भाषा

ENहिગુ
ग्रंथ पाठ

शिक्षासमुच्चयकारिका · श्लोक 1-20

1

शिक्षासमुच्चयकारिका (श्स्क्)
यदा मम परेषां च भयं दुःखं च न प्रियम् ।
तदात्मनः को विशेषो यत्तं रक्षामि नेतरम्

2

दुःखान्तं कर्तुकामेन सुखान्तं गन्तुमिच्छता ।
श्रद्धामूलं दृढीकृत्य बोधौ कार्या मतिर्दृढा

3

(शिक्षादरो) महायानाद्बोधिसत्त्वस्य संवरः ।
मर्मस्थानान्यतो विद्याद्येनानापत्तिको भवेत्

4

आत्मभावस्य भोगानां त्र्यध्ववृत्तेः शुभस्य च ।
उत्सर्गः सर्वसत्त्वेभ्यस्तद्रक्षा शुद्धिवर्धनम्

5

परिभोगाय सत्त्वानामात्मभावादि दीयते ।
अरक्षिते कुतो भोगः कि दत्तं यन्न भुज्यते

6

तस्मात्सत्त्वोपभोगार्थमात्मभावादि पालयेत् ।
कल्याणमित्रानुत्सर्गात् सूत्राणां च सदेक्षणात्

7

तत्रात्मभावे का रक्षा यदनर्थविवर्जनम् ।
केनैतल्लभ्यते सर्वं निष्फलस्पन्दवर्जनात्

8

एतत्सिध्येत्सदा स्मृत्या स्मृतिस्तीव्रादराद्भवेत् ।
आदरः शममाहात्म्यं ज्ञात्वातापेन जायते

9

समाहितो यथाभूतं प्रजानातीत्यवदन्मुनिः ।
शमाच्च न चलेच्चितं बाह्यचेष्टा निवर्तनात्

10

सर्वत्रापचलो मन्दमतिस्निग्धाभिभाषणात् ।
आववर्जयेज्जनं भव्यमादेयश्चापि जायते

11

अनादेयं तु तं लोकः परिभूय जिनाङ्कुरम् ।
भस्मच्छन्नो यथा वह्निः पच्येत नरकादिषु

12

रत्नमेघे जिनेनोक्तस्तेन सङ्क्षेपसंवरः ।
येनाप्रसादः सत्त्वानां तद्यत्नेन विवर्जयेत्

13

एषा रक्षात्मभावस्य भैषज्यवसानादिभिः ।
आत्मतृष्णोपभोगात्तु क्लिष्टापत्तिः प्रजायते

14

सुकृटारम्भिणा भाव्यं मात्रज्ञेन च सर्वतः ।
इति शिक्षापदादस्य भोगरक्षा न दुष्करा

15

स्वार्थविपाक वैतृष्ण्याच्छुभं संरक्षितं भवेत् ।
पश्चातापं न कुर्वीत न च कृत्वा प्रकाशयेत्

16

लाभसत्कारभीतः स्यादुन्नतिं वर्जयेत्सदा ।
बोधिसत्त्वः प्रसन्नः स्याद्धर्मे विमतिमुत्सृजेत्

17

शोधितस्यात्मभावस्यभोगः पथ्यो भविष्यति ।
सम्यक्सिद्धस्य भक्तस्य निष्कणस्येव देहिनाम्

18

तृणच्छन्न यथा शस्यं रोगैः सीदति नैधते ।
बुद्धाङ्कुरस्तथा वृद्धिं क्लेशच्छन्नो न गच्छति

19

आत्मभावस्य का शुद्धिः पापक्लेशविशोधनम् ।
सम्बुद्धोत्तयर्थसारेण यत्नभावे त्वपायगः

20

क्षमेत श्रुतमेषेत संश्रयेत वनं ततः ।
सामाधानाय युज्येत भावयेदशुभादिकम्

मूल पाठ: Śikṣāsamuccayakārikā · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc