भाषा

ENहिગુ
ग्रंथ पाठ

शिशुपालवध · अध्याय 4

4.1

निशवासधूमं सहरत्नभार्भित्त्वोत्थितं भूमिमिवोरगाणां ।
नीलोपलस्यूतविचित्रधातुमसौ गिरिं रैवतकं ददर्श

4.2

गुर्वीरजस्रं दृषदः समन्तादुपर्युपर्यम्बुमुचांवितानैः ।
विन्ध्यायमानं दिवसस्य भर्तुमार्गं पुना रोद्धुमिवोन्नमद्भिः

4.3

क्रान्तं रुचा श्यामलिताभिरामंलताभिरामन्त्रितषट्पदाभिः ।
श्रितं शिलाश्यामलताभिरामं लताभिरामनत्रितषट्पदाभिः

4.4

सहस्रसंख्यैर् गगनं पादैर् भुवं व्याप्य वितिष्ठमानम् ।
विलोचनस्थानगतोष्णरश्मिनिशाकरं साधु हिरण्यगर्भम्

4.5

क्वचिज्जलापायविपाण्डुराणि धौतोत्तरीयप्रतिमच्छवीनि ।
अभ्राणिबिभ्रामुमाङ्गसङ्गविभक्तभस्मानमिव स्मरारिम्

4.6

छायां निजस्त्रीचटुलालसानां मदेन किञ्चिच्चटुलालसानाम् ।
कुर्वाणमुत्पिञ्जलजातपत्रैर्विहङ्गमानां जलजातपत्रै

4.7

स्कन्धाधिरूढोज्ज्वलनीलकण्ठानुर्वीरुहः श्लिष्टतनूनहीन्द्रैः ।
प्रनर्तितानेकलताभुजाग्रान्रुद्राननेकानिव धारयन्तम्

4.8

विलम्बिनीलोत्पलकर्णपूरा कपोलभित्तीरिव लोध्रगौरीः ।
नवोलपालङ्कृतसैकताभाः शुचीरपःशैवलनीर्दधानम्

4.9

राजीवराजीवशलोलभृङ्गं मुष्णान्तमुष्णं ततिभिस्तरूणाम् ।
कान्तालकान्ता ललनाः सुराणां रक्षोभिरक्षेभितमुद्वहन्तम्

4.10

मुदे मुरारेरमरैः सुमेरोरानीय यस्योपचितस्य शृङ्गैः ।
भवन्ति नोद्दामगिरां कवीनामुच्छ्रायसौन्दर्यगुणा मृषोद्याः

4.11

यतः परार्घ्यानि भृतान्यनूनै प्रस्थैर्मुहुर्भूरिभिरुच्चिखानि ।
आढ्यादिवप्रापणिकादजस्रं जग्राह रत्नान्यमितानि लोकः

4.12

अखिध्यतासन्नमुदग्रतापं रविं दधाने ऽप्यरविन्दधाने ।
भृङ्गावलिर्यस्यतटे निपीतरसा नमत्तामरसा न मत्ता

4.13

यत्राधिरूढेनमहीरुहोच्चैरुन्निद्रपुष्पाक्षिसहस्रभाजा ।
सुराधिपाधिष्ठितहस्तिमल्ललीलां दधौ राजतगण्डशैलः

4.14

विभिन्नवर्णागरुडाग्रजेन सूर्यस्यरथ्याः परितः स्फुरन्त्या ।
रत्नैः पुनर्यत्र रुचं स्वामानिन्यिरे वंशकरीरनीलैः

4.15

यत्रोज्झिताभिर्मुहुरम्बुवाहैः समुन्नमद्भिर्न समुन्नमद्भि ।
वनं बबाधे विषपावकोत्था विपन्नगानामविपन्नगानाम्

4.16

फलद्भिरुष्णांशुकराभिमर्शात्कर्शानवं धाम पतङ्गकान्तैः ।
शशंस यः पात्रगुणाद्गुणानां संक्रान्तिमाक्रान्तगुणातिरेकाम्

4.17

दृषटो ऽपि शैलः स मुहुर्मुरारेरपूर्ववद्विस्मयमाततान ।
क्षणेक्षमे यन्नवतामुपैति तदेवरूपं रमणीयतायाः

4.18

उच्चारणज्ञे ऽथगिरादधानमुच्चा रणत्पक्षिगणास्तटीस्तम् ।
उत्कं धरं द्रष्टुमवेक्ष्य शौरिणुत्कन्धरं दारुक इत्युवाच

4.19

आच्छादितायतददिगम्बरमुच्चकैर्गाम् आक्रम्यसंस्थितमुदग्रविशालशृङ्गम् ।
मूर्ध्निस्खलत्तुहिनदीधितिकोटिमेनम् उद्वीक्ष्य को भुवि न विस्मयते नगेशम्

4.20

उदयतिविततर्ःध्वरशमिरज्जावहिमरुचौ हिमधाम्नि याति चास्तम् ।
वहतिगिरिरयं विलम्बिधणटाद्वयपरिवारितवारणेन्द्रलीलाम्

4.21

वहति यः परितः कनकस्थलीः सहरिता लसमाननवांशुकः ।
अचलेषभवानिव राजते स हरितालसमाननवांशुकः

4.22

पाश्चात्यभागमिह सानुषु सन्निषण्णाः पश्यन्ति शान्तमलसान्द्रतरांशुजालम् ।
संपूर्णलब्धललनालापनोपमानम् उत्सङ्गसह्गिहरिणमस्य मृगाङ्गमूर्तेः

4.23

कृत्वापुंवत्पादमुच्चैर्भृगुभ्यो मूर्ध्नि ग्राव्णां जर्जरा निर्झरौघाः ।
कुर्वन्ति द्यामुत्पतन्तः स्मरार्तस्वर्लोकस्त्रीगात्रनिर्णमत्र

4.24

स्थगयन्त्यमूः शामितचातकार्तस्वरा जलदास्तडित्तुलितकान्तकार्तस्वराः ।
जगतीरिहस्फुरितचारुचामीकराः सवितुः कचित्कपिशयन्ति चामी कराः

4.25

उत्क्षिप्तमुच्छ्रितसितांशुकरावलम्बैरुत्तम्भितोडुभिरतिवतरां शिरोभिः ।
श्रद्धेयनिर्झरजलव्यपदेशमस्य विष्वक्तटेषु पतति स्फुटमन्तरीक्षम्

4.26

एकत्रस्फटिकतटांशुभिन्ननीरा नीलाश्मद्युतिभिदुराम्भसो ऽपरत्र ।
कालिन्दीजलजनितश्रियः श्रयन्ते वैदग्धीमिह सरितः सुरापगायाः

4.27

इतस्ततःऽस्मिन्विलसन्ति मेरोः समानवप्रेमणिसानुरागाः ।
स्त्रियशच पत्यौ सुरसुन्दरीभिः समा नवप्रेमणिसानुरागाः

4.28

उच्चैमहारजतराजिविराजितासौ दुर्वर्णभित्तिरिह सान्द्रसुधासवर्णा ।
अभ्येति भस्मपरिपाण्डुरितस्मरारेर् उद्वह्निलोचनललामललाटलीलाम्

4.29

अयमतिजरठाः प्रकामगुर्वीरलघुविलम्बिपयोधरोपरुद्धाः ।
सततमसुगतामगम्यरूपाः परिणतदिक्करिकास्तटीर्बिभर्ति

4.30

धूमाकारं दधति पुरः सौवर्णे वर्णेनाग्नेः सदृशि तटे पश्यामी ।
श्यामीभूताः कुसुमसमूहो ऽलीनां लीनामालीमिह तरवो बिभ्राणाः

4.31

व्योमस्पृशः प्रथयता कलधौतभित्तीर् उन्निद्रपुष्पचणचम्पकपिङ्गभासः ।
सौमेरवीमधिगतेन नितम्बशोभाम् एतेन भारतमिलावृतवद्विभाति

4.32

रुचिरचित्रतनूरुहशालिभिर्विचलितैः परितः प्रियकव्रजैः ।
विवधरत्नमयैरभिबात्यसाववयवैरिव जङ्गमतां गतैः

4.33

कुशशयैरत्र जलाशयोषिता मुदारमन्ते कलभाविकस्वरैः ।
प्रगीयते सिद्धगणैश्च योषितामुदारम कलभाविकस्वरैः

4.34

आसादितस्य तमसा नियतेर्नियोगादाकाङ्क्षतःपुनरपक्रमणेन कालम् ।
पत्युस्त्वषामिह महौषधयः कलत्रस्थानं परैननभिभूतममूर्वहन्ति

4.35

वनस्पतिस्कन्धनिषण्णबालप्रवालहस्ताः प्रमदा इवात्र ।
पुष्पेक्षणैलम्भितलोचकैर्वा मधुव्रतव्रातवृतैर्व्रतत्यः

4.36

विहगाः कदम्बसुरभाविह गाः कलयन्तनुक्षणमनेकलयम् ।
भ्रमयन्नुपैति मुहुरभ्रमयं पवनश्च धूतनवनीपवनः

4.37

विद्वद्भिरागमपरैर्विवृतं कथञ्चिच्छ्रुत्वापि दुर्ग्रहमनिश्चितधीभिरन्यैः ।
श्रेयान्द्विजातिरिव हन्तुमघानि दक्षं गूठार्थमेष निधिमन्त्रगणं बिभर्ति

4.38

बिम्बोष्ठं बहु मनुते तुरङ्गवक्त्रश् चुम्बन्तं मुखमिह किंनरं प्रियायाः ।
श्लिष्यन्तंमुहुरितरो ऽपि तं निजस्त्रीम् उत्तुङ्गस्तनभरभङ्गभीरुमध्याम्

4.39

यदेतदस्यानुतटं विभाति वनं ततानेकतमालतालम् ।
न पुष्पितात्र स्थगितार्करस्मावनान्तताने कतमा लतालम्

4.40

दन्तोज्ज्वलासु विमलोपलमेखलान्ताः सद्रत्नचित्रकटकासु बृहन्नितम्बाः ।
अस्मिन्भजन्ति घनकोमलगण्डशैला नार्यो ऽनुरूपमधिवासमधित्यकासु

4.41

अनतिचिरोज्झितस्य जलदेन चिरस्थितबुद्ध्युदयस्य पयसो ऽनुकृतिम् ।
विरलविकीर्णवज्रशकला सकलाम् इह विदधाति धौतकलधौतमही

4.42

वर्जयन्त्या जनैः संगमेकान्ततस् तर्कयन्त्या सुखं सङ्गमे कान्ततः ।
योषयैष स्मरासन्नतापाङ्गया सेव्यते ऽनेकया संन्नतापङ्गया

4.43

संकीर्णकीचकवनस्खलितैकवालविच्छेदकातरधियश्चलितुं चमर्यः ।
अस्मिन्मृदुश्वसनगर्भतदीयरन्ध्रर्यत्स्वनश्रुतिसुखादिव नोत्सहन्ते

4.44

मुक्तं मुक्तागौरमिह क्षीरमिवाभ्रैर् वापीष्वन्तर्लीनमहानीलदलासु ।
शस्त्रीश्यामैरंशुभिराशु द्रुतमम्भश् छायामच्छामृच्छति नीलीसलिलस्य

4.45

या न ययौ प्रियमन्यवधूभ्यः सारतरागमना यतमानम् ।
तेन सहेत बिभर्ति रसः स्त्री सा रतरागमनायतानाम्

4.46

भिन्नेषुरत्नकिरणैः किरणेष्विहेन्दोर् उच्चावचैरुपगतेषु सहस्रसंख्यां ।
दोषापि नूनमहिमांशुरसौ किलेति व्याकोशकोकनदतां दधते नलिन्यः

4.47

अपशङ्कमङ्कपरिवर्तनोचिताश्चलिताः पुरः पतिमुपेतुमात्मजाः ।
अनुरोदितीव करुणेन पत्त्रिणां विरुतेन वत्सलतययैष निम्नगाः

4.48

मधुकरविटपानमितास्तरुपङ्क्तीर्बिभ्रतःऽस्य विटपानमिताः ।
परिपाकपिशङ्गलतारजसा रोधश्चकास्ति कपिशं गलता

4.49

प्राग्भागतः पतदिहेदमुपत्यकासु शृङ्गारितायतमहेभकराभमम्भः ।
संलक्ष्यतेविविधरत्नकरानुविद्धम् ऊर्ध्वप्रसारितसुराधिपचापचारु

4.50

दधाति च विकसद्विचित्रकल्पद्रुमकुसुमैरभिगुम्फितानिवैताः ।
क्षणमलघुविलम्बिपिच्छदाम्नः शिखरशिखाः शिखिशेखरानमुष्य

4.51

सवधूकाः सुखिनो ऽस्मन्ननवरतममन्दरामतामरसदृशः ।
नासेवन्ते रसवन्नवरतममन्दरागतामरसदृशः

4.52

आच्छाद्य पुष्पपटमेव महान्तमन्तरावर्तिभिर्गृहकपोतशिरोधराभैः ।
शस्वङ्गानि धूमरुचिमागुरवीं दधानैर् धूपायतीव पटलैर्नीरदानाम्

4.53

अन्योन्यव्यतिकरचारुभिर्विचित्रैर् अत्रस्यन्नवमणिर्जन्मभिर्मयूखैः ।
विस्मेरान्गगनसदः करोत्यमुष्मिन्न् आकाशेरचितमभित्ति चित्रकर्म

4.54

समीरशिशिरः शिरःसुवसता सता जवनिका निकानसुखिनाम् ।
बिभर्तिजनयन्नयं मुदमपाम् अपायधवला वलाहकततीः

4.55

मैर्त्त्र्यादिचित्तपरिकर्मविदो विधाय क्लेशप्रहाणमिह लब्धसबीजयोगाः ।
ख्यातिं चसत्त्वपुरुषान्यतयाधिगम्य वाञ्चन्ति तामपि समाधिभृतः निरोद्धुम्

4.56

मरकतमयमेदिनीषु भानोस् तरुविटपान्तरपातिनो मयूखाः ।
अवनतशितिकण्ठकण्ठलक्ष्मीम् इह दधति श्फुरिताणुरेणुजालाः

4.57

या बिभर्ति कलवल्लकीगुणस्वानमानमतिकालिमालया ।
नात्र कान्तमुपगीतया तया स्वानमानमति कालिमालया

4.58

सायं शशाङ्गकिरणाहतचन्द्रकान्तनिस्यन्दिनीरनिकरेण कृताभिषेकाः ।
अर्कोपलोल्लसितवह्निभिरह्नि तप्तास् तीव्रं महाव्रतमिवात्र चरनति वप्राः

4.59

एतस्मिन्नधिकपयःश्रियं वहन्त्यः संक्षोभं पवनभुवा जवेन नीताः ।
वाल्मीकेररहितरामलक्ष्मणानां साधर्म्यं दधति गिरां महासरस्यः

4.60

इह मुहुर्मुदितैः कलभै रवः प्रतिदिशं क्रियते कलभैरवः ।
स्फुरति चानुवनं चमरीचयः कनकरत्नभुवां च मरीचयः

4.61

त्वक्साररन्ध्रपरिपूरणलब्धगीतिर् अस्मिन्नसौ मृदितपक्ष्मलरल्लकाङ्गः ।
कस्तूरिकामृगविमर्दसुगन्धिरेति रागीव सक्तिमधिकां विषयेषु वायुः

4.62

प्रीत्यै यूनां व्यवहिततपनाः प्रौढद्वान्तं दिनमिह जलदाः ।
दोषामन्यं विदधाति सुरतक्रीडायासश्रमपटवः

4.63

भग्ने निवासो ऽयमिहास्य पुष्पैः सदानतः येन विषाणि नागः ।
तीव्राणि तेनोज्झति कोपितो ऽसौ ससानतोयेन विषाणि नागः

4.64

प्रालेयशीतलमचलेश्वरमीश्वरो ऽपि सान्द्रभचर्मवसनावरणाधिशेते ।
सर्वर्तुनिवृत्तिकरे निवसन्नुपैति न द्वन्द्वदुःखमिह किञ्चिदकिञ्चनो ऽपि

4.65

नवनगवनलेखाश्यामध्याभिराभिः स्फटिककटकभूमिनाटयत्येष शैलः ।
अहिपरिकरभाजो भास्मनैरङ्गरागैर् अधिगतधवलिम्नः शूलपाणेरभिख्याम्

4.66

दधद्भिरभितस्तटौ विकचवारिजाम्बूनदैर् विनोदितदिनक्लमाः कृतरुचश्चजाम्बूनदैः ।
निषेव्य मधु माधवाः सरसमत्र कादम्बरं हरन्ति रतये रहः प्रियतमाङ्गकादम्बरम्

4.67

दर्पणनिर्मलासु पतिते घनतिमिरमुषि ज्योतिषि रौप्यभित्तिषु पुरः प्रतिफलति मुहुः ।
व्रीडमसंंमुखो ऽपि रमणैरपहृतवसनाः खाञ्चनकन्दरासु तरुणीरिह नयति रविः

4.68

अनुकृतिशिखरौघश्रीभिरभ्यगते ऽसौ त्वयि सरभसमभ्युत्तिष्ठतीवाद्रिरुच्चैः ।
द्रुतमरुदुपनुन्नैरुन्नमद्भिः सहेलं हलधरपरिधानश्यामलैरम्बुवाहैः

मूल पाठ: Śiśupālavadha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc