शिशुपालवध · अध्याय 6
अथ रिरंसुममुं युगपद्गिरौ कृतयथास्वतरुप्रसवश्रिया ।
ऋतुगणेन निषेवितुमादधे भुवि पदं विपदन्तकृतं सतां
नवपलाशपलाशवनं पुरः स्फुटस्फटपरागतपङ्गजम् ।
मृदुलतान्तलतान्तमलोकयत्स सुरभिं सुमनोभरैः
विलुलितालकसंहृतिरामृशन्मृगदृशां श्रमवारि ललाटजम् ।
तनुतरङ्गततिं सरसां दलत्कुवलयं वलयन्मरुदाववौ
तुलयति स्म विलोचनतारकाः कुरबकस्तबकव्यतिषह्किणि ।
गुणवदाश्रयलब्धगुणोददये मालिनिमालिनि माधवयोषितां
स्फुटमिवोज्वलकाञ्चकान्तिभिर्युतमशोकमशोभत चम्पकैः ।
विरहिणां हृदयस्य भिदाभृतः कपिशितं पिशितं मदनाग्निना
स्मराहुताशनमुर्मुरचूर्णतां दधुरिवाम्रवनस्य रजःकणाः ।
निपातिताः परितः पथिकव्रजानुपरि ते परितेपुरतो भृशम्
रतिपतिप्रहितेव कृतक्रुधः प्रियतमेषु वधूरनुनायिका ।
बकुलपुष्परसासवपेशलध्वनिरगान्निरगात् मधुपावलिः
प्रियसखीसदृशं प्रतिबोधिताः किमपि काम्यगिरा परपुष्टया ।
प्रियतमाय वपुर्गुरुमत्सरच्छिदुरयादुरनाचिं अङ्गनाः
मधुकरैरपवादकरैरिव स्मृतिभुवः पथिकाः हरिणा इव ।
कलतया वचसः परिवादिनीस्वरजिता वशमाययुः
समभिसृत्य रसादवलम्बितः प्रमदया कुसुमावचिचीर्षया ।
अविनमन्न रराजवृथोच्चकैरनृतया नृतया वनपादपः
इदमपास्य विरागि परागीरलिकदम्बकमम्बुरुहां ततीः ।
स्तनभरेण जितस्तबकानमन्नवलते वलते ऽभिमुखं तव
सुरभिणिश्वसिते दधतस्तृषं नवसुधामधुरे च तवाधरे ।
अलमलेरिव गन्धरसावमू मम न सौमनसौ मनसो मुदे
इति गदन्तमनन्तरमङ्गना भुजयुगोन्नमनोच्चतरस्तनी ।
प्रणयिनं रभसादुदरश्रिया वलिभयादलिभयादिव सस्वजे
वदनसौरभलोभपरिभ्रमद्भ्रमरसंभ्रमसंभृतशोभया ।
चलितया विदधे कलमेखलाकलकलो ऽलकलोलदृशान्यया
अजगणन् गणशः प्रियमग्रतः प्रणतमप्यभिमानितया न याः ।
सति मधावभवन्मदनव्यथा विधुरिता धुरिताः कुकुरस्त्रियः
कुसुमकार्मुककार्मुकसंहितद्रुतशिलीमुखखण्डितविग्रहाः ।
मरणमप्यपराः प्रतिपेदिरे किमु मुहुर्मुहुर्गतभर्तृकाः
रुरुधिषा वदनाम्बुरुहश्रियः सुतनु सत्मलङ्करणाय ते ।
तदपि सम्प्रति सन्निहिते मधावधिगमं धिगमङ्गलमश्रुणः
त्यजति कष्टामसावचिरादसून् विरहवेदनयेत्यघशङ्गिभिः ।
प्रियतया गदितास्त्वयि बान्धवैरवितथा वितथाः सखि मा गिरः
न खलु दूरगतो ऽप्यधिवर्तते महमसाविति बन्धुतयोदितैः ।
प्रणयिनो निशमय्य वधूर्बहिः स्वरमृतैरमृतैरिव निर्ववौ
मधुरया मधुबोधितमाधवीमधुसमृद्धिसमेधितमेधया ।
मधुकराङ्गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुज्जगे
अरुणिताखिशैलवना मुहुर्विदधती पथिकान् परितापिनः ।
विकचकिंशुकसंहतिरुच्चकैरुदवहद्दवहव्यवहश्रियम्
रवितुरङ्गतनूरुहतुल्यतां दधति यत्र शिरीषरजोरुचः ।
उपययौ विदधन्नवमल्लिकाः शुचिरसौ चिरसौरभसंपदः
दलितकोमलपाटलकुड्मले निजवधूश्वसितानुविधायिनि ।
मरुति वाति विलासिभिरुन्मदभ्रमदलौ मदलौल्यमुपाददे
निदधिरे दयितोरसि तत्क्षणस्पनवारितुषारभृतः स्तनाः ।
सरसचन्दनरेणुरनुक्षणं विचकरे च करेण वरोरुभिः
स्फुरदधीरतडिन्नयना मुहुः प्रियमिवागलितोरुपयोधरा ।
जलधरावलिरप्रतिपालितस्वसमया समयाञ्जगतीधरम्
गजकदम्बकमेचकमुच्चकैर्नभसि वीक्ष्य नवाम्बुदमम्बरे ।
अभिससार न वल्लभमङ्गना न चकमे च कमेकरसं रहः
अनुययौ विविधोपलकुण्डलद्युतिवितानकसंवलितांशुकम् ।
धुततनुर्वलयस्य पयोमुचः शबलिमा बलिमानमुषो वपुः
द्रुतसमीरचलैः क्षणलक्षितव्यवहिता विटपैरिव मञ्जरी ।
नततमालनिभस्य नभस्तरोरचिररोचिररोचत वारिदैः
पटलमम्बुमुचां पथिकाङ्गना सपदि जीवितसंशयमेष्यती ।
सनयनाम्बुसखीजन संभ्रमाद्विधुरबन्धुरबन्धुरमैक्षत
प्रवसतः सुतरामुदकम्पयद्विलकन्दलकम्पनलालितः ।
नमयति स्म वनानि मनस्विनीजननमनो घनमारुतः
जलदपङ्क्तिरनर्तयदुन्मदंकलविलापि कलापिकदम्बकम् ।
कृतसमार्जनमर्दलमण्डलध्वनिजया निजया स्वनसंपदा
नवकदम्बजो ऽरुणिताम्बरैरधिपुरन्ध्रि शिलीन्ध्रसुगन्धिभिः ।
मनसि रागवतामनुरागिता नवनवा वनवायुभिरादधे
शमिततापमपोढमहीरजः प्रथमबिन्दुभिरम्बुमुचो ऽम्भसां ।
प्रविरलैरचलाङ्गनमङ्गनाजनसुगं न सुगन्धि न चक्रिरे
द्विरदवलक्षमलक्ष्यत स्फुरितभृङ्गमृच्छवि केतकम् ।
घनघनौघविघट्टनया दिवः कृशसिखं शशिखण्डमिव च्युतम्
दलितमौक्तिकचूर्णविपाण्डवः स्फुरितनिर्झरशीकरचारवः ।
कुटजपुष्पपरागकणाः स्फुटं विदधिरे दधिरेणुविडम्बनाम्
नवपयःकणकोमलमालतीकुसुमसंततिसंततसङ्गिभिः ।
प्रचलितोडुनिभैः परिपाण्डिमाः शुभरजोभरजो ऽलिभिराददे
निजरजः पटवासमिवाकिरद्धृतपटोपमवारिमुचां दिशां ।
प्रियवियुक्तवधूजनचेतसामनवनी नवनीपवनावलिः
प्रणयकोपभृतो ऽपि पराङ्मुखाः सपदि वारिधरारवभीरवः ।
प्रणयिनः परिरब्धुमथाङ्गना ववलिरे वलिरेचितमध्यमाः
विगतरागगुणो ऽपि जनो न कश्चलति वाति पयोदनभस्वति ।
अभिहिते ऽलिभिरेवमिवोच्चकैरननृते ननृते नवपल्लवैः
अरमयन् भवनादचिरद्युतेः किल भयादमपयातुमनिच्छवः ।
यदुनरेन्द्रगणं तरुणागणास्तमथ मन्मथमन्थरभाषिणः
ददतमन्तरिताहिमदीधितिं खगकुलाय कुलायनिलायिताम् ।
जलदकालमबोधकृतं दिशामपराथाप रथवयवायुधः
स विकचोत्पलचक्षुषमैक्षत क्षितिभृतो ऽङगगतां दयितामिव ।
शरदमच्छगलद्वसनोपमाक्षमधनामघनाशनकीर्तनः
जगति नैशमशीतकरः करैर्वियति वारिदवृन्दमयं तमः ।
जलजराजिषु नैन्द्रमदिद्रवन्न महतामहताः क्व च नारयः
समय एव करोति बलाबलं प्रणिगतवन्त इतीव शरीरिणाम् ।
शरदि हंसरवाः परुषीकृतस्वरमयूरमयू रमणीयताम्
तनुरुहाणि पुरो विजितध्वनेर्धवलपक्षविहङ्गमकूजितैः ।
जगलुरक्षमयेव शिखण्डिनः परिभवो ऽरिभवो हि सुदुःसहः
अनुवनं वनराजिवधूमुखे बहलरागजवाधरचारुणि ।
विकचबाणवलयो ऽधिकं रुरुचिरे रुचिरेक्षणविभ्रमाः
कनकभङ्गपिशङ्गदलैर्दधे सरजसारुणकेशरचारुभिः ।
प्रियविमानितमानवतीरुषां निरसनैरसनैरवृथार्थता
मुखसरोजरुचं मदपाटलामनुचकार चकोरदृशां यतः ।
धृतनवातपमुत्सुकतामतो न कमलं कमलम्भयदम्भसि
विगतसस्यजिधत्समघट्टयत्कलमगोपवधूर्न मृगव्रजम् ।
श्रुततदीरितकोमलगीतकध्वनिमिषे ऽनिमेषेक्षणमग्रतः
कृतमदं निगदन्त इवाकुलीकृतजगत्रयमूर्जमतङ्गजम् ।
ववुरयुक्छदगुच्छसुगन्धयः सततगास्ततगानगिरो ऽलिभिः
विगतवारिधरावरणाः क्वचिददृशुरुल्लसितासितासिताः ।
क्वचिदिवेन्द्रगजाजिनकञ्चुकाः शरदि नीरदिनीर्यदेवो दिशः
विलुलितामनिलैः शरदङ्गना नवसरोरुहकेशरसम्भवाम् ।
विकरितुं परिहासविधित्सया हरिवधूरिव धूलिमुधक्षिपत्
हरितपत्रमयीव मरुद्गणैः स्रगवनद्धमनोरमपल्लवा ।
मधुरिपोरभिताम्रमुखी मुदं दिवि तता विततान शुकावलिः
स्मितसरोरुहनेत्रसरोजलामतिसितङ्गविहङ्गहसद्दिवम् ।
अकलयन् मुदितामिव सर्वतः स शरदन्तुरदिह्मुखाम्
गजद्वयसीरपि हैमनस्तुहिनयन् सरितः पृषतां पतिः ।
सलिलसन्ततिमध्वगयोषितामतुनतातनुतापकृतं दृशां
इदमयुक्तमहो महदेव यद्वरतनोः स्मरयत्यनिलो ऽन्यदा ।
स्मृसयौवनसोष्मपयोधरान् सतुहिनस्तु हिनस्तु वियोगिनः
प्रियतमेन यया सरुषा स्थितं न सह सा सहसा परिरभ्य तम् ।
श्लथयितुं क्षणमक्षमतामङ्गना न सह सा सहसा कृतवेपथुः
भृशमदूयत याधरपल्लवक्षतिरनावरणा हिममारुतैः ।
दशनरश्मिपटेन च सीत्कृतैर्निवासितेव सितेन सुनिर्ववौ
व्रणभृता सुतनोः कलसीकृतस्फुरितदन्तमरीचिमयं दधे ।
स्फुटमिवावरणं हिमारुतैर्मृदुतया दुतयाधरलेखया
धृततुषारकणस्य नभस्वतस्तरुलताङ्गुलितर्जनविभ्रमाः ।
पृथु निरन्तरमिष्टभुजान्तरं वनितयानितया न विषेहिरे
हिमऋतावपि ताः स्म भृशस्विदो युवतयः सुतरामुपकारिणौ ।
प्रकटयत्यनुरागमकृत्रिमं स्मरमयं रमयन्ति विलासिनः
कुसुमयन्फलिनीरवैमर्दविकासिभिरहितहुंकृतिः ।
उपवनं निरभर्सयत प्रियान्वियुवतीर्युवतीः शिशिरानिलः
उपचितेषु परेष्वसमर्थतां व्रजति कालवशाद्बलवानपि ।
तपसि मन्दगभस्तिरभीषुमान्नहि महाहिमनिकरो ऽभवत्
अबिषिषेणयिषुं भुवनानि यः स्मरमिवाख्यात लोध्ररचश्चयः ।
क्षुभितसैन्यपरागविपाण्डुरद्युतिरयं तिरयन्नुभूद्दिशः
शिशिरमासमपास्य गुणोस्य नः क इव शीतहरस्य कुचोष्मणः ।
इति धियास्तरुषः परिरेभिरे घनमतो नमतो ऽनुमतान् प्रियाः
अधिलवङ्गममी रजसाधिकं मलिनिताः सुमनोदलतालिनः ।
स्फुटमिति प्रसवेन पुरो ऽहसत्सपदि कुन्दलता दलतालिनः
अतिसुरभिभाजि पुष्पश्रियामतुनुतरतयेष सन्तानकः ।
तरुणपरभृतः स्वनं रागिणामतनुत रतये वसन्तानकः
नोज्झितुं युवतिमानसनिरासे दक्षमिष्टमधुवासरसां ।
चूतमालिरलिनामतिरागादक्षमिष्ट मधुवासरसारम्
जगद्वशीकर्तुमिमाः स्मरस्य प्रभावनीके तनवै जयन्तीः ।
इत्यस्य तेने कदलीर्मधुश्रीः प्रभावनी केतनवैजयन्तीः
स्मररागमयी वपुस्तमिस्रा परिसस्तार रवेरसत्यवशम् ।
प्रियमाप दिवापि कोकिले स्त्री परितस्ताररवे रसत्वश्यम्
वपुरम्बुविहारमिहं शुचिना रुचिरं कमनीयतरा गतिमा ।
रमणेन रमण्यचिरांशुलतारुचिरङ्कमनीयत रागमिता
मुदमब्दभुवामपां मयूराः सहसायन्त नदी पपाट लाभे ।
अलिना रतमालिनी शिल्लीन्ध्रे सह सायन्तनदीपपाटलाभे
कुटजानि वीक्ष्य शिखिभिः शिखरीन्द्रं समयावनौ घनमदभ्रमराणि ।
गगनं च गीतनिनदस्य गिरोच्चैः समया वनौघनमदभ्रमराणि
अभीष्ठमासाद्य चिराय काले समुद्धृताशां कमनी चकाशे ।
योषिन्मनोजन्मसुखोदयेषु समुद्धृताशङ्गमनीचकाशे
स्तनयोः समयेन याङ्गनानामभिनद्धारसमा न सा रसेन ।
परिरम्भरुचिं ततिर्जलानामभिनद्धा रसमानसारसेन
जातप्रीतिर्या मधुरेणानुवनान्तं कामे कान्ते सारसिकाकुरुतेन ।
तत्सम्पर्क प्राप्य पुरा मोहनलीलां कामेकान्ते सा रसिका का कुरुते न
कान्ताजनेन रहसि प्रसभं गृहीतकेशे रते स्मरसहासवतोपितेन ।
प्रेम्णा मनस्तु रजनीष्वपि हैमनीषु के शेरते स्म रसहासवतोपितेन
गतवतामपि विस्मयमुच्चकैरसकलामलपल्लवलीलया ।
मधुकृतामसकृद्गिरमावली रसकलामलपल्लवलीलया
कुर्वन्तमित्यतिभरेण नगानवाचः पुष्पैविराममलिनां च न गानवाचः ।
श्रीमान्समस्तमनुसानु गिरौविहर्तु बिभ्रत्यचोदि स मयूरगिरा विहर्तुम्
मूल पाठ: Śiśupālavadha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0