भाषा

ENहिગુ
ग्रंथ पाठ

शिवपूजास्तव · श्लोक 21-40

21

श्वेतासृक्कृष्णपीतस्फटिकशशिसुवर्णारुणाल्यग्निवर्णैर् ब्रह्माङ्गैर्व्यक्तमूर्तिर्भवहरशिवसंयोगतः स्फाटिकाभः
ऐक्यान्मन्त्रार्थयोरित्यखिलशिवमतेष्वाहसर्वार्थहेतुर् वक्त्राणां वर्णभेदश्चिदचिदधिपतेश्चित्रमेतत्स्वरूपम् ॥

22

ईशानेन वियन्मयेन धवलप्रख्येन सर्वप्रभोर् व्याप्तं वक्त्रचतुष्टयं पुरुषहृद्गुह्याजमन्त्रात्मकम्
तेनेदं धवलप्रभं शिवविदः पूर्वादिकाष्ठाभृतां वर्णानुग्रहहेतुतः प्रतिमुखं पीतादिवर्णं विदुः ॥

23

ईशतत्पुरुषाघोर वामाजवदनं शिवम्
बालयौवनवृद्धस्त्री नराकारं नमाम्यहम् ॥

24

त्रिशूलखट्वाङ्गधरः सशक्तिर् वराब्जहस्तो ऽभयपाणिरीशः
सेन्दीवराहिर्डमरुप्रसक्तः सबीजपूरः सुभगो ऽक्षसूत्री ॥

25

बोधानन्दमयी विभोर्भवभयप्रध्वंसकृच्छक्तयस् तिस्रस्ताः परिणामतश्च विवृतिर्निःशेषबीजस्य हि
तपूर्णं प्रकृतिः कलाद्यभिमुखी दीर्घाक्षसूत्रं मनः शम्भोरस्त्रनिकाय आगमपरैर्ज्ञेयः परो नापरः ॥

26*

ईशानं सर्वासां विद्यानामीश्वरं च भूतानाम् ।
ब्रह्माधिपतिं ब्रह्मत्वान्निष्कलरूपं सदाशिवं नौमि ॥

27*

तत्पुरुषं भक्तानां शैवज्ञानप्रदं महदेवम् ।
रुद्रं शिवत्वसिद्ध्यै तत्त्वप्रेरकमहं वन्दे ॥

28*

अथ घोरमघोरं पशुपाशनिराकरणं घोरघोरतरम् ।
सर्वस्माच्छरणमहं शर्वं बहुरूपिणं वन्दे ॥

29*

वामं ज्येष्ठं रौद्रं कलविकरणं बलविकरणं कान्तम् ।
बलप्रमथनं सर्वभूतदमनं मनोन्मनमहं वन्दे ॥

30*

सद्योजातं सर्वज्ञं प्रणतानां भवभयापहरम् ।
अतिभवयोजकममलं भवोद्भवं नौमि जगदधिपम् ॥

31

श्रीमन्मूलमनूत्थनादशिखया ब्रह्मादिसादाशिव स्थानत्यागगतिक्रमोर्ध्वविलसद्व्योमान्तसंस्थाय ते
बोधानन्दमयाय सर्वविभवे नित्याय विश्वात्मने शुद्धायामलतेजसे च महते तस्मै परस्मै नमः ॥

32

चन्द्रयुग्मगुणार्थमात्रतदर्धतद्दलषोडश द्व्युत्तरत्रिदशाब्धिषष्टिभुजङ्गमश्रवणक्षमा
दर्शनेषुकरांशभावमितोन्मनी परमासनं यस्य तं प्रणतो ऽस्मि निष्कलमव्ययं परमं शिवम् ॥

33

आदिपञ्चममृत्युभूषणचन्द्रखण्डगुणाश्रदृग् भानुगध्वनिसीरभास्करसेन्दुवृत्तहलाकृतिः
सांशुमत्त्रिशिखद्विबिम्बगतद्विकुब्जग उन्मना पातु वः सकलापरः सकलाकलः सकलः शिवः ॥

34

निष्कलं शिवरुद्रपुद्गलभूषणार्धहिमांशुमद् रोधिदण्डतदन्तशक्तिचतुष्टयेश्वरयोगिनम्
शङ्करं वसुसागराङ्गुलचारिणं रसशून्यगं सर्वमन्त्रपतिं प्रासादमहं नतो ऽस्मि षडध्वगम् ॥

35*

चिद्व्यक्तिसंस्थित्यवलोकरोधैर् मुद्रोत्तरैरङ्गशिवैकभावैः ।
पादाचमार्घ्यप्रसवप्रदानैस् त्वदर्चनं जन्मफलं महेश ॥

36*

आवाहनं स्वात्मनि चित्प्रकाशस् तत्र स्थितिः स्थापनमीश्वरस्य ।
सान्निध्यमात्मेश्वरसन्निधानं संरोधनं स्वस्य शिवे निरोधः ॥

37*

नमो ऽस्तु संज्ञानहृदे भवाय नमो गुणैश्वर्यविशिष्टमूर्तये ।
नमो ऽपराधीनवशित्वरूपशिखाय तेजःकवचात्मने नमः ॥

38*

नमः पशूनां मलकृतनक्षमासहप्रतापास्त्रधराय शूलिने ।
नमो ऽविकाराय षडङ्गमूर्तये सदाशिवायामृतरूपिणे नमः ॥

39*

स्वभावशुद्धस्य शिवस्य पादमाचाममात्मीयविशुद्धिहेतोः ।
अर्घ्यप्रदानं कुसुमार्पणं च सदेशधामाप्तिनिमित्तमेतत् ॥

40

स्नानं स्वात्ममलापहं शुभमयैर्गन्धैः समालेपनं सद्वस्त्राभरणं सुगन्धिकुसुमैर्मालाभिरभ्यर्चनम्
सालङ्कारसदाशिवस्य विधिवद्धूपप्रदानं त्वणोर् भोगार्थं हि सदेशधाम्नि विमलं दीपं शिवज्ञानदम् ॥

मूल पाठ: Śivapūjāstava · Edition: K.M. Subrahmanyasastri: Śivapūjāstavaḥ savyākhyaḥ Jñānaśambhuśivācāryapraṇītaḥ. Devakottai 1935 · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc