शिवस्तोत्रावलि · अध्याय 11
औत्सुक्यविश्वसितनामैकादशं स्तोत्रम्
जगद् इदम् अथवा सुहृदो बन्धुजनो वा न भवति मम किम् अपि &
त्वं पुनर् एतत् सर्वं यदा तदा को ऽपरो मे ऽस्तु
स्वामिन् महेश्वरस् त्वं साक्षात् सर्वं जगत् त्वम् एवेति &
वस्त्व् एव सिद्धिम् एत्व् इति याच्ञा तत्रापि याच्ञैव
त्रिभुवनाधिपतित्वम् अपीह यत् तृणम् इव प्रतिभाति भवज्जुषः &
किम् इव तस्य फलं शुभकर्मणो भवति नाथ भवत्स्मरणाद् ऋते
येन नैव भवतो ऽस्ति विभिन्नं किञ्चनापि जगतां प्रभवश् च &
त्वद्विजृम्भितम् अतो ऽद्भुतकर्मस्व् अप्य् उदेति न तव स्तुतिबन्धः
त्वन्मयो ऽस्मि भवदर्चननिष्ठः सर्वदाहम् इति चाप्य् अविरामम् &
भावयन्न् अपि विभो स्वरसेन स्वप्नगो ऽपि न तथा किम् इव स्याम्
ये मनाग् अपि भवच्चरणाब्जोद्भूतसौरभलवेन विमृष्टः &
तेषु विस्रम् इव भवति समस्तं भोगजातम् अमरैर् अपि मृग्यम्
हृदि ते न तु विद्यते ऽन्यद् अन्यद् वचने कर्मणि चान्यद् एव शंभो &
परमार्थसतो ऽप्य् अनुग्रहो वा यदि वा निग्रह एक एव कार्यः
मूढो ऽस्मि दुःखकलितो ऽस्मि जरादिदोषभीतो ऽस्मि शक्तिरहितो ऽस्मि तवाश्रितो ऽस्मि &
शम्भो तथा कलय शीघ्रम् उपैमि येन सर्वोत्तमां धुरम् अपोज्झितदुःखमार्गः
त्वत्कर्णदेशम धिशय्य महार्घभावम् आक्रन्दितानि मम तुच्छतराणि यान्ति &
वंशान्तरालपतितानि जलैकदेशखण्डानि मौक्तिकमणित्वम् इवोद्वहन्ति
किम् इव च लभ्यते बत न तैर् अपि नाथ जनैः क्षणम् अपि कैतवाद् अपि च ये तव नाम्नि रताः &
शिशिरमयूखशेखर तथा कुरु येन मम क्षतमरणो ऽणिमादिकम् उपैमि यथा विभवम्
शम्भो शर्व शशङ्कशेखर शिव त्र्यक्षाक्षमालाधर श्रीमन्न् उग्रकपाललाञ्छन लसद्भीमत्रिशूलायुध &
कारुण्याम्बुनिधे त्रिलोकरचनाशीलोग्रशक्त्यात्मक श्रीकण्ठाशु विनाशयाशुभभरान् आधत् स्वसिद्धिं पराम्
तत् किं नाथ भवेन् न यत्र भगवान् निर्मातृताम् अश्नुते भावः स्यात् किम् उ तस्य चेतनवतो नाशास्ति यं शङ्करः &
इत्थं ते परमेश्वराक्षतमहाशक्तेः सदा संश्रितः संसारे ऽत्र निरन्तराधिविधुरः क्लिश्याम्य् अहं केवलम्
यद्य् अप्य् अत्र वरप्रदोद्धततमाः पीडाजरामृत्यव एते वा क्षणम् आसतां बहुमतः शब्दादिर् एवास्थिरः &
तत्रापि स्पृहयामि सन्ततसुखाकाङ्क्षी चिरं स्थास्नवे भोगास्वादयुतत्वदङ्घ्रिकमलध्यानाग्र्य जीवातवे
हे नाथ प्रणतार्तिनाशनपटो श्रेयोनिधे धूर्जटे दुःखैकायतनस्य जन्ममरणत्रस्तस्य मे साम्प्रतम् &
तच् चेष्टस्व यथा मनोज्ञविषयास्वादप्रदा उत्तमा जीवन्न् एव समश्नुवे ऽहम् अचलाः सिद्धीस् त्वदर्चापरः
नमो मोहमहाध्वान्तध्वंसनानन्यकर्मणे &
सर्वप्रकाशातिशयप्रकाशायेन्दुलक्ष्मणे
मूल पाठ: Śivastotrāvali · Edition: Constantina R. Bailly (repr. Delhi 1990, Garib Dass Oriental Series, 109) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0