भाषा

ENहिગુ
ग्रंथ पाठ

शिक्षासमुच्चयकारिका · श्लोक 21-27

21

भोगशुद्धिं च जानीयात्सम्यगाजीवशोधनात् ।
शून्यताकरुणागर्भेचेष्टितात्पुण्यशोधनम्

22

ग्रहीतारः सुबहवः स्वल्पं चेद मनेन किम् ।
न चातितृप्तिजनकं वर्धनीयमिदं ततः

23

आत्मभावस्य का वृद्धिर्बलानालस्यवर्धनम् ।
शून्यताकरुणागर्भाद्दानाद्भोगस्य वर्धनम्

24

कृत्वादावेव यत्नेन व्यवसायाशयौ दृढौ ।
करुणां च पुरस्कृत्य यतेत शुभवृद्धये

25

भद्रचर्याविधिः कार्यो वन्दनादिः सहादरात् ।
श्रद्धादीनां सदाभ्यासो मैत्री बुद्धाद्यनुस्मृतिः

26

सर्वावस्थासु सत्त्वार्थो धर्मदानं निरामिषम् ।
बोधिचित्तं च पुण्यस्य वृद्धिहेतुः समासतः

27

सिद्धिः सम्यक्प्रहाणानामप्रमादावियोजनात् ।
स्मृत्याथ सम्प्रजन्येन योनिशश्चिन्तनेन च

मूल पाठ: Śikṣāsamuccayakārikā · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc