भाषा

ENहिગુ
ग्रंथ पाठ

शिवपुराण · अध्याय 1.18

1.18.1

इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां सप्तदशो ऽध्यायः
छप्तेर् 18
ऋष्य ऊचुः
बंधमोक्षस्वरूपं हि ब्रूहि सर्वार्थवित्तम
सूत उवाच
बंधमोक्षंतथोपायंवक्ष्ये ऽहंशृणुतादरात्

1.18.2

प्रकृत्याद्यष्टबंधेनबद्धोजीवः स उच्यते
प्रकृत्याद्यष्टबंधेननिर्मुक्तोमुक्त उच्यते

1.18.3

प्रकृत्यादिवशीकारोमोक्ष इत्युच्यतेस्वतः
बद्धजीवस्तुनिर्मुक्तोमुक्तजीवः स कथ्यते

1.18.4

प्रकृत्यग्रेततोबुद्धिरहंकारोगुणात्मकः
पञ्चतन्मात्रमित्येतेप्रकृत्याद्यष्टकंविदुः

1.18.5

प्रकृट्याद्यष्टजोदेहोदेहजंकर्म उच्यते
पुनश्चकर्मजोदेहोजन्मकर्मपुनःपुनः

1.18.6

शरीरंत्रिविधंज्ञेयंस्थूलंसूक्ष्मंचकारणम्
स्थूलंव्यापारदंप्रोक्तंसूक्ष्ममिंद्रियभोगदम्

1.18.7

कारणंत्वात्मभोगार्थंजीवकर्मानुरूपतः
सुखं दुःखं पुण्यपापैः कर्मभिः फलमश्नुते

1.18.8

तस्माद्धिकर्मरज्ज्वा हि बद्धो जीवः पुनः पुनः
शरीरत्रयकर्मभ्यां चक्रवद्भ्राम्यते सदा

1.18.9

चक्रभ्रमनिवृत्यर्थं चक्रकर्तारमीडयेत्
प्रकृत्यादि महाचक्रं प्रकृतेः परतः शिवः

1.18.10

चक्रकर्तामहेशो हि प्रकृतेः परतोयतः
पिबतिवाथवमतिजीवन्बालोजलंयथा

1.18.11

शिवस्तथा प्रकृत्यादि वशीकृत्याधितिष्ठति
सर्वंवशीकृतंयस्मात्तस्माच्छिव इति स्मृतः
शिव एव हि सर्वज्ञः परिपूर्णश्च निःस्पृहः

1.18.12

सर्वज्ञतातृप्तिरनादिबोधः स्वतंत्रता नित्यमलुप्तशक्तिः
अनंतशक्तिश्चमहेश्वरस्य यन्मानसैश्वर्यमवैति वेदः

1.18.13

अतः शिवप्रसादेन प्रकृत्यादिवशंभवेत्
शिवप्रसादलाभार्थं शिवमेवप्रपूजयतेत्

1.18.14

निःस्पृहस्य च पूर्णस्यतस्य पूजाकथं भवेत्
शिवोद्देशकृतं कर्म प्रसादजनकं भवेत्

1.18.15

लिंगेबेरेभक्तजनेशिवमुद्दिश्यपूजयेत्
कायेनमनसावाचाधनेनापिप्रपूजयेत्

1.18.16

पुजया तु महेशो हि प्रकृतेः परमः शिवः
प्रसादंकुरुतेसत्यंपूजकस्यविशेषतः

1.18.17

शिवप्रसादात्कर्माद्यंक्रमेणस्ववशंभवेत्
कर्मारभ्यप्रकृत्यंतंयदासर्वं वशंभवेत्

1.18.18

तदामुक्त इतिप्रोक्तःस्वात्मारामोविराजते
प्रसादात्परमेशस्यकर्म देहोयदावशः

1.18.19

तदावैशिवलोकेतुवासःसालोक्यमुच्यते
सामीप्यंयातिसांबस्यतन्मात्रेचवशंगते

1.18.20

तदातुशिवसायुज्यमायुधाद्यैः क्रियादिभिः
महाप्रसादलाभेचबुद्धिश्चापिवशाभवेत्

1.18.21

बुद्धिस्तुकार्यंप्रकृतेस्तत्सृष्टिरितिकथ्यते
पुनर्महाप्रसादेनप्रकृतिर्वशमेष्यति

1.18.22

शिवस्यमानसैश्वर्यंतदा ऽयत्नंभविष्यति
सार्वज्ञाद्यंशिवैश्वर्यंलब्ध्वास्वात्मनि राजते

1.18.23

तत्सायुज्यमितिप्राहुर्वेदागमपरायणाः
एवंक्रमेणमुक्तिःस्याल्लिंगादौपूजयास्वतः

1.18.24

अतःशिवप्रसादार्थंक्रियाद्यैःपूजयेच्छिवम्
शिवक्रिया शिवतपः शिवमंत्रजपः सदा

1.18.25

शिवज्ञानंशिवध्यानमुत्तरोत्तरमभ्यसेत्
आसुप्तेरामृतेःकालंनयेद्वैशिवचिंतया

1.18.26

सद्यादिभिश्चकुसुमैरर्चयेच्छिंवमेष्यति ॥ शिव्प्_1,18. 26अब्।
ऋषय ऊचुः
लिंगादौशिवपूजायाविधानंब्रूहिसर्वतः

1.18.27

सूत उवाच
लिंगानांचक्रमंवक्ष्येयथावच्छृणुत द्विजाः
तदेवलिंगं प्रथमं प्रणवं सार्वकामिकम्

1.18.28

सूक्ष्मप्रणवरूपंहिसूक्ष्मरूपंतुनिष्फलम्
स्थूललिंगं हि सकलंतत्पञ्चाक्षरमुच्यते

1.18.29

तयोः पूजातपः प्रोक्तंसाक्षान्मोक्षप्रदे उभे
पौरुषप्रकृतिभूतानिलिंगानिसुबहूनिच

1.18.30

तानि विस्तरतोवक्तुं शिवो वेत्तिनचापरः
भूविकाराणिलिंगानिज्ञातानिप्रब्रवीमिवः

1.18.31

स्वयंभूलिंगंप्रथमंबिंदुलिंगंद्वितीयकम्
प्रतिष्ठितंचरंचैवगुरुलिंगंतु पञ्चमम्

1.18.32

देवर्षितपसा तुष्टः सान्निध्यार्थंतुतत्रवै
पृथिव्यन्तर्गतःशर्वोबीजं वै नादरूपतः

1.18.33

स्थावरांकुरवद्भूमिमुद्भिद्य व्यक्त एव सः
स्वयंभूतं जातमिति स्वयंभूरिति तं विदुः

1.18.34

तल्लिंगपूजया ज्ञानं स्वयमेव प्रवर्धते
सुवर्णरजतादौ वा पृथिव्यांस्थिंडिलेपिवा

1.18.35

स्वहस्ताल्लिखितं लिंगं शुद्धप्रणवमंत्रकम्
यंत्रलिंगं समालिख्य प्रतिष्ठावाहनं चरेत्

1.18.36

बिंदुनादमयंलिंगंस्थावरंजंगमंचयत्
भावनामयमेतद्धि शिवदृष्टं न संशयः

1.18.37

यत्र विश्वस्यते शंभुस्तत्र तस्मै फलप्रदः
स्वहस्ताल्लिख्यते यंत्रे स्थावरादावकृत्रिमे

1.18.38

आवाह्यपूजयेच्छंभुंषोडशैरुपचारकैः
स्वयमैस्वर्यमाप्नोतिज्ञानमभ्यासतोभवेत्

1.18.39

देवैश्च ऋषिभिश्चापिस्वात्मसिद्ध्यर्थमेवहि
समंत्रेणात्महस्तेनकृतंयच्छुद्धमंडले

1.18.40

शुद्धभावनया चैवस्थापितं लिंगमुत्तमम्
तल्लिंगंपौरुषं प्राहुस्तत्प्रतिष्ठितमुच्यते

1.18.41

तल्लिंगपूजयानित्यंपौरुषैश्वर्यमाप्नुयात्
महद्भिर्ब्राह्मणैश्चापिराजभिश्चमहाधनैः

1.18.42

शिल्पिनाकल्पितंलिंगंमंत्रेणस्थापितंचयत्
प्रतिष्ठितंप्राकृतंहिप्राकृतैश्वर्यभोगदम्

1.18.43

यदूर्जितंचनित्यं च तद्धि पौरुषमुच्यते
यद्दुर्बलमनित्यं च तद्धि प्राकृतमुच्यते

1.18.44

लिंगंनाभिस्तथाजिह्वानासाग्रञ्चशिखाक्रमात्
कट्यादिषुत्रिलोकेषु लिंगमाध्यात्मिकंचरम्

1.18.45

पर्वतंपौरुषं प्रोक्तंभूतलं प्राकृतं विदुः
वृक्षादि पौरुषं ज्ञेयं गुल्मादि प्राकृतं विदुः

1.18.46

षाष्टिकं प्राकृतं ज्ञेयं शालिगोधूमपौरुषम्
ऐश्वर्यं पौरुषं विद्यादणिमाद्यष्टसिद्धिदम्

1.18.47

सुस्त्रीधनादिविषयं प्राकृतं प्राहुरास्तिकाः
प्रथमं चरलिंगेषु रसलिंगं प्रकथ्यते

1.18.48

रसलिंगंब्राह्मणानांसर्वाभीष्टप्रदंभवेत्
बाणलिंगंक्षत्रियाणां महाराज्यप्रदंशुभम्

1.18.49

स्वर्णलिंगं तु वैश्यानांमहाधनपतित्वदम्
शिलालिंगंतुशूद्राणांमहाशुद्धिकरंशुभम्

1.18.50

स्फाटिकंबाणलिंगं च सर्वेषांसर्वकामदम्
स्वीयाभावे ऽन्यदीयंतुपूजायांननिषिद्ध्यते

1.18.51

स्त्रीणांतुपार्थिवंलिंगंसभत्ःणांविशेषतः
विधवानांप्रवृत्तानांस्फाटिकं परिकीर्तितम्

1.18.52

विधवानां निवृत्तानां रसलिंगं विशिष्यते
बाल्येवायौवनेवापिवार्धकेवापिसुव्रताः

1.18.53

शुद्धस्फटिकलिंगंतुस्त्रीणांतत्सर्वभोगदम्
प्रवृत्तानांपीठपूजासर्वाभीष्टप्रदा भुवि

1.18.54

पात्रेणैवप्रवृत्तस्तुसर्वपूजांसमाचरेत्
अभिषेकांतेनैवेद्यंशाल्यन्नेनसमाचरेत्

1.18.55

पूजांतेस्थापयेल्लिंगंसंपुटेषुपृथग्गृहे
करपूजानिवृत्तानांस्वभोज्यंतुनिवेदयेत्

1.18.56

निवृत्तानांपरंसूक्ष्मलिंगमेवविशिष्यते
विभूत्यभ्यर्चनं कुर्याद्विभूतिंचनिवेदयेत्

1.18.57

पूजांकृत्वाथतल्लिंगंशिरसाधारयेत्सदा
विभूतिस्त्रिविधाप्रोक्तालोकवेदशिवाग्निभिः

1.18.58

लोकाग्निजमथो भस्मद्रव्यशुद्ध्यर्थमावहेत्
मृद्दारुलोहरूपाणांधान्यानांचतथैवच

1.18.59

तिलादीनां च द्रव्याणांवस्त्रादीनांतथैव च
तथापर्युषितानांचभस्मनाशिद्धिरिष्यते

1.18.60

श्वादिभिर्दूषितानांचभस्मनाशुद्धिरिष्यते
सजलंनिर्जलंभस्म यथायोग्यं तु योजयेत्

1.18.61

वेदाग्निजंतथाभस्मतत्कर्मांतेषु धारयेत्
मंत्रेणक्रिययाजन्यंकर्माग्नौ भस्मरूपधृक्

1.18.62

तद्भस्मधारणात्कर्म स्वात्मन्यारोपितं भवेत्
अघोरेणात्मंत्रेण बिल्वकाष्ठंप्रदाहयेत्

1.18.63

शिवाग्निरितिसंप्रोक्तस्तेनदग्धंशिवाग्निजम्
कपिलागोमयं पूर्वं केवलं गव्यमेव वा

1.18.64

शम्यस्वत्थपलाशान्वावटारम्वधबिल्वकान्
शिवाग्निनादहेच्छुद्धंतद्वैभस्म शिवाग्निजम्

1.18.65

दर्भाग्नौ वादहेत्काष्ठंशिवमंत्रंसमुच्चरन्
सम्यक्संशोध्यवस्त्रेणनवकुंभेनिधापयेत्

1.18.66

दीप्त्यर्थं तत्तु संग्राह्यं मन्यते पूज्यतेपि च
भस्मशब्दार्थ एवं हि शिवःपूर्वंतथा ऽकरोत्

1.18.67

यथास्वविषयेराजासारंगृह्णातियत्करम्
यथामनुष्याःसस्यादीन्दग्ध्वासारंभजंतिवै

1.18.68

यथाहिजाठराग्निश्चभक्ष्यादीन्विविधान्बहून्
दग्ध्वासारतरंसारात्स्वदेहंपरिपुष्यति

1.18.69

तथाप्रपञ्चकर्तापिसशिवःपरमेश्वरः
स्वाधिष्ठेयप्रपञ्चस्यदग्ध्वासारंगृहीतवान्

1.18.70

दग्ध्वाप्रपञ्चंतद्भस्मस्वात्मन्यारोपयच्छिवः
उद्धूलनेनव्याजेन जगत्सारं गृहीतवान्

1.18.71

स्वरत्नंस्थापयामास स्वकीयेहिशरीरके
केशमाकाशसारेणवायुसारेणवैमुखम्

1.18.72

हृदयंचाग्निसारेणत्वपांसारेणवैकटिम्
जानुचावनिसारेणतद्वत्सर्वं तदंगकम्

1.18.73

ब्रह्मविष्ण्वोश्चरुद्राणांसारंचैवत्रिपुंड्रकम्
तथातिलकरूपेणललाटान्तेमहेश्वरः

1.18.74

भवृद्ध्यासर्वमेतद्धिमन्यतेस्वयमैत्यसौ
प्रपञ्चसारसर्वस्वमनेनैववशीकृतम्

1.18.75

तस्मादस्यवशीकर्तानास्तीतिसशिवःस्मृतः
यथासर्वमृगाणांचहिंसकोमृगहिंसकः

1.18.76

अस्यहिंसामृगोनास्तिततस्मात्सिंह इतीरितः
शं नित्यंसुखमानंदमिकारः पुरुषः स्मृतः

1.18.77

वकारः शक्तिरमृतंमेलनंशिव उच्यते
तस्मादेवंस्वमात्मानं शिवंकृत्वार्चयेच्छिवम्

1.18.78

तस्मादुद्धूलनंपूर्वं त्रिपुंड्रंधारयेत्परम्
पूजाकालेहिसजलंशुद्ध्यर्थंनिर्जलंभवेत्

1.18.79

दिवावा यदिवारात्रौनारीवाथनरोपिवा
पूजार्थंसजलंभस्मत्रिपुंड्रेणैवधारयेत्

1.18.80

त्रिपुंड्रंसजलंभस्मधृत्वापूजांकरोतियः
शिवपूजांफलंसांगंतस्यैवहिसुनिश्चितम्

1.18.81

भस्मवैशिवमंत्रेणधृत्वाह्यत्याश्रमीभवेत्
शिवाश्रमीतिसंप्रोक्तः शिवैकपरमोयतः

1.18.82

शिवव्रतैकनिष्ठस्यनाशौचंनचसूतकम्
ललाटे ऽग्रेसितंभस्मतिलकंधारयेन्मृदा

1.18.83

स्वहस्ताद्गुरुहस्ताद्वाशिवभक्तस्यलक्षणम्
गुणान्रुंध इति प्रोक्तोगुरुशब्दस्यविग्रहः

1.18.84

सविकारान्राजसादीन्गुणान्रुंधेव्यपोहति
गुणातीतः परशिवोगुरुरूपंसमाश्रितः

1.18.85

गुणत्रयंव्यपोह्याग्रेशिवंबोधयतीतिसः
विश्वस्तानांतुशिष्याणांगुरुरित्यभिधीयते

1.18.86

तस्माद्गुरुशरीरंतुगुरुलिंगंभवेद्बुधः
गुरुलिंगस्यपूजातुगुरुशुश्रूषणं भवेत्

1.18.87

श्रुतंकरोतिशुश्रूषाकायेनमनसागिरा
उक्तं यद्गुरुणापूर्वं शक्यंवा ऽशक्यमेववा

1.18.88

करोत्येवहिपूतात्माप्राणैरपिधनैरपि
तस्माद्वैशासनेयोग्यः शिष्य इत्यभिधीयते

1.18.89

शरीराद्यर्थकंसर्वंगुरोर्दत्त्वासुशिष्यकः
अग्रपाकंनिवेद्याग्रेभुंजीयाद्गुर्वनुज्ञया

1.18.90

शिष्यःपुत्र इति प्रोक्तः सदाशिष्यत्वयोगतः
जिह्वालिंगान्मंत्रशुक्रंकर्णयोनौनिषिच्यवै

1.18.91

जातःपुत्रोमंत्रपुत्रःपितरंपूजयेद्गुरुम्
निमज्जयतिपुत्रंवैसंसारेजनकःपिता

1.18.92

संतारयतिसंसाराद्गुरुर्वैबोधकः पिता
उभयोरंतरंज्ञात्वापितरंगुरुमर्चयेत्

1.18.93

अंगशुश्रूषयाचापि धनाद्यैः स्वार्जितैर्गुरुम्
पादादिकेशपर्यंतंलिंगान्यंगानियद्गुरोः

1.18.94

धनरूपैः पादुकाद्यैः पादसंग्रणादिभिः
स्नानाभिषेकनैवेद्यैर्भोजनैश्चप्रपूजयेत्

1.18.95

गुरुपूजैवपूजास्याच्छिवस्यपरमात्मनः
गुरुशेषंतुयत्सर्वमात्मशुद्धिकरंभवेत्

1.18.96

गुरोःशेषःशिवोच्छिष्टंजलमन्नादिनिर्मितम्
शिष्याणांशिवभक्तानांग्राह्यंभोज्यंभवेद्द्विजाः

1.18.97

गुर्वनुज्ञाविरहितंचोरवत्सकलंभवेत्
गुरोरपिविशेषज्ञंयत्नाद्गृह्णीतवैगुरुम्

1.18.98

अज्ञानमोचनंसाध्यंविशेषज्ञोहिमोचकः
आदौचविघ्नशमनंकर्तव्यंकर्मपूर्तये

1.18.99

निर्विघ्नेनकृतंसांगंकर्मवैसफलं भवेत्
तस्मात्सकलकर्मादौविघ्नेशं पूजयेद् बुधः

1.18.100

सर्वबाधानिवृत्त्यर्थंसर्वान्देवान्यजेद्बुधः
ज्वरादिग्रंथिरोगाश्चबाधाह्याध्यात्मिकामता

1.18.101

पिशाचजंबुकादीनांवल्मीकाद्युद्भवेतथा
अकस्मादेवगोधादिजंतूनांपतनेपिच

1.18.102

गृहेकच्छपसर्पस्त्रीदुर्जनादर्शनेपिच
वृक्षनारीगवादीनांप्रसूतिविषयेपिच

1.18.103

भाविदुःखंसमायातितस्मात्तेभौतिकामता
अमेध्या शनिपातश्चमहामारीतथैवच

1.18.104

ज्वरमारीविषूचिश्चगोमारीचमसूरिका
जन्मर्क्षग्रहसंक्रांतिग्रहयोगास्वराशिके

1.18.105

दुःस्वप्नदर्शनाद्याश्चमतावैह्यधिदैविकाः
शवचांडालपतितस्पर्शाद्येंतर्गृहेगते

1.18.106

एतादृशेसमुत्पन्नेभाविदुःखस्यसूचके
शांतियज्ञंतुमतिमान्कुर्यात्तद्दोषशांतये

1.18.107

देवालये ऽथगोष्ठेवाचैत्येवापिगृहांगणे
प्रादेशोन्नतधिष्ण्येवैद्विहस्तेयस्वलंकृते

1.18.108

भारमात्रव्रीहिधान्यंप्रस्थाप्यपरिसृत्यच
मध्येविलिख्यकमलंतथादिक्षुविलिख्यवै

1.18.109

तंतुनावेष्टितंकुंभं नवगुग्गुलधूपितम्
मध्येस्थाप्यमहाकुंभंतथादिक्ष्वपिविन्यसेत्

1.18.110

सनालाम्रककूर्चादीन्कलशांश्च तथाष्टसु
पूरयेन्मंत्रपूतेनपञ्चद्रव्ययुतेनहि

1.18.111

प्रक्षिपेन्नवरत्नानिनीलादीन्क्रमशस्तथा
कर्मज्ञंचसपत्नीकमाचार्यंवरयेद्बुधः

1.18.112

सुवर्णप्रतिमां विष्णोरिंद्रादीनांच निक्षिपेत्
सशिरस्केमध्यकुंभेविष्णुमाबाह्यपूजयेत्

1.18.113

प्रागादिषुयथामंत्रमिंद्रादीन्क्रमशोयजेत्
तत्तन्नाम्नाचतुर्थ्यांचनमोन्ते नयथाक्रमम्

1.18.114

आवाहनादिकंसर्वमाचार्येणैवकारयेत्
आचार्य ऋत्विजा सार्धं तन्मात्रान्प्रजपेच्छतम्

1.18.115

कुंभस्य पश्चिमे भागेजपांतेहोममाचरेत्
कोटिंलक्षंसहस्रंवाशतमष्टोत्तरं बुधाः

1.18.116

एकाहंवानवाहंवातथामंडलमेव वा
यथायोग्यंप्रकुर्वीतकालदेशानुसारतः

1.18.117

शमीहोमश्च शांत्यर्थे वृत्त्यर्थेचपलाशकम्
समिदन्नाज्यकैर्द्रव्यैर्नाम्नामंत्रेण वा हुनेत्

1.18.118

प्रारंभेयत्कृतंद्रव्यंतत्क्रियांतंसमाचरेत्
पुण्याहंवाचयित्वांते दिनेसंप्रोक्ष्ययेज्जलैः

1.18.119

ब्राह्मणान्भोजयेत्पश्चाद्यावदाहुतिसंख्यया
आचार्यश्चहविष्याशीत्विजश्चभवेद्बुधाः

1.18.120

आदित्यादीन्ग्रहानिष्ट्वासर्वहोमांत एवहि
ऋत्विभ्योदक्षिणांदद्यान्नवरत्नंयथा क्रमम्

1.18.121

दशदानंततःकुर्याद्भूरिदानंततः परम्
बालानामुपनीतानांगृहिणांवनिनांधनम्

1.18.122

कन्यानांचसभर्त्ःणांविधवानांततःपरम्
तंत्रोपकरणंसर्वमाचार्यायनिवेदयेत्

1.18.123

उत्पातानांचमारीणांदुःखस्वामीयमःस्मृतः
तस्माद्यमस्यप्रीत्यर्थंकालदानंप्रदापयेत्

1.18.124

शतनिष्केण वा कुर्याद्दशनिष्केण वा पुनः
पाशांकुशधरं कालं कुर्यात्पुरुषरूपिणम्

1.18.125

तत्स्वर्णप्रतिमादानंकुर्याद्दक्षिणयासह
तिलदानंततःकुर्यात्पूर्णायुष्यप्रसिद्धये

1.18.126

आज्यावेक्षणदानंचकुर्याद्व्याधिनिवृत्तये
सहस्रंभोजयेद्विप्रान्दरिद्रःशतमेववा

1.18.127

वित्ताभावेदरिद्रस्तुयथाशक्तिसमाचरेत्
भैरवस्यमहापूजांकुर्याद्भूतादिशांतये

1.18.128

महाभिषेकंनैवेद्यंशिवस्यान्तेतुकारयेत्
ब्राह्मणान्भोजयेत्पश्चाद्भूरिभोजनरूपतः

1.18.129

एवंकृतेनयज्ञेनदोषशांतिमवाप्नुयात्
शांतियज्ञमिमंकुर्याद्वर्षेवर्षेतुफाल्गुने

1.18.130

दुर्दर्शनादौ सद्यो वै मासमात्रेसमाचरेत्
महापापादिसंप्राप्तौ कुर्याद्भैरवपूजनम्

1.18.131

महाव्याधिसमुत्पत्तौसंकल्पंपुनराचरेत्
सर्वभावे दरिद्रस्तु दीपदानमथाचरेत्

1.18.132

तदप्यशक्तः स्नात्वावैयत्किंचिद्दानमाचरेत्
दिवाकरंनमस्कुर्यान्मन्त्रेणाष्टोत्तरंशतम्

1.18.133

सहस्रमयुतंलक्षंकोटिंवाकारयेद् बुधः
नमस्कारात्मयज्ञेन तुष्टाः स्युः सर्वदेवताः

1.18.134

त्वत्स्वरूपेर्पिताबुद्धिर्नते ऽशून्ये च रोचति
या चास्त्यस्मदहंतेति त्वयिदृष्टे विवर्जिता

1.18.135

नम्रो ऽहंहिस्वदेहेनभोमहांस्त्वमसिप्रभो
नशून्योमत्स्वरूपोवैतवदासो ऽस्मिसांप्रतम्

1.18.136

यथायोग्यंस्वात्मयज्ञंनमस्कारंप्रकल्पयेत्
अथात्रशिवनैवेद्यंदत्त्वातांबूलमाहरेत्

1.18.137

शिवप्रदक्षिणंकुर्यात्स्वयमष्टोत्तरं शतम्
सहस्रमयुतंलक्षं कोटिमन्येन कारयेत्

1.18.138

शिवप्रदक्षिणात्सर्वंपातकंनश्यतिक्षणात्
दुःखस्यमूलंव्याधिर्हिव्याधेर्मूलंहिपातकम्

1.18.139

धर्मेणैवहिपापानामपनोदनमीरितम्
शिवोद्देशकृतोधर्मःक्षमःपापविनोदने

1.18.140

अध्यक्षं शिवधर्मेषु प्रदक्षिणमितीरितम्
क्रियया जपरूपंहिप्रणवंतुप्रदक्षिणम्

1.18.141

जननंमरणंद्वंद्वंमायाचक्रमितीरितम्
शिवस्यमायाचक्रंहिबलिपीठंतदुच्यते

1.18.142

बलिपीठंसमारभ्यप्रादक्षिण्यक्रमेणवै
पदेपदांतरंगत्वाबलिपीठं समाविशेत्

1.18.143

नमस्कारंततः कुर्यात्प्रदक्षिणमितीरितम्
निर्गमाज्जननंप्राप्तंनमस्त्वात्मसमर्पणम्

1.18.144

जननं मरणं द्वंद्वं शिवमायासमर्पितम्
शिवमायार्पितद्वंद्वो न पुनस्त्वात्मभाग्भवेत्

1.18.145

यावद्देहंक्रियाधीनःसजीवोबद्ध उच्यते
देहत्रयवशीकारेमोक्ष इत्युच्यते बुधैः

1.18.146

मायाचक्रप्रणेताहिशिवः परमकारणम्
शिवमायार्पितद्वंद्वंशिवस्तुपरिमार्जति

1.18.147

शिवेनकल्पितंद्वंद्वंतस्मिन्नेव समर्पयेत्
शिवस्यातिप्रियंविद्यात्प्रदक्षिणंनमोबुधाः

1.18.148

प्रदक्षिणनमस्काराः शिवस्यपरमात्मनः
षोडशैरुपचारैश्चकृतपूजाफलप्रदा

1.18.149

प्रदक्षिणा ऽविनाश्यंहि पातकंनास्ति भूतले
तस्मात्प्रदक्षिणेनैवसर्वपापंविनाशयेत्

1.18.150

शिवपूजापरोमौनीसत्यादिगुणसंयुतः
क्रियातपोजपज्ञानध्यानेष्वेकैकमाचरेत्

1.18.151

ऐश्वर्यंदिव्यदेहश्चज्ञानमज्ञानसंशयः
शिवसान्निध्यमित्येतेक्रियादीनांफलंभवेत्

1.18.152

करणेनफलंयातितमसः परिहापनात्
जन्मनःपरिमार्जित्वाज्ज्ञबुद्ध्याजनितानिच

1.18.153

यथादेशं यथाकालं यथादेहं यथाधनम्
यथायोग्यंप्रकुर्वीत क्रियादीञ्छिवभक्तिमान्

1.18.154

न्यायार्जितसुवित्तेनवसेत्प्राज्ञः शिवस्थले
जीवहिंसादिरहितमतिक्लेशविवर्जितम्

1.18.155

पञ्चाक्षरेणजप्तंचतोयमन्नंविदुः सुखम्
अथवा ऽहुर्दरिद्रस्यभिक्षान्नंज्ञानदंभवेत्

1.18.156

शिवभक्तस्यभिक्षान्नंशिवभक्तिविवर्धनम्
शंभुसत्रमितिप्राहुर्भिक्षान्नंशिवयोगिनः

1.18.157

येनकेनाप्युपायेनयत्रकुत्रापिभूतले
शुद्धान्नभुक्सदामौनीरहस्यं न प्रकाशयेत्

1.18.158

प्रकाशयेत्तुभक्तानांशिवमाहात्म्यमेवहि
रहस्यंशिवमंत्रस्यशिवोजानातिनापरः

1.18.159

शिवभक्तोवसेन्नित्यंशिवलिंगंसमाश्रितः
स्थाणुलिंगाश्रयेणैवस्थाणुर्भवतिभूसुराः

1.18.160

पूजयाचरलिंगस्यक्रमान्मुक्तोभवेद्ध्रुवम्
सर्वमुक्तंसमासेनसाध्यसाधनमुत्तमम्

1.18.161

व्यासेनयत्पुराप्रोक्तंयच्छ्रुतंहिमयापुरा
भद्रमस्तुहिवो ऽस्माकं शिवभक्तिर्दृढा ऽस्तुसा

1.18.162

य इमंपठते ऽध्यायं यः शृणोति नरः सदा
शिवज्ञानंसलभतेशिवस्यकृपयाबुधाः

मूल पाठ: Śivapurāṇa, Books 1 and 7 · Edition: Venkatesvara Steam Press, Bombay (c. 1920) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc