शिवपुराण · अध्याय 1.17
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां षोडशो ऽध्यायः
छप्तेर् 17
ऋषय ऊचुः
प्रणवस्यचमाहात्म्यंषड्लिंगस्यमहामुने
शिवभक्तस्यपूजांचक्रमशोब्रूहिनःप्रभो
सूत उवाच
तपोधनैर्भवद्भिश्च सम्यक्प्रश्नस्त्वयं कृतः
अस्योत्तरंमहादेवोजानातिस्मनचापरः
अथापिवक्ष्येतमहंशिवस्यकृपयैवहि
शिवो ऽस्माकंचयुष्माकंरक्षांगृह्णातुभूरिशः
प्रोहिप्रकृतिजातस्यसंसारस्यमहोदधेः
नवं नावांतरमिति प्रणवं वै विदुर्बुधाः
प्रःप्रपञ्चोननास्तिवो युष्माकंप्रणवंविदुः
प्रकर्षेणनयेद्यस्मान्मोक्षंवः प्रणवं विदुः
स्वजापकानांयोगिनांस्वमंत्रपूजकस्यच
सर्वकर्मक्षयंकृत्वादिव्यज्ञानंतुनूतनम्
तमेव मायारहितं नूतनं परिचक्षते
प्रकर्षेण महात्मानं नवं शुद्धस्वरूपकम्
नूतनं वै करोतीति प्रणवं तं विदुर्बुधाः
प्रणवंद्विविधंप्रोक्तंसूक्ष्मस्थूलविभेदतः
सूक्ष्ममेकाक्षरं विद्यात्स्थूलं पञ्चाक्षरं विदुः
सूक्ष्ममव्यक्तपञ्चार्णं सुव्यक्तार्णं तथेतरत्
जीवन्मुक्तस्य सूक्ष्मं हि सर्वसारं हि तस्यहि
मंत्रेणार्थानुसंधानं स्वदेहविलयावधि
स्वदेहेगलितेपूर्णंशिवंप्राप्नोतिनिश्चयः
केवलंमंत्रजापीतुयोगंप्राप्नोतिनिश्चयः
षट्त्रिंशत्कोटिजापीतुनिश्चयंयोगमाप्नुयात्
सूक्ष्मंचद्विविधंज्ञेयंह्रस्वदीर्घविभेदतः
अकारश्च उकारश्चमकारश्चततःपरम्
बिंदुनादयुतं तद्धि शब्दकालकलान्वितम्
दीर्घप्रणवमेवंहियोगिनामेवहृद्गतम्
मकारंतंत्रितत्त्वं हि ह्रस्वप्रणव उच्यते
शिवःशक्तिस्तयोरैक्यंमकारंतुत्रिकात्मकम्
ह्रस्वमेवंहिजाप्यंस्यात्सर्वपापक्षयैषिणाम्
भूवायुकनकार्णोद्योःशब्दाद्याश्चतथादश
आशान्वयेदशपुनः प्रवृत्ता इतिकथ्यते
ह्रस्वमेवप्रवृत्तानांनिवृत्तानांतुदीर्घकम्
व्याहृत्यादौचमंत्रादौकामंशब्दकलायुतम्
वेदादौचप्रयोज्यंस्याद्वंदनेसंध्ययोरपि
नवकौटिजपाञ्जप्त्वासंशुद्धःपुरुषोभवेत्
पुनश्चनवकोट्यातुपृथिवीजयमाप्नुयात्
पुनश्चनवकोट्यातुह्यपांजयमवाप्नुयात्
पुनश्चनवकोट्यातुतेजसांजयमाप्नुयात्
पुनश्चनवकोट्या तु वायोर्जयमवाप्नुयात्
आकाशजयमाप्नोति नवकोटिजपेन वै
गंधादीनांक्रमेणैवनवकोटिजपेणवै
अहंकारस्य च पुनर्नव कोटिजपेन वै
सहस्रमंत्रजप्तेन नित्यशुद्धो भवेत्पुमान्
ततः परंस्वसिद्ध्यर्थंजपोभवतिहिद्विजाः
एवमष्टोत्तरशतकोटिजप्तेनवैपुनः
प्रणवेनप्रबुद्धस्तुशुद्धयोगमवाप्नुयात्
शुद्धयोगेनसंयुक्तोजीवन्मुक्तोनसंशयः
सदाजपन्सदाध्यायञ्छिवं प्रणवरूपिणम्
समाधिस्थोमहायोगीशिव एव नसंशयः
ऋषिच्छंदोदेवतादिन्यस्यदेहेपुनर्जपेत्
प्रणवं मातृकायुक्तंदेहेत्यस्य ऋषिर्भवेत्
दशमातृषडध्वादि सर्वंन्यासफलं लभेत्
प्रवृत्तानां चमिश्राणांस्थूलप्रणवमिष्यते
क्रियातपोजपैर्युक्तास्त्रिविधाः शिवयोगिनः
धनादिविभवैश्चैवकराद्यंगैर्नमादिभिः
क्रियया पूजयायुक्तःक्रियायोगीति कथ्यते
पूजायुक्तश्चमितभुग्बाह्यंद्रियजयान्वितः
परद्रोहादिरहितस्तपोयोगीति कथ्यते
एतैर्युक्तःसदाक्रुद्धःसर्वकामादिवर्जितः
सदाजपपरःशांतोजपयोगीति तंविदुः
उपचारैः षोडशभिः पूजया शिवयोगिनाम्
सालोक्यादिक्रमेणैवशुद्धोमुक्तिंलभेन्नरः
जपयोगमथोवक्ष्येगदतः शृणुतद्विजाः
तपःकर्तुर्जपः प्रोक्तोयज्जमन्परिमार्जते
शिवनामनमःपूर्वंचतुर्थ्यांपञ्चतत्त्वकम्
स्थूलप्रणवरूपं हि शिवपञ्चाक्षरं द्विजाः
पञ्चाक्षरजपेनैव सर्वसिद्धिं लभेन्नरः
प्रणवेनादिसंयुक्तंसदापञ्चाक्षरंजपेत्
गुरूपदेशंसंगम्यसुखवासेसुभूतले
पूर्वपक्षेसमारभ्यकृष्णभूतावधिद्विजाः
माघंभाद्रंविशिष्टंतुसर्वकालोत्तमोत्तमम्
एकवारंमिताशीतुवाग्यतोनियतेंद्रियः
स्वस्यराजपित्ःणांचशुश्रूषणंचनित्यशः
सहस्रजपमात्रेणभवेच्छुद्धो ऽन्यथा ऋणी
पञ्चाक्षरंपञ्चलक्षंजपेच्छिवमनुस्मरन्
पद्मासनस्थंशिवदंगंगाचंद्रकलान्वितम्
वामोरुस्थितशक्त्याचविराजंतंमहागणैः
मृगटंकधरंदेवंवरदाभयपाणिकम्
सदानुग्रहकर्तारं सदाशिवमनुस्मरन्
संपूज्यमनसा पूर्वंहृदिवासूर्यमंडले
जपेत्पञ्चाक्षरींविद्यांप्राङ्मुखः शुद्धकर्मकृत्
प्रातःकृष्णचतुर्दश्यां नित्यकर्मसमाप्यच
मनोरमेशुचौदेशेनियतः शुद्धमानसः
पञ्चाक्षरस्यमंत्रस्य सहस्रंद्वादशंजपेत्
वरयेच्चसपत्नीकाञ्छैवान्वैब्राह्मणोत्तमान्
एकंगुरुवरंशिष्टंवरयेत्सांबमूर्तिकम्
ईशानंचाथपुरुषमघोरंवाममेव च
सद्योजातं चपञ्चैवशिवभक्तान्द्विजोत्तमान्
पूजाद्रव्याणिसंपाद्यशिवपूजांसमारभेत्
शिवपूजांचविधिवत्कृत्वाहोमंसमारभेत्
मुखांतं च स्वसूत्रेणकृत्याहोमंसमारभेत्
दशैकंवाशतैकंवासहस्रैकमथापिवा
कापिलेनघृतेनैवजुहुयात्स्वयमेवहि
कारयेच्छिवभक्तैर्वाप्यष्टोत्तरशतंबुधः
होमान्ते दक्षिणादेयागुरोर्गोमिथुनं तथा
ईशानादिस्वरूपांस्तान्गुरुंसांबंविभाव्य च
तेषां पत्सिक्ततोयेनस्वशिरः स्नानमाचरेत्
षट्त्रिंशत्कोटितीर्थेषुसद्यःस्नानफलंलभेत्
दशांगमन्नंतेषां वैदद्याद्वैभक्तिपूर्वकम्
पराबुद्ध्यागुरोः पत्नीमीशानादिक्रमेण तु
परमान्नेनसंपूज्ययथाविभवविस्तरम्
रुद्राक्षवस्त्रपूर्वंचवटकापूपकैर्युतम्
बलिदानंततः कृत्वाभूरिभोजनमाचरेत्
ततः संप्रार्थ्यदेवेशंजपंतावत्समापयेत्
पुरश्चरणमेवंतुकृत्वामन्त्रीभवेन्नरः
पुनश्चपञ्च लक्षेणसर्वपापक्षयोभवेत्
अतलादिसमारभ्यसत्यलोकावधिक्रमात्
पञ्चलक्षजपात्तत्तल्लोकैश्वर्यमवाप्नुयात्
मध्येमृतश्चेद्भोगांतेभूमौतज्जापकोभवेत्
पुनश्चपञ्चलक्षेणब्रह्मसामीप्यमाप्नुयात्
पुनश्चपञ्चलक्षेण सारूप्यैश्वर्यमाप्नुयात्
आहत्यशतलक्षेणसाक्षाद्ब्रह्मसमोभवेत्
कार्यब्रह्मण एवं हि सायुज्यंप्रतिपद्य वै
यथेष्टंभोगमाप्नोतितद्ब्रह्मप्रलयावधि
पुनः कल्पांतरेवृत्ते ब्रह्मपुत्रः सजायते
पुनश्चतपसादीप्तःक्रमान्मुक्तोभविष्यति
पृथ्व्यादिकार्यभूतेभ्योलोकावैनिर्मिताःक्रमात्
पातालादि च सत्यांतंब्रह्मलोकाश्चतुर्दश
सत्यादूर्ध्वंक्षमांतंवैविष्णुलोकाश्चतुर्दश
क्षमलोकेकार्यविष्णुर्वैकुंठेवरपत्तने
कार्यलक्ष्म्यामहाभोगिरक्षांकृत्वा ऽधितिष्ठति
तदूर्ध्वगाश्चाशुच्यंतालोकाष्टाविंशतिः स्थिताः
शुचौलोकेतुकैलासेरुद्रोवैभूतहृत्स्थितः
षडुत्तराश्चपञ्चाशदहिंसांतास्तदूर्ध्वगाः
अहिंसालोकमास्थायज्ञानकैलासकेपुरे
कार्येश्वरस्तिरोभावंसर्वान्कृत्वाधितिष्ठति
तदंतेकालचक्रंहिकालातीतस्ततःपरम्
शिवेनाधिष्ठितस्तत्रकालश्चक्रेश्वराह्वयः
माहिषं धर्ममास्थायसर्वान्कालेन युंजति
असत्यश्चाशुचिश्चैव हिंसाचैवाथनिर्घृणा
असत्यादिचतुष्पादःसर्वांशः कामरूपधृक्
नास्तिक्यलक्ष्मीर्दुःसंगोवेदबाह्यध्वनिःसदा
क्रोधसंगःकृष्णवर्णोमहामहिषवेषवान्
तावन्महेश्वरःप्रोक्तस्तिरोधास्तावदेव हि
तदर्वाक्कर्मभोगो हि तदूर्ध्वंज्ञानभोगकम्
तदर्वाक्कर्म मायाहिज्ञानमाया तदूर्ध्वकम्
मा लक्ष्मीः कर्मभोगोवैयातिमायेतिकथ्यते
मा लक्ष्मीर्ज्ञानभोगोवैयातिमायेतिकथ्यते
तदूर्ध्वंनित्यभोगोहितदर्वाङ्नश्वरंविदुः
तदर्वाक्चतिरोधानंतदूर्ध्वंनतिरोधनम्
तदर्वाक्पाशबंधोहितदूर्ध्वंनहिबंधनम्
तदर्वाक्परिवर्तंतेकाम्यकर्मानुसारिणः
निष्कामकर्मभोगस्तुतदूर्ध्वंपरिकीर्तितः
तदर्वाक्परिवर्तंतेबिंदुपूजापरायणाः
तदूर्ध्वंहिव्रजंत्येवनिष्कामालिंगपूजकाः
तदर्वाक्परिवर्तंतंशिवान्यसुरपूजकाः
शिवैकनिरताये च तदूर्ध्वंसंप्रयांतिते
तदर्वाग्जीवकोटिःस्यात्तदूर्ध्वंपरकोटिकाः
सांसारिकास्तदर्वाक्च मुक्ताः खलु तदूर्ध्वगाः
तदर्वाक्परिवर्तंते प्राकृतद्रव्यपूजकाः
तदूर्ध्वंहिव्रजंत्येतेपौरुषद्रव्यपूजकाः
तदर्वाक्छक्तिलिंगं तु शिवलिंगं तदूर्ध्वकम्
तदर्वागावृतं लिंगं तदूर्ध्वं हि निरावृति
तदर्वाक्कल्पितं लिंगं तदूर्ध्वं वै न कल्पितम्
तदर्वाग्बाह्यलिंगं स्यादंतरंगं तदूर्ध्वकम् ॥ शिव्प्_1,17. 78अब्।
तदर्वाक्छक्तिलोका हि शतं वै द्वादशाधिकम्
तदर्वाग्बिंदुरूपं हि नादरूपं तदुत्तरम्
तदर्वाक्कर्मलोकस्तु तदूर्ध्वं ज्ञानलोककः
नमस्कारस्तदूर्ध्वंहिमदाहंकारनाशनः
जनिजंतिरोधानंनानिषिद्ध्यातते इति
ज्ञानशब्दार्थ एवं हि तिरोधाननिवारणात्
तदर्वाक्परिवर्तंतेह्याधिभौतिकपूजकाः
आध्यात्मिकार्चका एव तदूर्ध्वंसंप्रयांतिवै
तावद्वैवेदिभागंतन्महालोकात्मलिंगके
प्रकृत्याद्यष्टबंधोपिवेद्यंतेसंप्रतिष्ठतः
एवमेतादृशंज्ञेयंसर्वंलौकिकवैदिकम्
अधर्ममहिषारूढंकालचक्रंतरंतिते
सत्यादिधर्मयुक्तायेशिवपूजापराश्चये
तदूर्ध्वंवृषभोधर्मोब्रह्मचर्यस्वरूपधृक्
सत्यादिपादयुक्तस्तुशिवलोकाग्रतःस्थितः
क्षमाशृङ्गः शमश्रोत्रो वेदध्वनिविभूषितः
आस्तिक्यचक्षुर्निश्वासगुरुबुद्धिमना वृषः
क्रियादिवृषभा ज्ञेयाः कारणादिषु सर्वदा
तं क्रियावृषभं धर्मं कालातीतोधितिष्ठति
ब्रह्मविष्णुमहेशानां स्वस्वायुर्दिनमुच्यते
तदूर्ध्वं न दिनं रात्रिर्न जन्ममरणादिकम् ॥ शिव्प्_1,17. 88च्द्।
पुनः कारणसत्यांताः कारणब्रह्मणस्तथा
गंधादिभ्यस्तु भूतेभ्यस्तदूर्ध्वं निर्मिताः सदा
सूक्ष्मगंधस्वरूपाहिस्थितालोकाश्चतुर्दश
पुनः कारणविष्णोर्वैस्थिता लोकाश्चतुर्दश
पुनःकारणरुद्रस्यलोकाष्टाविंशका मताः
पुनश्चकारणेशस्यषट्पञ्चाशत्तदूर्ध्वगाः
ततः परंब्रह्मचर्यलोकाख्यं शिवसंमतम्
तत्रैवज्ञानकैलासेपञ्चावरणसंयुते
पञ्चमंडलसंयुक्तंपञ्चब्रह्मकलान्वितम्
आदिशक्तिसमायुक्तमादिलिंगंतुतत्रवै
शिवालयमिदंप्रोक्तंशिवस्यपरमात्मनः
परशक्त्यासमायुक्तस्तत्रैवपरमेश्वरः
सृष्टिः स्थितिश्चसंहारस्तिरोभावोप्यनुग्रहः
पञ्चकृत्यप्रवीणो ऽसौसच्चिदानंदविग्रहः
ध्यानधर्मः सदायस्यसदानुग्रहतत्परः
समाध्यासनमासीनः स्वात्मारामोविराजते
तस्यसंदर्शनंसांध्यंकर्मध्यानादिभिः क्रमात्
नित्यादिकर्मयजनाच्छिवकर्ममतिर्भवेत्
क्रियादिशिवकर्मभ्यः शिवज्ञानंप्रसाधयेत्
तद्दर्शनगताःसर्वेमुक्ता एव नसंशयः
मुक्तिरात्मस्वरूपेणस्वात्मारामत्वमेवहि
क्रियातपोजपज्ञानध्यानधर्मेषुसुस्थितः
शिवस्यदर्शनंलब्धास्वात्मारामत्वमेवहि
यथारविःस्वकिरणादशुद्धिमपनेष्यति
कृपाविचक्षणःशंभुरज्ञानमपनेष्यति
अज्ञानविनिवृत्तौतुशिवज्ञानंप्रवर्तते
शिवज्ञानात्स्वस्वरूपमात्मारामत्वमेष्यति
आत्मारामत्वसंसिद्धौकृतकृत्योभवेन्नरः
पुनश्चशतलक्षेणब्रह्मणःपदमाप्नुयात्
पुनश्चशतलक्षेणविष्णोःपदमवाप्नुयात्
पुनश्चशतलक्षेणरुद्रस्यपदमाप्नुयात्
पुनश्च शतलक्षेण ऐश्वर्यं पदमाप्नुयात्
पुनश्चैवंविधेनैव जपेन सुसमाहितः
शिवलोकादिभूतं हि कालचक्रमवाप्नुयात्
कालचक्रंपञ्चचक्रमेकैकेनक्रमोत्तरे
सृष्टिमोहौब्रह्मचक्रंभोगमोहौतुवैष्णवम्
कोपमोहौरौद्रचक्रंभ्रमणंचैश्वरंविदुः
शिवचक्रंज्ञानमोहौपञ्चचक्रंविदुर्बुधाः
पुनश्चदशकोट्या हि कारणब्रह्मणः पदम्
पुनश्च दशकोट्याहितत्पदैश्वर्यमाप्नुयात्
एवं क्रमेण विष्ण्वादेः पदंलब्ध्वामहौजसः
क्रमेणतत्पदैश्वर्यं लब्ध्वाचैवमहात्मनः
शतकोटिमनुं जप्त्वा पञ्चोत्तरमतंद्रितः
शिवलोकमवाप्नोतिपञ्चमावरणाद्बहिः
राजसंमंडपंतत्रनंदीसंस्थानमुत्तमम्
तपोरूपश्चवृषभस्तत्रैवपरिदृश्यते
सद्योजातस्यतत्स्थानंपञ्चमावरणंपरम्
वामदेवस्यचस्थानंचतुर्थावरणंपुनः
अघोरनिलयंपश्चात्तृतीयावरणंपरम्
पुरुषस्यैवसांबस्यद्वितीयावरणंशुभम्
ईशानस्यपरस्यैवप्रथमावरणंततः
ध्यानधर्मस्य च स्थानंपञ्चमंमंडपंततः
बलिनाथस्यसंस्थानंतत्रपूर्णामृतप्रदम्
चतुर्थंमंडपंपश्चाच्चंद्रशेखरमूर्तिमत्
सोमस्कंदस्यचस्थानंतृतीयंमंडपंपरम्
द्वितीयंमंडपंनृत्यमंडपंप्राहुरास्तिकाः
प्रथमंमूलमायायाः स्थानंतत्रैवशोभनम्
ततः परं गर्भगृहंलिंगस्थानं परं शुभम्
नन्दिसंस्थानतः पश्चान्नविदुः शिववैभवम्
नंदीश्वरोबहिस्तिष्ठन्पञ्चाक्षरमुपासते
एवं गुरुक्रमाल्लब्धं नंदीशाच्च मयापुनः
ततः परंस्वसंवेद्यं शिवे नैवानुभावितम्
शिवस्यकृपयासाक्षाच्छिवलोकस्यवैभवम्
विज्ञातुंशक्यते सर्वैर्नान्यथेत्याहुरास्तिकाः
एवंक्रमेणमुक्ताःस्युर्ब्राह्मणावैजितेंद्रियः
अन्येषां च क्रमंवक्ष्ये गदतः शृणुतादरात्
गुरूपदेशाज्जाप्यंवैब्राह्मणानांनमो ऽंतकम्
पञ्चाक्षरं पञ्चलक्षमायुष्यंप्रजपेद्विधिः
स्त्रीत्वापनयनार्थंतुपञ्चलक्षंजपेत्पुनः
मंत्रेणपुरुषोभूत्वाक्रमान्मुक्तोभवेद्बुधः
क्षत्रियःपञ्चलक्षेणक्षत्त्रत्वमपनेष्यति
पुनश्चपञ्चलक्षेणक्षत्त्रियोब्राह्मणोभवेत्
मंत्रसिद्धिर्जपाच्चैवक्रमान्मुक्तोभवैन्नरः
वैश्यस्तुपञ्चलक्षेणवैश्यत्वमपनेष्यति
पुनश्चपञ्चलक्षेणमंत्रक्षत्त्रिय उच्यते
पुनश्चपञ्चलक्षेण क्षत्त्रत्वमपनेष्यति
पुनश्चपञ्चलक्षेणमंत्रब्राह्मण उच्यते
शूद्रश्चैवनमोंतेन पञ्चविंशतिलक्षतः
मंत्रविप्रत्वमापद्य पश्चाच्छुद्धो भवेद्द्विजः
नारीवाथ नरो वाथ ब्राह्मणो वान्य एव वा
नमोन्तं वा नमः पूर्वमातुरः सर्वमातुरः सर्वदा जपेत्
ततः स्त्रीणांतथैवोह्यगुरुर्निर्दर्शयेत्क्रमात्
साधकः पञ्चलक्षान्ते शिवप्रीत्यर्थमेव हि
महाभिषेक नैवेद्यं कृत्वा भक्तांश्च पूजयेत्
पूजया शिवभक्तस्य शिवः प्रीततरो भवेत्
शिवस्य शिवभक्तस्य भेदो नास्ति शिवो हि सः
शिवस्वरूपमंत्रस्यधारणाच्छिव एव हि
शिवभक्तशरीरे हि शिवेतत्परमोभवेत्
शिवभक्ताः क्रियाः सर्वा वेदसर्वक्रियांविदुः
यावद्यावच्छिवंमंत्रंयेनजप्तंभवेत्क्रमात्
तावद्वैशिवसान्निध्यं तस्मिन्देहे न संशयः
देवीलिंगंभवेद्रूपं शिवभक्तस्त्रियास्तथा
यावन्मंत्रंजपेद्देव्यास्तावत्सान्निध्यमस्ति हि
शिवंसंपूजयेद्धीमान्स्वयंवैशब्दरूपभाक्
स्वयंचैवशिवोभूत्वापरांशक्तिंप्रपूजयेत्
शक्तिंबेरंचलिंगं च ह्यालेख्यामाययायजेत्
शिवलिंगं शिवंमत्वास्वात्मानंशक्तिरूपकम्
शक्तिलिंगंचदेवींचमत्वास्वंशिवरूपकम्
शिवलिंगंनादरूपबिंदुरूपंतुशक्तिकम्
उपप्रधानभावेन अन्योन्यासक्तलिंगकम्
पूजयेच्च शिवंशक्तिसशिवोमूलभावनात्
शिवभक्ताञ्छिवमत्ररूपकाञ्छिवरूपकान्
षोडशैरुपचारैश्चपूजयेदिष्टमाप्नुयात्
येनशुश्रूषणाद्यैश्च शिवभक्तस्य लिंगिनः
आनंदंजनयेद्विद्वाञ्छिवःप्रीततरो भवेत्
शिवभक्तान्सपत्नीकान्पत्न्यासहसदैवतत्
पूजयेद्भोजनाद्यैश्चपञ्चवादशवाशतम्
धनेदेहेचमंत्रेचभावनायामवंचकः
शिवशक्तिस्वरूपेणनपुनर्जायते भुवि
नाभेरधो ब्रह्मभागमाकंठंविष्णुभागकम्
मुखंलिंगमितिप्रोक्तंशिवभक्तशरीरकम्
मृतान्दाहादियुक्तान्वादाहादिरहितान्मृतान्
उद्दिश्यपूजयेदादिपितरंशिवमेवहि
पूजांकृत्वादिमातुश्चशिवभक्तांश्च पूजयेत्
पितृलोकंसमासाद्यक्रमान्मुक्तोभवेन्मृतः
क्रियायुक्तदशभ्यश्चतपोयुक्तोविशिष्यते
तपोयुक्तशतेभ्यश्चजपयुक्तोविशिष्यते
जपयुक्तसहस्रेभ्यः शिवज्ञानी विशिष्यते
शिवज्ञानिषुलक्षेषु ध्यानयुक्तो विशिष्यते
ध्यानयुक्तेषु कोटिभ्यः समाधिस्थो विशिष्यते
उत्तरोत्तर वै शिष्ट्यात्पूजायामुत्तरोत्तरम्
फलंवैशिष्ट्यरूपञ्चदुर्विज्ञेयंमनीषिभिः
तस्माद्वैशिवभक्तस्यमहिमानंवेत्तिकोनरः
शिवशक्त्योः पूजनं च शिवभक्तस्य पूजनम्
कुरुतेयोनरोभक्त्यासशिवः शिवमेधते
य इमं पठते ऽध्यायमर्थवद्वेदसंमतम्
शिवज्ञानीभवेद्विप्रःशिवेन सहमोदते
श्रावयेच्छिवभक्तांश्चविशेषज्ञो मनीश्वराः
शिवप्रसादशिद्धिः स्याच्छिवस्यकृपया बुधाः
मूल पाठ: Śivapurāṇa, Books 1 and 7 · Edition: Venkatesvara Steam Press, Bombay (c. 1920) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0