भाषा

ENहिગુ
ग्रंथ पाठ

शिक्षासमुच्चय · भाग 4147

अ-क्षय-क्षान्ति अ-क्षोभ्य-मुखेन के-चि व्रतं तप-वीर्य-मुखेन । ध्यान प्रशान्ति विहार-मुखेन स्व्-अर्थ-विनिश्चय-प्रज्ञ-मुखेन ॥
सर्व उपाय सहस्र-मुखेन ब्रह्म-विहार अभिज्ञ-मुखेन । संग्रह-वस्तु हित-एषि-मुखेन पुण्य-समुच्चय ज्ञान-मुखेन ॥
सत्य-प्रतीत्य विमोक्ष-मुखेन के-चि बल-इन्द्रिय-मार्ग-मुखेन । श्रावक-यान-विमुक्ति-मुखेन प्रत्यय-यान-विशुद्धि-मुखेन ॥
उत्तम-यान-विकुर्व-मुखेन के-चिद् अ-नित्यत-दुष्ख-मुखेन । के-चि निर्-आत्म-नि-जीव-मुखेन अ-शुभत संज्ञि-विराग-मुखेन ॥
शान्त-निरोध-समाधि-मुखेन यातुक चर्य-मुखा जगती ये ।यातुक धर्म-मुखाः प्रतियन्तः ते तु समन्त-विमोक्ष-मुखेन ॥
सत्व विनेन्ति यथा-आशय लोके ये तु समन्त-विमोक्ष-मुखेन । सत्व विनेन्ति यथा-आशय लोके तेष निमित्त न शक्य ग्रहीतुं ॥
केन-चिद् एष समाधि-विकुर्वाः तेन ति-व्यूहत [दोउब्त्fउल्] अग्र-समाधिः । सर्व-जगत्-परिपाच-नुलोमा सर्व-रती मुख-प्रीति-प्रहर्षाः ॥
चिन्तिय दर्शयि सर्व विनेन्ति यत्र दुर्-भिक्ष सु-दुर्-लभ सर्वं । ये परिष्कार सुख-आवह लोके तत्र च सर्व-भिप्राय-क्रियाभिः ॥
दातु ददन्ति करोन्ति जग-अर्थं ते वर-भोजन-पान-रस-अग्रैः ।वस्त्र-निबन्धन-रत्न-विचित्रैः राज्य-धन-आत्म-प्रियैः परित्यागैः ॥
दान-धिमुक्ति जगद् विनयन्ति ते वर-लक्षण-चित्रित-गात्रा । उत्तम आभरणा वर-धीराः माल्य-विभूषित-गन्ध-नुलिप्ता ॥
रूप विदर्शिय सत्व विनेन्ति दर्शन प्रीति-प्रहर्ष-रतानां । ते वर-रूप-सु-रूप-सु-मेधाः उत्तम-रूप निदर्शयमानाः ॥
रूप-धिमुक्ति जगद् विनयन्ति ते मधुरैः कलविङ्क-रुतेभी । कोकिल-हंस-कुणाल-रवेण दुन्दुभि-किन्नर-ब्रह्म-रुतेन देशयि सर्व-धिमुक्तिषु धर्मम् ॥
ये चतुर् एव अशीति सहस्रा येभि जिना जगतो * अर्थ करोन्ति । तेभित धर्म-प्रभेद-मुखेभिः सत्व विनेन्ति यथा-आशय लोके ॥
ते सुख-दुष्ख-सहाय करोन्ति अर्थ-अन्-अर्थ-सहायक भोन्ती । सर्व-क्रियासु सहाय भवित्वा सत्व विनेन्ति सहाय-मुखेन ॥
दुष्ख-उपद्रव-सत्-कृत-दोषान् ते तु सहन्ति सहाय-निदानास् । तेभि सहाय सहन्तिय पीडां सर्व-जगस्य हिताय सुखाय ॥
यत्र न निष्क्रमणं न च धर्मो ज्ञायति रण्य-गतो न च मोक्षः । तत्र तु राज्य-समृद्धि-सहाय निष्क्रम-शान्त-मना अ-निकेताः ॥
ते गृह-बन्धन-तृष्ण-निकेतात् सर्व-जगत्-परिमोचन-हेतोः । सर्वत काम-रती अ-निकेता निष्क्रम-मोक्स्.अ प्रभावयमानाः ॥
ते दश चर्य प्रभावयमाना आचरि धर्म महा-पुरुषाणां । सर्वम् अ-शेषत चर्य ऋषीणां भावयमान करोन्ति जग-अर्थं ॥
यत्र् अमित-आयुष सत्व भवन्ती सौख्य-समर्पित-मन्द-किलेशाः । तत्र जरा-अर्दित व्याधिन-पृष्टा दर्शयि मृत्यु-वशं अ-वश-आत्मा ॥
राग-प्रदीपितु दोष-प्रदीप्तं मोह-महा-अग्नि-प्रदीपितु लोकम् । प्रज्वलितं जर-व्याधित-मृत्यु लोक निदर्शयि सत्व विनेन्ति ॥
दश-बलैश् चतुर्-वैशारद्यैर् अष्टदशैर् अपि धर्म-विशेषैः । बुद्ध-महा-आत्म तु सूचयमानाः बुद्ध-गुणेभि करोन्ति जग-अर्थम् ॥
ते च अदेश ऋद्ध्य्-अनुशास्ती रूप-धिष्ठान-बलेन समन्तात् । दर्शयमान तथा-गत ऋद्धी ऋद्धि-विकुर्वित सत्व विनेन्ति ॥
ते विविधेहि उपाय-नयेहि लोक-विचारि करोन्ति जग-अर्थं । लोकि अ-लिप्त जले यथ पद्मं प्रीति-प्रसाद-करा विचरन्ति ॥
काव्य-कराः कवि-राज भवन्ती ते नट-नर्तक झल्लक-मल्लाः । उत्कुट-शोभिक-हारक-नृत्या माय-कराः पृथु रूप-निदर्शी ॥
ग्रामिक नायक सारथि भोन्ती स-अर्थिक श्रेष्ठिक गृह-पति भोन्ति । राज अमात्य पुरो-हित-दूता वैद्य-विशारद-शास्त्र-विधि-ज्ञाः ॥
ते अटवीषु महा-द्रुम भोन्ती औषध अ-क्षय-रत्न-निधानाः । चिन्त-मणि द्रुम काम-ददाश् च देशिक उत्पथ-मार्ग-गतानां ॥
अर्च्चिय सन्तु तु लोक विदित्वा कर्म-विधीषु अ-जानक सत्वाः । ते कृषि-कर्म-प्रयोग-वणिज्या शिल्पि-विचित्र प्रभावयि लोके ॥
ये अ-विहेठ अ-हिंस-प्रयोगः सर्व-सुख-आवह-विज्ञ-प्रशस्ताः । विद्य-बल-औषधि शास्त्र-विचित्राः सर्व प्रभावित तेभि ऋषीभिः ॥
ये ऋषिणां चरणाः परम-अग्रा यत्र + अधिमुक्त स-देवकु लोकः । ये व्रत-दुष्-कर ये तप-श्रेष्ठाः सर्वि प्रभावित तेभि विदूभिः ॥
ते चरकाः परिव्राजक तीर्थ्याः तापस-गोतम-मोन-चराणाम् । नग्न अचेल-गुरु-श्रमणानां तीर्थिक आचर्या हि भवन्ति ॥
ते तु अजीविक धर्म-चराणां उत्तरिकाण अन्-उत्तरिकाणां । दीर्घ-जटान कुमार-व्रतानां तेष्व् अपि आचर्या हि भवन्ति ॥
सूर्य-नुवर्तक-पञ्च-तपानां कुक्कुर-गो-व्रतिका मृग-चर्या । चारिक तीर्थ्य दश त्रितयानां तेष्व् अपि आचर्या हि भवन्ति ॥
देवत-ज्ञान-प्रवेश-रतानां तीर्थ्-उपदर्शन-देश-चराणां । मूल-फल-अम्बु-चरा अपि भूत्वा धर्म अ-चिन्तिय ते परम-अग्राः ॥
उत्कुट-स्थायिन एक-चराणां कण्टक-भस्म-तृण-श्शयनानां । ये मुषले-शय [दोउब्त्fउल्] युक्ति-विहारी तेष्व् अपि आचर्या हि भवन्ति ॥
यावत बाहिरकाः पृथु-तीर्थ्या आशय तेष्व् अधिमुक्ति समीक्ष्य । तीक्ष्ण-दुर्-आसद-उग्र-तपेभी तीर्थिक दुष्ख-प्रहाण विनेन्ति ॥
दृष्टि-समाकुल लोके विदित्वा सर्व-कु-दृष्टि-समाश्रित तीर्थ्याः । सूक्ष्म-पदेभिर् उपायन येभी सत्य-प्रकाशन तेषु करोन्ति ॥
केषु-चि द्रामिड-मन्त्र-पदेभी देशयि सत्य सु-गुप्त-पदेभिः । केषु उज .. व्यक्त-पदेभिः केषु-चिद् एव रहस्य-पदेभिः ॥
केषु-चि अक्षर-भेद-पदेभिः अर्थ-विनिश्चय-वज्र-पदेभिः । वादि-प्रमर्दन-ज्ञान-पदेभिः शास्त्र-अ-धर्मक-मोक्ष-पदेभिः ॥
केषु-चि मानुष-मन्त्र-पदेभिः सर्व-प्रवेश-निरुक्ति-पदेषु । केषु-चि देव-निरुक्ति-पदेभिः नाग-निरुक्तित यक्ष-पदेभिः ॥
राक्षस-अथ-गन्धर्व-पदेभिः भूत-कुम्भाण्ड-महा-उर-गकेभिः । किंनर-अप्सर-गरुड-पदेभिः सत्य-प्रकाशन-मोक्ष्-उपनेन्ति ॥

ते यथ-सत्य निरुक्ति-विधि-ज्ञा एवम् अ-शेषत ये जिन-धर्मा । धर्मम् अ-चिन्तिय वाक्य-पथ-ज्ञा देशयि एष समाधि-विकुर्वा ॥
ते जग-सौख्यत अग्र-समाधी सर्व-जगे अभिनिर्हरमाना । रश्मिम् अ-चिन्तियम् उत्सृजमाना रश्मि प्रमुञ्चिय सत्व विनेन्ति ॥
रश्मि प्रमुञ्चिय दर्शयमाना यावत सत्व विजानित रश्मि । तेषु सु-दर्शन भोति अ-मोघम् हेतु अन्-उत्तरि ज्ञान-वरस्य ॥
दर्शयि बुद्ध विदर्शयि धर्मं संघ निदर्शयि मार्ग नराणाम् । दर्शयि चेतिक ते जिन-बिम्बा तेन सु-दर्शन-रश्मि निवृत्ता ॥
रश्मि प्रमुञ्चि प्रभं-कर नामा या प्रभ जिह्म करोति मरूणां । सर्व-रजं च तमं च हनित्वा सो प्रभ भासति लोक-हितानां ॥
ताय प्रभासय चोदित सत्वास् ते जिन-पूज-प्रदीप धरेन्ती । ते जिन-पूज-प्रदीप धरित्वा लोक-प्रदीप-करा जिन भोन्ति ॥
तैल-प्रदीप घृतस्य प्रदीपा दारु तृणा नड-वेणु प्रदीपान् । गन्ध-रसायन-रत्न-प्रदीपान् दत्व जिनेषु प्रभं-कर लब्धाः ॥
रश्मि प्रमुञ्चिय प्रतारणि नामा ताय प्रभासय चोदित सत्वाः । ... नाव-प्रतारणि-नद्य-पथेषु । दूषित संस्कृत वर्णित शान्ती तेन प्रतारणि रश्मि निवृत्ता ॥
रश्मि पिपास-विनोदनि नामा ताय प्रभासय चोदित सत्वाः । काम-गुणेषु तृषां प्रजहित्वा धर्म-विमुक्ति-रस-अर्थिक भोन्ति ॥
काम-गुणेषु तृषां प्रजहित्वा धर्म-विमुक्ति-रस-अर्थिक भूत्वा । बुद्ध भवन्त्य् अ-मृतं-जल-वर्षी तृष्ण-पिपास-विनोदन लोके ॥
पुष्करिणी नदि-कूप-तडागा उत्सय कारित बोधि-निदानाः । काम विवर्णित वर्णित-ध्याना तृष्ण-विनोदनि तेन निवृत्ता ॥
प्रीति-करी यद रश्मि प्रमुञ्ची ताय प्रभासय चोदित सत्वाः । प्रीति-फुटा वर-बोधि-निदानं चिन्त जनेन्ति भविष्य स्वयं-भू ॥
लक्षण-मण्डित पद्म-निषण्णा यत् कृत-विग्रह कारुणिकानां । भाषित बुद्ध-गुणाः सद कालं प्रीति-करी प्रभ तेन निवृत्ता ॥
रश्मि प्रमुञ्चि रतिं-कर नामा ताय प्रभासय बोधित सत्वा । बुद्ध-रती-रत धर्म-रती-रत संघ-रती-रत ते सद भोन्ति ॥
त्रितय-रती-रत ते सद भूत्वा बुद्ध-समागम-धर्म-गण-आर्ये । लब्ध-नुपत्तिक-क्षान्ति लभन्ति चोदित स्मारित ये बहु सत्वा ॥
बुद्ध-अनुस्मृति-धर्म-गण-आर्ये बोधि य चित्त-गुणान् विवरित्वा । तेन रतिं-कर रश्मि निवृत्ता ॥
पुण्य-समुच्चय-रश्मि प्रमुञ्ची ताय प्रभासय चोदित सत्वा । दानु ददन्ति विचित्रम् अन्-एकं प्रार्थयमानु अन्-उत्तरु बोधिं ॥
आशय पूरितु याचनकानां यज्ञ निर्-अर्गड तैर् यजमानैः । सर्व-भिप्रायत दानु ददित्वा पुण्य-समुच्चय रश्मि निवृत्ता ॥
ज्ञानवती यद रश्मि प्रमुञ्ची ताय प्रभासय चोदित सत्वाः । एक तु धर्म मुखातु अन्-एका धर्म-मुखान् अवबुद्धि क्षणेन ॥
धर्म-प्रभेद ... ग्राहित सत्वान् अर्थ-विनिश्चय ज्ञान विभक्ती । धर्म-पद-अर्थ-विभाषण कृत्वा ज्ञानवती प्रभ तेन निवृत्ता ॥
प्रज्ञ-प्रदीपय ओसरि रश्मि ताय प्रभासय चोदित सत्वाः । शून्य नि-सत्व अ-जात-विपन्नान् ओतरि धर्म अ-भाव-स्व-भावान् । माय-मरीचि-समा दक-चन्द्र-स्वप्न-समान् प्रतिबिम्ब-समान् वा । धर्म अ-स्वामिक शून्य निर्-ईहान् भाषति प्रज्ञ-प्रदीप निवृत्ता ॥
धर्म-विकुर्वणि रश्मि प्रमुञ्ची ताय प्रभासय चोदित सत्वा । धारणि अ-क्षय-कोषु लभित्वा सर्व-तथा-गत-कोषु लभेन्ति ॥
धर्म-धराणु परिग्रहु कृत्वा धार्मिक-रक्ष करित्व ऋषीणां । धर्म अनुग्रह कृत्व जगस्य धर्म-विकुर्वणि रश्मि निवृत्ता ॥
त्यागवती यद रश्मि विमुञ्ची ताय य मत्सर चोदित सत्वा । ज्ञात्वा अ-नित्य अ-शाश्वत-भोगान् त्याग-रती-रत ते सद भोन्ति ॥
मत्सर-दुर्-दम सत्व अ-दान्ता ज्ञात्व धनं सुपिन-अभ्र-स्व-भावं । बृंहित त्याग प्रसन्नम् अनेन त्यागवती-प्रभ तेन निवृत्ता ॥
निष्-परिदाह य ओसरि रश्मिः ताय दुः-शीलय चोदित सत्वा । शील-विशुद्धि प्रतिष्ठित भूत्वा चिन्त जनेन्ति भवेय स्वयं-भूः ॥
कर्म-पथे कुशले परिशुद्धे शील समादयि यद् बहु-सत्वान् । बोधयि चित्त समादयनेन रश्मि निवृत्त स निष्-परिदाहः ॥
क्षान्ति-वियूह य ओसरि रश्मि ताय य अ-क्षम चोदित सत्वाः । क्रोध-खिलं अधिमान जहित्वा क्षान्ति-रती-रत ते सद भोन्ति ॥
दुः-कृत क्षान्ति अपाय-मतीनां चित्त अ-क्षोभित बोधि-निदानं । वर्णित क्षान्ति-गुणाः सद-कालं तेन निवृत्त स क्षान्ति-वियूहा ॥
रश्मि उत्तप्तवती यद मुञ्ची ताय कुशीदय चोदित सत्वाः । युक्त प्रयुक्त त्रिषू रतनेषु पूज करोन्ति अ-खिन्न-प्रयोगाः ॥
युक्त प्रयुक्त त्रिषू रतनेषु पूज करित्व अ-खिन्न-प्रयोगाः । ते चतु मार-पथा अतिक्रान्ताः क्षिप्र स्पृशन्ति अन्-उत्तर बोधिं ॥
वीर्य समादयि यद् बहु-सत्वान् पूज करित्व त्रिषू रतनेषु । धर्म धरित्व क्षयं-गत काले तेन उतप्तवती प्रभ लब्धा ॥
शान्ति-करी यद रश्मि प्रमुञ्ची ताय विभ्रान्तय चोदित सत्वाः । तेषु न रागु न द्वेष न मोहाः बोधित भोन्ति समाहित चित्ताः ॥
पाप कु-मित्र किलिष्ट चरीये संगणिका-विनिवर्तन कृत्वा ।वर्णित ध्यान प्रशान्त अरण्ये शान्ति-करी प्रभ तेन निवृत्ता ॥
प्रज्ञ-वियूह य ओसरि रश्मी ताय दुः-प्रज्ञ संचोदित सत्वाः । सत्य-प्रतीत्य विमोक्षनये अस्मिन् निद्रिय ज्ञान-गतिं गत भोन्ति ॥
इन्द्रिय-ज्ञान-गतिं गत भूत्वा ... । सूर्य-प्रदीप-समाधि लभित्वा प्रज्ञ-प्रभास-करा जिन भोन्ति ॥
राज्य-धन-आत्म-प्रियैः परित्यागैः धर्म य मार्गित बोधि-निदानं । तं च सत्-कृत्य प्रकाशिय धर्मं रश्मि निवृत्त स प्रज्ञ-वियूहाः ॥
बुद्धवती यद रश्मि प्रमुञ्ची ताय प्रभाय संचोदित सत्वाः । बुद्ध सहस्र अन्-एक अ-चिन्त्यान् पश्यिषु पद्म-वनेषु निषण्णान् ॥
बुद्ध-महा-आत्मत बुद्ध-विमोक्षा भासित बुद्ध-विकुर्व अन्-अन्ता । बुद्ध-बल-अवि-प्रभावन कृत्वा बुद्धवती प्रभ तेन निवृत्ता ॥
ते * अ-भयं-दद रश्मि प्रमुञ्ची ताय + अ-भय-अर्दित सत्व स-स्पृष्टाः । भूत-ग्रह-अवध-ताडन-बन्धे मुच्यिषु सर्व्-उपसर्ग-भयेभ्यः ॥

ये अ-भयेन निमन्त्रित सत्वाः प्राणि-बधात् तु निवारित भोन्ति । त्रायित यच्-छरण-आगत भीतास् तेन भयं-दद रश्मि निवृत्ता ॥
सर्व-सुख-आवह ओसरि रश्मी ताय गिलानय आतुर स्पृष्टाः । सर्वत व्याधि-दुखात् प्रतिमुक्ता ध्यान-समाधि-सुखानि लभन्ति ॥
रोग-विनोदनि मूल फल्-ओषध रत्न रसायन गन्ध्-अनुलेपान् । फाणित क्षीर मधू घृत तेलान् भोजन पान ददित्वय लब्धा ॥
बुद्ध-निदर्शनि रश्मि प्रमुञ्ची ताय स-चोदित आयु क्षयान्ते । बुद्ध अनुस्मरि पश्यिषु बुद्धम् ते च्युत गच्छि स-बुद्ध-क्क्षेत्रं ॥
काल करोन्ति च स्मारित बुद्धा दर्शित-प्रीत-करा जिन-बिम्बान् । बुद्ध-गताः शरणं मरण-अन्ते भासिय बुद्ध-निदर्शनि लब्धा ॥
धर्म-प्रभावनि रश्मि प्रमुञ्ची ताय प्रभाय संचोदित सत्वा । धर्म पठन्ति शृण्वन्ति लिखन्ती धर्म-रती रत ते सद भोन्ति ॥
।धर्म-दुर्-भिक्षय द्योतितु धर्मो धर्म-गवेषिण पूरित आशा । छन्द जनित्व प्रयुज्यथ धर्मे भाषत धर्म-प्रभावनि लब्धा ॥
घोषवती यद रश्मि प्रमुञ्ची बुद्ध-सुता परिचोदनतायां । यातुक शब्द-प्रचारु त्रि-लोके सर्व तथा-गत-घोष शृण्वन्ति ॥
उच्च स्वरेण स्तवन्ति मह-र्षीन् तूर्य-महत्तर-घण्ट-प्रदानैः । सर्व-जगे जिन-घोष-रुत-अर्थं निश्चरि घोषवती प्रभ-लब्धा ॥
ते * अ-मृतं-दद रश्मि प्रमुञ्ची ताय प्रभासय चोदित सत्वाः । सर्व प्रमाद चिरं प्रजहित्वा सर्व-गुणैः प्रतिपद्यति योगं ॥
दुष्ख अन्-एक उपद्रव-पूर्णं भाषित संस्कृत नित्यम् अ-क्षेमं । शान्ति-निरोध-सुखं सद क्षेमं भाषयता अ-मृतं-दद लब्धा ॥
रश्मि विशेषवती यद मुञ्ची ताय प्रभासय चोदित सत्वाः । शील-विशेष समाधि-विशेषं प्रज्ञ-विशेष शृणोन्ति जिनानां ॥
शीलत अग्र समाधित अग्रो प्रज्ञत अग्र महा-मुनि-राजा । य स्तुत वर्णित बोधि-निदानं तेन विशेषवती प्रभ लब्धा ॥
रत्न-वियूह य ओसरि रश्मि ताय प्रभासय चोदित सत्वाः । अक्षर रत्न-निधान लभित्वा पूजयि रत्न-वरेभि मह-र्षीन् ॥
रत्न-विसर्ग जिने जिन-स्तूपे संग्रहि कृत्स्न-जनं रतनेभिः । रत्न-प्रदान करित्व जिनानां रश्मि निवृत्त य रत्न-वियूहाः ॥
गन्ध-प्रभास य ओसरि रश्मी ताय प्रभासय चोदित सत्वाः । घ्रात्वा अ-मानुष गन्ध मनो-ज्ञान् बुद्ध-गुणे नियुतानि भवन्ति ॥
गन्ध्-अनुलेपनु-मानुष-दिव्यैर् [दोउब्त्fउल्] यत् कृत पूज नर-अधिपतीनां । गन्ध-मयान् जिन-विग्रह-स्तूपान् कृत्व निवृत्त सु-गन्ध-प्रभासः ॥
मुञ्चति रश्मि विचित्र-वियूहान् इन्द्र-पताक-ध्वज-अग्र विचित्रान् । तूर्य-निनादित-गन्ध-प्रधूपित शोभि-सुर-उत्तम-पुष्प-विकीर्णं ॥
तूर्य-प्रत्युद्गमि पूज-जिनानां पुष्प-विलेपन-धूपन-चूर्णैः । छत्त्र-ध्वज-अग्र-पताक-वितानैस् तेन विचित्र-वियूह निवृत्ताः ॥
रश्मि प्रसाद-करी यद मुञ्ची पाणि-तल-उपम संस्थिहि भूमिः । शोधयतो ऋषि आश्रम-स्तूपान् तेन प्रसाद-करी प्रभ लब्धा ॥
मुञ्चति मेघवती यद रश्मिं संस्थिहि गन्ध प्रवर्षति मेघं । स्तूप वर-अङ्गण-गन्ध-जलेन + आसिञ्चिय मेघवती प्रभ लब्धा ॥
भूषण-व्यूह प्रमुञ्चतु रश्मीन् नग्न अचेल सु-भूषण भोन्ती । वस्त्र-निबन्धन-हार-विचित्रं दत्व विभूषण रश्मि निवृत्ता ॥
रश्मि रस-अग्रवती यद मुञ्ची भुक्षित भोज्य रस-अग्र लभन्ती । भोजन पान विचित्र रस-अग्रान् दत्व रस-अग्रवती प्रभ लब्धा ॥
अर्थ-निदर्शनि मुञ्चति रश्मीन् रत्न-निधान लभन्ति दरिद्राः । अ-क्षय-रत्न-निधिं त्रिभि रत्नैर् दानत अर्थ-निदर्शनि लब्धा ॥
चक्षु-विशोधनि मुञ्चति रश्मीन् अन्ध तदा दृशि रूप विचित्रम् । दीप-प्रदान जिने जिन-स्तूपे चक्षु-विशोधनि रश्मि निवृत्ता ॥
श्रोत्र-विशोधनि मुञ्चति रश्मीन् श्रोत्र-विहीन श्रुणी पृथु-शब्दान् । वाद्य-प्रदान-जिने जिन-स्तूपे श्रोत्र-विशोधनि रश्मि निवृत्ता ॥
घ्राण-विशोधनि मुञ्चति रश्मीन् घ्रायि अ-घ्रायित-पूर्व सु-गन्धान् । गन्ध-प्रदान जिने जिन-स्तूपे घ्राण-विशोधनि रश्मि निवृत्ता ॥
जिह्व-विशोधनि मुञ्चति रश्मीन् स्निग्ध-मनो-ज्ञ-रुतै स्तुति बुद्धान् । वाच दुर्-उक्त विवर्जित रुक्षा श्लक्ष्ण उदीरित रश्मि निवृत्ता ॥
काय-विशोधनि मुञ्चति रश्मीन् इन्द्रिय-हीन सु-इन्द्रिय भोन्ति । काय-प्रणाम जिने जिन-स्तूपे कुर्वत काय-विशोधनि लब्ध्वा ॥
चित्त-विशोधनि मुञ्चति रश्मीन् उन्मतु सर्व स-चित भवन्ति । चित्त समाधि-वश-अनुग कृत्वा चित्त-विशोधनि रश्मि निवृत्ता ॥
रूप-विशोधनि मुञ्चति रश्मीन् पश्यिय चिन्तिय रूप-नर-इन्द्रान् । रूपक-शोधनि चित्र-समन्तात् स्तूप अलं-करता प्रतिलब्धा ॥
शब्द-विशोधनि मुञ्चति रश्मीन् शब्द अ-शब्दत शून्य विजानी । प्रत्यय जात प्रति-श्रुत-तुल्यं शब्द-प्रकाशन रश्मि निवृत्ता ॥
गन्ध-विशोधनि मुञ्चति रश्मीन् सर्व दु-गन्ध सु-गन्ध भवन्ती । गन्ध-वर-अग्र जनैर् जिन-स्तूपान् स्नापन-बोधि-द्रुम प्रभ एषा ॥
ते रस-शोधनि मुञ्चति रश्मीन् स-द्विष निर्-विष भोन्ति रस-अग्राः । बुद्ध स-श्रावक-मातृ-पितॄणां सर्व-रस-अग्र-प्रदान प्रभ + एषां ॥
स्पर्श-विशोधनि मुञ्चति रश्मीन् कक्खट स्पर्श मृदू सुख भोन्ती । शक्ति-त्रि-शूल + असि [दोउब्त्fउल्] तोमर-वर्षा माल्य मृदू पदुम-उत्पल भोन्ती ॥
दुष्य अन्-एक मृदू सुख-स्पर्शा संस्तरि मार्गि व्रजन्ति जिनानां । पुष्प-विलेपन-चीवर-सूक्ष्मा माल्य-वितान प्रदान प्रभा + इयम् ॥
धर्म-विशोधनि मुञ्चति रश्मीन् सर्वत रोमत चिन्तिय धर्मान् । निश्चरतः श्रुणि लोक-हितानां तोषयि सर्व-धिमुक्ति-जिनानाम् ॥
प्रत्यय जात अ-जात स्व-भावा धर्म-शरीर अ-जात-शरीराः । धर्मत नित्य-स्थिता गगन-स्था सूचत धर्म-विशोधनि लब्धा ॥
रश्मि सुखा-प्रमुखा इति कृत्वा एकतु रोम-मुखात् तु ऋषीणां । निश्चरि गङ्ग-रज-उपम रश्मी सर्व-पृथग्-विध-कर्म-प्रयोगाः ॥
ते यथ एकत रोम-मुखातो ओसरि गङ्ग-रज-उपम रश्मी । एवम् अ-शेषत सर्वतु रोमा देश समाधि-विकुर्व ऋषीणां ॥

येन गुणेन य रश्मि निवृत्ता तस्मि गुणेषु सहायक पूर्वे । तेषु तम् एव प्रमुञ्चति रश्मिं ज्ञान-विकुर्वण एष ऋषीणां ॥
तेष य पुण्य सहायक पूर्वे यैर् अनुमोदित याचित येभिः । येभि च दृष्ट शुभ-उपचितं वा ते इम रश्मि प्रजानति तेषां ॥
ये च शुभ-उपचिताः कृत-पुण्याः पूजित येभि पुनः पुनः बुद्धाः । अर्थिक छन्दिक बुद्ध-गुणेभिः चोदन तेष करोतिय रश्मिः ॥
सूर्य यथा जात्य्-अन्ध न पश्यी न + उ च स न + अस्ति उदेति स लोके । चक्षु-समेत उदागमु ज्ञात्वा सर्व प्रयुज्य स्वक स्वक धर्मे ॥
एवत रश्मि महा-पुरुषाणां अस्ति च ते इतरे च न पश्यी । मिथ्य-हता अधिमुक्ति-विहीनाः दुर्-लभ ते च उदार-मतीनां ॥
आभरणानि निपान विमानाः रत्न रसायन गन्ध्-अनुलेपाः । ते पि तु अस्ति महा-आत्म-जनस्य ते च सु-दुर्-लभ कृच्छ्र-गतानां ॥
एवत रश्मि महा-पुरुषाणां अस्ति च ते इतरे च न पश्यी । मिथ्य-हता अधिमुक्ति-विहीनाः दुर्-लभ ते च उदार-मतीनां ॥
यस्य् इमु [दोउब्त्fउल्] रश्मि-प्रभेद श्रुणित्वा भेष्यन्ति श्रद्दधि-मुक्ति [दोउब्त्fउल्] प्रसादः । तेन न काङ्क्ष न संशय कार्यो न + अङ्ग न भेष्यि महा-गुण-केतुः ॥
ते परिवार-वियूह-विकुर्वा अग्र-समाध्य्-अभिनिर्हरमाणाः । सर्व-दश-द्दिशि अ-प्रतिमानाः दर्शयि बुद्ध-सुताः परिवारं ॥
ते त्रि-सहस्र-प्रमाणु-विचित्रं पद्मम् अधिष्ठिहि रश्मि-वियूहाः । काय-पर्यङ्क परिस्फुट-पद्मं दर्शयि एष समाधि-विकुर्वा ॥
ते दश-क्षेत्र-रज-उपम अन्ये पद्मम् अधिष्ठिहि संपरिवारं । सर्व परीवृत बुद्ध-सुतेभी ये च समाध्य्-अ-समाधि-विहारी ॥
ये परिपाचित तेन ऋषीणां सत्व निष्प-दित बुद्ध-गुणेषु । ते परिवारि अतं मह-पद्मं सर्व उदिक्षिषु प्राञ्जलि-भूताः ॥
ते च समाहित बाल-शरीरे व्युत्थिहि यौवन-वेग-स्थितेभ्यः ॥
यौवन-वेग-स्थितेषु समाहित व्युत्थिहि जीर्णक वृद्ध शरीराः । जीर्णक-वृद्ध-शरीरि समाहित व्युत्थिहि श्रद्ध उपासिक-कायात् ॥
श्रद्ध उपासिक-काय-समाहित व्युत्थिहि भिक्षुणि-काय-शरीरा । भिक्षुणि-काय शरीरि समाहित व्युत्थिहि भिक्षु-बहु-श्रुत-कायाः ॥
भिक्षु-बहु-श्रुत-काय समाहित व्युत्थिहि शैक्ष अ-शैक्ष-शरीराः । शैक्ष अ-शैक्ष-शरीरि समाहित व्युत्थिहि प्रत्यय-बुद्ध-शरीरा ॥
प्रत्यय बुद्ध शरीरि समाहित व्युत्थिहि बुद्ध-वर-अग्र-शरीरा । बुद्ध-वर-अग्र-शरीरि समाहित व्युत्थिहि देवत-काय शरीरा ॥
देवत-काय-शरीरि समाहित व्युत्थिहि नाग-मह-र्द्धिक-कायाः । नाग-मह-र्द्धिक-काय-समाहित व्युत्थिहि यक्ष-मह-र्द्धिक-कायाः ॥
यक्ष-मह-र्द्धिक-काय-समाहित व्युत्थिहि सर्वत-भूत-शरीराः । सर्वत-भूत-शरीरि समाहित व्युत्थिहि एकतु-रोम-मुखातः ॥
एकतु रोम-मुखस्मि समाहित व्युत्थिहि सर्वत रोम-मुखेषु । सर्विषु रोम-मुखेषु समाहित व्युत्थिहि एकतु वाल-पथातः ॥
एकतु वाल-पथस्मि समाहित व्युत्थिहि सर्वत वाल-पथेभ्यः । सर्विषु वाल-पथेषु समाहित व्युत्थिहि ते परम-अणु-रजातः ॥
एक-रजस्मि समाहित भूत्वा व्युत्थिहि सर्व-रजेभ्य अ-शेषम् । सर्व-रजेषु समाहित भूत्वा व्युत्थिहि सागर-वज्र-तलातः ॥
सागर-वज्र-तलस्मि समाहित व्युत्थिहि ते मणि-वृक्ष-फलेभ्यः । वृक्ष-फलेषु समाहित भूत्वा व्युत्थिहि रश्मि-मुखेभि जिनानां ॥
रश्मि-मुखेषु जिनान समाहित व्युत्थिहि सागर-तोय-नदीभ्यः । सागर-तोय-नदीषु समाहित व्युत्थिहि तेज-पथातु महा-आत्मा ॥
तेज-पथस्मि समाहित भूत्वा व्युत्थिहि वायु-पथ-अनुस्मृति + इमान् । वायु-पथे तु समाहित भूत्वा व्युत्थिहि भूमि-तलानु महा-आत्मा ॥
भूमि-तले तु समाहित भूत्वा व्युत्थिहि सर्वतु देव-विमानात् । सर्वि तु देव-बलान समाहित व्युत्थिहि ते गगन-अनुस्मृति + इमान् ॥
एति समाधि विमोक्ष अ-चिन्त्यास् तेष अ-चिन्त्य-गुण-उपचितानां । कल्प अ-चिन्त्य प्रभाषियमाणाः सर्व-जिनेभि न शक्य क्षयीतुम् ॥
सर्व-जिनेभि च भाषित एते कर्म-विपाकु जगस्य अ-चिन्त्यो । नाग-विकुर्वित बुद्ध-विकुर्वा ध्यायिन ध्यान अ-चिन्त्य विकुर्वा ॥
ते च वशे स्थित अष्ट विमोक्षाः श्रावक एक भवी-बहु भोन्ती । भूत्व बहुः पुन एक भवित्वा ध्यायति प्रज्वलते गगनस्मिन् ॥
ते हि महा-करुणाय विहीना बोधि अन्-अर्थिकु लोक उपेक्षी । दर्शयि काय-विकुर्व अ-चिन्त्या कस्य न दर्शयि लोक हित-एषी ॥
चन्द्र स सूर्य नभे विचरन्तौ दर्शयि सर्व-दिशि प्रतिभासं । उत्स-सरो-ह्रद-कूप-तडागे भाजन-रत्न-समुद्र-नदीषु ॥
एवम् अ-चिन्तिय दर्शियि रूपं सर्व-दश-द्दिशि ते नर-वीराः । सर्व-समाधि-विमोक्ष-विधि-ज्ञा यत्र तथा-गत साक्षि स्वयं-भूः ॥
सागर-देव रुतावति-नामा यावत् सत्व समुद्र्य् उत्पन्ना । तेषु स्वर-अङ्ग-रुतेषु विधि-ज्ञा तोषयि सर्व-रुतान् स्व-रुतेन ॥
सा हि स-राग स-दोष रुतावति सर्व-रुते प्रतिघोष विधि-ज्ञा । धारणि-धर्म-बलं वशि-प्राप्ता कः स न तोषि स-देवक-लोकम् ॥
माय-करो यथ विद्य-विधि-ज्ञो दर्शयि रूप विचित्र अन्-अन्तान् । रात्रि-दिव-एक-मुहूर्तुकु मासान् वर्ष-शतं पुन स्फीत-प्रदीप्तान् ॥
माय-करो हि स-रागु स-दोषो तोषयि माय-विकुर्वित लोकं । ध्यान अभिज्ञ विमोक्ष-सु-शिक्षित कस्य न तोषयि चर्य-विधि-ज्ञः ॥
राहु यथ-इष य निर्मणि कायं कुर्वति वज्र पदे तल-बन्धं । दर्शन सागरु नाभि-प्रमाणं भोति सुमेरु-तले सम शीर्षः ॥
सो * अपि स-रागु स-दोष स-मोहो राहु निदर्शयि ईदृश ऋद्धी । मार-प्रमर्दन लोक-प्रदीप कस्य न दर्शयि ऋद्धि अन्-अन्ता ॥
पश्य अ-चिन्तिय शक्र-विकुर्वा देव-सुर-इन्द्र-रणस्मि प्रवृत्ते । यातुक बिम्बर्-अन्-एक-सुराणां तातुक निर्मणि शक्रु स्व-कायान् ॥
सर्व-सुर-इन्द्र-सुराश् च विजानी शक्रम ... पुरतो गत स्व-आयुम् ।एष गृह्येत वज्र-धराणां संभ्रमु गच्छिसु सर्व-सुर-इन्द्राः ॥

नेत्र सहस्र भयङ्-कर दर्शी ज्वाल-प्रमुञ्चन वज्र गृहीतं । वर्मित काय दुर्-आसद तेज शक्रम् उदीक्ष्य पलात्व् असुर-इन्द्राः ॥
सो हित इत्वर-पुण्य-बलेना शक्र विकुर्वति देव-जय-अर्थी । सर्व-जगस्य अ-शेषत त्राणां अ-क्षय-पुण्य कुतो न विकुर्वी ॥
... वायुत संभुत मेघ-प्रवर्षी वायुत मेघ पुनः प्रसमेन्ती । वायुत सस्य विरोहति लोके वायु सुख-आवह सर्व-जगस्य ॥
सो हि अ-शिक्षित पारमितासु बुद्ध-गुणेषु अ-शिक्षित वायुः । दर्शयि लोक-विपाक अ-चिन्त्या कस्य न दर्शयि ते वर-लब्धा ॥
इति शिक्षा-समुच्चये रत्न-त्रय-अनुस्मृति-नाम + अष्टादशः परिच्छेदः समाप्तः ॥
[xइx. (पुण्यवृद्धि)]
नवदशः परिच्छेदः ॥
अन्यो * अपि पुण्य-वृद्धये हेतुः कार्यः । यो * अयं सर्व-अवस्थासु सत्व-अर्थः ॥
यथा कथितं च + आर्य-रत्न-मेघे । स तथा-गत-चैत्ये वा तथा-गत-विग्रहे वा पुष्पं वा धूपं वा गन्धं वा ददत् सर्व-सत्वानां दौःशील्य-दौर्गन्ध्य-मल-अपनयनाय तथा-गत-शील-प्रतिलम्भाय च परिणामयति । स सन्-मार्जन-उपलेपनं कुर्वन् सर्व-सत्वानाम् अ-प्रासादिक-ईर्या-पथ-विगमाय । प्रासादिक-ईर्या-पथ-संपदे च परिणामयति । स पुष्प-च्छत्रम् आरोपयन् सर्व-सत्वानां सर्व-क्लेश-परिदाह-विगमाय परिणामयति । स विहारं प्रविशन्न् एवं चित्तम् उत्पादयति । सर्व-सत्वान् निर्वाण-पुरं प्रवेशयेयं । स निष्क्रमन्न् एवं चित्तम् उत्पादयति । सर्व-सत्वान् संसार-चारकान् निष्क्रामयेयं । स लभन-द्वारम् उद्घाटयन्न् एवं चित्तम् उत्पादयति । सर्व-सत्वानां लोक-उत्तरेण ज्ञानेन निर्वाण-सु-गति-द्वारम् उद्घाटयेयं । स पिथद् एवं चित्तम् उत्पादयति । सर्व-सत्वानां सर्व-अपाय-द्वाराणि पिदध्यां । स निषीदन्न् एवं चित्तम् उत्पादयति । सर्व-सत्वान् बोधि-मण्डे निषादयेयं । स दक्षिणेन पार्श्वेन शय्यां कल्पयन्न् एवं चित्तम् उत्पादयति । सर्व-सत्वान् एव परिनिर्वापयेयं । स ततो व्युत्तिष्ठन्न् एवं चित्तम् उत्पादयति । सर्व-सत्वान् व्युत्थापयेयं सर्व-क्लेश-पर्युत्थानेभ्यः । स शरीर-गत्या गच्छन्न् एवं चित्तम् उत्पादयति । सर्व-सत्वा महा-पुरुष-गत्या गच्छन्तु । स तत्र + उपविष्टए एवं चित्तम् उत्पादयति । सर्व-सत्वा निः-शल्य-क्रिया यद् उत राग-द्वेष-मोहेभ्यः । स शौचं कुर्वन्न् एवं चित्तम् उत्पादयति । सर्व-सत्वानां क्लेश-मलात् प्रक्षालयेयं ।स हस्तौ प्रक्षालयन्न् एवं चित्तम् उत्पादयति । सर्व-सत्वानां सर्व-क्लेश-वासनाम् अपनयेयं ।स पादौ प्रक्षालयन्न् एवं चित्तम् उत्पादयति सर्व-सत्वानाम् अन्-एक-प्रकाराणि क्लेश-रजांस्य् अपनयेयं ।मुखं प्रक्षालयन्न् एवं चित्तम् उत्पादयति । सर्व-सत्वानां सर्व-धर्म-मुखानि परिशोधयेयं । स दन्त-काष्ठं भक्षयन्न् एवं चित्तम् उत्पादयति । सर्व-सत्वानां नाना-विधान् क्लेश-मलान् अपनयेयं । सर्वां काय-अवस्थां सर्व-सत्व-हित-सुखाय परिणामयति । तथा-गत-चैत्यं वन्दमान एवं चित्तम् उत्पादयति । सर्व-सत्वा वन्दनीया भवन्तु स-देवकस्य लोकस्य + इति ॥
अथ-वा यथा + आर्य-प्रज्ञा-पारमितायां । पुनर् अ-परं शारिपुत्र व्याड-कान्तार-मध्य-गतेन बोधि-सत्वेन महा-सत्वेन न + उत्त्रसितव्यं न संत्रसितव्यम् न संत्रासम् आपत्तव्यम् । तत् कस्माद् * धेतोः । तथा हि तेन सर्वं परित्यक्तं सर्व-सत्वानाम् अर्थाय । तेन + एवं चित्तम् उत्पादयितव्यम् ।सचेन् मां व्याडा भक्षयेयुस् तेभ्य एव तद् दानं दत्तं भवतु । मम च दान-पारमिता-परिपूरिर् भविष्यति । अभ्यासन्ना च भविष्यति । तथा च करिष्यामि यथा मे * अन्-उत्तरां सम्यक्-संबोधिम् अभिसम्बुद्धस्य सतस् तत्र बुद्ध-क्षेत्रे तिर्यग्-योनि-गताः सत्वाः सर्वेण सर्वं न भविष्यन्ति न प्रज्ञास्यन्ते ॥
चोर-कान्तार-मध्य-गतेन शारिपुत्र बोधि-सत्वेन महा-सत्वेन न + उत्त्रसितव्यं न संत्रसितव्यं न संत्रासम् आपत्तव्यं ।तत् कस्माद् * धेतोः । सर्वस्व-परित्याग-कुशला हि ते बोधि-सत्वा महा-सत्वा उत्सृष्ट-कायेन + अपि च बोधि-सत्वेन भवितव्यं परित्यक्त-परिष्कार-उपकरणेन च । तेन + एवं चित्तम् उत्पादयितव्यं ।ते चेन् मे सत्वाः परिष्कार-उपकरणानि हरन्ति तेभ्य एव + एतद् दानं दत्तं भवतु । सचेन् मां के-चिज् जीविताद् व्यपरोपयेयुः तत्र मया न द्वेषो न क्रोध उत्पादयितव्यः । तेषाम् अपि मया न कायेन न वचसा न मनसा + अपराद्धव्यं । एवं च मे तस्मिन् समये दान-पारमिता च शील-पारमिता च क्षान्ति-पारमिता च परिपूरिं गमिष्यति । अन्-उत्तरा च मे सम्यक्-संबोधिर् अभ्यासन्ना भविष्यति । तथा च करिष्यामि तथा प्रतिपत्स्ये यथा मे * अन्-उत्तरां सम्यक्-संबोधिम् अभिसंबुद्धस्य सतस् तत्र बुद्ध-क्षेत्रे । एते च + अन्ये च दोषाः सर्वेण सर्वं सर्वथा सर्वं न भविष्यन्ति न प्रज्ञास्यन्ते ॥
पानीय-कान्तार-मध्य-गतेन शारिपुत्र बोधि-सत्वेन महा-सत्वेन न + उत्त्रसितव्यं न संत्रसितव्यं न संत्रासम् आपत्तव्यं ।तत् कस्माद् * धेतोः । अ-संत्रस्त-धर्माणो हि बोधि-सत्वा महा-सत्वा भवन्ति । एवं च + अनेन चित्तम् उत्पादयितव्यं । सर्व-सत्वानां मया सर्व-तृष्ण-च्छेदाय शिक्षितव्यं । न बोधि-सत्वेन महा-सत्वेन संत्रासम् आपत्तव्यं ।सचेद् अहं तृष्णया कालं करिष्यामि । अपि तु खलु पुनः सत्वानाम् अन्तिके महा-करुणा-चित्तम् उत्पादयिष्यामि । अहो वत + अल्प-पुण्या अमी सत्वा यद् एतेषां लोके एवं-रूपाणि पानीय-कान्ताराणि प्रज्ञायन्ते । तथा पुनर् अहं करिष्यामि तथा प्रतिपत्स्ये यथा मे * अन्-उत्तरां सम्यक्-संबोधिम् अभिसंबुद्धस्य सतस् तत्र बुद्ध-क्षेत्रे सर्वेण सर्वं सर्वथा सर्वं पानीय-कान्ताराणि न प्रज्ञास्यन्ते । तथा च सर्व-सत्वान् पुण्यैः संयोजयिष्यामि यथा + अष्ट-अङ्ग-उपेत-पानीय-लाभिनो भविष्यन्ति । तथा दृढं वीर्यम् आरप्स्ये सर्व-सत्वानां कृतशो यथा वीर्य-पारमिता तस्मिन् समये परिपूरिं गमिष्यन्ति ॥

पुनर् अ-परं शारिपुत्र बुभुक्षा-कान्तार-मध्य-गतेन बोधि-सत्वेन महा-सत्वेन न + उत्त्रसितव्यं न संत्रसितव्यं न संत्रासम् आपत्तव्यं । एवं च + अनेन संनाहः संनद्धव्यः । तथा दृढं वीर्यम् आरप्स्ये तथा च स्वं बुद्ध-क्षेत्रं परिशोधयिष्यामि यथा मे * अन्-उत्तरां सम्यक्-संबोधिम् अभिसंबुद्धस्य सतस् तत्र बुद्ध-क्षेत्रे सर्वेण सर्वं सर्वथा सर्वं एवं-रूपाणि बुभुक्षा-कान्ताराणि न भविष्यन्ति न प्रज्ञास्यन्ते । सुखिता एव ते सत्वा भविष्यन्ति सुख-समङ्गिनः । सर्व-सुख-समर्पितास् तथा च करिष्यामि यथा तेषां सत्वानां यो य एव + अभिप्रायो भविष्यति यद् यद् एव + आकाङ्क्षिष्यन्ति मनसा तत् तद् एव प्रादुर्-भविष्यति । तद् यथा + अपि नाम देवानां त्रायस्त्रिंशानां मनसा सर्वं प्रादुर्-भवति मनसा सर्वम् उत्पद्यते । तथा दृढं वीर्यम् आरप्स्ये यथा तेषां सत्वानां धार्मिका अभिप्रायाः परिपूरिं गमिष्यन्ति । अ-वैकल्यं च जीवित-परिष्कारैः सर्व-सत्वानां भविष्यति सर्वेषां सर्वतः सर्वदा + इति ॥
एवम् अयं ... सर्व-अवस्थासु सत्व-अर्थः ... पुण्य-वृर्धि-हेतुः । विस्तरतस् त्व् आर्य-गो-चर-परिशुद्धि-सूत्रे द्रष्टव्यः ॥
किं च । ... धर्म-दानं निर्-आमिषं । पुण्य-वृद्धि-निमित्तं भवति ॥
यथा + उक्तम् आर्य-अध्याशय-संचोदन-सूत्रे । विंशतिर् इमे मैत्रेय + अनुशंसा निर्-आमिष-दाने । यो लाभ-सत्-कारम् अ-प्रतिकाङ्क्षन् धर्म-दानं ददामि । कतमे विंशतिः । यद् उत । स्मृतिमांश् च भवति मतिमांश् च भवति बुद्धिमांश् च भवति गतिमांश् च भवति धृतिमांश् च भवति प्रज्ञावांश् च भवति । लोक-उत्तरां च प्रज्ञाम् अनुविध्यति । अल्प-रागो भवति । अल्प-द्वेषो * अल्प-मोहः । मारश् च + अस्य + अवतारं न लभते । बुद्धैर् भगवद्भिः समन्वाह्रियते । अ-मनुष्याश् च + एनं रक्षन्ति । देवाश् च + अस्य + ओजः काये प्रक्स्.इपन्ति । अ-मित्राश् च + अस्य + अवतारं न लभन्ते । मित्राणि च + अस्य + अ-भेद्यानि भवन्ति । आदेय-वचनश् च भवति । वैशारद्यांश् च प्रतिलभते । सौमनस्य-बहुलश् च भवति विद्वत्-प्रशस्तश् च । अनुस्मरणीयं च + अस्य तद् धर्म-दानं भवति । इमे मैत्रेय विंशतिर् अनुशंसा इति ॥
आर्य-प्रज्ञा-पारमितायां त्व् आह । सचेत् त्वम् आनन्द श्रावक-यानिकानां पुद्गलानां श्रावक-भूमौ धर्मं देशेयः । तस्यां च धर्म-देशनायां ये त्रि-साहस्र-महा-साहस्रे लोक-धातौ सत्वास् ते सर्वे * अर्हत्वं साक्षात् कुर्युस् तद् अद्य + अपि त्वया मे श्रावकेण श्रावक-कृत्यं न कृतं स्यात् । सचेत् पुनः त्वम् आनन्द बोधि-सत्वस्य महा-सत्वस्य + एकम् अपि प्रज्ञा-पारमिता-प्रतिसंयुक्तं पदं देशयेः प्रकाशयेर् एवम् अहं त्वया श्रावकेण + आराधितः स्यां । तया च पूर्विकया धर्म-देशनया ये त्रि-साहस्र-महा-साहस्रे लोक-धातौ सत्वास् ते सर्वे * अर्हत्वं प्राप्नुयुस् तेषां च + अर्हतां यद् दान-मयं पुण्य-क्रिया-वस्तु शील-मयं पुण्य-क्रिया-वस्तु भावना-मयं पुण्य-क्रिया-वस्तु । तत् किं मन्यसे आनन्द + अपि तु स बहु पुण्य-स्कन्धः । आह । बहु भगवन् बहु सु-गत । भगवान् आह । अतः स आनन्द श्रावक-यानिक-पुद्गलो बहुतरं पुण्य-स्कन्धं प्रसवति यो बोधि-सत्वानां महा-सत्वानां प्रज्ञा-पारमिता-प्रतिसंयुक्तं धर्मं देशयति । अतो * अप्य् आनन्द बहुतरं पुण्य-स्कन्धं प्रसवति यो बोधि-सत्वो महा-सत्वो * अ-परस्य बोधि-सत्वस्य प्रज्ञा-पारमिता-प्रतिसंयुक्तं धर्मं देशयति । अन्तश एक-दिवसम् अपि । तिष्ठत्व् आनन्द एक-दिवसः । अन्तशः प्राग्-भक्तम् अपि । तिष्ठत्व् आनन्द प्राग्-भक्तं । अन्तश एक-नालिकाम् अपि । यावद् अन्तश एक-क्षण-संनिपातम् अपि । पेयालं ॥
इदम् आनन्द तस्य बोधि-सत्वस्य महा-सत्वस्य धर्म-दानं सर्व-श्रावक-यानिकानाम् अपि सर्व-प्रत्य्-एक-बुद्ध-यानिकानां च पुद्गलानां कुशल-मूलम् अभिभवति । एवं कुशल-मूल-समन्वागतो बोधि-सत्वो महा-सत्वः । एवं कुशल-मूलं समन्वाहरन्न् अ-स्थानम् आनन्द + अन्-अवकाशो यत् स बोधि-सत्वो महा-सत्वो विवर्तेत + अन्-उत्तरायाः सम्यक्-संबोधेः । न + एतत् स्थानं विद्यतए इति ॥
कथं धर्म-दानं दातव्यं । यथा + आर्य-सद्-धर्म-पुण्डरीके * अभिहितं । कालेन च + उ चिन्तयमानु पण्डितः प्रविश्य लयनं तथ घट्टयित्वा । विपश्य धर्मं इमि सर्व योनिशो उत्थाय देशेत अ-लीन-चित्तः ॥
सुख-स्थितो भोति सदा विचक्षणो सुखं निषण्णस् तथ धर्म भासते । उदार-प्रज्ञप्त करित्व आसनं चौक्षे मनो-ज्ञे पृथिवी-प्रदेशे ॥
चौक्षं च सो चीवर प्रावरित्वा सु-रक्त-रङ्गं च प्रसन्न-रङ्गैः । आसेवकं कृष्ण तथा ददित्वा महा-प्रमाणं च निवासयित्वा ॥
स-पाद-पीठस्मि निषद्य आसने विचित्र-दुष्येहि सु-संस्तृतस्मिन् । सु-धौत-पादश् च उपारुहित्वा स्निग्धेन शीर्षेण मुखेन च + अपि ॥
धर्म-आसने तत्र निषीदियानः एक-अग्र सत्वेषु समं विपश्यन् । उपसंहरेच् चित्र-कथा बहूश् च भिक्षूनश् च + उ भिक्षुनिकास् तथा + एव ॥
किलासिताश् च + अपि विवर्जयीत न च + अपि उत्पादयि खेद-संज्ञां । अ-रतिं च सर्वां विजहीत पण्डितः मैत्री-बलं पर्षदि भावयेच् च ॥
भाषेच् च रात्रिं-दिवम् अग्र-धर्मान् दृष्ट-अन्त-कोटी-नियुतैः स पण्डितः । संहर्षयेत् तां च तथा + एव तोषयेत् न च + अपि किञ्-चित् तत्र जातु प्रार्थयेत् ॥
खाद्यं च भोज्यं च तथा + अन्न-पानं वस्त्राणि शय्या-आसन-चीवराणि । गिलान-भैषज्य न चिन्तयेत् सः न विज्ञपेत् पर्षदि किञ्-चिद् अन्यत् ॥
अन्यत्र चिन्तेय सदा विचक्षणः भवेय बुद्धो * अहम् इमे च सत्वा । एतच् च मे सर्व-सुख-उपधानं यं धर्म श्रावेमि हिताय लोके ॥
अत्र + एव + आह ॥
न कस्य-चिद् अन्तशो धर्म-प्रेम्णा + अप्य् अधिकतरम् अनुग्रहं करोति ॥
आर्य-चन्द्र-प्रदीप-सूत्रे * अप्य् आह । अध्येषयेयुर् यदि त्वां ते धर्म-दानस्य कारणात् । प्रथमं वाच भाषेया न + अहं वैतुल्य-शिक्षितः ॥
एवं त्वं वाच भाषेया युष्मे वा विज्ञ-पण्डिताः । कथं महा-आत्मनां शक्यं पुरतो भाषितुं मया ॥
सहसा + एषां न जल्पेत तुलयित्वा तु भाजनं । यदि भाजनं विजानीयाः अन्-अधीष्टो * अपि देशयेः ॥
यदि दुः-शीलान् पश्येसि परिषायां बहून् स्थितान् । संलेखं मा प्रभाषे त्वं वर्णं दानस्य कीर्तयेः ॥
भवेयुर् यदि च + अल्प-इच्छाः शुद्धाः शीले प्रतिष्ठिताः । मैत्रं चित्तं जनित्वा त्वं कुर्याः संलेखिकीं कथाम् ॥
परीत्ता यदि पाप-इच्छाः शीलवन्तो * अत्र विस्तराः । लब्ध-पक्षस् तदा भूत्वा वर्णं शीलस्य कीर्तयेः । इति ॥

उक्तं च + आर्य-सागर-मति-सूत्रे । तद् यथा । समे । समवति । शमित-शत्रु । अङ्कुरे । मङ्कुरे । मार-जिते । कराडे । केयूरे । ओघवति । ओहोकयति । विशठ-निर्-मले । मल-अपनये । ओखरे । खरोग्रसे । ग्रसने । हे-मुखी । पराङ्-मुखी । आ-मुखी । शमितानि सर्व-ग्रह-बन्धनानि । निगृहीताः सर्व-पर-प्रवादिनः । विमुक्ता मार-पाशाः । स्थापिता बुद्ध-मुद्राः समुद्घातिताः सर्व-माराः । अ-चलित-पद-परिशुद्ध्या विगच्छन्ति सर्व-मार-कर्माणि ॥
इमानि सागरमते मन्त्र-पदानि धर्म-भाणकेन सु-प्रवृत्तानि कृत्वा धर्म-आसनकेन सु-प्रवृत्तानि कृत्वा धर्म-आसन-निषण्णेन सर्वां पर्षदं बोध्य्-आकार-अभिनिर्हृतया मैत्र्या स्फरित्वा । आत्मनि वैद्य-संज्ञाम् उत्पाद्य धर्मे भैषज्य-संज्ञां धर्म-श्रवणिकेष्व् आतुर-संज्ञां तथा-गते सत्-पुरुष-संज्ञां धर्म-नेत्र्यां चिर-स्थितिक-संज्ञाम् उत्पाद्य + इमानि मन्त्र-पदान्य् आ-मुखी-कृत्य धर्म-संकथा करणीया । तस्य समन्ताद् यो जन-शते न मारो न मार-कायिका वा देवता उपसंक्रमयिष्यन्ति वि-चक्षुः-करणे । ये * अप्य् एनम् उपसंक्रमिष्यन्ति ते * अप्य् अस्य न शक्ष्यन्त्य् अन्तरायं कर्तुम् इति ॥
अत्र + एव + आह । धर्म-भाणकेन चौक्षेण शुचि-समुदाचारेण सु-स्नातेन शुचि-निवासितेन भवितव्यम् इति ॥
एवं धर्म-दानं ॥
बोधि-चित्तं च पुण्यस्य वृद्धि-हेतुः समासतः ॥

यथा + उक्तम् आर्य-रत्न-करण्डक-सूत्रे । तद् यथा + अपि नाम मञ्जुश्रीर् नाना-गन्ध-वृक्षाश् च चतुर्-धातु-संगृहीता विवर्धन्ते । एवम् एव मञ्जुश्रीर् नाना-संभार-उपचितं बोधि-सत्वस्य कुशल-मूलं । बोधि-चित्त-संगृहीतं सर्व-ज्ञता-परिणामितं विवर्धतए । इति ॥
एषा + आदिका आदि-कर्मिकाणां सहसा बोधि-सत्व-शिक्षा स्मरण-अर्थम् उपदर्शिता । विस्तरतस् तु बुद्ध-विषय एव ॥
अत्र च + अस्या यथा-उक्तायाः शिक्षायाः । सिद्धिः सम्यक्-प्रहाणानाम् अ-प्रमाद-अ-वियोजनात् । स्मृत्या + अथ संप्रजन्येन योनिशश् चिन्तनेन च ॥
तत्र + अन्-उत्पन्नानां पापकानाम् अ-कुशलानां धर्माणाम् अन्-उत्पादाय + एव छन्दं जनयति व्यायच्छति वीर्यम् आरभते चित्तं प्रगृह्णाति सम्यक्-प्रणिदधाति + इत्य् अनेन रक्षा ॥
उत्पन्नानां च प्रहाणाय छन्दं जनयति + इत्य् अनेन शुद्धिः । अन्-उत्पन्नानां कुशलानां धर्माणाम् उत्पादाय छन्दं जनयति । यावद् उत्पन्नानां च स्थितये भूयो-भावाय छन्दं जनयति + इत्य् आदि । अनेन वृद्धिः । एतानि च नित्यम् अ-प्रमाद-अधिष्ठितानि कार्याणि सर्व-कुशल-मूलानां तन्-मूलत्वात् ॥
यथा + उक्तम् आर्य-चन्द्र-प्रदीप-सूत्रे । यावन्त धर्माः कुशलाः प्रकीर्तिताः शील-श्रुतं त्यागु तथा + एव क्षान्तिः । सर्वेषु मूलं ह्य् अयम् अ-प्रमादो निधान-लम्भः सु-गतेन देशित । इति ॥
को * अयम् अ-प्रमादो नाम । इष्ट-विघात-अन्-इष्ट-आगम-शङ्का-पूर्वकं प्रति-कार-तात्पर्यं । तद् यथा तीव्र-कोप-प्रसादस्य राज्ञो भैषज्य-तैल-परिपूर्ण-भाजनं गृहीत्वा पिच्छिल-संक्रमेण भृत्यस्य गच्छतः ॥
उक्तं ह्य् आर्य-तथा-गत-गुह्य-सूत्रे ।तत्र कतमो * अ-प्रमादो ।यद् इन्द्रिय-संवरः । स चक्षुषा रूपाणि दृष्ट्वा न निमित्त-ग्राही भवति । न + अनुव्यञ्जन-ग्राही । एवं यावन् मनसा धर्मान् विज्ञाय न निमित्त-ग्राही भवति । न + अनुव्यञ्जन-ग्राही । सर्व-धर्मेष्व् आस्वादं च + आदीनवं च निः-शरणं च यथा-भूतं प्रजानाति । अयम् उच्यते * अ-प्रमादः ॥
पुनर् अ-परम् अ-प्रमादो यत् स्व-चित्तस्य दमनं पर-चित्तस्य + आरक्षा क्लेश-रतेर् अ-परिकर्मणा धर्म-रतेर् अनुवर्तनं यावद् * अयम् उच्यते * अ-प्रमादः । यस्य गुह्यक-अधिपते श्रद्धा च + अ-प्रमादश् च तस्य + अनुलोमिकेन वीर्येण कार्यं । येन तान् अ-प्रमाद-कारणान् श्रद्धा-कारणांश् च धर्मान् समुदानयति । यस्य गुह्यक-अधिपते श्रद्धा च + अ-प्रमादश् च वीर्यं च तेन स्मृति-संप्रजन्ये योगः करणीयः । येन स्मृति-संप्रजन्येन सर्वान् बोधि-पक्षान् धर्मान् न विप्रणाशयति । यस्य गुह्यक-अधिपते श्रद्धा च + अ-प्रमादश् च वीर्यं च स्मृति-संप्रजन्यं च तेन योनिशः प्रयोगे योगः करणीयः । योनिशः प्रयुक्तो हि गुह्यक-अधिपते बोधि-सत्वो यद् अस्ति तद् अस्ति + इति प्रजानाति । यन् न + अस्ति तन् न + अस्ति + इति प्रजानाति । यावद् अस्ति संवृत्या चक्षुर् इत्य् आदि ॥
तथा + अत्र + एव + आह । सदा + अ-प्रमादो ह्य् अ-मृतस्य मूलं सत्व-अर्थ-युक्तस्य च बोधि-चित्तं । यद् योनिशश् च + एव विवेक-चित्तम् अ-परिग्रहः सर्व-सुखस्य मूलम् इति ॥
आह च । पर-आत्म-समता-अभ्यासाद् बोधि-चित्तं दृढी-भवेत् । आपेक्षिकं पर-आत्मत्वं पार-अवारं यथा-मृषा ॥
तत्-कूलं न स्वतः पारं किम् अपेक्ष्य + अस्त्व् अ-पारता । आत्मत्वं न स्वतः सिद्धं किम् अपेक्ष्य परो भवेत् ॥
तद्-दुष्खेन न मे बाधा + इत्य् अतो यदि न रक्षसि । न + आगामि-काय-दुष्खात् ते बाधा तत् केन रक्षसि ॥
अहम् एव तदा + अपि + इति मिथ्या + इयं परिकल्पना । अन्य एव मृतो यस्माद् अन्यस् तत्र प्रजायते ॥
अन्यश् चेज् जायते तत्र किं पुण्येन प्रयोजनं । यूनः किं वृद्ध-कायस्य सुखाय धन-संचयैः ॥
मृते गर्भ-गते तावद् अन्यो बालः प्रजायते । मृते बाल्ये कुमारत्वं तन्-नाशाय + आगतो युवा ॥
तन्-नाशाच् च + आगतो वृद्धः । एकः कायः कथं मतः । एवं प्रति-क्षणं च + अन्यः कायः केश-नख-आदि-वत् ॥
अथ बाल्या-परित्यागाद् बालो याति कुमारतां । काय-स्व-भावो वक्तव्यो यो * अवस्था-रहितः स्थितः । कायश् चेत् प्रतिमा-आकारः पेसी-भस्मसु न + अस्ति सः ॥
सूक्ष्म-भावेन चेत् तत्र स्थौल्यं त्यक्त्वा व्यवस्थितः । अ-निर्देश्यः स्वतः प्राप्तः । काय इत्य् उच्यते न सः ॥
तत्र चिन्ता + एव मे न + अस्ति दृश्य-कायस् तु नाशवान् । अवस्थाभिश् च संबन्धः संवृत्या च + एव दृश्यते ॥
आगमाच् च तद् अस्तित्वं युक्त्य्-आगम-निवारितम् । न गुण-व्यतिरेकेण प्रधानं विद्यते यतः ॥
न च त्रीणि प्रधानानि तथा सत्ता गुणा अपि । प्रत्य्-एकं त्र्य्-आत्मकास् ते * अपि शेषं न + एक-विधं जगत् ॥
अ-चेतनं च वस्त्र-आदि तत्-सुख-आद्य्-आत्मकं कथम् । सुख-आदेर् न पट्ट-उत्पत्तिः पट्ट-आदेस् तु सुख-आदयः । पट्ट-आदीनाम् अ-हेतुत्वाद् अ-भावस् तत्-सुखं कुतः ॥
तस्माद् आगम-युक्तिभ्यां अ-नित्यं सर्व-संस्कृतं ।तद् * धेतु-फल-संबन्धः प्रत्य्-अक्षत्वान् न साध्यते ॥
स्व-संताने च दृष्टो * असौ नित्येषु च कथं यथा । परम् अणुस् [दोउब्त्fउल्] तु न + एको * अस्ति दिग्-भेद-अन्-उपपत्तितः ॥
दीप-तैलं क्षयं याति क्षीयमानं न लक्ष्यते । एवं भावा न लक्ष्यन्ते क्षीयमानाः प्रति-क्षणं ॥
संतानः समुदायश् च पङ्क्ति-सेना-आदि-वन् मृषा । तत्र + अभ्यासाद् अहं-कारः परस्मिन् किं न जायते ॥
तस्माद् एवं जगत् ज्ञेयं यथा + आयतन-संचयः । अ-प्राप्तम् एव तद् दुष्खं प्रति-कार्यं पर-आत्मनोः ॥
अ-युक्तम् अपि चेद् एतत् स्व-आत्मन्य् अस्ति + इतरत्र न । यद् अ-युक्तं निवर्त्यं तत् स्वम् अन्यद् वा यथा-बलं ॥
कृपया बहु दुष्खं चेत् कस्माद् उत्पाद्यते बलात् । जगद्-दुष्खं निरूप्य + इदं कृपा-दुष्खं कथं बहु ॥
एवं भावित-संतानाः पर-दुष्ख-सम-प्रियाः । अवीचीम् अवगाहन्ते हंसाः पद्म-वनं यथा ॥
सत्वेषु मुच्यमानेषु ये ते प्रामोद्य-सागराः । तैर् एव ननु पर्याप्तं मोक्षेण + अप्य् अ-रसेन किम् ॥
एवं पर-अर्थं कृत्वा + अपि न मदो न च विस्मयः । न विपाक-फल-आकाङ्क्षा पर-अर्थ-एक-अन्त-तृष्णया [दोउब्त्fउल्] ॥
दश-दिक्-सत्व-संपत्तिर् आत्मीया + अस्य न संशयः । न + अस्त्य् एर्ष्या-अवकाशो * अपि पर-सौख्ये स्व-संज्ञया ॥
परेषाम् आत्मनो वा + अपि सामान्या पाप-देशना । पुण्य-अनुमोदना च + एवं बुद्ध-अध्येषण-याचनं ॥
परिणामनम् अप्य् एवं निर्-विशेषं प्रवर्तते । पुण्यं प्रवर्तते तस्माद् अन्-अन्तं सत्व-धातु-वत् ॥
अयं स मार्ग-प्रवरः क्षेम-अन्-अन्त-सुख-उत्सवः । बोधि-सत्व-महा-स-अर्थ कलिल-प्रीति-वर्धनः ॥
पाल्यमानश् च सततं वज्र-पाण्य्-आतियान्त्रिकैः । मार-गुल्मिक-संत्रास-जननैर् बुद्ध-किं-करैः ॥
संबुद्ध-राज-तनया बोधि-चित्त-रथ-स्थिताः । वहन्ते तेन मार्गेण स्तूयमानाः सुर-आदिभिः ॥

तस्माद् आत्मत्वम् आरोप्य सत्वेष्व् अभ्यास-योगतः । पर-आत्म-दुष्ख-शान्त्य्-अर्थम् आत्म-आदीन् सर्वथा + उत्सृजेत् ॥

तृष्णा परिग्रहो यस्य तस्य दुष्खं न शाम्यति । परिणाम-विनाशित्वात् स दुष्ख-जनको यतः ॥
लोके दुष्ख-अग्नि-तप्ते च का रतिः सु-सुखे भवेत् । समन्ताद् दह्यमानस्य नख-अ-दाहे * अपि किं सुखम् ॥
आत्म-तृष्णा च सर्वेषां दुष्खाणां मूलम् उत्तमं । तस्मान् निहन्मि ताम् एव सत्वेभ्यः स्व-अर्थम् उत्सृजन् ॥
तद् अग्र-दूती ज्ञाता-इच्छा जेतव्या सर्व-यत्नतः । आत्म-तत्व-स्मृतिं कृत्वा प्रतीत्य-उत्पाद-चिन्तया ॥
यद् भयान् न + उत्सृजाम्य् एतत् तद् एव + आददतो भयं । प्रति-क्षणं हि यात्य् एव कायश् चित्तं च मे यतः ॥
यदि नित्या + अप्य् अ-नित्येन निर्-मला मल-वाहिना । बोधिः कायेन लभ्येत ननु लब्धा मया + एव सा ॥
एवम् आत्मानम् उत्सृज्य सर्व-सत्व-अर्थम् आचरेत् । भैषज्य-प्रतिमा-कल्पो लोक-धर्मेष्व् अ-चिन्तकः ॥
सर्व-सत्व-अर्थ-मन्त्रित्वे स्व-प्रज्ञां विनियोजयेत् । युक्त्या संरक्ष्य तु द्रव्यं सत्वेषु वा + उपयोजयेत् ॥
स्व-काये पर-काये वा यद् दुष्खं न + इह दुष्ख-कृत् । सत्वानां भोग-विघ्नत्वात् क्लेशाः शोध्याः प्रयत्नतः । लोक-उपजीव्यात् सत्-तीर्थाद् [दोउब्त्fउल्] भुजङ्-ग-कुणपा इव ॥
पुण्य-क्षेत्रम् इदं शुद्धं संपत्-सस्य-महा-फलं । सुख-दुर्-भिक्ष-संतप्तं जगत् संतर्पयिष्यति ॥
लाभ-सत्-कार-काय-आदि त्यक्तं ननु-जने [दोउब्त्fउल्] मया । कोपः कस्य + अर्थम् अद्य + अपि मृषा वा तन् मया + उदितम् ॥
स्व-अर्थ-घ्नेषु यदि द्वेषः कृपा कुत्र भविष्यति । निर्-दयस्य + अपि कः कोपः पर-अर्थो यदि नश्यति ॥
आक्रोश-आदि-क्षमाः सत्यम् इक्षुकस् तूरिक-आदयः । स्वाम्य्--असनेन दुर्-न्यस्ता न + उपभोग्या भवन्ति ते ॥
चिन्तयति प्रतीकारं न च स्वामि-हित-इच्छया । न + अपि संचोदयत्य् एनं भोग-अर्थं न + उपयाति च ॥
अनुस्मृत्या + उपस्मृत्य + एतान् अ-कृष्ट-उप्ता जिन-आत्म-जाः । नाना-विषय-धातूनां सार्व-इन्द्रिय-महा-गदान् ॥
विज्ञप्य स्मारयित्वा + एतान् क्रुद्धान् अप्य् उपकारिणः । स्व-भावा-त्यक्त-माधुर्याः सुखयन्त्य् एव दुष्खितान् ॥
धातवः पञ्च भू-वारि-तेजो * अनिल-ख-संज्ञिताः । यावत् सत्वाः स्थितास् तावत् सर्वेषाम् अर्थ-कारिणः ॥
सर्व-दुश्-चरितेन + एषां सत्व-अर्थाद् विनिवर्तनं । एवम् एतान् करोम्य् एष धातून् षड् अपि निर्-व्यथान् ॥
यावद् आकाश-निष्टस्य निष्ठा लोकस्य संभवेत् । तावत् स्थास्यामि लोक-अर्थं कुर्वन् ज्ञान-पुरः-सरः ॥
आत्म-आचार्यो * अनुशियष्याद् * धि सदा + आत्मानं सु-शिष्य-वत् । अ-पृष्ट्वा च + आत्मना + आत्मानं बलेन + अ-रक्षित-क्रियः ॥
क एव मम दुष्खेन दुष्खी स्यान् मे भयाद् भयी । तद्-दोष-अनुशय-ज्ञो वा यथा + आत्म-गुरुर् आत्मनः ॥
अ-विराग्य् अ-पलायी च करुणा-विषयो * अपि वा । नित्य-संनिहितश् च + अपि शिष्य आत्म-समः कुतः ॥
क्लेश-उन्मत्तो * अथ मोह-अन्धः प्रपात-बहुले पथि । स्खलन् पदे पदे शोच्यः पर आत्मा च सर्वदा ॥
स्खलित-अन्वेषणं तस्मात् समान-व्यसनाज् जनात् । न युक्तं युज्यते त्व् अत्र गुणान् दृष्ट्वा + अद्भुतं महत् ॥
न + एकेन शक्यम् आदातुं मया दोष-महा-उदधिः । कृत्यम् अन्यैर् मम + एव + अत्र को * अन्य-दोषेषु मा + ईक्षणः ॥
पर-चोदन-दक्षाणाम् अन्-अधीष्ट-उपकारिणां । वाक्यं मूर्ध्ना प्रतीच्छामि सर्व-शिष्यो भवाम्य् अहं ॥
संग्रामो हि मम + एकस्य बहुभिः क्लेश-शत्रुभिः । तत्र + एकेन रण-आसक्तम् अन्ये निघ्नन्ति मां सुखम् ॥
तत्र यः पृष्ठतो भीतिं श्रावयेद् अन्यतो * अपि वा । प्रद्विष्टो वा प्रसन्नो वा समे प्राण-प्रदः सु-हृत् ॥
अलि-संहात-नीलेन चीर-भारण-भारिणा । विचित्र-सुरभि-स्फीत-पुष्प-शेखर-हारिणा ॥
युगपत् सर्व-दिग्-बुद्ध-क्षेत्र-सागर-चारिणा । बलिना प्रति-कार्येण सर्व-मार-अपहारिणा ॥
नरक-प्रेत-संताप-प्रशम-उन्मुक्त-वारिणा । संसार-गहन-अन्त-स्थ-भव्य-सत्व-अर्थ-सारिणा ॥
जगन्-नेत्र-उच्छव-उत्पादि-बल-अलङ्-कार-धारिणा । विदुषा बाल-वपुषा लोक-विस्मय-कारिणा ॥
मञ्जुश्री संज्ञकं यत् तत् पिण्डी-भूतं जगद्-धितं । सर्वेण + एव + आत्म-भावेन नमस् तस्मै पुनः पुनः ॥
अन्-एक-दुष्ख-संतप्त-प्रह्लादन-महा-ह्रदं । त्रैलोक्य-तृष्णा-पाताल-प्रपूरण-महा-अम्बु-दम् ॥
जगद्-इष्ट-फल-स्फीत-दश-दिक्-कल्प-पाद-पं ।प्रार्थित-प्राप्ति-संहृष्ट-जगन्-नेत्र-उत्पल-अर्चितं ॥
विस्मय-उद्गत-रोमाञ्चैर् बोधि-सत्व-शतैः स्तुतम् । मञ्जुश्रियं नमस्यामि प्रणामैर् उत्तर-उत्तरैः ॥
निः-शेष-दुष्ख-वैद्याय सुख-सत्त्र-प्रदायिने । सर्व-आकार-उपजीव्याय मञ्जुघोषाय ते नमः ॥
इति जिन-तनयानां सर्वथा + अत्य्-अद्भुतानां चरितम् उपनिब्ध्य + उपार्जितं यच् * छुभं मे । भवतु सुखम् अन्-अन्तं देहिनां तेन यावत् सु-गत-पदम् अन्-अन्त-व्योम-सीमा-आधिपत्यं ॥
पुण्य-वृद्धिः समाप्ता ॥
समाप्तश् च + अयं बोधि-सत्व-विनयो * अन्-एक-सूत्र-अन्त-उद्धृतः शिक्षा-समुच्चय इति ॥

मूल पाठ: Śikṣāsamuccaya · Data entry Mirek Rozehnahl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc