भाषा

ENहिગુ
ग्रंथ पाठ

शिवपूजास्तव · श्लोक 1-20

1

प्रातः शङ्करचिन्तनस्नपनसंसेकासुसंरोधनैः सन्ध्यासंस्मृतिमार्जनाघशमनोपस्थानसन्तर्पणैः
द्वारस्यार्चनयागधामगतविघ्नोद्वासनाद्यैः प्रभोर् यः श्रीमान्यजनं करोति भवतस्तस्यैव सिद्धिद्वयम् ॥

2

एकैवार्थत ईशशक्तिरमिता यानेकरूपा शिवा कालोपाधिवशाद्द्विजास्त्वनुदिनं ब्राह्म्यादिरूपेण ताम्
ध्यायन्त्यत्र तु निर्मलात्मशिवयोः सन्धिश्च शैवी पुरा सन्ध्यातः शिव एव साधकवरैर्ध्येयः सदा निर्मलः ॥

3

प्रातः स्मरामि हृदयाब्जस्वमध्यसंस्थं चन्द्रार्कमार्गविरहोदितचित्स्वरूपम्
ध्येयं सदा मुनिवरैरपवर्गसिद्ध्यै विश्वात्मकं सदसदन्तमनन्तमीशम् ॥

4

मध्यन्दिने शतसहस्रनिशाकराभं विश्वेश्वरं परमकारणमप्रमेयम्
शम्भुं सदोदितममायवियत्स्वरूपं कोदण्डमध्यनिलयं नियतं स्मरामि ॥

5

ब्रह्माक्षरं निशिमुखे ऽमृतसागराभं विश्वाधिपं शिवमनूत्थितनादसंस्थम्
बोधामृतं करणकारणकार्यहीनं तं ब्रह्मरन्ध्रनिलयं नियतं स्मरामि ॥

6

तेजोनिधानमचलं शिवमर्धरात्रे नित्यं निरस्तविषयैः परमार्थदृग्भिः
विज्ञेयमव्ययमचिन्त्यमभावनीयम् उन्मन्यतीतविषयं सततं स्मरामि ॥

7

क्ष्मादिग्रन्थ्यन्ततत्त्वक्रमनिहितपदाक्रान्तसंशुद्धविद्या तत्त्वान्तव्यापिसादाशिवविशदपदं भावयन्नात्मरूपम्
शैवज्ञानप्रसिद्धप्रवरविधिगताशेषसत्कृत्यकारी जीवं हृद्येव कुर्याद्रविशशिदहनव्योमशक्त्यन्तरस्थम् ॥

8

आयामैः श्वनस्य भौतिकमलं देहं कलाभिः सुधीर् यः पञ्चाध्वविसर्पिणीभिरनिशं संशोध्य तच्छम्बरैः
मन्त्रालङ्कृतदेहभृन्निशि दिवा सन्ध्यासु सन्तोषयन्न् अर्चाहोमसमाधिभिः शिवमसौ संयाति शैवं पदम् ॥

9

य एष देवो महतो महीयान् अणोरणीयान्भवभीरुभिः सः
ज्ञेयः शिवः सर्वगतः शरीरे ध्येयः स पूज्यः शिवलिङ्गमध्ये ॥

10

हृत्पद्माख्यशिवालये मनसिजे तत्कर्णिकाख्ये क्रियापीठे ज्ञानमयं विशुद्धमनसा संस्थाप्य नादात्मना
लिङ्गं तच्च सुधामयेन पयसा संस्नाप्य सम्यक्पुनो वैराग्येण च चन्दनेन वसुभिः पुष्पैरहिंसादिभिः ॥

11

प्राणायामभवेन धूपविधिना चिद्दीपदानेन यः प्रत्याहारमयेन सोमहविषा सौषुम्नजापेन च
तच्चित्ते बहुधारणाभिरमलध्यानोद्भवैर्भूषणैस् तत्साम्याणिनिवेदनेन यजते धन्यः स एवामलः ॥

12

चन्द्रस्राविसुधामयेन हविषा नाभिस्थकुण्डे ऽनलं सन्तर्प्येशमयं शिवास्पदगतव्योम्नि स्थिते सर्वगे
कन्दोद्भूतशिवाणुनादशिखया वृत्त्यात्मसंवेदनं शैवे ज्योतिषि यः करोति पुरुषो मुक्तः स एवाक्षयः ॥

13

यथावदात्माश्रयवस्तुमन्त्र स्वायत्तलिङ्गादिषु शोधितेषु
सिद्धान्तमार्गस्थितसाधकानां त्वत्पूजनं नात्र विलोमतो ऽस्तु ॥

14

धारिकाभिधशक्तिबीजमनन्तपङ्कजकुड्मलं पुण्यबोधविरागभूतिपदं विलोमचतुष्टयम्
गात्रकं छदनद्वयं कमलं सकेसरकर्णिकं शक्तिमण्डलसङ्घयुक्तमहं नमामि शिवासनम् ॥

15

पृथ्वीकन्दं कालतत्त्वान्तनालं लोकौघं तत्कण्टकं भावसूत्रम्
ग्रन्थिग्रन्थिं शुद्धविद्यासरोजं विद्येशानारूढपत्राष्टकं च ॥

16

वामादिशक्तिगतकेसरकर्णिकाढ्यम् अर्कादिबिम्बसहितं वरयोगपीठम्
तत्र स्थितं हृदयमन्त्रगतात्ममन्त्र मूर्तिं च बिन्दुगतमीशमहं नमामि ॥

17*

तत्कन्दं शतकोटियोजनमितं नालं परार्धान्तकं ग्रन्थिः कोटिपरार्धपश्चिमसहस्रो ऽब्जं च तल्लक्षकम् ।
मूर्तिस्तस्य च कोटिरीश्वरमयी तस्यार्बुदस्यार्बुदाम्भोजं मन्त्रमयं सदाशिववपुस्तद्वानमेयः शिवः ॥

18

यस्यामौषधभूषणध्वनिमयी मूर्तिः परा बैन्दवी ध्येया शङ्करमन्त्रतन्त्रनिरतैर्ज्ञानक्रियाङ्गी शिवा
सर्वैश्वर्यसुखप्रदा निरुपमा सादाशिवी निर्मला नादाख्याय सदाशिवाय महते शान्ताय तस्मै नमः ॥

19

ध्येयः सदा गगनमण्डलमध्यवर्ती निर्विघ्नशुद्धशिवयोगिहृदम्बुजस्थः
ईशोर्ध्वनिष्कलशिवान्तवपुः सदेशो बिन्दुः स्वरोद्भवकलाभुवनेशगर्भः ॥

20

यो ऽसावीशानमूर्धा नरमुखकमलो ऽघोरहृद्वामगुह्यः सद्योमूर्तिः पुरेशाननहृदयपदः षड्विधाध्वस्वरूपः
भूताम्भोराशिसिद्धिस्मरभुजगकलाकॢप्तदेहः क्रियेच्छा दृङ्मासार्धाम्बकं तं कबिलगतमहं नौमि विद्याशरीरम् ॥

मूल पाठ: Śivapūjāstava · Edition: K.M. Subrahmanyasastri: Śivapūjāstavaḥ savyākhyaḥ Jñānaśambhuśivācāryapraṇītaḥ. Devakottai 1935 · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc