शिशुपालवध · अध्याय 1
माघ: शिशुपालवध
श्रियः पति श्रीमति शासितुं जगज्जगन्निवासो वसुदेवसद्मनि ।
वसन् ददर्शावतरन्तमम्बराद्धिरण्यगर्भाङ्गभुवं मुनिं हरिः
गतं तिरश्चीनमनूरुसारधेः प्रसिद्धमूर्ध्वज्वलनं हविर्भुजः ।
पतत्यधो धाम विसारि सर्वतः किमेदतित्याकुलमीक्षितं जनैः
चयस्तविषामित्यवधारितं पुरा ततः शरीरीति विभाविताकृतिम् ।
विभुर्विभक्तावयवं पुमानिति क्रमादमुं नारद इत्यबोधि सः
नवानधो ऽधो बृहतः पयोधरान् समूढकर्पूरपरागपाण्डुरम् ।
क्षणं क्षणोत्क्षिप्तगजेन्द्रकृत्तिना स्फुटोपमं भूतिसितेन शम्घुना
दधानमम्भोरुहकेसरद्युतीर्जटाः शरच्चन्द्र मरीचिरोचिषम् ।
विपाकस्तुङ्गास्तुहिनस्थलीरुहो धरादरेन्द्रं व्रततीततीरिव
पिशङ्गमौञ्जीयुजमर्जुनच्छविं वसानमेणाजिनमञ्नद्युति ।
सुवर्मसूत्राकलिताधराम्बरां विडम्बयन्तं शितिवाससस्तनुम्
विहङ्गराजाङ्गरुहैरिवायतैर्हिरण्मयोर्वीरुहवल्लितत्नुभिः ।
कृतोपवीतं हिमशुभ्रमुच्चकैर्घनं घनान्ते तटितां गणैरिव
निसर्गचित्रोज्वलसूक्ष्मपक्ष्मणा लसद्बिसच्छेदसिताङ्गसङ्गिना ।
चकासतं चारुचमूरुचर्मणा कुथेन नागेन्द्रमिवेन्द्रवाहनम्
अजस्रमास्फालितवल्लकीगुणक्षतोज्वलाङ्गुष्ठनखांशुभिन्नया ।
पुरः प्रवालैरिव पूरितार्धया विभान्तमच्छस्फटिकाक्षमालया
रणद्भिराघट्टनया नभस्वतः पृथग्विभिन्नश्रुतिमण्डलैः स्वरैः ।
स्फुटीभवद्ग्रामविशेषमूर्च्छनामवेक्षमाणं महतीं मुहुर्मुहुः
निवर्त्य सो ऽनुव्रजतः कृतानतीनतीन्द्रयज्ञाननिधिर्नभः सदः ।
समासदत्सादितदैत्यसंपदः पदं महेन्द्रलायचारु चक्रिणः
पतत्पतङ्गप्रतिमस्तपोनिधिः पुरो ऽस्य यावन्न भुवि व्लीयत ।
गिरेस्तडित्वानिव तावदुच्चकैर्जवेन पीठादुतिष्ठदच्युतः
अथ प्रयत्नोन्नमितानत्फणैर्धृते कथञ्चित्फणिनां गणैरधः ।
न्यधायिषातामभि देवकीसुतं सुतेन धातुश्चरणौ भुवस्तले
तमर्घ्यमर्घ्यादिकयादिपुरुषः सपर्यया साधु स पर्यपूजयत् ।
गृहानुपैतुं प्रणयादभीप्सवो भवन्ति नापुण्यकृतां मनीषिणः
न यावदेतावुदपश्यदुत्थितौ जनस्तुषाराञ्जनपर्वताविव ।
स्वहस्तदत्ते मुनिमासने मुनिश्चिरंस्तावदभिन्यवीविशत्
महामहानीलशिलारुचः पुरो निषेदिवान् कंसकृषः स विष्टरे ।
श्रितोदयाद्रेरभिसायमुच्चकैरचूचुरच्चन्द्रमसो ऽभिरामताम्
विधाय तस्यापचितिं प्रसेदुषः प्रकाममप्रीयत यज्वनां प्रियः ।
ग्रहीतुमार्यान्परिचर्यया मुहुर्महानुभावा हि नितान्तमर्थिनः
अशेषतीर्थोपहृताः कमण्डलोर्निधाय पाणावृषीणाभ्युदीरिताः ।
अघौघविध्वंसविधौ पटीयसीर्नतेन मूर्द्ना हरिरग्रहीदापः
स काञ्चने यत्र मुनेरनुज्ञया नवाम्बुदशयामवपुर्न्यविक्षत ।
जिगाय जम्बूजनितश्रियः श्रियं सुमेरुशृङ्गस्य तदा तदासनम्
स तप्ताकार्तस्वरभास्वराम्बरः कठोरधाराधिपलाञ्छनच्छविः ।
विदिद्युते बाडवजातवेदसः शिखाभिराश्लिष्ट इवाम्भसां निधिः
रथाङ्गपाणेः पटलेन रोचिषामृषित्विषः संवलिता विरेजिरे ।
चलत्पलाशान्तरगोचरस्तरोतुषारमूर्तेरिव नक्तमंशवः
प्रफुल्लतापिच्छनिभैरभीषुभिः शुभैश्च सप्तच्छदपांसुपाण्डुभिः ।
परम्परेण च्छुरितामलच्छवी तदेकवर्णाविव तौ बभूवतुः
युगान्तकालमतिसंहृतात्मनो जगन्ति यस्यां सविकासमासत ।
तनौ ममुस्तत्र न कैटभद्विषस्तपोधनभ्यागमसंभवा मुदः
निदाधधामानमिवाधिदीधितिं मुदाविकासं मुनिमभ्युपेयुषी ।
विलोचने बिभ्रदधिश्रितश्रिणी स पुण्डराकाक्ष इति स्फुटाभवत्
सितंसितिम्ना सुतरां मुनेर्वपुः विसारिभिः सौधमिवाथ लम्भयन् ।
द्विजावलिव्याजनिशाकरांशुभिः शुचिस्मितां वाचमवोचदच्युतः
हरत्यघं संप्रति हेतुरेष्यतः शुभस्य पूर्वाचरितै कृतर्ं शुभै ।
शरीरभाजां भवदीयदर्शनं व्यनक्ति कालत्रितये ऽपि योग्यताम्
जगत्पर्याप्तसहस्रभानुना न यन्नियन्तुं समभावि भानुना ।
प्रसह्य तेजोभिरसंख्यतां गतैर् अदस्त्वया नुन्नमनुत्तमं तमः
कृतः प्रजाक्षेमकृता प्रजासृजा सुपात्रनिक्षेनिराकुलात्मना ।
सदोपयोगे ऽपि गुरुस्त्वमक्षयो निधिः श्रुतीनां धनसंपदामिव
विलोकनेनैव तवामुना मुने कृतः कृतार्थोस्मि निबर्हितांहसा ।
तथापिशुश्रूषुरहं गरीयसीर्गिरो ऽथवा श्रेयसि केन वा तृप्यते
गतस्पृहो ऽप्यागमनप्रयोजनं वदेति वक्तुं व्यवसीयते यया ।
तनोति नस्तामुदित्मगौरवो गुरुस्तवैवागम एव धृष्यताम्
इतिब्रुवन्तं उवाच स व्रती न वाच्यमित्थं पुरुषोत्तम त्वया ।
त्वमेव साक्षात्करणीय इत्यतः किमस्ति कार्यं गुरु योगिनामपि
उदीर्णरागप्रतिरोधकं जनैरभीक्ष्णमक्षुण्णतयातिदुर्गमम् ।
उपेयुषोमोक्षपथं मनस्विनस्त्वमग्रमूर्तिर्निरपायसंश्रया
उदासितारं निग्रहीतमानसैर्गृहीतमध्यात्मदृशा कथञ्चन ।
बहिर्विकरं प्रकृतेः पृथग्विदुः पुरातनं त्वां पुरुषं पुराविदः
निवेशयामासिथ हेलयोद्धृतं फणाभृतां छादनमेकमोकसः ।
जगतैकस्थपतिस्त्वमुच्चकैरहीश्वरस्तम्भशिरःसुभूतलम्
अनन्यगुर्वास्तव केन केवलः पुराणमूर्तेमहिमावगम्यते ।
मनुष्यजन्मापि सुरासुरान्गुणैर्भवान्भवच्छेदकरै करोत्यधः
लघूकरिष्यन्नतिभारभङ्गुराममूं किल त्वं त्रिदिवादवातरः ।
उदूढलोकत्रितयेन सांप्रतं गुरुर्धरित्री क्रियतेतरां त्वया
निजोजसोज्जासयितुं जगद्रहामुपजिहीथा न महीतले यदि ।
समाहितैरप्यनिरूपितस्ततः पदं दृशः स्याः कथम् ईश मादृशाम्
उपप्लुतं पातुमदो मदोद्धतैस्त्वमेव विश्वंभर विश्वमीशिषे ।
ऋते रवेः क्षालयितुं क्षमेत कः क्षपातमस्काण्डमलीमसं तमः
करोति कंसादिमहीभृतां वधाज्जनो मृगाणामिव यत्तव स्तवम् ।
हरे हिरण्याक्षपुरःसरासुरद्विपद्विषः प्रत्युत सा तिरस्क्रिया
प्रवृत्त एव स्वयमुज्झिश्रमः क्रमेण पेष्टुं भुवनद्वषामसि ।
तथापि वाचालतया युनक्ति मां मिथस्त्वदाभाषणलोलुपं मनः
तदिन्द्रसंदिष्टमुपेन्द्र यद्वचः क्षणं मया विश्वजनीनमुच्यते ।
समस्तकार्येषु गतेन धुर्यतामहिद्विषस्तद्भवता निशम्यताम्
अभूदभूमि प्रतिपक्षजन्मनां भियां तनूजस्पनद्युतिर्दितेः ।
यमिन्द्रशब्दार्थनिषूदनं हरेर्हरण्यपूर्वं कशिपुं प्रचक्षते
समत्सरेणासुर इत्युपेयुषा चिराय नाम्नः प्रथमाभिधेयतां ।
भयस्यपूर्वावतरस्तरस्विना मनस्तु येन द्युसदां न्यधीयत
दिशामधीशांश्चतुरो यतः सुरानपास्य तं रागाहृताः सिषेविरे ।
अवापुरारभ्य ततश्चला इति प्रवादमुच्चैरयशस्करं श्रियः
पुराणि दुर्गाणि निशातमायुधं बलानि शूराणि घनाश्चकञ्चुकाः ।
स्वरूपशोभैकफलानि नाकिनां गणैर्यमाशङ्क्य तदादि चक्रिरे
स संचरिष्णु भुवनान्तरेषु यां यदृच्छयाशिश्रियादाश्रयः श्रियः ।
अकारि तस्यै मुकुटोपलस्खलत्करैस्त्रिसन्ध्यं त्रिदशैर्दिशे नमः
सटाच्छटभिन्नघनेन बिभ्रता नृसिंह सैंहीमतनुं तनुं त्वया ।
स मुग्धकान्तास्तनसङ्गभङ्गुरैरुरोविदारं प्रतिचस्किरे नखैः
विनोदमिच्छन्नथ दर्पजन्मनो रणेन कण्ड्वास्त्रिदशै समं पुनः ।
स रावणो नाम निकामभीषणं बभूव रक्षः क्षतरक्षणं दिवः
प्रभुर्बुभूषुर्भुवनत्रयस्य यः शिरो ऽतिरागाद्दशमं चिकर्तिषुः ।
अतर्कयद्विघ्नमिवेष्टसाधसः प्रसादमिच्छासद्दृशं पिनाकिनः
समुत्क्षिपन्यः पृथिवीभृतां वरं वरप्रदानस्य चकार शूलिनः ।
त्रसत्तुषाराद्रिसुताससंभ्रमस्वयङ्ग्रहाश्लेषसुखेन निष्क्रयम्
पुरीमवस्कन्द लुनीहि नन्दनं मुषाण रत्नानि हरामराङ्गनाः ।
विगृह्य चक्रे नमुचिद्विषा बली य इत्थमस्वास्थ्यमहर्दिवं दिवः
सलीलयातानि न भर्तुरभ्रमोर्न चित्रमुच्चैश्रवसः पदक्रमम् ।
अनुद्रुतः संयति येन केवलं बलस्य शत्रुः प्रशशंस शीघ्रताम्
अशुक्नुवन् सोढुमधीरलोचनः सहस्ररश्मेरिव यस्य दर्शनम् ।
प्रविश्य हेमाद्रिगुहागृहान्तरं निनाय बिभ्यद्दिवसानि कौशिकः
बृहच्छलानिष्ठुरकण्ठघट्टनाविकीर्णलोलाग्निकणं सुरद्विषः ।
जगत्प्रभोरप्रसिहिष्णु वैष्णवं न चक्रमस्याक्रमताधिकन्धरं
बिभिन्नशङ्खः कलुषीभवन्मुहुर्मदेन दन्तीव मनुष्यधर्मणः ।
निरस्तघांभीर्यमपास्तपुष्पकं प्रकम्पयामास न मानसं न सः
रणेषु तस्य प्रहिताः प्रचेतसा सरोषहुङ्कारपराङ्मुखीकृताः ।
प्रहर्तुरेवोरगराजरज्जवो जवेन कण्ठं सभयाः प्रपेदिरे
परेभर्तुर्महिषो ऽमुना धनुर्विधातुमुत्खातविषाणमण्डलः ।
हृते ऽपिभारे महतस्त्रपाभरादुवाह दुःखेन भृशानृतं शिरः
सृपशन्सशङ्कः समये शुचावपि स्थितः कराग्रैरसमग्रपातिभिः ।
अघघर्मोदकबिन्दुमौक्तिकैरलञ्चकारास्य वधूरहस्करः
कलासमग्रेणगृहानमुञ्चता मनस्विनीरुत्कयितुं पटीयसा ।
विसासिनस्तस्य वितन्वतारतिं न नर्मसाचिव्यमकारिनेन्दुना
विदग्धलीलोचितदन्तपत्रिकाविधित्सया नूनमनेन मानिना ।
न जातु वैनायकमेकमुद्धृतं विषाणमद्यापि पुनः प्ररोहति
निशान्तनारीपरिधानधूननस्फुटागसाप्यूरुषु लोलचक्षुषः ।
प्रियेण तस्यानपराधबाधिताः प्रकम्पनेनानुचकम्पिरे सुराः
तिरस्कृतस्तस्य जनाभिभाविना मुहुर्महिम्ना महसां महीयसां ।
बभार बाष्पैर्द्वगुणीकृतं तनुतनूनपाद्धूममवितानमाधिजैः
परस्यमर्मविधमुज्झतां निजं द्विजिह्वतादोषमजिह्मगामिभिः ।
तमिद्धमाराधयितुं सकर्णकैः कुलैर्न भेजे फणिनां भुजङ्गता
तदीयमातङ्गघटाविघट्टितैः कटस्थलप्रोषितदानवारिभिः ।
गृहीतदिक्कैरपुनर्निवर्तिभिश्चिराय याथार्थ्यमलम्बि दिग्गजैः
अभीक्ष्णमुष्णैरपि तस्य सोष्मणः सुरेन्द्रवन्दीश्वसितानिलैर्यथा ।
सचन्दनाम्भःकणकोमलैस्तथा वपुर्जलार्द्रापवनैर्न निर्वबौ
तपेन वर्षाः शरदा हिमागमो वसन्तलक्ष्म्या शिशिरः समेत्य च ।
प्रसूनकॢप्तिं दधतः सदर्तवः पुरोस्य वास्तव्यकुटुम्बितां ययौ
अमानवं जातमजं कुले मनोः प्रभाविनं भाविन्नमन्तमात्मनः ।
मुमोच जानन्नपि जानकीं न यः सदभिमानैकधना हि मानिनः
स्मरत्यदो दाशरथिर्भवानमुं वनान्ताद्वनितापहारिणम् ।
पयोधिमाबद्धचलज्जलाबिलं विलङ्घ्यलङ्गां निकषा हनिष्यति
अतोपपत्तिं छलनापरो ऽपरामवाप्य शैलूष इवैष भूमिकां ।
तिरोहितात्मा शिशुपालसंज्ञया प्रतीयते संप्रति साप्यसः परैः
स बाल आसीद्वपुषा चतुर्भुजो मुखेन पूर्णेन्दुनिभस्त्रिलोचनः ।
युवाकराक्रान्तमहीभृदुच्चकैरसंशयं संप्रति तेजसा रविः
स्वयं विधाता सुरदैत्यरक्षसामनुग्रहावग्रहयोर्यदृच्छया ।
दशाननादीनभिराद्धदैवतावितीर्णवीर्यातिशयान् हसत्यसौ
बलावलेपादधुनापिपूर्ववप्रबाद्ध्यते तेन जगज्जिगीषुणा ।
सतीव योषित्प्रकृतिः सुनिश्चला पुमांसंमब्येति भवान्तरेष्वपि
तदेनमुल्लङ्घितशासनं विधेर्विधेहि कीनाशनिकेतनातिथिम् ।
शुभेतराचारविपक्त्रिमापदो विपादनीया हि सतामसाधवः
हृदयमविरोधोदयददूढद्रढिम दधातु पुनः पुरन्दरस्य ।
घनपुलकपुलोमजाकुचाग्रद्रुतपरिरम्भनिपीडनक्षमत्वम्
ओमित्युक्तवतो ऽथ शाङ्गिणा इति व्याहृत्य वाचं नभस्तस्मिन्नुत्पतिते पुरः सुरमुनाविन्दोः श्रियं बिभ्रति ।
शत्रुणामनिश विनाशपिशुनः क्रुद्धस्य चैद्यं प्रति व्योम्नि भ्रकुटिच्छलेन वदने केतुशचकारास्पदम्
मूल पाठ: Śiśupālavadha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0