भाषा

ENहिગુ
ग्रंथ पाठ

शिशुपालवध · अध्याय 2

2.1

यियक्षमाणेनाहूतः पार्थेनाथ द्विषन्मुरम् ।
अभिचैद्यं प्रतिष्ठासुरासीत्कार्यद्वयाकुलः

2.2

सार्थमुध्धवसीरिभ्यामथासावसदत्सदः ।
गुरुकाव्यानुगां बिभ्रच्चान्द्रीमभिनभः श्रियम्

2.3

जाज्वल्यमाना जगतः शान्तये समुपेयुषी ।
व्यद्योतिष्टसभावेद्यामसौ नरशिखित्रयी

2.4

रत्नस्तम्भेषु संक्रान्तप्रतिमास्ते चकाशिरे ।
एकाकिनो ऽपि परितः पौरुषेयवृता इव

2.5

अध्यासामासुरुत्तुङ्गहेमपीठानि यान्यमी ।
तैरूहे केशारिक्रान्तत्रिकूटशिखिरोपमा

2.6

गुरुद्वयाय गुरुणोरुभयोरथ कार्ययोः ।
हरिविप्रतिषेधं तममाचचक्षे विचक्षणः

2.7

द्योतितान्तःसभैः कुन्दकुड्मलाग्रदतः स्मितैः ।
स्नपितेवाभवत्तस्य शुद्धवर्णा सरस्वती

2.8

भवद्गिरामवसरप्रदानाय वचांसि नः ।
पूर्वरङ्गः प्रसङ्गाय नाटकीयस्य वस्तुनः

2.9

करदीकृतभूपालो भ्रातृभिर्जित्वरैर्दिशाम् ।
विनाप्यस्मदलंभूष्णुरिज्यायै तपसः सुतः

2.10

उत्तिष्ठमानस्तु परो नोपेक्ष्यः पत्यमिच्छता ।
समौ हि शिष्टैराम्नातौ वर्त्स्यन्तावामयः स च

2.11

न दूये सात्वतीसूनुर्यन्मह्यमपराध्यति ।
यत्तु दह्यन्ते लोकमदो दुःखाकरोतिमाम्

2.12

मम तावन्मतमिदं श्रूयतामङ्ग वामपि ।
ज्ञातसारो ऽपि खल्वेकः संदिग्धे कार्यवस्तुनि

2.13

यावदर्थपदां वाचमेवमादाय माधवः ।
विरराम महीयांसः प्रकृत्या मितभाषिणः

2.14

ततः सपत्नापनयस्मरणानुशयस्फुरा ।
ओष्ठेन रामो रामोष्ठबिम्बचुम्बनचुञ्चुना

2.15

विवक्षितामर्थविदस्तत्क्षणप्रतिसंहृतां ।
प्रापयन्पवनव्याधेर्गिरमुत्तरपक्षताम्

2.16

घूर्णयन्मदिरास्वादमदपाटलितद्युती ।
रेवतीवदनोच्छिष्टपरिपूतपुटे दृशौ

2.17

आश्लेषलोलुपवधूस्तनकार्कश्यसाक्षिणीं ।
म्लापयन्नभिमानोष्णैर्वनमालां मुखानिलैः

2.18

दधत्संन्ध्यारुणव्योमस्फुरत्तारानुकारिणीः ।
द्वषद्वेषोपरक्ताङ्गसङ्गिनीः स्वेदविप्रुषः

2.19

प्रोल्लसत्कुणडलप्रोतपद्मरागदलत्विषा ।
कृष्णोत्तरासङ्गरुचं विदधच्चौतपल्लवीम्

2.20

ककुद्मिकन्यावक्त्रान्तर्वासलब्धाधिवासया ।
मुखमोदं मदिरया कृतानुव्याधमुद्वमन्

2.21

जगादवदनछद्मपद्मपर्यन्तपातिनः ।
नयन्मधुलिहः श्वैत्यमुदग्रदशनांशुभिः

2.22

यद्वासुदेवेनादीनमनादीनवमीरितम् ।
वचसस्तस्य सपदि क्रिया केवलमुत्तरम्

2.23

नैतल्लघ्वपि भूयस्या वचो वाचातिशय्यते ।
इन्धनौघधगप्यग्नित्विषा नात्येति पूषणम्

2.24

संक्षिप्तस्याप्यतो ऽस्यैव वाक्यस्यार्थगरीयसः ।
सुविस्तरतरा वाचो भूष्यभूता भवन्तु मो

2.25

विरोधिवचसो मूकान्वगीशानपि कुर्वते ।
जडानप्यनुलोमार्थान्प्रवाचः कृतिनां गिरः

2.26

षड्गुणाः शक्तयस्तिस्रः सिद्धयोदयास्त्रयः ।
ग्रन्धानधीत्य व्याकर्तुमिति दुर्मेधसो ऽप्यलम्

2.27

अनिर्लोडितकार्यस्य वाग्जालं वाग्मिनो वृथा ।
निमित्तादपराद्धेषोर्धानुष्कस्येव वल्गितम्

2.28

सर्वकार्यशरीरेषु मुक्त्वाङ्गस्कन्दपञ्चकम् ।
सौगतानामिवात्मान्यो नास्ति मन्त्रो महीभृताम्

2.29

मन्त्रो योध इवाधीरः सर्वाङ्गैः संवृतैरपि ।
चिरं न स्थातुं परेभ्यो भेदशङ्कया

2.30

आत्मोदयः परज्यानिर्द्वयं नीतिरितीयति ।
तदूरीकृत्य कृतिभिर्वाचस्पत्यं प्रतायते

2.31

तृप्तियोगः परेणापिमहिम्ना न महात्मनाम् ।
पूर्णश्चन्द्रोदयाकाङ्क्षी दृष्टानतो ऽत्र महार्णवः

2.32

संपदासुस्थिरंमन्यो भवति स्वल्पयापि यः ।
कृतकृत्यो विधिर्मन्ये न वर्धयन्ति तस्य ताम्

2.33

शमूलघातमघ्नन्तः परान्नोद्यन्ति मानिनः ।
प्रध्वंसितान्धतमसस्तत्रोदाहरणं रविः

2.34

विपक्षममखिलीकृत्य प्रतिष्ठा खलु दुर्लभा ।
अनीत्वा पङ्कतां धूलिमुदकं नावतिष्ठते

2.35

ध्रियतेयावदेको ऽपि रिपुस्तावत्कुतः सुखम् ।
पुरः क्लश्नाति सोमं हि सैंहिकेयो ऽसुरद्रुहाम्

2.36

सखागरीयान् शत्रुश्छकृत्रिमस्तौ हि कार्यतः ।
स्याताममित्रौ मित्रेच सहजप्रकृतावपि

2.37

उपकर्त्ररिणा संधिर्न मित्रेणापकारिणा ।
उपकारापकारौ हि लक्ष्यं लक्षममेतयोः

2.38

त्वयाविप्रकृतश्चैद्यो रुक्मिणीं हरताहरे ।
बद्धमूलस्यमूलं हि महद्वैरतरोः स्त्रियः

2.39

त्वयि भौमं गते जेतुमरौत्सीत्स पुरीमिमाम् ।
प्रोषितार्यमणं मेरोरन्धकारस्तटीमिव

2.40

आलाप्यालमिदं बभ्रोयत्स दारानपाहरत् ।
कथापि खलु पापानामलमश्रेयसे यतः

2.41

विराद्ध एवं भमता विराद्धा बहुधा च नः ।
निर्वत्यते ऽरिः क्रियया स श्रुतश्रवसः सुतः

2.42

विधायवैरं सामर्षेनरे ऽरौ यः उदासते ।
प्रक्षिप्योदर्चिषं कक्षे शेरते ते ऽभिमारुतम्

2.43

मनागनभ्यवृत्या वा कामं क्षाम्यततु यः क्षमी ।
क्रयासमभिहारेण विराद्यन्तं क्षमेत कः

2.44

अन्यदा भूषणं पुंसः क्षमा लज्जेव योषितः ।
पराक्रमः परिभवे वैयात्यं सुरतेष्विव

2.45

माजीवन्यः परावज्ञादुखदग्धो ऽपि जीवति ।
तस्याजननिरेवास्तु जननीक्लेशकारिणः

2.46

पदाहतं यदुत्थाय मूर्धानमधिरोहति ।
स्वस्थादेववपमाने ऽपि देहिनस्तद्वरं रजः

2.47

असंपादयतः कञ्चिदर्थं जातिक्रियागुणैः ।
यदृच्छशब्दवत्पुंसः संज्ञायै जन्म केवलम्

2.48

तुङ्गत्वमितरा नाद्रौ नेदं सिन्धावागाधता ।
अलङ्घनीयताहेतुरुभयं तन्मनस्विनि

2.49

तुल्ये ऽपराधे स्वर्भानुर्भानुमन्तं चिरेण यत् ।
हिमांशुमाशु ग्रसते तन्म्रदिम्नः स्फुटं फलम्

2.50

स्वयं प्रणते ऽल्पे ऽपि परवायावुपेयुषी ।
निदर्शनमसाराणां लघुर्बहुतृणं नरः

2.51

तेजस्विमध्ये तेजस्वी दवीयानपि गण्यते ।
पञ्चम पञ्चपसस्तपनो जातवेदसाम्

2.52

अकृत्वा हेलया पादमुच्चैर्मूर्धसु विद्वषाम् ।
कथङ्कारमनालम्बा कीर्तिद्यामधिरोहति

2.53

अङ्गाधिरोपितश्चन्द्रमा मृगलाञ्छनः ।
केशरी निष्ठुराक्षिप्तमृगयूथो मृगाधिपः

2.54

चतुर्थोपायसाध्येतु रिपौ सान्त्वमपक्रिया ।
स्वेद्यमामज्वरं प्राज्ञः को ऽम्भसा परिषिञ्चति

2.55

सामवादाः सकोपस्य तस्य प्रत्युत दीपकाः ।
प्रतप्तस्येव सहसा सर्पिषस्तोयबिन्दवः

2.56

गुणानामायथातथ्यादर्थं विप्लावयन्ति ये ।
अमात्यव्यञ्जनाराज्ञां दूष्यास्ते शत्रुसंज्ञिताः

2.57

स्वशक्त्युपचये केचित्परस्य व्यसने ऽपरे ।
यानमाहुस्तदासीनं त्वामुत्थापयति द्वयम्

2.58

लिलङ्घयिषतो लोकानलङ्घ्यानलघीयसः ।
यादवाम्भोनिधीन्रुन्धे वेलेव भवतः क्षमा

2.59

विजयस्वयि सेनायाः साक्षिमात्रे ऽपादिश्यताम् ।
फलभाजि समीक्ष्योक्ते बुद्धेर्भोग इवात्मनि

2.60

हृतेहिडिम्बरिपुणा राज्ञि द्वैमातुरे युधि ।
चिरस्य मित्त्रव्यसनि सुदमो दमघोषजः

2.61

नीतिरापदि यद्गम्यः परस्तन्मानिनो ह्रिये ।
विधुर्विधुन्तस्येव पूर्णस्तस्योत्सवाय सः

2.62

अन्यदुच्छृङ्घलं सत्वमन्यत्छ्छास्त्रनियन्त्रितं ।
सामानाधिकरण्यं हि तेजस्तमिरयोः कुतः

2.63

इन्द्रप्रस्थगमस्तावत्कारि मा सन्तु चेदयः ।
आस्माकदन्तिसान्निध्याद्वामनीभूतभूरुहः

2.64

निरुद्धवीवधासारप्रसारा गा इव व्रजम् ।
उपरुन्धन्तु दाशार्हाः पुरीं माहिष्मतीं द्विषः

2.65

यजतां पाण्डवः स्वर्गमवत्विन्द्रस्पस्विनः ।
वयं हनाम द्विषतः सर्वः स्वार्थं समीहते

2.66

प्राप्यतां विद्युतां संपद्संपर्कादर्करोचिषाम् ।
शस्त्रैद्विषच्छिरश्छेदप्रोच्छलच्छोणितोक्षितैः

2.67

इतिसंरम्भिणो वाणीर्बलस्यालेख्यदेवताः ।
सभाभित्तिप्रतिध्वनैर्भयादन्ववदन्निव

2.68

निशम्य ताः शेषगवीरमभिधातुमधोक्षजः ।
शिष्याय बृहतां प्रत्युः प्रस्तावमदिशद्दृशा

2.69

भारतीमाहितभरामथानुद्धतमुद्धवः ।
तथ्यामुतथ्यानुजवज्जगादाग्रे गदाग्रजम्

2.70

संप्रत्यसांप्रतं वक्तुमुक्ते मुसलपाणिना ।
निर्धारितेर्ऽथे लेखेनखलूक्त्वा खलुवाचिकम्

2.71

तथापि यन्मय्यपि ते गुरुरित्यस्ति गौरवम् ।
तत्प्रयोजककर्तृत्वमुपैति मम जल्पतः

2.72

वर्णै कतिपयैरेव ग्रथितस्य स्वरैरिव ।
अनन्ता वाङ्मयस्याहो गेयस्येव विचित्रता

2.73

बह्वपि स्वेच्छया कामं प्रकीर्णमभिधीयते ।
अनुज्झितर्थसंबन्धः प्रबन्धो दुरुदाहरः

2.74

म्रदीयसीमपि घनामनल्पगुणकल्पिताम् ।
प्रसारयन्ति कुशलाश्चित्रां वाचं पटीमिव

2.75

विशेषविदुषः शास्त्रं यत्तवोद्ग्राह्यते पुरः ।
हेतुः परिचयस्थैर्ये वक्तुर्गुणनिकैव सा

2.76

पज्ञोत्साहवतः स्वामी यतेताधातुमात्मनि ।
तौ हि मूलमुदेष्यन्त्या जिगीषोरात्मसंपदः

2.77

सोपधानां धियं धीराः स्थेयसीं खट्वयन्ति ये ।
तत्रानिशं निषम्ण्णास्ते जानते जातु न श्रमंम्

2.78

स्पृशन्ति शरवत्तीक्ष्णस्तोकमन्तर्विशन्ति च ।
बहुस्पृशापि स्थूलेन स्थीयते बहिरश्मवत्

2.79

आरभन्ते ऽल्पमेवाज्ञाः कामं व्यग्रा भवन्ति च ।
महारम्भाः कृतधियस्तिष्ठन्ति च निराकुलाः

2.80

उपायमस्थितस्यापि नश्यन्त्यर्थाः प्रमाद्यतः ।
हन्ति नोपशयस्थो ऽपि शयालुर्मृगयुर्मृगान्

2.81

उदेतुमत्यजन्नीहां राजसु द्वदशस्वपि ।
जिगीषुरेको दिनकृदादित्येष्विव कल्पते

2.82

बुद्धिशस्त्रः प्रकृत्यङ्गो घनसंवृतिकञ्चुकः ।
चारेक्षणो दूतमुखः पपुरुषः को ऽपि पार्थिवः

2.83

तेजः क्षमा वा नैकान्तं कालज्ञस्य महीपतेः ।
नैकमोजः प्रसादो वा रसभावविदः कवेः

2.84

कृतापचारो ऽपि परैरनाविष्कृतविक्रियः ।
असाध्यः कुरुते वा रसभावविदः कवेः

2.85

मृदुव्यवहितं तेजो भोक्तमर्थान्प्रकल्पते ।
प्रदीपः स्नेहमादत्ते दशयाभ्यन्तरस्थया

2.86

नालम्बते नैष्ठिकतां न निषीदति पौरुषे ।
शब्दार्थौ सत्कविरिव द्वयं विद्वानपेक्षते

2.87

स्थायिनोर्ऽथे प्रवर्तन्ते भावाः संचारिणो यथा ।
रसस्यैकस्य भूयांसस्तथा नेतुर्महीभृतः

2.88

तन्त्रवापविदा योगैर्मण्डलान्यधिष्ठिता ।
सुनिग्रहानरेन्द्रेण फणीन्द्रा इव शत्रवः

2.89

करप्रचेयामुत्तुङ्गः प्रभुशक्तिं प्रतीयसीम् ।
प्रज्ञाबलबृहन्मूलः फलत्युत्साहपादपः

2.90

अल्पत्वात्प्रबलत्वाद्वंशस्येवेतरे स्वराः ।
विजीगीषोनृपतयः प्रयान्ति परिवारतां

2.91

अप्यनारभमाणस्य विभोरुत्पादिताः परैः ।
व्रजन्ति गुणतामर्थाः शब्दा इव विहायसः

2.92

यातव्यपार्ष्णिग्राहादिमालायामधिकद्युतिः ।
एकार्थतन्तुप्रोतायां नायको नायकायते

2.93

षाड्गुण्यमुपयुञ्जीत शक्त्यपेक्षो रसायनं ।
भवन्त्यस्येवमङ्गानि स्थास्नूनि बलवन्ति च

2.94

स्थाने शमवतां शक्त्या व्यायामे वृद्धिरङ्गिनां ।
अयथाबलमारम्भो निदानं क्षयसंपदः

2.95

तदीशितारं चेदिनां भवांस्तमवमंस्त मा ।
निहन्त्यरीनेकपदे य उदात्तः स्वरानिव

2.96

मा वेदि यदसावेको जेतव्यश्चेदिराडिति ।
राजयक्ष्मेव रोगाणां समूह स महीभृतां

2.97

संपादितफलस्तेन सपक्षः परभेदनः ।
कार्मुकेणेवगुणिना बाणः संधानमेष्यति

2.98

ये चान्ये कालयवनशाल्वरुक्मिद्रुमादयः ।
तमःस्वभावस्ते।प्येनं प्रदोषमनुयायिनः

2.99

उपजापः कृतस्तेन तानाकोपवतस्त्वयि ।
आशु दीपयिताल्पो ऽपि साग्नीनेधानिवानिलः

2.100

बृहत्सहायः कार्यान्तं क्षोदीयानपि गच्छति ।
संभूयाम्भोधिमभ्येति महानद्या नगापगा

2.101

तस्य मित्राण्यमित्रास्ते ये च ये चोभये नृपाः ।
अबियुक्तं त्वयैनं ते गन्तारस्त्वामतः परे

2.102

मखविघ्नाय सकलमित्थमित्युत्थाप्य राजकम् ।
हन्त जातमजातारेः प्रथमेन त्वयारिणा

2.103

संभाव्य त्वामतिभरक्षमस्कन्धं सबान्धवः ।
सहायमध्वरधुरां धर्मराजो विवक्षते

2.104

महात्मनो ऽनुगृह्णन्ति भजमानान्रिपूनपि ।
सपन्तीः प्रापयन्त्यब्धिं सिन्धवो नगनिम्नगा

2.105

चिरादपि बलात्कारो बलिनः सिद्धये ऽरिषु ।
छन्दानुवृत्तिदुःःसाध्याः सुहृदो विमनीकृताः

2.106

मन्यसे ऽरिवधः श्रेयान्प्रीतये नाकिनामिति ।
पुरोडाशभुजामिष्टमिष्टं कर्तुमलन्तरां

2.107

अमृतं नाम यत्सन्तो मन्त्रजिह्वेषु जुह्वति ।
शोभैव मन्दरक्षुब्धक्षुभिताम्भोधिवर्णना

2.108

सहिष्ये शतमागांसि सूनोस्त इति यत्वया ।
प्रतीक्ष्यन्तत्प्रतीक्ष्यायै पितृष्वस्रे प्रतिश्रुतम्

2.109

तीक्ष्णा नारुन्तुदा बुद्धिः कर्म शान्तं प्रतापवत् ।
नोपतापि मनः सोषमवागेका वाग्मिनः सतः

2.110

स्वयङ्कृतप्रसादस्य तस्याह्नो भानुमानिव ।
समयावधिमप्राप्यय नान्तायालं भवानपि

2.111

कृत्वा कृत्यविदस्तीर्थेष्वन्तः प्रणिधयः पदम् ।
विदां कुर्वन्तु महतस्तलं विद्विषम्भसः

2.112

अनुत्सूत्रपदन्यासा सद्वृत्ति सन्निबन्धना ।
शब्दविद्येव नो भाति राजनीतिरस्पशा

2.113

अज्ञातदोषैर्देषज्ञैरुद्दूष्योभयवेतनैः ।
भेद्याः शत्रोरभिव्यक्तशासनैः सामवायिकाः

2.114

उपेयिवांसि कर्तारः पुरीमाजातशत्रवीम् ।
राजन्यकान्युपायज्ञैरेकार्थानि चरैस्तव

2.115

सविशेषं सुते पाण्डोर्भक्तिं भवति तन्वति ।
वैरायितारस्तरलाः स्वयं मत्सरिणस्तरले

2.116

य इहात्मविदो विपक्षमध्ये सह संवृद्धियुजो ऽपि भूभुजः स्युः ।
बलिपुष्टकुलादिवान्यपुष्टैः पृथगस्मादचिरेण भाविता तैः

2.117

सहजदोषचापलसमुद्धतश्चलितदुर्बलपक्षपरिग्रहः ।
तव दुरासदवीर्यविभावसौ शलभतां लभतामसुहृद्गणः

2.118

इति विशकलितार्थमौद्धवींवाचमेनामनुगतनयमार्गमर्गलां दुर्नयस्य ।
जनितमुदमुदस्थादुच्चकैरुच्छ्रितोरःस्थलनियतनिषण्णश्रीश्रुतां शुश्रुवान्सः

मूल पाठ: Śiśupālavadha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc