ विलम्बसे

13.12

तत्र तत्र विषये बहिर्विभात्य् अन्तरे च परमेश्वरीयुतम् &
त्वां जगत्त्रितयनिर्भरं सदा लोकयेय निजपाणिपूजितम्

13.13

स्वामिसौधम् अभिसन्धिमात्रतो निर्विबन्धम् अधिरुह्य सर्वदा &
स्यां प्रसाद परमामृतासवापानकेलिपरिलब्धनिर्वृतिः

13.14

यत्समस्तसुभगार्थवस्तुषु स्पर्शमात्रविधिना चमत्कृतिम् &
तां समर्पयति तेन ते वपुः पूजयन्त्य् अचलभक्तिशालिनः

13.15

स्फारयस्य् अखिलम् आत्मना स्फुरन् विश्वम् आमृशसि रूपम् आमृशन् &
यत् स्वयं निजरसेन घुर्णसे तत् समुल्लसति भावमण्डलम्

13.16

यो ऽविकल्पम् इदम् अर्थमण्डलं पश्यतीश निखिलं भवद्वपुः &
स्वात्मपक्षपरिपूरिते जगत्य् अस्य नित्यसुखिनः कुतो भयम्

13.17

कण्ठकोणविनिविष्टम् ईश ते कालकूटम् अपि मे महामृतम् &
अप्य् उपात्तम् अमृतं भवद्वपुर् भेदवृत्ति यदि रोचते न मे

13.18

त्वत्प्रलापमयरक्तगीतिकानि त्य युक्तवदनोपशोभितः &
स्याम् अथापि भवदर्चनक्रियाप्रेयसीपरिगताशयः सदा

13.19

ईहितं न बत पारमेश्वरं शक्यते गणयितुं तथा च मे &
दत्तम् अप्य् अमृतनिर्भरं वपुः स्वं न पातुम् अनुमन्यते तथा

13.20

त्वाम् अगाधम् अविकल्पम् अद्वयं स्वं स्वरूपम् अखिलार्थघस्मरम् &
आविशन्न् अहम् उमेश सर्वदा पूजयेयम् अभिसंस्तुवीय च

मूल पाठ: Śivastotrāvali · Edition: Constantina R. Bailly (repr. Delhi 1990, Garib Dass Oriental Series, 109) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc