भाषा

ENहिગુ
ग्रंथ पाठ

शिवपुराण · अध्याय 1.24

1.24.1

इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां साध्यसाधनखंडेशिवनममाहात्म्यवर्णनोनामत्रयोविंशो ऽध्यायः
छप्तेर् 24
सूत उवाच
द्विविधंभस्मसंप्रोक्तंसर्वमंगलदंपरम्
तत्प्रकारमहंवक्ष्येसावधानतयाशृणु

1.24.2

एकंज्ञेयं महाभस्मद्वितीयंस्वल्पसंज्ञकम्
महाभस्म इतिप्रोक्तंभस्मनानाविधंपरम्

1.24.3

तद्भस्मत्रिविधंप्रोक्तंश्रोतंस्मार्तंचलौकिकम्
भस्मैव स्वल्पसज्ञाहिबहुधापरिकीर्तितम्

1.24.4

श्रौतंभस्मतथास्मार्तंद्विजानामेवकीर्तितम्
अन्येषामपिसर्वेषामपरंभस्मलौकिकम्

1.24.5

धारणंमंत्रतः प्रोक्तंद्विजानांमुनिपुंगवैः
केवलंधारणंज्ञेयमन्येषांमंत्रवर्जितम्

1.24.6

आग्नेयमुच्यतेभस्मदग्धगोमयसंभवम्
तदापिद्रव्यमित्युक्तंत्रिपुंड्रस्यमहामुने

1.24.7

अग्निहोत्रोत्थितंभस्मसंग्राह्यंवामनीषिभिः
अन्ययज्ञोत्थितंवापित्रिपुण्ड्रस्यचधारणे

1.24.8

अग्निरित्यादिभिर्मंत्रैर्जाबालोपनिषद्गतेः
सप्तभिधूलनंकार्यंभस्मनासजलेनच

1.24.9

वर्णानामाश्रमाणांचमंत्रतोमंत्रतोपि च
त्रिपुंड्रोद्धूलनंप्रोक्तजाबालैरादरेणच

1.24.10

भस्मनोद्धूलनंचैवयथातिर्यक्त्रिपुंड्रकम्
प्रमादादपिमोक्षार्थीनत्यजेदितिविश्रुतिः

1.24.11

शिवेनविष्णुनाचैवतथातिर्यक्त्रिपुंड्रकम्
उमादेवीचलक्ष्मींश्चवाचान्याभिश्चनित्यशः

1.24.12

ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैरपिचसंस्करैः
अपभ्रंशैर्धृतंभस्मत्रिपुंड्रोद्धूलनात्मना

1.24.13

उद्धूलनंत्रिपुंड्रंचश्रद्धयानाचरंतिये
तेषांनास्तिसमाचारोवर्णाश्रमसमन्वितः

1.24.14

उद्धूलनंत्रिपुंड्रंचश्रद्धयानाचरंतिये
तेषांनास्तिविनिमुंक्तिस्संसाराज्जन्मकोटिभिः

1.24.15

उद्धूलनंत्रिपुंड्रंचश्रद्धयानाचरन्तिये
तेषांनास्तिशिवज्ञानंकल्पकोटिशतैरपि

1.24.16

उद्धूलनंत्रिपुंड्रं च श्रद्धयानाचरन्तिये
तेमहापातकैर्युक्ता इतिशास्त्रीयनिर्णयः

1.24.17

उद्धूलनंत्रिपुंड्रंचश्रद्धयानाचरन्ति ये
तेषामाचरितं सर्वंविपरीतफलाय हि

1.24.18

महापातकयुक्तानां जंतूनांशर्वविद्विषाम्
त्रिपुंड्रोद्धूलनद्वेषोजायतेसुदृढं मुने

1.24.19

शिवाग्निकार्यं यः कृत्वाकुर्यात्त्रियायुषात्मवित्
मुच्यतेसर्वपापैस्तुस्पृष्टेनभस्मनानरः

1.24.20

सितेनभस्मनाकुर्यात्त्रिसन्ध्यंयस्त्रिपुण्ड्रकम्
सर्वपापविनिर्मुक्तः शिवेनसहमोदते

1.24.21

सितेनभस्मना कुर्यालाटे तु त्रिपुण्ड्रकम्
योसावनादिभूतान्हिलोकानाप्तो मृतोभवेत्

1.24.22

अकृत्वा भस्मनास्नानं न जपेद्वैषडक्षरम्
त्रिपुंड्रं च रचित्वा तु विधिनाभस्मनाजपेत्

1.24.23

अदयो वाधमो वापि सर्वपापान्वितोपि वा
उषःपापान्वितो वापिमूर्खो वा पतितोपि वा

1.24.24

यस्मिन्देशेवसेन्नित्यंभूतिशासनसंयुतः
सर्वतीर्थैश्चक्रतुभिःसांनिध्यंक्रियतेसदा

1.24.25

त्रिपुंड्रसहितो जीवः पूज्यः सर्वैः सुरासुरैः
पापान्वितोपि शुद्धात्मा किं पुनः श्रद्धया युतः

1.24.26

यस्मिन्देशे शिवज्ञानी भूतिशासनसंयुतः
गतो यदृच्छयाद्यापि तस्मिस्तीर्थाः समागताः

1.24.27

बहुनात्रकिमुक्तेनधार्यंभस्मसदा बुधैः
लिंगार्चनंसदाकार्यंजप्योमंत्रःषडक्षरः

1.24.28

ब्रह्मणाविष्णुनावापि रुद्रेणमुनिभिः सुरैः
भस्मधारणमाहात्म्यंनशक्यंपरिभाषितुम्

1.24.29

इति वर्णाश्रमाचारोलुप्तवर्णक्रियोपि च
पापात्सकृत्त्रिपुंड्रस्यधारणात्सोपिमुच्यते

1.24.30

येभस्मधारिणंत्यक्त्वाकर्मकुर्वंतिमानवाः
तेषां नास्तिविनिर्मोक्षः संसाराज्जन्मकोटिभिः

1.24.31

ते नाधीतंगुरोःसर्वंतेनसर्वमनुष्ठितम्
येनविप्रेणशिरसित्रिपुंड्रंभस्मनाकृतम्

1.24.32

ये भस्मधारिणं दृष्ट्वानराः कुर्वंतिताडनम्
तेषांचंडालतोजन्मब्रह्मन्नूह्यंविपश्चिता

1.24.33

मानस्तोकेनमंत्रेणमंत्रितंभस्मधारयेत्
ब्राह्मणःक्षत्रियश्चैव प्रोक्तेष्वंगेषुभक्तिमान्

1.24.34

वैश्यस्त्रियंबकेनैवशूद्रःपञ्चाक्षरेणतु
अन्येषां विधवास्त्रीणां विधिः प्रोक्तश्चशूद्रवत्

1.24.35

पञ्चब्रह्मादिमनुभिर्गृहस्थस्यविधीयते
त्रियंबकेनमनुनाविधिर्वैब्रह्मचारिणः

1.24.36

अघोरेणाथमनुनाविपिनस्थविधिःस्मृतः
यतिस्तुप्रणवेनैव त्रिपुंड्रादीनिकारयेत्

1.24.37

अतिवर्णाश्रमीनित्यंशिवोहंभावनात्परात्
शिवयोगी च नियतमीशानेनापि धारयेत्

1.24.38

न त्याज्यं सर्ववर्णैश्च भस्मधारणमुत्तमम्
अन्यैरपि यथाजीवैस्सदेति शिवशासनम्

1.24.39

भस्मस्नानेनयावंतः कणाः स्वाङ्गेप्रतिष्ठिताः
तावंति शिवलिंगानि तनौधत्तेहिधारकः

1.24.40

ब्राह्मणाः क्षत्रियावैश्याः शूद्राश्चापि च संकराः
स्त्रियोथविधवाबालाः प्राप्ताः पाखंडिकास्तथा

1.24.41

ब्रह्मचारीगृहीवन्यःसंन्यासीवाव्रतीतथा
नार्योभस्मत्रिपुंड्रांकामुक्ता एवनसंशयः

1.24.42

ज्ञानधृज्ञानतोवापिवह्निदाहसमोयथा
ज्ञानाज्ञानधृतंभस्मपावयेत्सकलंनरम्

1.24.43

नाश्नीयाज्जलमन्नमल्पमपिवा भस्माक्षधृत्याविना भुक्त्वावाथगृहीवनीपतियतिर्वर्णीतथासंकरः
एनोभुङ्नरकंप्रयातिसतदागायत्रिजापेनतद्वर्णानां तु यतेस्तु मुख्यप्रणवाजपेन मुक्तंभवेत्

1.24.44

त्रिपुंड्रं ये विनिंदंति निन्दन्तिशिवमेवते
धारयंतिचयेभक्त्या धारयन्ति तमेवते

1.24.45

धिग्भस्मरहितं भालंधिग्ग्राममशिवालयम्
धिगनीशार्चनं जन्मधिग्विद्यामशिवाश्रयाम्

1.24.46

येनिंदंतिमहेश्वरंत्रिजगतामाधारभूतंहरं ये निन्दंतित्रिपुंड्रधारणकरं दोषस्तु तद्दर्शने
तेवैसंकरसूकरासुरखरश्वक्रोष्टुकीटोपमाजाता एव भवंतिपापपरमास्तेनारकाः केवलम्

1.24.47

तेदृष्ट्वा शशिभास्करौनिशि दिनेस्वप्नेपिनोकेवलंपश्यंतुश्रुतिरुद्रसूक्तजपतोमुच्येततेनादृताः
सत्संभाषणतोभवेद्धिनरकंनिस्तारवानास्थितंयेभस्मादिविधारणंहिपुरुषंनिंदंतिमंदाहिते

1.24.48

नतांत्रिकस्त्वधिकृतोनोर्ध्वपुंड्रधरोमुने
संतप्तचक्रचिह्नोत्रशिवयज्ञेबहिष्कृतः

1.24.49

तत्रैतेबहवोलोकाबृहज्जाबालचोदिताः
तेविचार्याःप्रयत्नेनततोभस्मरतोभवेत्

1.24.50

यच्चंदनैश्चंदनकेपिमिश्रंधार्यंहिभस्मैवत्रिपुंड्रभस्मना
विभूतिभालोपरिकिंचनापिधार्यंसदानोयदिसंतिबुद्धयः

1.24.51

स्त्रीभिस्त्रिपुण्ड्रमलकावधि धारणीयं भस्मद्विजादिभिरथो विधवाभिरेवम्
तद्वत्सदाश्रमवतां विशदाविभूतिर्धार्यापवर्गफलदासकलाघहन्त्री

1.24.52

त्रिपुण्ड्रंकुरुतेयस्तु भस्मना विधिपूर्वकम्
महापातकसंघातैर्मुच्यते चोपपातकैः

1.24.53

ब्रह्मचारीगृहस्थोवावानप्रस्थोथवायतिः
ब्रह्मक्षत्त्राश्चविट्शूद्रास्तथान्ये पतिताधमाः

1.24.54

उद्धूलनंत्रिपुंड्रं च धृत्वाशुद्धाभवंतिच
भस्मनोविधिना सम्यक्पापराशिंविहाय च

1.24.55

भस्मधारी विशेषेण स्त्रीगोहत्यादिपातकैः
वीरहत्याश्वहत्याभ्यां मुच्यतेनात्र संशयः

1.24.56

परद्रव्यापहरणं परदाराभिमर्शनम्
परनिन्दा परक्षेत्रहरणं परपीडनम्

1.24.57

सस्यारामादिहरणं गृहदाहादिकर्म च
गोहिरण्यमहिष्यादितिलकम्बलवाससाम्

1.24.58

अन्नधान्यजलादीनां नीचेभ्यश्चपरिग्रहः
दशवेश्यामतंगीषु वृषलीषु नटीषु च

1.24.59

रजस्वलासु कन्यासु विधवासु च मैथुनम्
मांसचर्मरसादीनां लवणस्य च विक्रयः

1.24.60

पैशुन्यं कूटवादश्च साक्षिमिथ्याभिलाषिणाम्
एवमादीन्यसंख्यानि पापानि विधानि च
सद्य एव विनश्यंति त्रिपुंड्रस्य च धारणात्

1.24.61

शिवद्रव्यापहरणंशिवनिंदाचकुत्रचित्
निंदाचशिवभक्तानांप्रायश्चित्तैर्नशुद्ध्यति

1.24.62

रुद्राक्षं यस्य गात्रेषु ललाटे तु त्रिपंड्रकम्
सचांडालोपिसंपूज्यस्सर्ववर्णोत्तमोत्तमः

1.24.63

यानितीर्थानिलोकेस्मिन्गंगाद्यास्सरितश्चयोः
स्नातोभवतिसर्वत्रललाटेयस्त्रिपुंड्रकम्

1.24.64

सप्तकोटि महामंत्राः पञ्चाक्षरपुरस्सराः
तथान्ये कोटिशो मंत्राः शैवकैवल्यहेतवः

1.24.65

अन्ये मंत्राश्च देवानां सर्वसौख्यकरामुने
ते सर्वे तस्य वश्याः स्युर्यो बिभर्ति त्रिपुंड्रकम्

1.24.66

सहस्रं पूर्वजातानां सहस्रं जनयिष्यताम्
स्ववंशजानां ज्ञातीनामुद्धरेद्यस्त्रिपुण्ड्रकृत्

1.24.67

इह भुक्त्वाखिलान्भोगान्दीर्घायुर्व्याधिवर्जितः
जीवितांते च मरणं सुखेनैव प्रपद्यते

1.24.68

अष्टैश्वर्यगुणोपेतंप्राप्यदिव्यवपुः शिवम्
दिव्यंविमानमारुह्यदिव्यत्रिदशसेवितम्

1.24.69

विद्याधराणांसर्वेषांगंधर्वाणांमहौजसाम्
इंद्रादिलोकपालानांलोकेषुचयथाक्रमम्

1.24.70

भुक्त्वा भोगान्सुविपुलान्प्रजेशानां पदेषु च
ब्रह्मणः पदमासाद्यतत्रकन्याशतंलमेत्

1.24.71

तत्र ब्रह्मायुषोमानंभुक्त्वाभोगाननेकशः
विष्णोर्लोकेलभेद्भोगंयावद्ब्रह्मशतात्ययः

1.24.72

शिवलोकं ततः प्राप्य लब्ध्वेष्टं काममक्षयम्
शिवसायुज्यमाप्नोतिसंशयोनात्रजायते

1.24.73

सर्वोपनिषदांसारंसमालोक्यमुहुर्मुहुः
इदमेव हि निर्णीतं परं श्रेयस्त्रिपुंड्रकम्

1.24.74

विभूतिंनिंदतेयोवैब्राह्मणः सोन्यजातकः
यातिचनरकेघोरेयावद्ब्रह्मा चतुर्मुखः

1.24.75

श्राद्धेयज्ञेजपेहोमेवैश्वदेवेसुरार्चने
धृतत्रिपुंड्रःपूतात्मामृत्युंजयतिमानवः

1.24.76

जलस्नानं मलत्यागेभस्मस्नानंसदाशुचि
मंत्रस्नानंहरेत्पापंज्ञानस्नानेपरंपदम्

1.24.77

सर्वतीर्थेषुयत्पुण्यंसर्वतीर्थेषुयत्फलम्
तत्फलंसमवाप्नोतिभस्मस्नानकरोनरः

1.24.78

भस्मस्नानं परं तीर्थंगंगास्नानंदिनेदिने
भस्मरूपीशिवःसाक्षाद्भस्म त्रैलोक्यपावनम्

1.24.79

नतदूनंनतद्ध्यानंनतद्दानंजपोनसः
त्रिपुंड्रेणविनायेन विप्रेण यदनुष्ठितम्

1.24.80

वानप्रस्थस्यकन्यानांदीक्षाहीननृणां तथा
मध्याह्नात्प्राग्जलैर्युक्तंपरतोजलवर्जितम्

1.24.81

एवं त्रिपुंड्रं यः कुर्यान्नित्यंनियतमानसः
शिवभक्तः सविज्ञेयो भुक्तिमुक्तिं च विंदति

1.24.82

यस्यांगेनैवरुद्राक्ष एकोपिबहुपुण्यदः
तस्यजन्मनिरर्थंस्यात्त्रिपुंड्ररहितो यदि

1.24.83

एवंत्रिपुंड्रमाहात्म्यंसमासात्कथितंमया
रहस्यंसर्वजंतूनां गोपनीयमिदं त्वया

1.24.84

तिस्रोरेखाभवंत्येवस्थानेषुमुनिपुंगवाः
ललाटादिषुसर्वेषुयथोक्तेषुबुधैर्मुने

1.24.85

भ्रुवोर्मध्यंसमारभ्ययावदंतोभवेद्भ्रुवोः
तावत्प्रमाणंसंधार्यं ललाटे च त्रिपुंड्रकम्

1.24.86

मध्यमानामिकांगुल्यामध्येतुप्रतिलोमतः
अंगुष्ठेन कृतारेखा त्रिपुंड्राख्या भिधीयते

1.24.87

मध्येंगुलिभिरादाय तिसृभिर्भस्मयत्नतः
त्रिपुण्ड्रधारयेद्भक्त्याभुक्तिमुक्तिप्रदंपरम्

1.24.88

तिसृणामपि रेखानां प्रत्येकंनवदेवताः
सर्वत्रांगेषुतावक्ष्येसावधानतया शृणु

1.24.89

अकारो गार्हपत्याग्निर्भूधर्मश्च रजोगुणः
ऋग्वेदश्च क्रियाशक्तिः प्रातःसवनमेव च

1.24.90

महदेवश्च रेखायाः प्रथमायाश्च देवता
विज्ञेया मुनिशार्दूलाः शिवदीक्षापरायणैः

1.24.91

उकारो दक्षिणाग्निश्च नभस्तत्त्वं यजुस्तथा
मध्यंदिनं च सवनमिच्छाशक्त्यंतरात्मकौ

1.24.92

महेश्वरश्च रेखाया द्वितीयायाश्च देवता
विज्ञेयामुनिशार्दूल शिवदीक्षापरायणैः

1.24.93

मकाराहवनीयौ च परमात्मा तमोदिवौ
ज्ञानशक्तिः सामवेदस्तृतीयं सवनं तथा

1.24.94

शिवश्चैव च रेखायास्तृतियायाश्च देवता
विज्ञेयामुनिशार्दूल शिवदीक्षापरायणौ

1.24.95

एवं नित्यं नमस्कृत्य सद्भक्त्या स्थानदेवताः
त्रिपुंड्रं धारयेच्छुद्धो भुक्तिंमुक्तिं च विंदति

1.24.96

इत्युक्ताःस्थानदेवाश्चसर्वांगेषुमुनिश्वर
तेषां संबंधिनोभक्त्यास्थानानिशृणुसांप्रतम्

1.24.97

द्वात्रिंशत्स्थानके वार्धषोडशस्थानकेपि च
अष्टस्थाने तथा चैव पञ्चस्थानेपि नान्यसेत्

1.24.98

उत्तमांगे ललाटे च कर्णयोर्नेत्रयोस्तथा
नासावक्त्रगलेष्वेवंहस्तद्वय अतःपरम्

1.24.99

कूर्परे मणिबंधेचहृदयेपार्श्वयोर्द्वयोः
नाभौमुष्कद्वयेचैवमूर्वोर्गुल्फेचजानुनि

1.24.100

जंघाद्वयेपदद्वन्द्वेद्वात्रिंशत्स्थानमुत्तमम्
अग्न्यब्भूवायुदिग्देशदिक्पालान्वसुभिः सह

1.24.101

धराध्रुवश्चसोमश्च अपश्चेवानिलोनलः
प्रत्यूषश्च प्रभासश्चवसवोष्टप्रकीर्तिताः

1.24.102

एतेषांनाममात्रेणत्रिपुंड्रंधारयेद्बुधाः
कुर्याद्वाषोडशस्थानेत्रिपुण्ड्रंतुसमाहितः

1.24.103

शीर्षकेचललाटेचकंठेचांसद्वयेभुजे
कूर्परेमणिबंधेचहृदयेनाभिपार्श्वके

1.24.104

पृष्ठेचैवंप्रतिष्ठाययजेत्तत्राश्विदैवते
शिवशक्तिंतथारुद्रमीशंनारदमेवच

1.24.105

वामादिनवशक्तीश्च एताः षोडशदेवताः
नासत्योदस्रकश्चैव अश्विनौद्वौप्रकीर्तितौ

1.24.106

अथवामूर्ध्निकेशेचकर्मयोर्वदनेतथा
बाहुद्वये च हृदयेनाभ्यामूरुयुगेतथा

1.24.107

जानुद्वयेचपदयोः पृष्ठभागे च षोडश
शिवश्चन्द्रश्च रुद्रःको विघ्नेशोविष्णुरेव वा

1.24.108

श्रीश्चैवहृदयेशम्भुस्तथानाभौप्रजापतिः
नागश्चनागकन्याश्च उभयोरृषिकन्यकाः

1.24.109

पादयोश्चसमुद्राश्चतीर्थाः पृष्ठे विशालतः
इत्येव षोडश स्थानमथोच्यते

1.24.110

गुह्यस्थानं ललाटश्च कर्णद्वयमनुत्तमम्
अंसयुग्मं च हृदयं नाभिरित्येवमष्टकम्

1.24.111

ब्रह्मा च ऋषयः सप्तदेवताश्चप्रकीर्तिताः
इत्येवं तु समुद्दिष्टं भस्मविद्भिर्मुनीश्वराः

1.24.112

अथ वा मस्तकं बाहूहृदयं नाभिरेव च
पञ्चस्थानान्यमून्याहुर्धारणे भस्मविज्जनाः

1.24.113

यथासंभवनं कुर्याद्देशकालाद्यपेक्षया
उद्धूलनेप्यशक्तिश्चेत्त्रिपुण्ड्रादीनि कारयेत्

1.24.114

त्रिनेत्रंत्रिगुणाधारंत्रिवेदजनकंशिवम्
स्मरन्नमः शिवायेति ललाटे तु त्रिपुण्ड्रकम्

1.24.115

ईशाभ्यांनम इत्युक्त्वापार्श्वयोश्च त्रिपुण्ड्रकम्
बीजाभ्यां नम इत्युक्त्वाधारयेत्तुप्रकोष्ठयोः

1.24.116

कुर्यादधः पितृभ्यां च उमेशाभ्यांतथोपरि
भीमायेतिततःपृष्ठेशिरसःपश्चिमेतथा

मूल पाठ: Śivapurāṇa, Books 1 and 7 · Edition: Venkatesvara Steam Press, Bombay (c. 1920) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc