भाषा

ENहिગુ
ग्रंथ पाठ

शिवपूजास्तव · श्लोक 41-47

41

शुचीशरक्तपानिलेन्द्रमृत्युकेन्दुसंस्थितान् पयोधरार्कवातवह्निसन्निभानिनेक्षणान्
युगाननान्वराभयत्रिशूलशक्तियुक्करान् नमः शिवाङ्गसम्भवान्हृदादिमन्त्रविग्रहान् ॥

42

भोगाङ्गार्चनमात्मनः शिवगुणप्राप्त्यर्थमैक्यं प्रभोर् अङ्गानां पुनरर्चकस्य शिवसंयोगाय शुद्धात्मनः
तृप्तस्यान्ननिवेदनाम्बुमुखवासादिप्रदानं मनस् तृप्त्यर्थं शिवभावमङ्गलकरं चित्रं तत्रार्चाफलम् ॥

43

पवित्रभूतस्य पवित्रदानं तापत्रयघ्नं सकलार्थसिद्ध्यै
जपश्च भक्त्या प्रणतिः शिवस्य ब्रह्मेन्द्रविष्ण्वादिपदत्वहेतुः ॥

44

अर्चने सकलं जपे सकलाकलं सततोदितं निष्कलं सकलाध्वगं परिपूर्णमात्मसमर्पणे
व्योम्नि सुस्फटिकप्रभं भवने कलासहितं हरं यो हि वेत्ति परं शिवं शिव एव सो ऽस्त्र न संशयः ॥

45

भूयः पूजनमीशसन्निधिकरं सम्प्रार्थनं स्वेशयोर् अन्योन्यं त्ववलोकनाय भुवने भोगाय सादाशिवे
ईशाग्न्यर्चनमर्पणं क्षपयितुं बन्धत्रयं कर्मणो ज्ञेयं स्वात्मनिवेदनं परशिवे स्थित्यर्थमेवात्मनः ॥

46

अशुद्धतत्त्वौघबहिष्क्रियार्थं पराङ्मुखार्घ्यं परमेश्वरस्य
यस्मिन्नवस्थानकरं विसर्गं कुर्वन्स शैवं पदमभ्युपेति ॥

47

विप्रोत्तुङ्गश्चोलदेशी च सूरिः शम्भोः पूजास्तोत्रमेतत्पवित्रम्
सिद्धान्तज्ञो ज्ञानशम्भुः शिवोक्त्या चक्रे भक्त्या भुक्तये मुक्तये च ॥

मूल पाठ: Śivapūjāstava · Edition: K.M. Subrahmanyasastri: Śivapūjāstavaḥ savyākhyaḥ Jñānaśambhuśivācāryapraṇītaḥ. Devakottai 1935 · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc