भाषा

ENहिગુ
ग्रंथ पाठ

शिवमहिम्नस्तव · श्लोक 1-20

1

महिम्नः पारं ते परमविदुषो यद्य् असदृशी स्तुतिर् ब्रह्मादीनाम् अपि तदवसन्नास् त्वयि गिरः ।
अथावाच्यः सर्वः स्वमतिपरिणामावधि गृणन् ममाप्य् एष स्तोत्रे हर निरपवादः परिकरः ॥

2

अतीतः पन्थानं तव च महिमा वाङ्मनसयोर् अतद्व्यावृत्त्या यं चकितम् अभिधत्ते श्रुतिर् अपि ।
स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः पदे त्व् अर्वाचीने पतति न मनः कस्य न वचः ॥

3

मधुस्फीता वाचः परमम् अमृतं निर्मितवतस् तव ब्रह्मन् किं वाग् अपि सुरगुरोर् विस्मयपदम् ।
मम त्व् एतां वाणीं गुणकथनपुण्येन भवतः पुनामीत्य् अर्थे ऽस्मिन् पुरमथन बुद्धिर् व्यवसिता ॥

4

तवैश्वर्यं यत् तज् जगदुदयरक्षाप्रलयकृत् त्रयीवस्तु व्यस्तं तिसृषु गुणभिन्नासु तनुषु ।
अभव्यानाम् अस्मिन् वरद रमणीयाम् अरमणीं विहन्तुं व्याक्रोशीं विदधत इहैके जडधियः ॥

5

किमीहः किंकायः स खलु किमुपायस् त्रिभुवनं किमाधारो धाता सृजति किमुपादान इति च ।
अतर्क्यैश्वर्ये त्वय्य् अनवसरदुःस्थो हतधियः कुतर्को ऽयं कांश्चिन् मुखरयति मोहाय जगतः ॥

6

अजन्मानो लोकाः किम् अवयववन्तो ऽपि जगताम् अधिष्ठातारं किं भवविधिर् अनादृत्य भवति ।
अनीशो वा कुर्याद् भुवनजनने कः परिकरो यतो मन्दास् त्वां प्रत्य् अमरवर संशेरत इमे ॥

7

त्रयी सांख्यं योगः पशुपतिमतं वैष्णवम् इति प्रभिन्ने प्रस्थाने परम् इदम् अदः पथ्यम् इति च ।
रुचीनां वैचित्र्याद् ऋजुकुटिलनानापथजुषां नृणाम् एको गम्यस् त्वम् असि पयसाम् अर्णव इव ॥

8

महोक्षः खट्वाङ्गं परशुर् अजिनं भस्म फणिनः कपालं चेतीयत् तव वरद तन्त्रोपकरणम् ।
सुरास् तां ताम् ऋद्धिं दधति तु भवद्भ्रूप्रणिहितां न हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति ॥

9

ध्रुवं कश्चित् सर्वं सकलम् अपरस् त्व् अध्रुवम् इदं परो ध्रौव्याध्रौव्ये जगति गदति व्यस्तविषये ।
समस्ते ऽप्य् एतस्मिन् पुरमथन तैर् विस्मित इव स्तुवञ् जिह्रेमि त्वां न खलु ननु धृष्टा मुखरता ॥

10

तवैश्वर्यं यत्नाद् यद् उपरि विरिञ्चो हरिर् अधः परिच्छेत्तुं याताव् अनलम् अनलस्कन्धवपुषः ।
ततो भक्तिश्रद्धाभरगुरुगृणद्भ्यां गिरिश यत् स्वयं तस्थे ताभ्यां तव किम् अनुवृत्तिर् न फलति ॥

11

अयत्नाद् आपाद्य त्रिभुवनम् अवैरव्यतिकरं दशास्यो यद् बाहून् अभृत रणकण्डूपरवशान् ।
शिरःपद्मश्रेणीरचितचरणाम्भोरुहबलेः स्थिरायास् त्वद्भक्तेस् त्रिपुरहर विस्फूर्जितम् इदम् ॥

12

अमुष्य त्वत्सेवासमधिगतसारं भुजवनं बलात् कैलासे ऽपि त्वदधिवसतौ विक्रमयतः ।
अलभ्या पाताले ऽप्य् अलसचलिताङ्गुष्ठशिरसि प्रतिष्ठा त्वय्य् आसीद् ध्रुवम् उपचितो मुह्यति खलः ॥

13

यदृद्धिं सुत्राम्णो वरद परमोच्चैर् अपि सतीम् अधश् चक्रे बाणः परिजनविधेयत्रिभुवनः ।
न तच् चित्रं तस्मिन् वरिवसितरि त्वच्चरणयोर् न कस्या उन्नत्यै भवति शिरसस् त्वय्य् अवनतिः ॥

14

अकाण्डब्रह्माण्डक्षयचकितदेवासुरकृपा विधेयस्यासीद् यस् त्रिनयन विषं संहृतवतः ।
न कल्माषः कण्ठे तव न कुरुते न श्रियम् अहो विकारो ऽपि श्लाघ्यो भुवनन्भयभङ्गव्यसनिनः ॥

15

असिद्धार्था नैव क्वचिद् अपि सदेवासुरनरे निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः ।
स पश्यन् ईश त्वाम् इतरसुरसाधारणम् अभूत् स्मरः स्मर्तव्यात्मा न हि वशिषु पथ्यः परिभवः ॥

16

मही पादाघाताद् व्रजति सहसा संशयपदं पदं विष्णोर् भ्राम्यद्भुजपरिघरुग्णग्रहगणम् ।
मुहुर् द्यौर् दौःस्थ्यं यात्य् अनिभृतजटाताडिततटा जगद्रक्षायै त्वं नटसि ननु वामैव विभुता ॥

17

वियद्व्यापी तारागणगुणितफेनोद्गमरुचिः प्रवाहो वारां यः पृष्.अतलघुदृष्टः शिरसि ते ।
जगद् द्वीपाकारं जलधिवलयं तेन कृतम् इत्य् अनेनैवोन्नेयं धृतमहिम दिव्यं तव वपुः ॥

18

रथः क्षोणी यन्ता शतधृतिर् अगेन्द्रो धनुर् अथो रथाङ्गे चन्द्रार्कौ रथचरणपाणिः शर इति ।
दिधक्षोस् ते को ऽयं त्रिपुरतृणम् आडम्बरविधिर् विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः ॥

19

हरिस् ते साहस्रं कमलबलिम् आधाय पदयोर् यद् एकोने तस्मिन् निजम् उदहरन् नेत्रकमलम् ।
गतो भक्त्युद्रेकः परिणतिम् असौ चक्रवपुषा त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम् ॥

20

क्रतौ सुप्ते जाग्रत् त्वम् असि फलयोगे क्रतुमतां क्व कर्म प्रध्वस्तं पलति पुरुषाराधनम् ऋते ।
अतस् त्वां सम्प्रेक्ष्य त्रतुषु फलदानप्रतिभुवं श्रुतौ श्रद्धां बद्ध्वा दृढपरिकरः कर्मसु जनः ॥

मूल पाठ: Śivamahimnastava · Edition: : The Mahimnastava or Praise of Shiva's Greatness. Edited, translated, and presented in illustrations by W.\ Norman Brown. Poona: American Institute of Indian Studies 1965. · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc