भाषा

ENहिગુ
ग्रंथ पाठ

शिवपुराण · अध्याय 1.25

1.25.1

इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां भस्मधारणवर्णनोनाम चतुर्विंशो ऽध्यायः
छप्तेर् 25
सूत उवाच
शैनकर्षे महाप्राज्ञशिवरूपमहापते
शृणुरुद्राक्षमाहात्म्यं समासात्कथयाम्यहम्

1.25.2

शिवप्रियतमोज्ञेयो रुद्राक्षः परपावनः
दर्शनात्स्पर्शनाज्जाप्यात्सर्वपापहरःस्मृतः

1.25.3

पुरारुद्राक्षमहिमादेव्यग्रेकथितोमुने
लोकोपकरणार्थायशिवेन परमात्मना

1.25.4

शिव उवाच
शृणुदेविमहेशानिरुद्राक्षमहिमाशिवे
कथयामितवप्रीत्याभक्तानांहितकाम्यया

1.25.5

दिव्यवर्षसहस्राणि महेशानिपुनःपुरा
तपःप्रकुर्वतस्त्रस्तंमनः संयम्यवै मम

1.25.6

स्वतंत्रेण परेशेन लोकोपकृतिकारिणा
लीलयापरमेशानि चक्षुरुन्मीलितंमया

1.25.7

पुटाभ्यांचारुचक्षुर्भ्यांपतिताजलबिंदवः
तत्राश्रुबिन्दवोजातावृक्षारुद्राक्षसंज्ञकाः

1.25.8

स्थावरत्वमनुप्राप्यभक्तानुग्रहकारणात्
ते दत्ताविष्णुभक्तेभ्यश्चतुर्वर्णेभ्य एव च

1.25.9

भूमौगौंडोद्भवांश्चक्रेरुद्राक्षाञ्छिववल्लभान्
मथुरायामयोध्यायालंकायांमलये तथा

1.25.10

सह्याद्रौचतथाकाश्यांदशेष्वन्येषुवातथा
परानसह्यपापौघभेदनाञ्छ्रुतिनोदनात्

1.25.11

ब्राह्मणाःक्षत्रियावैश्याःशूद्राजाताममाज्ञया
रुद्राक्षास्तेपृथिव्यांतुतज्जातीयाः शुभाक्षकाः

1.25.12

श्वेतरक्ताः पीतकृष्णावर्णाज्ञेयाः क्रमाद्बुधैः
स्वजातीयंनृभिर्धार्यं रुद्राक्षंवर्णतः क्रमात्

1.25.13

वर्णैस्तुतत्फलंधार्यंभुक्तिमुक्तिफलेप्सुभिः
शिवभक्तैर्विशेषेणशिवयोः प्रीतयेसदा

1.25.14

धात्रीफलप्रमाणंयच्छ्रेष्ठमेतदुदाहृतम्
बदरीफलमात्रंतुमध्यमंसंप्रकीर्तितम्

1.25.15

अधमंचणमात्रंस्यात्प्रक्रियैषापरोच्यते
शृणुपार्वतिसुप्रीत्याभक्तानांहितकाम्यया

1.25.16

बदरीफलमात्रंचयत्स्यात्किलमहेश्वरि
तथापिफलदंलोकेसुखसौभाग्यवर्धनम्

1.25.17

धात्रीफलसमंयत्स्यात्सर्वारिष्टविनाशनम्
गुंजयासदृशंयत्स्यात्सर्वार्थफलसाधनम्

1.25.18

यथायथालघुःस्याद्वैतथाधिकफलप्रदम्
एकैकतःफलंप्रोक्तंदशांशैरधिकंबुधैः

1.25.19

रुद्राक्षधारणंप्रोक्तंपापनाशनहेतवे
तस्माच्चधारणीयोवैसर्वार्थसाधनोध्रुवम्

1.25.20

यथाचदृश्यतेलोकेरुद्राक्षफलदः शुभः
नतथादृश्यते ऽन्याचमालिकापरमेश्वरि

1.25.21

समाःस्निग्धादृढाःस्थूलाःकंटकैःसंयुताःशुभाः
रुद्राक्षाःकामदादेविभुक्तिमुक्तिप्रदाः सदा

1.25.22

क्रिमिदुष्टंछिन्नभिन्नंकंटकैर्हीनमेवच
व्रणयुक्तमवृत्तंचरुद्राक्षान्षड्विवर्जयेत्

1.25.23

स्वयमेवकृतद्वारंरुद्राक्षंस्यदिहोत्तमम्
यत्तुपौरुषयत्नेनकृतंतन्मध्यमंभवेत्

1.25.24

रुद्राक्षधारणंप्राप्तंमहापातकनाशनम्
रुद्रसंख्याशतंधृत्वरुद्ररूपोभवेन्नरः

1.25.25

एकादशशतानीहधृत्वायत्फलमाप्यते
तत्फलंशक्यतेनैव वक्तुं वर्षशतैरपि

1.25.26

शतार्धेनयुतेः पञ्चशतैर्वै मुकुटं मतम्
रुद्राक्षैर्विरचेत्सम्यग्भक्तिमान्पुरुषो वरः

1.25.27

त्रिभिः शतैः षष्टियुक्तैस्त्रिरावृत्त्या तथा पुनः
रुद्राक्षैरुपवीतं व निर्मीयाद्भक्तितत्परः

1.25.28

शिखायांचत्रयंप्रोक्तंरुद्रक्षाणां महेश्वरि
कर्णयोः षट् च षट्चैववामदक्षिणयोस्तथा

1.25.29

शतमेकोत्तरंकंठेबाह्वोर्वैरुद्रसंख्यया
कूर्परद्वारयोस्तत्रमणिबंधेतथापुनः

1.25.30

उपवीतेत्रयंधार्यंशिवभक्तिरतैर्नरैः
शेषानुर्वरितान्पञ्चसम्मितान्धारयेत्कटौ

1.25.31

एतत्संख्याधृतायेनरुद्राक्षाः परमेश्वरि
तद्रूपं तु प्रणम्यंहिस्तुत्यंसर्वैर्महेशवत्

1.25.32

एवंभूतंस्थितंध्यानेयदाकृत्वासनैर्जनम्
शिवेतिव्याहरंश्चैवदृष्ट्वापापैः प्रमुच्यते

1.25.33

शतादिकसहस्रस्यविधिरेषप्रकीर्तितः
तदभावेप्रकारोन्यः शुभः संप्रोच्यतेमया

1.25.34

शिखायामेकरुद्राक्षंशिरसात्रिंशतंवहेत्
पञ्चाशच्चगलेदध्याद्बाह्वोः षोडशषोडश

1.25.35

मणिबंधे द्वादशद्विस्कंधे पञ्चशतंवहेत्
अष्टोत्तरशतैर्माल्यमुपवीतंप्रकल्पयेत्

1.25.36

एवंसहस्ररुद्राक्षान्धारयेद्योदृढव्रतः
तंनमंतिसुराःसर्वेयथारुद्रस्तथैव सः

1.25.37

एकंशिखायांरुद्राक्षंचत्वारिंशत्तुमस्तके
द्वात्रिंशत्कण्ठदेशेतुवक्षस्यष्टोत्तरंशतम्

1.25.38

एकैकंकर्णयोः षट्षड्बाह्वोःषोडशषोडश
करयोरविमानेनद्विगुणेनमुनीश्वर

1.25.39

संख्याप्रीतिर्धृयायेनसोपिशैवजनःपरः
शिववत्पूजनीयोहिवंद्यस्सर्वैरभीक्ष्णशः

1.25.40

शिरसीशानमंत्रेणकर्णेतत्पुरुषेण च
अघोरेणगलेधार्यंतेनैवहृदयेपि च

1.25.41

अघोरबीजमंत्रेण करयोर्धारयेत्सुधीः
पञ्चदशाक्षग्रथितांवामदेवेनचोदरे

1.25.42

पञ्चब्रह्मभिरंगश्चत्रिमालां पञ्चसप्त च
अथवामूलमंत्रेण सर्वानक्षांस्तुधारयेत्

1.25.43

मद्यंमांसंतुलशुनंपलाण्डुंशिग्रुमेव च
श्लेष्मांतकं विड्वराहंभक्षणे वर्जयेत्ततः

1.25.44

वलक्षंरुद्राक्षंद्विजतनुभिरेवेहविहितंसुरक्तंक्षत्राणांप्रमुदितमुमेपीतमसकृत्
छिन्नं खंडितं भिन्नं विदीर्ण
ततोवैश्यैर्धायप्रतिदिवसभावश्यकमहोतथाकृष्णंशूद्रैःश्रुतिगदितमार्गोयमगजे

1.25.45

वर्णीवनीगृहयतीर्नियमेनदध्यादेतद्रहस्यपरमोनहिजातुतिष्ठेत्
रुद्राक्षधारणमिदंसुकृतैश्चलभ्यंत्यक्त्वेदमेतदखिलान्नरकान्प्रयांति

1.25.46

आदावामलकात्स्वतो लघुतरा रुग्णास्ततःकंटकैःसंदष्टाःक्रिमिभिस्तनूपकरणच्छिद्रेण हीनास्तथा
धार्यानैव शुभेप्सुभिश्चणकवद्रुद्राक्षमप्यंततोरुद्राक्षोममलिंगमंगलमुमेसूक्ष्मंप्रशस्तंसदा

1.25.47

सर्वाश्रमाणांवर्णानांस्त्रीशूद्रणांशिवाज्ञया
धार्याः सदैवरुद्राक्षायतीनां प्रणवेन हि

1.25.48

दिवाबिभ्रद्रात्रिकृतैरात्रौविभ्रद्दिवाकृतैः
प्रातर्मध्याह्नसायाह्नेमुच्यतेसर्वपातकैः

1.25.49

ये त्रिपुण्ड्र धरालोके जटाधारिण एव ये
ये रुद्राक्षधरास्तेवैयमलोकंप्रयांतिन

1.25.50

रुद्राक्षमेकंशिरसाबिभर्तितथात्रिपुण्ड्रंचललाटमध्ये
पञ्चाक्षरंयेहिजपंतिमंत्रंपूज्याभवद्भिः खलुतेहिसाधवः

1.25.51

यस्याङ्गेनास्तिरुद्राक्षस्त्रिपुण्ड्रंभालपट्टके
मुखेपञ्चाक्षरंनास्तितमानययमालयम्

1.25.52

ज्ञात्वाज्ञात्वातत्प्रभावंभस्मरुद्राक्षधारिणः
तेपूज्याः सर्वदास्माकंनोनेतव्याः कदाचन

1.25.53

एवमाज्ञापयामासकालोपिनिजकिङ्करान्
तथेतिमत्त्वातेसर्वेतूष्णीमासन्सुविस्मिताः

1.25.54

अत एवमहादेविरुद्राक्षोत्यघनाशनः
तद्धरोमत्प्रियः शुद्धो ऽत्यघवानपिपार्वति

1.25.55

हस्तेबाहौतथामूर्ध्निरुद्राक्षंधारयेत्तुयः
अवध्यःसर्वभूतानांरुद्ररूपीचरेद्भुवि

1.25.56

सुरासुराणांसर्वेषां वंदनीयःसदासवै
पूजनीयो हि दृष्टस्यपापहाचयथाशिवः

1.25.57

ध्यानज्ञानावमुक्तोपिरुद्राक्षंधारयेत्तुयः
सर्वपापविनिर्मुक्तःसयातिपरमांगतिम्

1.25.58

रुद्राक्षेणजपन्मन्त्रं पुण्यंकोटि गुणं भवेत्
दशकोटिगुणंपुण्यंधारणाल्लभते नरः

1.25.59

यावत्कालंहिजीवस्यशरीरस्थोभवेत्सवै
तावत्कालंस्वल्पमृत्युर्नतंदेविबाधते

1.25.60

त्रिपुंड्रेणचसंयुक्तंरुद्राक्षाविलसांगकम्
मृत्युंजयंजपंतंचदृष्ट्वारुद्रफलंलभेत्

1.25.61

पञ्चदेवप्रियश्चैवसर्वदेवप्रियस्तथा
सर्वमन्त्राञ्जपेद्भक्तोरुद्राक्षमालयाप्रिये

1.25.62

विष्ण्वादिदेवभक्ताश्चधारयेयुर्नसंशयः
रुद्रभक्तो विशेषेणरुद्राक्षान्धारयेत्सदा

1.25.63

रुद्राक्षाविविधाःप्रोक्तास्तेषां भेदान्वदाम्यहम्
शृणुपार्वति सद्भक्त्या भुक्तिमुक्तिफलप्रदान्

1.25.64

एकवक्त्रः शिवः साक्षाद्भुक्तिमुक्तिफलप्रदः
तस्यदर्शनमात्रेणब्रह्महत्याव्यपोहति

1.25.65

यत्रसंपूजितस्तत्रलक्ष्मीर्दूरतरा नहि
नश्यंत्युपद्रवाःसर्वेसर्वकामाभवंतिहि

1.25.66

द्विवक्त्रोदेवदेवेशस्सर्वकामफलप्रदः
विशेषतः सरुद्राक्षोगोवधंनाशयेद्द्रुतम्

1.25.67

त्रिवक्त्रोयोहिरुद्राक्षः साक्षात्साधनदस्सदा
तत्प्रभावाद्भवेयुर्वैविद्याः सर्वाः प्रतिष्ठिताः

1.25.68

चतुर्वक्त्रः स्वयंब्रह्मानरहत्यांव्यपोहति
दर्शनात्स्पर्शनात्सद्यश्चतुर्वर्गफलप्रदः

1.25.69

पञ्चवक्त्रः स्वयंरुद्रः कालाग्निर्नामतः प्रभुः
सर्वमुक्तिप्रदश्चैवसर्वकामफलप्रदः

1.25.70

अगम्यागमनंपापमभक्ष्यस्य च भक्षणम्
इत्यादि सर्वपापानि पञ्चवक्त्रोव्यपोहति

1.25.71

षड्वक्त्रःकार्तिकेयस्तुधारणाद्दक्षिणेभुजे
ब्रह्महत्यादिकैः पापैर्मुच्यतेनात्र संशयः

1.25.72

सप्तवक्त्रोमहेशानि ह्यनंगोनामनामतः
धारणात्तस्य देवेशिदरिद्रोपीश्वरोभवेत्

1.25.73

रुद्राक्षश्चाष्टवक्त्रश्च वसुमूर्तिश्च भैरवः
धारणात्तस्य पूर्णायुर्मृतो भवति शूलभृत्

1.25.74

भैरवोनववक्त्रश्च कपिलश्चमुनिःस्मृतः
दुर्गावातदधिष्ठात्री नवरूपामहेश्वरी

1.25.75

तं धारयेद्वामहस्ते रुद्राक्षंभक्तितत्परः
सर्वेश्वरोभवेन्नूनंमम तुल्यो न संशयः

1.25.76

दशवक्त्रो महेशानि स्वयं देवो जनार्दनः
धारणात्तस्य देवेशि सर्वान्कामानवाप्नुयात्

1.25.77

एकादशमुखोयस्तुरुद्राक्षःपरमेश्वरि
सरुद्रोधारणात्तस्यसर्वत्रविजयीभवेत्

1.25.78

द्वादशास्यं तु रुद्राक्षं धारयेत्केशदेशके
आदित्याश्चैव ते सर्वेद्वादशैव स्थितास्तथा

1.25.79

त्रयोदशमुखो विश्वेदेवस्तद्धारणान्नरः
सर्वान्कामानवाप्नोति सौभाग्यं मंगलंलभेत्

1.25.80

चतुर्दशमुखो यो हि रुद्राक्षः परमःशिवः
धारयेन्मूर्ध्नि तं भक्त्यासर्वपापं प्रणश्यति

1.25.81

इतिरुद्राक्षभेदा हि प्रोक्तावैमुखभेदतः

1.25.82

तत्तन्मंत्राञ्छृणु प्रीत्या क्रमाच्छैल्लेश्वरात्मजे ॥ शिव्प्_1,25. 81च्द्।
अं ह्रीनमः 1 अंनमः 2 अंक्लींनमः 3 अंह्रींनमः 4 अंह्रींनमः 5 अंह्रीं हुं नमः 6 अंहुंनमः 7 अंहुंनमः 8 अंह्रींहुंनमः 9 अंह्रींनमः नमः 10 अंह्रींहुंनमः 11 अंक्रों क्षौं रौं नमः 12 अंह्रींनमः 13 अंनम 14
भक्तिश्रद्धायुतश्चैव सर्वकामार्थसिद्धये
रुद्राक्षान्धारयेन्मंत्रैर्देवनालस्य वर्जितः

1.25.83

विना मंत्रेण हो धत्ते रुद्राक्षं भुविमानवः
स याति नरकं घोरं यावदिन्द्राश्चतुर्दश

1.25.84

रुद्राक्षमालिनंदृष्ट्वा भूतप्रेतपिशाचकाः
डाकिनीशाकिनी चैव ये चान्ये द्रोहकारकाः

1.25.85

कृत्रिमं चैव यत्किंचिदभिचारादिकंचयात्
तत्सर्वंदूरतोयातिदृष्ट्वा शंकितविग्रहम्

1.25.86

रुद्राक्षमालिनं दृष्ट्वा शिवो विष्णुः प्रसीदति
देवीगणपतिस्सूर्यःसुराश्चान्येपिपार्वति

1.25.87

एवंज्ञात्वातुमाहात्म्यंरुद्राक्षस्यमहेश्वरि
सम्यग्धार्यास्समंत्राश्चभक्त्याधर्मविवृद्धये

1.25.88

इत्युक्तंगिरिजाग्रेहिशिवेनपरमात्मना
भस्मरूद्राक्षमाहात्म्यं भुक्तिमुक्तिफलप्रदम्

1.25.89

शिवस्यातिप्रियौज्ञेयौ भस्मरुद्राक्षधारिणौ
तद्धारणप्रभावद्धि भुक्तिर्मुक्तिर्न संशयः

1.25.90

भस्मरुद्राक्षधारी यः शिवभक्तस्स उच्यते
पञ्चाक्षरजपासक्तः परिपूर्णश्चसन्मुखे

1.25.91

विनाभस्मत्रिपुंड्रेणविनारुद्राक्षमालया
पूजितोपिमहादेवोनाभीष्टफलदायकः

1.25.92

तत्सर्वं च समाख्यातं यत्पृष्टंहिमुनीश्वर
भस्मरुद्राक्षमाहात्म्यं सर्वकामसमृद्धिदम्

1.25.93

एतद्यःशृणुयान्नित्यंमाहात्म्यपरमंशुभम्
रुद्राक्षभस्मनोर्भक्त्यासर्वान्कामानवाप्नुयात्

1.25.94

इह सर्वसुखं भुक्त्वा पुत्रपौत्रादिसंयुतः
लभेत्परत्र सन्मोक्षं शिवस्यातिप्रियो भवेत्

1.25.95

विद्येश्वरसंहितेयं कथिता वो मुनीश्वराः
सर्वसिद्धिप्रदा नित्यंमुक्तिदा शिवशासनात्

मूल पाठ: Śivapurāṇa, Books 1 and 7 · Edition: Venkatesvara Steam Press, Bombay (c. 1920) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc