भाषा

ENहिગુ
ग्रंथ पाठ

शिवमहिम्नस्तव · श्लोक 21-9

21

क्रियादक्षो दक्षः क्रतुपतिर् अधीशस् तनुभृताम् ऋषीणाम् आर्त्विज्यं शरणद सदस्याः सुरगणाः ।
क्रतुभ्रंशस् त्वत्तः क्रतुफलविधानव्यसनिनो ध्रुवं कर्तुः श्रद्धाविधुरम् अभिचाराय हि मखाः ॥

22

प्रजानाथं प्रसभम् अभिकं स्वां दुहितरं गतं रोहिद्भूतां रिरमयिषुम् ऋश्यस्य वपुषा ।
धनुष्पाणेर् यातं दिवम् अपि सपत्राकृतम् अमुं त्रसन्तं ते ऽद्यापि त्यजति न मृगव्याधरभसः ॥

23

स्वलावण्याशंसाधृतधनुषम् अह्नाय तृणवत् पुरः प्लुष्टं दृष्ट्वा पुरमथन पुष्पायुधम् अपि ।
यदि स्त्रैणं यमनिरत देहार्धघटनाद् अवैति त्वाम् अद्धा बत वरद मुग्धा युवतयः ॥

24

श्मशानेष्व् आक्रीडा स्मरहर पिशाचाः सहचराश् चिताभस्मालेपः स्रग् अपि नृकरोटीपरिकरः ।
अमाङ्गल्यं शीलं तव भवतु नामैवम् अखिलं तथापि स्मर्त्.र्णां वरद परमं मङ्गलम् असि ॥

25

मनः प्रत्यक्चित्ते सविधम् अवधायात्तमरुतः प्रहृष्यद्रोमाणः प्रमदसलिलोत्सङ्गितदृशः ।
यद् आलोक्याह्लादं ह्रद इव निमज्यामृतमये दधत्य् अन्तस् तत्त्वं किम् अपि यमिनस् तत् किल भवान् ॥

26

त्वम् अर्कस् त्वं सोमस् त्वम् असि पवनस् त्वं हुतवहस् त्वम् आपस् त्वं व्योम त्वम् उ धरणिर् आत्मा त्वम् इति च ।
परिच्छिन्नाम् एवं त्वयि परिणता बिभ्रति गिरं न विद्मस् तत् तत्त्वं वयम् इह तु यत् त्वं न भवसि ॥

27

त्रयीं तिस्रो वृत्तीस् त्रिभुवनम् अथो त्रीन् अपि सुरान् नकाराद्यैर् वर्णैस् त्रिभिर् अभिदधत् तीर्णविकृति ।
तुरीयं ते धाम ध्वनिभिर् अवरुन्धानम् अणुभिः समस्तं व्यस्तं त्वां शरणद गृणातीम् इति पदम् ॥

28

भवः शर्वो रुद्रः पशुपतिर् अथोग्रः सहमहांस् तथा भीमेशानाव् इति यद् अभिधानाष्टकम् इदम् ।
अमुष्मिन् प्रत्येकं प्रविचरति देव श्रुतिर् अपि प्रियायास्मै धाम्ने प्रणिहितनमस्यो ऽस्मि भवते ॥

29

नमो नेदिष्ठाय प्रियदव दविष्ठाय च नमो नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः ।
नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमो नमः सर्वस्मै ते तद् इदम् इति सर्वाय च नमः ॥

30

बहुलरजसे विश्वोत्पत्तौ भवाय नमो नमः प्रबलतमसे तत्संहारे हराय नमो नमः ।
जनसुखकृते सत्त्वोत्पत्तौ मृदाय नमो नमः प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नमः ॥

31

कृशपरिणति चेतः क्लेशवश्यं क्व चेदं क्व च तव गुणसीमोल्लङ्घिनी शाश्वदृद्धिः ।
इति चकितम् अनन्दीकृत्य मां भक्तिर् आधाद् वरच चरणयोस् ते वाक्यपुष्पोपहारम् ॥

1

असितगिरिसमं स्यात् कज्जलं सिन्धुपात्रे सुरतरुवरशाखा लेखनी पत्रम् उर्वी ।
लिखति यदि गृहीत्वा शारदा सर्वकालं तद् अपि तव गुणानाम् ईश पारं न याति ॥

2

असुरसुरमुनीन्द्रैर् अर्चितस्येन्दुमौलेः प्रथितगुणमहिम्नो निर्गुणस्येश्वरस्य ।
सकलगुणवरिष्ठः पुष्पदन्ताभिधानो रुचिरम् अलघुवृत्तैः स्तोत्रम् एतच् चकार ॥

3

अहराहर् अनवद्यं धूर्जटे स्तोत्रम् एतत् पठति परमभक्त्या शुद्धचित्तः पुमान् यः ।
स भवति शिवलोके रुद्रतुल्यः सदात्मा प्रचुरतरधनायुः पुत्रवान् कीर्तिमांश् च ॥

4

महेशान् नापरो देवो महिम्नो नापरा स्तुतिः ।
अघोरान् नापरो मन्त्रो नास्ति तत्त्वं गुरोः परम् ॥

5

दीक्षा दानं तपस् तीर्थं ज्ञानं यागादिकाः क्रियाः ।
महिम्नस् तव पाठस्य कलां नार्हन्ति षोडशीम् ॥

6

आसमाप्तम् इदं स्तोत्रं पुण्यं गन्धर्वभाषितम् ।
अनौपम्यं मनोहारि शिवम् ईश्वरवर्णनम् ॥

7

कुसुमदशननामा सर्वगन्धर्वराजः शिशुशशधरमौलेर् देवदेवस्य दासः ।
स खलु निजमहिम्नो भ्रष्ट एवास्य रोषात् स्तवनम् इदम् अकार्षीद् दिव्यदिव्यं महिम्नः ॥

8

सुरगुरुम् अभिपूज्य स्वर्गमोक्षैकहेतुं पठति यदि मनुष्यः प्राञ्जलिर् नान्यचेताः ।
व्रजति शिवसमीपं किन्नरैः स्तूयमानः स्तवनम् इदम् अमोघं पुष्पदन्तप्रणीतम् ॥

9

श्रीपुष्पदन्तमुखपङ्कजनिर्गतेन स्तोत्रेण किल्बिषहरेण हरप्रियेण ।
कण्ठस्थितेन पठितेन गृहस्थितेन सम्प्रीणितो भवति भूतपतिर् महेशः ॥

मूल पाठ: Śivamahimnastava · Edition: : The Mahimnastava or Praise of Shiva's Greatness. Edited, translated, and presented in illustrations by W.\ Norman Brown. Poona: American Institute of Indian Studies 1965. · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc