भाषा

ENहिગુ
ग्रंथ पाठ

शिवमहिम्नस्तव · श्लोक 10-15

10

अपूर्वं लावण्यं विवसनतनोस् ते विमृषतां मुनीनां दाराणां समजनि स को ऽप्य् अव्यतिकरः ।
यतो भग्ने गुह्ये सकृद् अपि सपर्यां विदधतां ध्रुवं मोक्षं लीलां किम् अपि पुरुषार्थं प्रसविते ॥

11

वपुःप्रादुर्भावाद् अनुमितम् इदं जन्मनि पुरा पुरारे नैवाहं क्वचिद् अपि भवन्तं प्रणतवान् ।
नमन् मुक्तः सम्प्रत्य् अतनुर् अहम् अग्रे ऽप्य् अनतिमान् महेश क्षन्तव्यं तद् इदम् अपराधद्वयम् अपि ॥

12

इत्य् एषा वाङ्मयी पूजा श्रीमच्छंकरपादयोः ।
अर्पिता तेन देवेशः प्रीयतां मे सदाशिवः ॥

13

तव तत्त्वं न जानामि कीदृशो ऽसि महेश्वर ।
यादृशो ऽसि महादेव तादृशाय नमो नमः ॥

14

एककालं द्विकालं वा त्रिकालं यः पठेन् नरः ।
लम्बपाशविनिर्मुक्तः शिवलोकं स गच्छति ॥

15

कीर्तनेन हि रुद्रस्य पापं याति सहस्रधा ।
प्रचण्डपवनेनैव धनं जलदमण्डलम् ॥

मूल पाठ: Śivamahimnastava · Edition: : The Mahimnastava or Praise of Shiva's Greatness. Edited, translated, and presented in illustrations by W.\ Norman Brown. Poona: American Institute of Indian Studies 1965. · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc