शिशुपालवध · अध्याय 5
इत्थं व्यलीकाः प्रियतमा इव सो ऽव्यलीकः शुश्राव सूततनयस्य तदा व्यलीकाः ।
रन्तुं निरन्तरमियेष ततो ऽवसाने तासां गिरौ च वनराजिपटं वसाने
तं स द्विपेन्द्रतुलितातुलतुङ्गशृङ्गम् अभ्युल्लसत्कदलिकावनराजिमुच्चैः ।
विस्ताररुद्धवसुधो ऽन्वचलं चचाल लक्ष्मीं दधत्प्रतिगिरेरलघुर्बलौघः
भास्वत्करव्यतिकरोल्लसिताम्बरान्तस् तापत्रपा इव महाजनदर्शनेन ।
संविव्युरम्बरविकासि चमूसमुत्थं पृत्वीरजः करभकण्ठकडारमाशः
आवर्तिनः शुभफलप्रदशुक्तियुक्ताः संपन्नदेवमणयो भृतरन्ध्रभागाः ।
अश्वाः प्यधुर्वसुमतीमतिरोचमानास् तूर्णं पयोधय इवोर्मिभिरापततन्तः
आरक्षमग्नमवमत्य सृणिं शिताग्रम् एकः पलायत जवेन कृतार्तनादः ।
अन्यपुनर्मुहुरुदप्लवतास्तभारम् अन्योन्यतः पथि बताबिभातमिभोष्ट्रौ
आयास्तमैक्षत जनशचटुलाग्रपादं गच्छन्तमुच्चलितचामरचारुमश्वम् ।
नागं पुनर्मृदु सलीलनिमीलिताक्षं सर्वःप्रयः खलु भवतयनुरूपचेष्टः
त्रस्तः समस्तजनहासकरः करेणोस् तावत्खरः प्रखरमुल्ललयाञ्चकार ।
यावच्चलासनविलोलनितम्बबिम्बविस्रस्तवस्त्रमवरोधवधूः पपात
शैलोपशल्यनिपतद्रथनेमिधारानिष्पिष्टनिष्ठुरशिलातलचूर्णगर्भाः ।
भूरेणवोनभसि नद्धपयोदचक्राश् चक्रवदङ्गरुहधूम्ररुचो विसस्रुः
उद्य्त्कृशानुशकलेषु सुराभिघाताद् भूमीसमायातशिलाफलकाचितैषु ।
पर्न्तवर्त्मसु व्चक्रमिरे महाश्वाः शैलस्य दर्दुरपुटानिव वादयन्तः
तेजोनिरोधसमतावहितेन यन्त्रा समय्क्कशात्रयविचारवाता नियुक्तः ।
आराट्टजश्चटुलनिष्ठुरपातमुच्चैश् चित्रं चकार पदमर्दपुलायितेन
नीहारजालमालिनः पुनरुक्तसान्द्राः कुर्न्वधूजनविलोचनपक्ष्ममालाः ।
क्षुण्णः क्षणं यदुबलैर्दिवमातितांसुः पांशुर्दिसां मुखमतुत्थयदुत्थितो ऽद्रेः
उच्छिद्य विद्विष इव प्रस्रभं मृगेन्द्रान् इन्द्रानुजाचरभूतपतयो ऽध्यवात्सुः ।
वन्येभमस्तकनिखातनखाग्रयमुक्तमुक्ताफलप्रकरभाञ्जि गुहागृहाणि
विभ्राणया बहलयावकङ्कपिङ्कपिच्छावचूडामनुमाधवमास जग्मुः ।
चञ्च्वग्रदष्टचटुलाहितपताकयान्ये स्वावासभागमुरगाशनकेतुयष्ट्या
छायामपास्य महतीमपि वर्तमानाम् आगामिनीं जगृहिरे जनतास्रूणाम् ।
सर्वो हि नोपागतमप्यपचीयमानं वर्धिष्णुमाश्रयमनागतमभ्युपैति
अग्रगतेन वसतिं परिगृह्य रम्याम् आपात्यसैनिकनिराकराणाकुलेन ।
यान्तो ऽन्यतः प्लुतकृतस्वरमाशु दूराद् उद्बाहुना जुहुवविरे मुहुरात्मवर्ग्याः
सिक्ता इवामृतरसेन मुहुर्जनानां क्लान्तिच्छिदो वनवनस्पतयस्तदानीम् ।
शाखावसक्तवसनाभरणाभिरामाः कल्पद्रुमैः सह विचित्रफलैर्विरेजुः
यानाज्जनः परिजनैरवतार्यमाणा राज्ञीर्नरापनयनाकुलसौविदल्लाः ।
स्रस्तावगुण्ठनपटाः क्षणलक्ष्यमाणवक्रश्रियः सभयकौतुकमीक्षते स्म
कण्ठावसक्तमृदुबाहुलतातुरङ्गाद् राजावरोधनवधूरवतारयन्तः ।
आलिङ्गनान्यधिकृताः स्फुटमापुरेव गण्डस्थलीः शुचितया न चुचुम्बुरासाम्
दृष्ट्वेव निर्जतकलापभरामधस्ताद् व्याकीर्णमान्यकबरां कबरीं तरुण्याः ।
प्रादुद्रुवत्सपदि चन्द्रकवान्द्रुमाग्रात् संघर्षिणा सह गुणाभ्यधिकैर्दुरापम्
रोचिष्णुकाञ्चनचयांशुपिशङ्गिताशा वंशध्वजैर्जलदसंहतिमुल्लिखन्त्यः ।
भूभर्तुरायत निरन्तरसंनिवृष्टाः पादा इवाभिवभुरावलयो रथानाम्
छायाविधायिभिरनुज्झितभूतिशोभैर् उच्छ्रायिभिर्बहलपाटलधातुरागैः ।
दूष्यैरपि क्षितिभृतां द्विरदैरुदारतारावलीविरचनैर्व्यरुचन्निवासाः
उत्क्षप्तपटकान्तरलीयमानम् अन्दानिलप्रशमितश्रमघर्मतोयैः ।
दुर्वाप्रतानसहजास्तरणेषु भेजे निद्रसुखं वसनसद्मसु राजदारैः
प्रस्वेदवारिसविशेषविषक्तमङ्गे कूर्पासकं क्षतनखक्षतमुत्क्षिपन्ती ।
आविर्भवद्वनपयोधरबाहुमूला शातोदरी युवदृशां क्षणमुत्सवो ऽभूत्
यावत्स एव समयः सममेव तावद् अव्याकुलाः पटमयान्यभितो वितत्य ।
पर्यापतत्क्रयिकलोकमगण्यपण्यपूर्णपणा विणुनो विपणीर्विभेजुः
अल्पप्रयोजनकृतोरुतरप्रयातसैर् उद्गूर्णलोष्टगुडैः परितो ऽनुविद्धम् ।
उद्यातमुद्रतमनोकहझालमध्याद् अन्याः शशङ्गुणमनल्पमवन्नवाप
त्रासाकुलः परिपतन्परितो निकेतान् पुंभिर्न कैश्चिदपि धन्वभिरन्वबन्धि ।
तस्थौ तथापि न मृगः क्वचिदङ्गनानाम् आकर्णपूर्णनयनेषुहतेक्षणश्रीः
आस्तीर्णतल्परचितावासथः क्षणेन वेशयाजनः कृतनवकर्मकाम्यः ।
खिन्नानखिन्नमतिरापततो मनुष्यान् प्रत्यग्रहीच्चिरनिविष्ट इवोपचारैः
सस्नुः पयः पपुरनेनिजुरम्बराणि जक्षुर्बिसं धृतविकासिभिसप्रसूना ।
सैन्याः श्रियामनुपभोगनिरर्थकत्वदोषप्रवादममृजन्नगनिमन्गानाम्
नाभिह्रदैः परिगृहीतरयाणि निम्नैः सत्रीणांबृहज्जघनसेतुनिवारितानि ।
जग्मुर्जलानि जलमुड्डकवाद्यवल्गुवल्गद्धनस्तनतटस्खलितानि मन्दम्
आलोलपुष्करमुखोल्लसितैरभीक्ष्णमुक्षांबभूवुरभितोवपुरम्बुवर्षैः ।
स्वेदायत श्वसितनिरस्तवेगमुग्धमूर्धन्यरत्ननिकरैरिव हास्तिकानि
ये पक्षिणः प्रथममम्बुनिधिं गतास्ते ये ऽपीन्द्रपाणितुलायुधलूनपक्षाः ।
तेजग्मुरद्रिपतयः सरसीर्विगाढुम् आक्षिप्तकेतुकुथसैन्यगजच्छलेन
आत्मानमेव जलधेः प्रतिबिम्बिताङ्गम् ऊर्मौ महत्यभिमुखापातितं निरीक्ष्य ।
क्रोधादधावदपभीरभिहन्तुमन्यनागाभियुक्त इव युक्तमहो महेभः
नादातुमन्यकरिमुक्तमदाम्बुतिक्तं धूताङ्कुशेन न विहातुमपीच्छताम्भः ।
रुद्धे गजेन सरितः सरुषावतारे रिक्तोदपात्रकरमास्त चिरं जनौघः
पन्थानमाशु विजहीहि पुरः स्तनौ ते पश्यन्प्रतिद्वरदकुम्भविशङ्गिचेताः ।
स्तम्बेरमः पारिणिनंसुरावुपैति षिङ्गैरगद्यत ससंभ्रममेव काचित्
कीर्णं शनैरनुकपोलमनेकपानां हस्तौर्विगाढमदतापरुजः शमाय ।
आकर्णमुल्लसितमम्बु विकाशिकाशनीकाशमाप समतां सितचामरस्य
गण्डूषमुज्झितवता पयसः सरोषं नागेन लब्धपरवारणमारुतेन ।
अम्भोधिरोधसि पृथुप्रतिमानभागरुद्धोरुदन्तमुसलप्रसरं निपेते
दानन्ददत्तयपि जलैः सहसाधिरूढे को विद्यमानगतिरासितुमुत्सहते ।
यद्दन्तिनः कटकटाहतटान्मिमङ्क्षोर् मङ्क्षूदपाति परितः पटलैरसीनाम्
अन्तर्जलौघमवगाढवतः कपोलौ हित्वा क्षणं विततपक्षतिरन्तरीक्षे ।
द्रव्यश्रयेष्वपि गणेषु रराज नीलो वर्णः पृथग्गत इवालिगणो गजस्य
संसर्पिभिः पयसि गैरिकरेणुरागैर् अम्भोजगर्भरससाङ्गनिषङ्गिणा च ।
क्रीडोपभोगमनुभूय सरिन्महेभाव् अन्योन्यवस्त्रपरिवर्तमिव व्यधत्ताम्
यां चन्द्रकैर्मदजलस्य महानदीनां नेत्रश्रियं विकसतो विदधुर्गजेन्द्राः ।
तां प्रत्यवापुरविलम्बितमुत्तरन्तो धौताङ्गलग्ननवनीलपयोजवस्त्रैः
प्रत्यन्यदन्ति निशिताङ्गुशदूरभिन्ननिर्याणनिर्यदसृजं चलितं निपादी ।
रोद्धुं महेभपरिव्रढिमानमागाद् आक्रन्तितो न वशमेति महान्परस्य
सेव्यो ऽपि सानुनयमाकलनाय यन्त्रा नीतेन वन्यकरिदानकृताधिवासः ।
नाभाजि केवलमभाजि गजेन शाखी नान्यस्य गन्धमपि मानभतः सहन्ते
अद्रीन्दुकुञ्चचरकुञ्जरगण्डकाषसंक्रान्तदानपयसो वनपादपस्य ।
सेनागजेन मथितस्य निजप्रसूनैर् मम्ले यथागतमगामि कुलैरलीनाम्
नोच्चैर्यदा तरुतलेषु ममुस्तदानीम् आधोरणैरभिहिताः पृथुमूलशाखाः ।
बन्धाय चिच्छिदुरिभास्तरसात्मनैव नैवात्मनीनमथ वा क्रियते मदान्धैः
उष्णोष्णशीकरसृजः प्रबलोष्मणो ऽन्तरुत्फुल्लनीलनलिनोदरतुल्यभासः ।
एकान्वशालशिरसो हरिचन्दनेषु नागान्बबन्धुरपारान्मनुजा निरासुः
कण्डूयतः कटुभुवं करिणो मदेन स्कन्धं सुगन्धिमनुलीनवता नगस्य ।
स्थूलेन्द्रनीलशकलावलिकोमलेन कणठेगुणत्वमलीनां वलयेन भेजे
निर्धूतवीतमपि बालकमुल्ललन्तं यन्ता क्रमेण परिसान्त्वनतर्जनाभिः ।
शिक्षावशेन शनकैर्वशमानिनाय शाश्त्रं हि निश्चितधियां क्व न सिद्धमेति
स्तम्भं महान्तमुचितं सहसा मुमोच दानं ददावतितरां सरसाग्रहस्तः ।
बद्धपराणि परितो निगडानेयलावीत् स्वातन्त्र्यमुज्वलमवाप करेणुराजः
जज्ञे जनैर्मुकुलितताक्षमनाददाने संरब्धहस्तिपकनिष्टुरचोदनाभिः ।
गम्भीरवेदिनि पुरः कवलं करीन्द्रे मन्दो ऽपि नाम न महानवगृह्य साध्यः
क्षिप्तं पुरो न जगृहे मुहुरिक्षुकाण्डं नापेक्षते स्म निकटोपगतां करेणुं ।
सस्मार वारणपतिः परिमीलिताक्षम् इच्छाविहारवनवासमहोत्सवनाम्
दुःखेन भोजयितुमाशयिता शशाक तुङ्गाग्रकायमनमन्तमनादरेण ।
उत्क्षिप्तहस्ततलदत्तविधानपिण्डस्नेहस्रुति स्नपितबाहुरिभाधिराजम्
शुक्लांशुकोपरचितानि निरन्तराभिर् वेश्मनि रस्मिविततानि नराधिपानाम् ।
चन्द्राकृतानि गजमणडलिकाभिरुच्चैर् नीलाभ्रपङ्क्तिपरिवेषमिवाधिजग्मुः
गत्यूनमर्गगतयो ऽपि गतोरुमार्गाः स्वैरं समाचकृषिरे भुवि वेल्लनाय ।
दर्पोदयोल्लसितफेनजलानुसारसंलक्ष्यपल्ययनवर्ध्रपदास्तुरङ्गाः
आजिघ्रति प्रणतमूर्धनि बाह्लजे ऽश्वे तिस्याङ्गसङ्गमसुखानुभवोत्सुकायाः ।
नासाविरोकपवनोल्लसितं तनीयो रोमाञ्चतामिव जगाम रजः पृथिव्याः
हेम्नः स्थलीषु परितः परिवृत्य वाजी धुन्वन्वपुः प्रविततायतकेशपङ्क्तिः ।
ज्वलाकणारुणरुचा निकरेणरेणोः शेषेणतेजसः इवोल्लसता रराज
दन्तालिकाधरणनिश्चलपाणियुग्मम् अर्धोदितो हरिरिवोदयशैलमूर्ध्नः ।
स्तोकेन नाक्रमत वल्लभपालमुच्चैः श्रीवृक्षकी पुरुषकोन्नमिताग्रकायः
रेजे जनैः स्नपनसान्द्रतरार्द्रमूर्तिर् देवैरिवानिमिषद्दृष्टिभिरीक्ष्यमाणः ।
श्रीसंनिधानरमणीयतरो ऽश्व उच्चैर् उच्चैश्रवा जलनिधेरिव जातमात्रः
अश्रावि भूमिपतिभिः क्षणवीतनिद्रैर् अश्नुन्पुरो हरितकं मुदमादधानः ।
ग्रीवाग्रलोलकलकिङ्गिणीकानिनाद मिश्रं दधद्दशनचर्चुरशब्दमश्वः
उत्खाय दर्पचलितेन सहैव रज्ज्वा कीलं प्रयत्नपरमानवदुर्ग्रहेण ।
आकुल्यकारि कटकस्तुरगेण तूर्णम् अश्वेति विद्रुतमनुद्रुताश्वमन्यम्
अव्याकुलं प्रकृतमुत्तरधेयकर्म धाराः प्रसाधयितुव्यतिकीर्णरूपाः ।
सिद्धं मुखे नवसु वाथिषु कश्चिदश्वं वल्गाविभागकुशलो गमयांबभूव
मुक्तासृणानि परितः कचकं चरन्तस् त्रुट्याद्वितानतनिकाव्यतिषङ्गभाजः ।
सस्रुः सरोषपरिचारकवार्यमाणा दमाञ्चलस्खलितलोलपदं तुरङ्गाः
उत्तीर्णभारलघुनाप्यलघूलपौघसौहित्यनिःसहतरेण तरोरधस्तात् ।
रोमन्थमन्थरचलद्गुरुसास्नमासांचक्रे नीमीलदलसेक्षणमौक्षकेण
मृत्पिण्डशेखरितकोटिभिरर्धचन्द्रं शृङ्गै शिखाग्रगतलक्ष्ममलं हसद्भिः ।
उच्छृङ्गितान्यवृषभा सरितां नदन्तो रोधांसि धीरमपचस्किरिरे महोक्षाः
मेदस्विनः सरभसोपगतानभीकान् भङ्कत्वा पराननडुहो मुहुराहवेन ।
ऊर्जस्वलेन सुरभीरनुनिनिःसपत्नं जग्मे जयोद्धुरविशालविषाणमुक्ष्णा
बिभ्राणमायतिमतीमवृथा शिरोधिं प्रत्यग्रतामतिरसामधिकं दधन्ति ।
लोलोष्ट्रमौष्ट्रकमुदग्रमुखं तरूणाम् अभ्रंलिहानि लिलिहे नवपल्लवानि
सार्धं कथञ्चिदुचितैः पिचुमर्दपत्त्रैर् आस्यान्तरालगतमाम्रदलं म्रदीयः ।
दासेरकःसपदि संवलितं निषादैर् विप्रं पुरा पतगराडिव निर्जगार
स्पष्टं बहिः स्थितवतेरपि निवेदयन्तश् चेष्टाविशेषमनुजीविजनाय राज्ञाम् ।
वैतालिकाः स्फुटपदप्रकटार्थमुच्चैर् भोगावलीः कलगिरो ऽवसरेषु पेठुः
उन्नम्रताम्रपटमण्डपमण्डितं तदानीलननागकुलसंकुलमाबभासे ।
संध्याशुभिन्नघनकर्बुरितान्तरीक्षलक्ष्मीविडम्बि शिविरं शिवकीर्तनस्य
धरस्योद्धर्तासित्वमितिननु सर्वत्र जगति प्रतीतस्तत्किं मामतिभरमधः प्रापिपायिषुः ।
उपालब्धेवोच्चैर्गिरिपतिरिति श्रीपतिमसौ बलाक्रान्तः क्रडद्द्विरदमथितोर्वीरुहरवैः
मूल पाठ: Śiśupālavadha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0