भाषा

ENहिગુ
ग्रंथ पाठ

शिक्षासमुच्चय · भाग 2140

पाप-शोधनं अष्टमः परिच्छेदः । उक्ता त्रयाणाम् अप्य् आत्म-भाव-आदीनां रक्षा । शुद्धिर् अधुना वक्तव्या । किम् अर्थम् । शोधितस्य + आत्म-भावस्य भोगः पथ्यो भविष्यति । सम्यक्-सिद्धस्य भक्तस्य निष्-कणस्य + इव देहिनाम् ॥
यथा + उक्तम् आर्य-तथा-गत-गुह्य-सूत्रे । यानि च तानि महा-नगरेषु महा-श्मशानानि भवन्त्य् अन्-एक-प्राणि-शत-सहस्र-आकीर्णानि । तत्र + अपि स बोधि-सत्वो महा-सत्वो महान्तम् आत्म-भावं मृतं काल-गतम् उपदर्शयति । तत्र ते तिर्यग्-योनि-गताः सत्वा यावद् अर्थं मांसं परिभुज्य + आयुः-पर्यन्ते मृताः काल-गताः सु-गतौ स्वर्ग-लोके देवेषु + उपपद्यन्ते । स च + एव तेषां हेतुर् भवति यावत् परिनिर्वाणाय । यद् इदं । तस्य + एव बोधि-सत्वस्य पूर्व-प्रणिधान-परिशुद्ध्या । येन दीर्घ-रात्रम् एवं प्रणिधानं कृतं । ये मे मृतस्य काल-गतस्य मांसं परिभुञ्जीरन् । स एव तेषां हेतुर् भवेत् स्वर्ग-उत्पत्तये यावत् परिनिर्वाणाय तस्य शीलवतः । ऋध्यति चेतना । ऋध्यति प्रार्थना । ऋध्यति प्रणिधानम् इति ॥
पुनर् अत्र + एव + उक्तं । स धर्म-काय-प्रभावितो दर्शनेन + अपि सत्वानाम् अर्थं करोति । श्रवणेन + अपि स्पर्शनेन + अपि सत्वानाम् अर्थं करोति । तद् यथा + अपि नाम शान्तमते जीवकेन वैद्य-राजेन सर्व-भैषज्यानि समुदानीय भैषज्य-तरु-संहातम् अयं दारिका-रूपं कृतं प्रासादिकं दर्शनीयं सु-कृतं सु-निष्ठितं सु-परिकर्म-कृतं । सा + आगच्छति गच्छति तिष्ठति निषीदति शय्यां च कल्पयति । तत्र ये आगच्छन्त्य् आतुरा महा-आत्मानो राजानो वा राज-मात्रा वा श्रेष्ठि-गृह-पत्य्-अमात्य-कोट्ट-राजानो वा । तान् स जीवको वैद्य-राजस् तया भैषज्य-दारिकया सार्द्धं संयोजयति । तेषां समनन्तर-संयोगम् आपन्नानां सर्व-व्याधयः प्रस्रभ्यन्ते * अ-रागाश् च भवन्ति सुखिनो निर्-विकाराः । पश्य शान्तमते जीवकस्य वैद्य-राजस्य लौकिक-व्याधि-चिकित्सा-ज्ञानं यद्य् अन्येषां वैद्यानां संविद्यते । एवम् एव शान्तमते तस्य धर्म-काय-प्रभावितस्य बोधि-सत्वस्य यावन्तः सत्वाः स्त्री-पुरुष-दारक-दारिका राग-दोष-मोह-संतप्ताः कायं स्पृशन्ति । तेषां संस्पृष्ट-मात्राणां सर्व-क्लेशाः प्रस्रभ्यन्ते विगत-संतापं च कायं संजानन्ति ॥
यद् इदं तस्य + एव बोधि-सत्वस्य पूर्व-प्रणिधान-सु-परिशुद्धत्वात् । एतद्-अर्थम् आत्म-भावः शोध्यः ॥
किं च अ-शोधने दोषम् आह ।तृण-छन्नं यथा शस्यं रोगैः सीदति न + एधते । बुद्ध-अङ्कुरस् तथा वृद्धिं क्लेश-छन्नो न गच्छति ॥
प्रति-पक्ष-निरासेन वृद्ध्य्-अर्थं च + इत्य् अभिप्रायः ॥
आत्म-भावस्य का शुद्धिः । पाप-क्लेश-विशोधनं । संबुद्ध-उक्त्य्-अर्थ-सारेण । यत्न-अ-भावे त्व् अपाय-गः ॥
तत्र पाप-शोधनं चतुर्-धर्मक-सूत्रे देशितं । चतुर्भिर् मैत्रेय धर्मैः समन्वागतो बोधि-सत्वो महा-सत्वः कृत-उपचितं पापम् अभिभवति । कतमैश् चतुर्भिः । यद् उत । विदूषण-अ-समुदाचारेण प्रति-पक्ष-समुदाचारेण । प्रत्य्-आपत्ति-बलेन । आश्रय-बलेन च ॥
तत्र विदूषण-अ-समुदाचारो * अ-कुशलं कर्म + अध्यचारति तत्र तत्र + एव च विप्रतिसार-बहुली भवति ॥
तत्र प्रति-पक्ष-समुदाचारः कृत्वा + अप्य् अ-कुशलं कर्म कुशले कर्मण्य् अत्य्-अर्थ-अभियोगं गतः ॥
प्रत्य्-आपत्ति-बलं संवर-समादानाद् अ-करण-संवर-लाभः ॥
तत्र + आश्रय-बलं बुद्ध-धर्म-संघ-शरण-गमनम् अन्-उत्सृष्ट-बोधि-चित्तता च । सु-बलवत्-संनिश्रयेण न शक्यते पापेन + अभिभवितुं । एभिर् मैत्रेय चतुर्भिर् धर्मैः समन्वागतो बोधि-सत्वो महा-सत्वः कृत-उपचितं पापम् अभिभवति + इति ॥
तत्र कथं विदूषण-अ-समुदाचारो भावयितव्यः । यथा सुवर्ण-प्रभास-उत्तम-सूत्रे * अभिहितं ॥
समन्वाहरन्तु मां बुद्धाः कृपा-कारुण्य-चेतसः । ये च दश-दिशि लोके तिष्ठन्ति द्वि-पद-उत्तमाः ॥
यच् च मे पापकं कर्म कृतं पूर्वं सु-दारुणं । तत् सर्वं देशयिष्यामि स्थितो दश-बल-अग्रतः ॥
माता-पितॄन् अ-जानता बुद्धानाम् अ-प्रजानता । कुशलं च + अ-प्रजानता यत् तु पापं कृतं मया ॥
ऐश्वर्य-मद-मत्तेन कुल-भोग-मदेन च । तारुण्य-मद-मत्तेन यत् तु पापं कृतं मया ॥
दुश्-चिन्तितं दुर्-उक्तं च दुष्-कृतेन + अपि कर्मणा । अन्-आदीनव-दर्शिना यत् तु पापं कृतं मया ॥
बाल-बुद्धि-प्रचारेण अ-ज्ञान-आवृत-चेतसा । पाप-मित्र-वशाच् च + एव क्लेश-व्याकुल-चेतसा ॥
क्रीडा-रति-वशाच् च + एव शोक-रोग-वशेन वा । अ-तृप्त-धन-दोषेण यत् तु पापं कृतं मया ॥
अन्-आर्य-जन-संसर्गैर् ईर्ष्या-मात्सर्य-हेतुना । शाठ्य-दारिद्र्य-दोषेण यत् तु पापं कृतं मया ॥
व्यसन-आगम-काले * अस्मिन् कामानां भय-हेतुना । अन्-ऐश्वर्य-गतेन + अपि यत् तु पापं कृतं मया ॥
चल-चित्त-वशेन + एव काम-क्रोध-वशेन वा । क्षुत्-पिपास-आर्दितेन + अपि यत् तु पापं कृतं मया ॥
पान-अर्थं भोजन-अर्थं च वस्त्र-अर्थं स्त्रीषु हेतुना । विचित्रैः क्लेश-संतापैर् यत् तु पापं कृतं मया ॥
काय-वाङ्-मनसां पापं त्रिधा दुश्-चरितं चित्तं । यत् कृतम् ईदृशै रूपैस् तत् सर्वं देशयाम्य् अहम् ॥
यत् तु बुद्धेषु धर्मेषु श्रावकेषु तथा + एव च । अ-गौरवं कृतं स्याद् * धि तत् सर्वं देशयाम्य् अहम् ॥
यत् तु प्रत्य्-एक-बुद्धेषु बोधि-सत्वेषु वा पुनः ।अ-गौरवं कृतं स्याद् * धि तत् स्र्वं देशयाम्य् अहम् ॥
सद्-धर्म-भाणकेष्व् एव अन्येषु गुणवत्सु वा । अ-गौरवं कृतं स्याद् * धि तत् सर्वं देशयाम्य् अहम् ॥
सद्-धर्मः प्रतिक्षिप्तः स्याद् अ-ज्ञानं तेन मे सदा । माता-पितृष्व् अ-गौरवं तत् सर्वं देशयाम्य् अहम् ॥
मूर्खत्वेन बालत्वेन मान-दर्प-आवृतेन च । राग-द्वेषेण मोहेन तत् सर्वं देशयाम्य् अहम् ॥
व्यवलोकयन्तु मां बुद्धाः समन्वाहृत-चेतसः । अत्ययं प्रतिगृह्णन्तु कारुण्य-अर्पित-चेतसः ॥
यत् तु पापं कृतं पूर्वं मया कल्प-शतेषु च । तस्य + अर्थं शोक-चित्तो * अहं क्र्पणीयो भय-आर्दितः ॥
भवामि पाप-कर्माणां सततं दीन-मानसः । यत्र यत्र चरिष्यामि न च + अस्ति मे बलं क्व-चित् ॥
सर्वे कारुणिका बुद्धाः सर्वे भय-हरा जगे । अत्ययं प्रतिगृह्णन्तु मोचयन्तु च मां भयात् ॥
क्लेश-कर्म-फलं मह्यं प्रवाहयन्तु तथा-गताः । स्नापयन्तु च मां बुद्धाः कारुण्य-सरित-उदकैः ॥
सर्वं पापं देशयामि यत् तु पूर्वं कृतं मया । यच् च एतर्हि मे पापं तत् सर्वं देशयाम्य् अहम् ॥
आयत्यां संवरम् आपद्ये सर्व-दुष्-कृत-कर्मणाम् । न छादयामि तत् पापं यद् भवेन् मम दुष्-कृतम् ॥
त्रि-विधं कायिकं कर्म वचसा च चतुर्-विधम् । मनसा त्रि-प्रकारेण तत् सर्वं देशयाम्य् अहम् ॥
काय-कृतं वाच-कृतं मनसा च विचिन्तितं । कृतं दश-विधं कर्म तत् सर्वं देशयाम्य् अहम् ॥

यच् च मे पापकं कर्म अन्-इष्ट-फल-दायकं । तत् सर्वं देशयिष्यामि बुद्धानां पुरतः स्थितः ॥

भव-गति-संकटे बाल-बुद्धिना पापं यन् मे कृतं सु-दारुणम् । दश-बलम् अग्रतः स्थितः तत् सर्वं पापं प्रतिदेशयामि । देशयामि च तत् पापं यन् मया संचितं जन्म-संकटे विविधैः काय-प्रचार-संकटैर् भव-संकट-लोक-संकटे चापल-चल-चित्त-संकटे मूर्ख-बाल-कृत-क्लेश-संकटे । पाप-मित्र-आगम-संकटे च । भय-संकट-राग-संकटे दोष-मोह-तम-संकटैर् अपि क्षण-संकटे काल-संकटे पुण्य-उपार्जन-संकटैर् अपि । जिन-संकट-संमुख-स्थितः । तत् सर्व-पापं प्रतिदेशयामि ॥
विशेषतस् तु बोधि-सत्व-आपत्तीनां गुर्वीणां लघ्वीनां देशना + आर्य-उपालि-परिपृच्छायाम् उक्ता । का पुनर् गुर्वी मूल-आपत्तिः ॥
सामान्यतस् तु तत्र + उक्तं । सचेद् उपाले महा-यान-संप्रस्थितो बोधि-सत्वो महा-सत्वो गङ्गा-नदी-वालिक-उपमा राग-प्रतिसंयुक्ता आपत्तीर् आपद्येत । यां च + एकतो द्वेष-संप्रयुक्ताम् आपत्तिम् आपद्येत बोधि-सत्व-यानं प्रमाणी-कृत्य ॥ पे ॥
इयं ताभ्यो गुरुतरा आपत्तिर् या + इयं द्वेष-संयुक्ता । तत् कस्य हेतोः । यो * अयं द्वेष उपाले सत्व-परित्यागाय संवर्तते । रागः सत्व-संग्रहाय संवर्तते । तत्र + उपाले यः क्लेशः सत्व-संग्रहाय संवर्तते । न तत्र बोधि-सत्वस्य छलं न भयं ॥ पे ॥
तस्मात् तर्हि त्वाम् उपाले याः काश्-चन राग-प्रतिसंयुक्ता आपत्तयः सर्व-स् ता अन्-आपत्तय इति वदामि । को * अत्र + अभिप्रायः । सत्व-संग्रहस्य + एव पूर्वम् एव विशेषितत्वाद् । अध्याशय-कृपावतो ह्य् अयम् उपदेशः ॥
यस्माद् अन्-अन्तरम् आह । तत्र + उपाले ये * अन्-उपाय-कुशला बोधि-सत्वास् ते राग-प्रतिसंयुक्ताभ्य आपत्तिभ्यो बिभ्यति । ये पुनर् उपाय-कुशला बोधि-सत्वास् ते द्वेष-संप्रयुक्ताभ्य आपत्तिभ्यो बिभ्यति न राग-प्रतिसंयुक्ताभ्य इति ॥
के पुनर् उपाय-कुशलाः । ये प्रज्ञा-कृपाभ्यां सत्व-त्यागान् निवार्यन्ते । उभयथा हि सत्व-त्यागो भवति । केवल-प्रज्ञया दुष्ख-शून्यता-अवबोधात् । केवलया च कृपया क्लेश-बलाद् अ-चिरेण कृपा-हानिः ॥
यद् उक्तम् उपाय-कौशल्य-सूत्रे । तद् यथा कुल-पुत्र मंत्र-विद्या-धरः पुरुषो राज्ञा पञ्च-पाशकेन बन्धनेन बद्धः स्यात् । स यदा काङ्क्षेत प्रक्रमणाय तदा + एक-मन्त्र-विद्या-बलेन सर्व-बन्धनानि छित्त्वा प्रक्रमेत् । एवम् एव कुल-पुत्र + उपाय-कुशलो बोधि-सत्वः पञ्चभिः काम-गुणै रतिं विन्दति तैश् च + आकीर्णो विहरति । यदा च पुनर् आकाङ्क्षते तदा प्रज्ञा-बल-अधीनेन एकेन च सर्व-ज्ञता-चित्तेन सर्व-काम-गुणान् प्रभुज्य च्युतो ब्रह्म-लोकए उपपद्यतए इति ॥
द्वेषे * अपि किं न + एवम् इष्यते । प्रकृति-महा-स-अवद्यत्वात् । कृपा-वैकल्ये च + उपायस्य + एव + अ-संभवात् ॥
पर-अर्थ-सिद्धिं वा स्व-अर्थाद् गुरुतराम् अधिमुच्यमानः कोप-परवत्तया + अपि परम् अनुशास्य-अनुताप-पूर्वकम् आयत्यां संवरम् उत्पद्यते । अ-हित-निवारके क्रोधे को दोषः । अवकाश-दानेन तद्-वासना-दोषात् कृपा-हानि-दोषः । तच्-छेदेन मूल-च्छेद-दोष इति पश्चाद् दर्शयिष्यामः । यद्य् अपि तस्य सत्वस्य तद्-धितं तथा + अपि बोधि-सत्व-कृपा-हान्या महतः सत्व-अर्थ-अनुबन्धस्य हानिः स्यात् ॥
आर्य-सत्यके परिवर्त्ते * अपि पुत्र-दृष्ट-अन्तः करुणा-अधिष्ठित एव वेदितव्यः । यश् च तत्र + अपि कृपा-प्रतिषेधः स लोक-अर्थ-पाण्डित्येन लोक-आवर्जन-अर्थं । निवार्यमाणश् च यदि हित-कामे बोधि-सत्वे प्रतिघं लभेत स बोधि-सत्वः स्याद् उभयोर् अन्-अर्थः ॥
रागे * अपि तर्हि दोषः पठ्यते । काम-अनुषेवणि भोति अन्ध मनु-जो । माता-पितृ-घातयी । कामान् सेवतु शीलवन्तु वधयी । तस्माद् विवर्जेत् सदा इति ॥
स्व-सौख्य-संगेन च पर-दुष्ख-उपेक्षा दृष्टा ॥
सत्यं दृष्टा । येन पर-दुष्खं स्व-दुष्खतया न + अभ्यस्तं । येन त्व् अभ्यस्तं । तस्य + उभय-दोष-अ-संभवः ॥
यथा + उक्तं चन्द्र-प्रदीप-सूत्रे । तद् यथा + अपि नाम + आनन्द कश्-चिद् एव पुरुषो * अधस्तात् पाद-तलम् आदाय यावन् मुर्द्धन्य् आदीप्तो भवेत् । संप्रज्वलित एक-ज्वली-भु-तस् तं कश्-चिद् एव पुरुष उपसंक्रम्य एवं वदेद् । एहि त्वां भोः पुरुष निर्वापितेन + आत्म-भावेन पञ्चभिः काम-गुणैः समर्पितः समन्वङ्गी-भूतः क्रीडस्व रमस्व परिचारयस्व + इति । तत् किं मन्यसे आनन्द । अपि तु स पुरुषो * अ-निर्वापितेन + आत्म-भावेन पञ्चभिः काम-गुणैः क्रीडेत रमेत् परिचरेत् ॥
आनन्द आह ॥
न + उ हि + इदं भगवन् ॥
ग्
भगवान् आह । क्रीडेत + आनन्द स पुरुषो रमेत् परिचरेत् परिकल्पम् उपादाय + अ-परिनिर्वापितेन + आत्म-भावेन पञ्चभिः काम-गुणैः समर्पितः समन्वङ्गी-भूतो । न त्व् एवं तथा-गतस्य पूर्वं बोधि-सत्व-चर्यां चरमाणस्य सत्वान् त्रिभिर् अपायैर् दुष्खितान् दृष्ट्वा दरिद्रान् अभूत् सौमनस्यं वा चित्त-प्रसादो वा + इति विस्तरः ॥
लोके * अपि पुत्रे शूलम् आरोप्यमाणे । पश्यतोर् माता-पित्रोर् न स्व-सौख्य-संगो दृष्टः स्व-अनुरूप-कृपा-वशात् । प्रच्छन्नस् तर्हि स-स्वामिकासु नि-स्वामिकासु बाहुल-धर्म-ध्वज-रक्षितासु काम-मिथ्या-आचारो न स्यात् । सति सत्व-अर्थे सत्व-अन्-उपघाते च + अनुबन्धं निरूप्य + अ-दोषः ॥
सम्यग्-ब्रह्म-चारिणीषु कृत-अर्थत्वाद् दूरात् परिहारः । पूज्या च मातृ-भगिन्य्--आदि-वत् । एवं तर्हि भिक्षोर् अप्य् एवम् आपन्नं । न तस्य + अ-परेण ब्रह्म-चर्य-प्रकारेण सत्व-अर्थ-साधनात् ॥
तथा ह्य् उक्तम् आर्य-अक्षयमति-सूत्रे । काल-अ-काले पुनर् अनेन + उपेक्षा करणीया + इति ॥
अथ ततो * अप्य् अधिकं सत्व-अर्थं पश्येत् । शिक्षां निक्षिपेत् ॥
उपाय-कौशल्य-सूत्रे ज्योतिर्-माणवकं द्वाचत्वारिंशद्-वर्ष-सहस्र-ब्रह्म-चारिणम् अधिकृत्य सप्तमे पदे स्थितस्य कारुण्यम् उत्पद्येत । किं च + अप्य् अहम् इदं व्रतं खण्डयित्वा निरय-परायणः स्यां । तथा + अप्य् उत्सहे * अहं नैरयिकं दुष्खं प्रतिवेदयितुम् अथ च + इयं स्त्री सुखिता भवतु । मा कालं करोतु । इति हि कुल-पुत्र ज्योतिर्-माणवकः पश्चान्-मुखो निवर्त्य तां स्त्रियं दक्षिणेन पाणिना गृहीत्वा + एवम् आह । उत्तिष्ठ भगिनि यथा-काम-करणीयस् ते भवामि + इति ॥ पे ॥
सो * अहं कुल-पुत्र महा-कारुण्य-चित्त-उत्पादेन + इत्वरेण काम-उपसंहितेन दश-कल्प-सहस्राणि पश्चान्-मुखम् अकार्षम् । पश्य कुल-पुत्र यद् अन्येषां निरय-संवर्तनीयं कर्म । तद् उपाय-कुशलस्य बोधि-सत्वस्य ब्रह्म-लोक-उपपत्ति-संवर्तनीयम् इति ॥
पुनर् अत्र + एव + आह । यदि बोधि-सत्व एकस्य सत्वस्य कुशल-मूलं संजनयेत् तथा-रूपां च + आपत्तिम् आपद्येत यथा-रूपया + आपत्त्या + आपन्नया कल्प-शत-सहस्रं निरये पच्येत । उत्सोढव्यम् एव भगवन् बोधि-सत्वेन + आपत्तिम् आपत्तुं तच् च नैरयिकं दुष्खं । न त्व् एव तस्य + एकसय् सत्वस्य कुशलं परित्यक्तुम् इति ॥

पुनर् अत्र + एव + आह । इह कुल-पुत्र + उपाय-कुशलो बोधि-सत्वो यदा कदा-चित् कस्मिंश्-चित् पाप-मित्र-वशेन + आपत्तिम् आपद्येत । स इतः प्रतिसंशिक्षते । न मया + एभिः स्कन्धैः परिनिर्वापयितव्यं । मया पुनर् एवं संनाहः संनद्धव्यः । अ-पर-अन्त-कोटिः संसरितव्या सत्वानां परिपाचन-हेतोर् इति । न मया चित्त-दाहः करणीयो । यथा यथा संसरिष्यामि तथा तथा सत्वान् परिपाचयिष्यामि । अपि त्व् एतां च + आपत्तिं यथा-धर्मं प्रतिकरिष्यामि । आयत्यां संवरम् आपत्स्ये । सचेत् कुल-पुत्र प्रव्रजितो बोधि-सत्वः परिकल्पम् आदाय सर्वाश् चतस्रो मूल-आपत्तीर् अतिक्रमेद् अनेन च + उपाय-कौशल्येन विनोदयेद् । अन्-आपत्तिं बोधि-सत्वस्य वदामि + इति ॥
स्फुटं च + आर्य-रत्न-मेघे आनन्तर्य-चिकीर्षु-पुरुष-मारण-अनुज्ञानात् ॥
श्रावक-विनये * अपि मूल-आपत्ति-स्थानए एव कारुण्यान् मृग-आदि-मोक्षणे * अन्-आपत्तिर् उक्ता + एव ॥
अयं च रागे गुणो यद् बोधि-सत्वे रागम् उत्पाद्य सु-गतिर् लभ्यते । न तु क्रोधेन ॥
यथा + उक्तम् उपाय-कौशल्य-सूत्रे । प्रियंकरे बोधि-सत्वे रक्ता ... धव्योत्तरां दारिकाम् अधिकृत्य । प्रियंकरस्य प्रणिधेः पुनः पुनर् या इस्त्रि प्रेक्षेत स-राग-चित्ता । सा इस्त्रि-भावं परिवर्जयित्वा पुरुषो भवेत् यादृग् उदार-सत्वः ॥
पश्यस्व आनन्द गुणा + अस्य ईदृशाः । येन + अन्य-सत्वा निरयम् व्रजन्ति । तेन + एव शूरेषु जनित्व रागं गच्छन्ति स्वर्गं पुरुषत्वम् एव च ॥ पे ॥
भैषज्य-राजेषु महा-यशेषु । को बोधि-सत्वेषु जनयेत द्वेषम् । येसां किलेशो * अपि सुखस्य दायकः । किं वा पुनर् यः तान् सत्-करेया । इति ॥
एवम् अन्यस्मिन् सत्व-अर्थ-उपाये सति राग-ज-आपत्तिर् अन्-आपत्तिर् उक्ता ॥
उपाय-कौशल्य-सूत्रे च गणिका-वत् कृत-अर्थो बोधि-सत्वो निर्-अपेक्षस् तं सत्वं त्यजति + इति विस्तरेण + उक्तम् ॥
अ-लब्ध-भूमेश् च षट्-पारमितासु चरितवत इयं चिन्ता । न + इतरस्य + इत्य् आस्तां प्रासङ्गिकम् ॥
तस्माद् द्वेषस्य + अवकाशो न देय । उक्तं ह्य् उपालि-परिपृच्छायां । बोधि-सत्वानां शारिपुत्र द्वे महा-स-अवद्ये आपत्ती । कतमे द्वे । द्वेष-सह-गता मोह-सह-गता च + इति । तत्र शारिपुत्र प्रथमा आपत्तिर् दश-वर्गे ऋजुकेन देशयितव्या । हस्त-आपत्तिः पञ्च वर्गे गुर्वी देशयितव्या । स्त्रिया हस्त-ग्रहणं चक्षुर्-दर्शनं । दुष्ट-चित्त-आपत्तिर् एक-पुद्गलस्य द्वयोर् वा शारिपुत्र तां गुर्वीं दशयेत् । पञ्च + आनन्तर्य-समन्वागता + आपत्तिर् बोधि-सत्वेन स्त्र्य्--आपत्तिर् दारिका-आपत्तिर् हस्त-आपत्तिः स्तूप-आपत्तिः संघ-आपत्तिस् तथा + अन्याश् च + आपत्तयो बोधि-सत्वेन न पञ्चत्रिंशतां बुद्धानां भगवताम् अन्तिके रात्रिं-दिवं एकाकिना गुर्व्यो देशयितव्याः ॥
तत्र + इयं देशना । अहम् एवं-नामा बुद्धं शरणं गच्छामि । धर्मं शरणं गच्छामि । संघं शरणं गच्छामि ॥
नमः शाक्य-मुनये तथा-गताय + अर्हते सम्यक्-संबुद्धाय । नमो वज्र-प्रमर्दिने । नमो रत्न-अर्चिषे । नमो नाग-ईश्वर-राजाय । नमो वीर-सेनाय । नमो वीर-नन्दिने । नमो रत्न-श्रिये । नमो रत्न-चन्द्र-प्रभाय । नमो * अ-मोघ-दर्शिने । नमो रत्न-चन्द्राय । नमो निर्-मलाय । नमो वि-मलाय । नमः शूर-दत्ताय । नमो ब्रह्मणे । नमो ब्रह्म-दत्ताय । नमो वरुणाय । नमो वरुण-देवाय । नमो भद्र-श्रिये । नमश् छन्दन-श्रिये । नमो * अन्-अन्त-ओजसे । नमः प्रभास-श्रिये । नमो * अ-शोक-श्रिये । नमो नारायणाय । नमः कुसुम-श्रिये । नमो ब्रह्म-ज्योतिर्-विक्रीडित-अभिज्ञाय तथा-गताय । नमो धन-श्रिये । नमः स्मृति-श्रिये । नमः सु-परिकीर्तित-नाम-धेय-श्रिये । नम इन्द्र-केतु-ध्वज-राजाय । नमः सु-विक्रान्त-श्रिये । नमो विचित्र-संक्रमाय । नमो विक्रान्त-गामिने । नमः समन्त-अवभास-व्यूह-श्रिये । नमो रत्न-पद्म-विक्रामिणे । नमो रत्न-पद्म-सु-प्रतिष्ठित-शैल-इन्द्र-राजाय तथा-गताय + अर्हते सम्यक्-संबुद्धाय ॥
एवं-प्रमुखा यावन्तः सर्व-लोक-धातुषु तथा-गत-अर्हन्तः सम्यक्-संबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति । ते मां समन्वाहरन्तु बुद्धा भगवन्तो यन् मया + अस्यां जातौ अन्यासु वा जातिष्व् अन्-अवर-अग्रे जाति-संसारे संसरता [दोउब्त्fउल्] पापकं कर्म कृतं स्यात् कारितं वा क्रियमाणं वा + अनुमोदितं भवेत् । स्तौपिकं वा साङ्घिकं वा द्रव्यम् अपहृतं स्यात् हारितं वा ह्रियमाणं वा + अनुमोदितं भवेत् । पञ्च-अन्-अन्तर्याणि कृतानि स्युः कारितानि वा क्रियमाणानि वा + अनुमोदितानि भवेयुः । दश-अ-कुशलान् कर्म-पथान् समादाय वर्तितं स्यात् परे वा समादापिताः स्युर् वर्तमाना वा + अनुमोदिता भवेयुर् येन कर्म-आवरणेन + आवृतो * अहं निरयं वा गच्छेयं तिर्यग्-योनिं वा यम-विषयं वा गच्छेयं प्रत्य्-अन्त-जन-पदेषु म्लेच्छेषु वा प्रत्याजायेयं दीर्घ-आयुष्केषु देवेषु + उपपद्येयम् इन्द्रिय-विकलतां वा + अधिगच्छेयं मिथ्या-दृष्टिं वा + उपगृह्णीयां बुद्ध-उत्पादं वा विरागयेयं । तत् सर्वं कर्म-आवरणं तेषां बुद्धानां भगवतां ज्ञान-भूतानां चक्षुर्-भूतानां स-अक्षि-भूतानां प्रमाण-भूतानां जानतां पश्यताम् अग्रतः प्रतिदेशयामि आविष्-करोमि न प्रतिच्छादयाम्य् आयत्यां संवरम् आपद्ये । समन्वाहरन्तु मां ते बुद्धा भगवन्तो यन् मया + अस्यां जाताव् अन्यासु वा जातिष्व् अन्-अवर-अग्रे वा जाति-संसारे संसरता दानं दत्तं भवेद् अन्तशस् तिर्यग्-योनि-गताय + अप्य् आलोपः शीलं वा रक्षितं भवेद् यच् च मे ब्रह्म-चर्य-वास-कुशल-मूलं यच् च मे सत्व-परिपाक-कुशल-मूलं यच् च मे बोधि-चित्त-कुशल-मूलं यच् च मे * अन्-उत्तर-ज्ञान-कुशल-मूलं तत् सर्वम् ऐकध्यं पिण्डयित्वा तुलयित्वा + अभिसंक्षिप्य + अन्-उत्त् अरायां सम्यक्-संबोधौ उत्तर-उत्तरया परिणामनया यथा परिणामितम् अतीतैर् बुद्धैर् भगवद्भिर् यथा परिणामयिष्यन्त्य् अन्-आगता बुद्धा भगवन्तो यथा परिणमन्त्य् एतर्हि दशसु दिक्षु प्रत्य्-उत्पन्ना बुद्धा भगवन्तः । तथा + अहम् अपि परिणामयामि । सर्वं पुण्यम् अनुमोदयामि । सर्वान् बुद्धान् अध्येषयामि । भवतु मे ज्ञानम् अन्-उत्तरम् । ये च + अभ्यतीतास् तथा + अपि च ये अन्-आगता ये च + अपि तिष्ठन्ति नर-उत्तमा जिनाः । अन्-अन्त-वर्णान् गुण-सागर-उपमान् उपैमि सर्वान् शरणं कृत-अञ्जलिः । ये बोधि-सत्वाः करुण-बलैर् उपेता विचरति लोके सत्व-हिताय शूराः त्रायन्तु ते मां सद-पाप-कारिणं [दोउब्त्fउल्] । शरणं यामि तान् बुद्ध-बोधि-सत्वान् ॥

इति हि शारिपुत्र बोधि-सत्वेन + इमान् पञ्चत्रिंशतो बुद्धान् प्रमुखान् कृत्वा सर्व-तथा-गत-अनुगतैर् मनसि-कारैः पाप-शुद्धिः कार्या । तस्य + एवं सर्व-पाप-विशुद्धस्य तत्र च बुद्धा भगवन्तो मुखान्य् उपदर्शयन्ति सत्व-विमोक्ष-अर्थम् एव । नाना-व्यञ्जन-आकारम् उपदर्शयन्ति विभ्रान्त-बाल-पृथग्-जनानां परिपाचना-हेतोः ॥ पे ॥
न शक्यं सर्व-श्रावक-प्रत्य्-एक-बुद्ध-निकायैर् आपत्ति-कौकृत्य-स्थानं विशोधयितुं यद् बोधि-सत्वस् तेषां बुद्धानां भगवतां नाम-धेय-धारण-परिकीर्तनेन रात्रिं-दिवं त्रि-स्कन्धक-धर्म-पर्याय-प्रवर्तनेन + आपत्ति-कौकृत्यान् निःसरति समाधिं च प्रतिलभते ॥
उक्तो विदूषण-अ-समुदाचारः । प्रति-पक्ष-समुदाचार उच्यते । तत्र गम्भीर-सूत्र-अन्त-परिचयात् पाप-क्षयो भवति ॥
यथा वज्र-च्छेदिकायाम् उक्तं । ये ते सुभूते कुल-पुत्रा वा कुल-दुहितरो वा इमान् एवं-रूपान् सूत्र-अन्तान् उद्ग्रहीष्यन्ति यावत् पर्यवाप्स्यन्ति । ते परिभूता भविष्यन्ति सु-परिभूताः । तत् कस्य हेतोः । यानि तेषां सत्वानां पौर्व-जन्मिकानि कर्माणि कृतान्य् अपाय-संवर्तनीयानि । तानि तया परिभूततया दृष्टए एव धर्मे क्षपयिष्यन्ति बुद्ध-बोधिं च प्राप्स्यन्ति + इति ॥
शून्यता-अधिमुक्त्या + अपि पाप-शुद्धिर् भवति तथा-गत-कोष-सूत्रे वचनात् । यः काश्यप पिता च स्यात् प्रत्य्-एक-बुद्धश् च तं जीविताद् व्यपरोपयेद् इदम् अग्रं प्राण-अतिपातानां । इदम् अग्रम् अ-दत्त-आदानानां यद् उत त्रि-रत्न-द्रव्य-अपहरणता । इदम् अग्रं काम-मिथ्या-आचाराणां यद् उत माता स्याद् अर्हन्ती च । इदम् अग्रं मृषा-वादानां यद् उत तथा-गतस्य + अभ्याख्यानं । इदम् अग्रं पैशुन्यानां यद् उत + आर्य-संघस्य + अ-वर्णः । इदम् अग्रं पारुष्याणां यद् उत + आर्याणाम् अवस्फण्डनं । इदम् अग्रं संभिन्न-प्रलापानां यद् उत धर्म-कामानां विक्षेपः । इदम् अग्रं व्यापादानां यद् उत + आनन्तर्य-परिकर्षणम् । इदम् अग्रम् अभिध्यानां यद् उत सम्यग्-गतानां लाभ-हरण-चित्तता । इदम् अग्रं मिथ्या-दृष्टीनां यद् उत गहनता-दृष्टिः । इमे काश्यप दश + अ-कुशलाः कर्म-पथा महा-स-आवद्याः । सचेत् काश्यप एक-सत्व एभिर् एवं महा-स-आवद्यैर् दशभिर् अ-कुशलैः कर्म-पथैः समन्वागतो भवेत् । स च तथा-गतस्य हेतु-प्रत्यय-संयुक्तां धर्म-देशनाम् अवतरेन् । न + अत्र कश्-चिद् आत्मा वा सत्वो वा जीवो वा पुद्गलो वा यः करोति प्रतिसंवेदयते इति ह्य् अ-कृताम् अन्-अभिसंस्कारां माया-धर्मताम् अ-संक्लेश-धर्मतां प्रकृति-प्रभास्वरतां सर्व-धर्माणाम् अवतरत्य् आदि-शुद्धान् सर्व-धर्मान् अभिश्रद्दधात्य् अधिमुच्यते । न + अहं तस्य सत्वस्य + अपाय-गमनं वदामि + इति ॥
कर्म-आवरण-विशुद्धि-सूत्रे * अप्य् उक्तं । पुनर् अ-परं मञ्जुश्रीर् यो बोधि-सत्व आपत्तिम् अन्-आपत्तिं पश्यति । अ-विनयं विनयं पश्यति । संक्लेशं व्यवदानं पश्यति । संसार-धातुं निर्वाण-धातुं पश्यति । स कर्म-आवरण-विशुद्धिं प्रतिलभतए इति ॥
त्रि-समय-राजे * अपि पाप-प्रति-पक्ष-समुदाचार उक्तः ॥
अक्षिणी निमील्य बुद्ध-बोधि-सत्व-आलम्बन-चित्तः शत-अक्षरम् अष्ट-सहस्रं जपेत् । निमीलित-अक्ष एव बुद्ध-बोधि-सत्वान् पश्यति विगत-पापो भवति । अथ-वा चैत्यं प्रदक्षिणी-कुर्वन्न् अष्ट-सहस्रं जपेच् चैत्य-प्रतिमायाः सद्-धर्म-पुस्तकानां च + एकतमं पुरस्-कृत्य + अयम् एव विधिर् इति ॥
चुन्दा-धारणीं वा तावज् जपेद् यावत् पाप-क्षय-निमित्तानि पश्यति स्वप्ने । तद् यथा क्रन्दन-आदि-छर्दन-दधि-क्षीर-आदि-भोजनात् तु विगत-पापो भवति । वमनाद् वा चन्द्र-सूर्य-दर्शनाद् आकाश-गमनाज् ज्वलित-अनल-महिष-कृष्ण-पुरुष-पराजयाद् भिक्षु-भिक्षुणी-संघ-दर्शनात् क्षीर-वृक्ष-गज-वृष-गिरि-सिंह-आसन-प्रासादन-अवरोहणाद् धर्म-श्रवणाच् च पाप-क्षयः संलक्षयितव्यः ॥
तथा-गत-बिम्ब-परिवर्ते * अपि प्रति-पक्ष-समुदाचार उक्तः । तद् यथा पुरुषो मीढ-अवलिप्तः सु-धौतु-स्नानं कृत्वा गन्धैर् विलिप्यते । तस्य तद् दौर्गन्ध्यं वान्तं विगतं स्याद् एवं पञ्च-आनन्तर्य-कारिणस् तत् पापं विगच्छति । यो * अपि दश-अ-कुशल-कर्म-पथ-समन्वागतस् तथा-गते श्रद्धां प्रतिलभ्य तथा-गत-बिम्बं कारयेत् तस्य + अपि तत् पापं न प्रज्ञायते विशेषतो बोधि-चित्त-समन्वागतस्य । विशेषतो * अभिनिष्क्रान्त-गृह-आवासस्य शीलवत इति ॥
पुष्प-कूट-धारण्याम् अप्य् उक्तं । यश् च खलु पुनः सिंह-विक्रीडित-तथा-गतं संमुखं वर्षं वा वर्ष-सहस्रं वा वर्ष-शत-सहस्रं वा सर्व-सुख-उपधानैर् उपतिष्ठेद् । यश् च परिनिर्वृतस्य तथा-गतस्य चैत्ये बोधि-चित्त-संगृहीत एक-पुष्पम् आरोपयेत् तथा-गत-पूजायै जन-अञ्जलिं च + उपनामयेज् जलेन वा सिञ्चयेद् इषिका-पदं वा दद्यान् निर्-माल्यं च + अपनयेद् उपलेपन-प्रदानं वा पुष्प-प्रदानं वा दीप-प्रदानं वा कुर्याद् आत्त-मनाः एक-क्रम-व्यतिहारं वा + अतिक्रम्य वाचं भाषते । नमस् तस्मै बुद्धाय भगवत इति-मात्रे * अत्र सिंह-विक्रीडित-काङ्क्षा वा वि-मतिर् वा विचिकित्सा वा यद् असौ कल्पं वा कल्प-शतं वा कल्प-सहस्रं वा दुर्-गति-विनिपातं गच्छेन् न + इदं स्थानं विद्यतए इति ॥
भैषज्य-गुरु-वैदूर्य-प्रभ-राज-सूत्रे * अप्य् उक्तं । ये पञ्च शिक्षा-पदानि धारयन्ति । ये दश शिक्षा-पदानि धारयन्ति । ये च बोधि-सत्व-संवरं चतुर्थं शतं शिक्षा-पदानां धारयन्ति । ये पुनर् अभिनिष्क्रान्त-गृह-आवासा भिक्षवः पञ्चाश-अधिके द्वे शिक्षा-पद-शते धारयन्ति । याश् च भिक्षुण्यः पञ्च-शिक्षा-पद-शतानि धारयन्ति । ये च यथा-परिगृहीताच् * छिक्षा-संवराद् अन्यतराच् * छिक्षा-पदाद् भ्रष्टा भवन्ति । सचेत् ते दुर्-गति-भय-भीतास् तस्य भगवतो भैषज्य-गुरु-वैडूर्य-प्रभ-राजस्य तथा-गतस्य नाम-धेयं धारयेयुर् यथा-विभवतश् च पूजां कुर्युः । न भूयस् तेषाम् अपाय-गतिः प्रतिकाङ्क्षितव्या ॥
अथ भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते स्म । श्रद्दधासि त्वम् आनन्द । पत्तीयसि । यद् अहं तस्य भगवतो भैषज्य-गुरु-वैडूर्य-प्रभ-राजस्य तथा-गतस्य गुणान् वर्णयामि । अथ ते काङ्क्षा वा वि-मतिर् वा विचिकित्सा वा + अत्र गम्भीरे बुद्ध-गो-चरे ॥
अथ + आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत् । न मे भदन्त भगवन् काङ्क्षा वा वि-मतिर् वा विचिकित्सा वा तथा-गत-भाषितेषु सूत्र-अन्तेषु । तत् कस्य हेतोः । न + अस्ति तथा-गतानाम् अ-परिशुद्ध-काय-वाङ्-मनः-समुदाचारता । इमौ भगवन् चन्द्र-सूर्याव् एवं मह-र्द्धिकाव् एवं महा-अनुभावौ पृथिव्यां पतेतां । सुमेरुः पर्वत-राजा स्थानाच् चलेत् । न तु बुद्धानां वचनम् अन्यथा भवेत् ॥

किं-तु भदन्त भगवन् सन्ति सत्वाः श्रद्धा-इन्द्रिय-विकला ये बुद्ध-गो-चरं श्रुत्वा न श्रद्दधति । तेषाम् एवं भवति । कथम् इदं नाम-धेयं स्मरण-मात्रेण तस्य तथा-गतस्य एत्तका गुण-अनुशंसा भवति । ते न श्रद्दधति । न पत्तीयन्ति । प्रतिक्षिपन्ति । तेषां दीर्घ-रात्रम् अन्-अर्थाय + अ-हिताय + अ-सुखाय विनिपाताय भविष्यति ॥
भगवान् आह । अ-स्थानम् आनन्द + अन्-अवकाशो येषां तस्य नाम-धेयं निपतेत् कर्णे तेषां दुर्-गत्य्-अपाय-गमनं भवेद् इति । दुः-श्रद्धानीयश् च + आनन्द बुद्धानां बुद्ध-गो-चरः ।यच् च त्वम् आनन्द श्रद्दधासि पत्तीयसि । तथा-गतस्य + एषो * अनुभावो द्रष्टव्यः । अ-भूमिश् च + अत्र श्रावक-प्रत्य्-एक-बुद्धानां स्थापयित्वा एक-जाति-प्रतिबद्धान् बोधि-सत्वान् महा-सत्वान् इति ॥
अत्र + एव च + उक्तं । ये च + अन्ये श्राद्धाः कुल-पुत्रा वा कुल-दुहितरो वा + अष्ट-अङ्ग-समन्वागतम् उपवासम् उपवसन्ति । एक-वार्षिकं वा त्रैवार्षिकं वा शिक्षा-पदं धारयन्ति । येषाम् एवम् अभिप्रायः एवं प्रणिधानं । अनेन वयं कुशल-मूलेन पश्चिमायां दिशायां सुखावत्यां लोक-धातौ उपपद्येम यत्र + अमिताभस् तथागतः । यैः श्रुतं भविष्यति तस्य भगवतो भैषज्य-गुरु-वैडूर्य-प्रभव-राजस्य तथा-गतस्य नाम-धेयं । तेषां मरण-काल-समये * अष्टौ बोधि-सत्वा ऋद्ध्या + आगत्य मार्गम् उपदर्शयन्ति । ते तत्र नाना-रङ्गेषु पद्मेषु + उपपादुकाः प्रादुर्-भवन्ति । के-चित् पुनर् देव-लोकए उपपद्यन्ते । तेषां तत्र + उपपन्नानां तत् पूर्वकं कुशल-मूलं न क्षीयते । दुर्-गति-विनिपात-भयं च न भविष्यति । ते ततश् च्युता इह मनुष्य-लोके राजानो भवन्ति । चतुर्-द्वीप-ईश्वराश् चक्र-वर्तिनः । अन्-एकानि सत्व-कोटी-नियुत-शत-सहस्राणि दश कुशलेषु कर्म-पथेषु प्रतिष्ठापयन्ति । अ-परे पुनः क्षत्रिय-महा-शाल-कुलेषु + उपपद्यन्ते । ब्राह्मण-महा-शाल-कुलेषु + उपपद्यन्ते । गृह-पति-महा-शाल-कुलेषु प्रभूत-धन-धान्य-कोष-कोष्ठ-आगार-कुलेषु + उपपद्यन्ते । ते रूप-संपन्ना भवन्ति । परिवार-सम्पन्ना भवन्ति ॥
तत्र + एव + उक्तं । येन च पुनर् मातृ-ग्रामेण तस्य भगवतो भैषज्य-गुरु-वैडूर्य-प्रभ-राजस्य तथा-गतस्य नाम-धेयं श्रुतं भविष्यति । उद्गृहीतं वा । स तस्य पश्चिमो मातृ-ग्राम-भावः प्रतिकाङ्क्षितव्य इति ॥
मञ्जुश्री-बुद्ध-क्षेत्र-गुण-व्यूह-अलं-कार-सूत्रे * अप्य् उक्तं । ज्ञान-उत्तर-प्रभा-केतुं प्रणिधान-मतिं तथा । शान्त-इन्द्रियं मञ्जु-घोषं भक्तितः प्रणमाम्य् अहम् ॥
य एषां बोधि-सत्वानां नाम-धेयं तु धारयेत् । एतस्य मातृ-ग्रामस्य स्त्री-भावो न भविष्यति ॥
उक्तः संक्षेपात् प्रति-पक्ष-समुदाचारः ॥
प्रत्य्-आपत्ति-बलम् अधुना + उच्यते ॥
यथा + उक्तम् आर्य-क्षितिगर्भ-सूत्रे । प्राण-अतिपातात् प्रतिविरतो भवति बोधि-सत्वो महा-सत्वः सर्व-सत्वानाम् अ-भयं-ददः । अन्-उत्त्रासो * अन्-उपायासो * अ-लोम-हर्षः स तेन कुशल-मूलेन कर्म-विपाकेन । यत् पूर्व-अन्त-कोटि-पञ्च-गति-चक्र-आरुढेन संसार-नद्य्--उद्यातेन प्राण-अतिपात-हेतुना काय-वाङ्-मनसा कर्म-आवरणं क्लेश-आवरणं धर्म-आवरणं कृतं वा स्यात् कारितं वा + अनुमोदितं स्यात् । तत् सर्वं तेन प्राण-अतिपात-वैरमण-चक्रेण सर्व-अन्-अर्थं मर्दयति । यावद् अ-शेषम् अ-विपाकं कुरुते । स-निकाय-स-भागे देव-मनुष्याणां प्रियो भवति निर्-आतङ्को दीर्घ-आयुष्क इति ॥
यावत् पुनर् अ-परं कुल-पुत्र यो बोधि-सत्वो यावज्-जीवम् अ-दत्त-आदानात् प्रतिविरतो भवति स सर्व-सत्वानाम् अ-भयम् ददाति अन्यत्र + अ-स-यत्नेन + अ-संक्षोभेण स्व-लाभेन संतुष्टो विहरति । अ-धार्मिक-भोग-अन्-अभिलाषी स तेन कुशल-मूलेन यावद् अ-दत्त-आदान-हेतुकं कर्म-आवरणं मर्दयति प्रमर्दयति यावद् अ-शेषम् अ-विपाकं कुरुतए इति ॥ पे ॥
एवं दश + अपि कुशलाः कर्म-पथाः स्व-विपक्ष-अ-कुशल-घातकास् तत्र पठ्यन्ते ॥
तथा चन्द्र-प्रदीप-सूत्रे * अपि व्यापाद-विरत्या सर्व-पाप-क्षयः श्रूयते । यथा + आह । सहिष्याम्य् अत्र बालानाम् अ-भूतां परिभाषणां । आक्रोशनं तर्जनां च अधिवासिष्य नायकः ॥
क्षपयिष्ये पापकं कर्म यन् मया पुरिमे कृतम् । अन्येषु बोधि-सत्वेषु व्यापादो जनितो मया + इति ॥
उक्तं प्रत्य्-आपत्ति-बलम् ॥
आश्रय-बलं तु वक्तव्यम् ॥
अत्र सूकरिक-अवदानम् उदाहार्यम् । ये बुद्धं शरणं यान्ति न ते गच्छन्ति दुर्-गतिं । प्रहाय मानुषान् कायान् दिव्यान् कायांल् लभन्ति ते ॥
इत्य् एवं धर्मं संघं च + अधिकृत्य पाप-क्षयः ॥
आर्य-मैत्रेय-विमोक्षे तु बोधि-चित्तेन पाप-विशुद्धिर् उक्ता । कल्प-उद्दाहा-अग्नि-भूतं सर्व-दुष्-कृत-निर्दहनतया । पाताल-भूतं सर्व-अ-कुशल-धर्म-पर्यादान-करणतया ॥ पे ॥
तद् यथा कुल-पुत्र हाटक-प्रभासं नाम रस-जातं । तस्य + एकं पलं लोह-पल-सहस्रं सुवर्णी-करोति । न च तत्र तत् पलं शक्यते तेन लोह-पल-सहस्रेण पर्यादातुं । न लोही-कर्तुं । एवम् एव + एकः सर्व-ज्ञता-चित्त-उत्पाद-रस-धातुः कुशल-मूल-परिणामना-ज्ञान-संगृहीतः सर्व-कर्म-क्लेश-आवरण-लोहानि पर्यादाय सर्व-धर्मान् सर्व-ज्ञता-वर्णान् करोति । न च सर्व-ज्ञता-चित्त-उत्पाद-रस-धातुः शक्यः सर्व-कर्म-क्लेश-लोहैः संक्लेशयितुं पर्यादातुं वा । तद् यथा कुल-पुत्र + एकः प्रदीपो यादृशे गृहे वा लयने वा प्रवेश्यते स सह प्रवेशितो वर्ष-सहस्र-संचितम् अपि तमो-न्ध-कारं विधमयति । अवभासं च करोति । एवम् एव + एकः सर्व-ज्ञता-चित्त-उत्पाद-प्रदीपो यादृशे सत्व-आशये गहने * अ-विद्या-तमो-न्ध-कार-अनुगते प्रवेश्यते स सह प्रवेशितो * अन्-अभिलाप्य-कल्प-शत-सहस्र-संचितम् अपि कर्म-क्लेश-आवरण-तमो-न्ध-कारं विधमति । ज्ञान-आलोकं च करोति ॥
तद् यथा कुल-पुत्र चिन्ता-मणि-राज-मुकुटानां महा-नाग-राज्ञां न + अस्ति पर-उपक्रम-भयं । एवम् एव बोधि-चित्त-महा-करुणा-चिन्ता-मणि-राज-मुकुट-अवबद्धानां बोधि-सत्वानां न + अस्ति दुर्-गत्य्-अपाय-पर-उपक्रम-भयम् इति ॥

आर्य-उपालि-परिपृच्छायाम् अप्य् उक्तं । इह + उपाले महा-यानं संप्रस्थितो बोधि-सत्वः सचेत् पूर्व-अह्ण-काल-समये आपत्तिम् आपद्येत । मध्य-अह्न-काल-समये सर्व-ज्ञता-चित्तेन + अ-विरहितो विहरेद् अ-पर्यन्त एव बोधि-सत्वस्य शील-स्कन्धः । सचेन् मध्य-अह्न-काल-समये आपत्तिम् आपद्यते साय-अह्न-काल-समये सर्व-ज्ञता-चित्तेन + अ-विरहितो भवेद् अ-पर्यन्त एव बोधि-सत्वस्य शील-स्कन्धः । एवं यामे यामे विधिर् उक्तः । एवं ह्य् उपाले स-परिहारा शिक्षा महा-यान-संप्रस्थितानां बोधि-सत्वानां । तत्र बोधि-सत्वेन न + अति-कौकृत्य-पर्युत्थानम् उत्पाद्यं न + अति-विप्रतिसारिणा भवितव्यं । सचेत् पुनः श्रावक-यानीयः पुद्गलः पुनः पुनर् आपत्तिम् आपद्येत । नष्टः श्रावकस्य पुद्गलस्य शील-स्कन्धो वेदितव्यः । इति ॥
इति शिक्षा-समुच्चये पाप-शोधनम् अष्टमः परिच्छेदः ॥
[इx. क्षान्तिपारमिता]
क्षान्ति-पारमिता नवमः परिच्छेदः ॥
तद् एवम् अ-विरत-प्रवृत्तां बहु-सुखां दौःश्-ल्य-उत्पत्तिं रक्षन्न् एवं च कर्म-आवरण-विबन्धम् अपनयन् क्लेश-विशोधने प्रयतेत ॥
तत्र + अदौ तावत् क्षमेत । अ-क्षमस्य हि श्रुत-आदौ वीर्यं प्रतिहन्यते * अ-खेद-सहत्वात् । अ-श्रुतवांश् च न समाध्य्-उपायं जानाति । न + अपि क्लेश-शोधन-उपायम् । तस्माद् अ-खिन्नः श्रुतम् एषेत । ज्ञानतो * अपि संकीर्ण-चारिणः समाधानं दुष्-करम् इति । संश्रयेत वनं ततः । तत्र + अपि विक्षेप-प्रशमन-अन्-अभियुक्तस्य चित्तं न समाधीयतए इति । समाधानाय युज्येत । समाहितस्य च न किञ्-चित् फलम् अन्यत्र क्लेश-शोधनाद् इति । भावयेद् अ-शुभ-आदिकं ॥

इत्य् एतानि तावत् क्लेश-शुद्धेर् उद्देश-पदानि ॥
इदानीं निर्देश उच्यते । तत्र क्षान्तिस् त्रि-विधा धर्म-संगीति-सूत्रे * अभिहिता । दुष्ख-अधिवासन-क्षान्तिः । धर्म-निध्यान-क्षान्तिः । पर-अपकार-मर्षण-क्षान्तिश् च + इति । तत्र दुष्ख-अधिवासन-क्षान्ति-विपक्षो * अन्-इष्ट-आगम-प्राप्त-दुष्ख-भीरुता । इष्ट-विघात-प्राप्तश् च सुख-अभिष्वङ्गस् ताभ्यां दौर्मनस्यं । ततो द्वेषो लीनता च ॥
अत एव + आह चन्द्र-प्रदीप-सूत्रे । सुखे * अन्-अभिष्वङ्गः । दुष्खे * अ-वैमुख्यम् इति ॥
रत्न-मेघ-सूत्रे * अप्य् उक्तं । यए इमे आध्यात्मिकाः शोक-परिदेव-दुष्ख-दौर्मनस्य-उपायासास् तान् क्षमते * अधिवासयति + इति ॥
आर्य-उग्रदत्त-परिपृच्छायाम् अप्य् उक्तं । पुनर् अ-परं गृह-पते गृहिणा बोधि-सत्वेन + अनुनय-प्रतिघा-अपगतेन भवितव्यम् अष्ट-लोक-धर्म-अन्-अनुलिप्तेन । तेन भोग-लाभेन वा भार्या-पुत्र-लाभेन वा धन-धान्य-वित्त-लाभेन वा न + उन्नमितव्यं न प्रहर्षितव्यं । सर्व-विपत्तिषु च + अनेन न + अवनमितव्यं । न दुर्-मनसा भवितव्यं एवं च + अनेन प्रत्यवेक्षितव्यं । माया-कृतं सर्व-संस्कृतं विठपन-प्रत्युपस्थान-लक्षणं । कर्म-विपाक-निर्वृत्ता ह्य् एते । यद् इदं माता-पितृ-पुत्र-भार्या-दासी-दास-कर्म-कर-पौरुषेय-मित्र-अमात्य-ज्ञाति-सालोहिता । न + एते मम स्वकाः । न + अहम् एतेषाम् इति ॥
अपि च । यद्य् अस्त्य् एव प्रतीकारो दौर्मनस्येन तत्र किम् । प्रतीकारे * अपि मुह्येत दुर्-मनाः क्रोध-मूर्च्छितः ॥
लीनत्वाद् वा हत-उत्साहो गृह्यते परया + आपदा । तच्-चिन्तया मुधा यान्ति ह्रस्वम् आयुर् मुहुर् मुहुः ॥
तेन + अभ्यासात् त्यजेद् एतं निर्-अर्थकम् अन्-अर्थ-वत् ॥
कथं च दौर्मनस्य-त्यागो * अभ्यस्यते । लघु-सु-कुमार-चित्त-उत्सर्गात् ॥
यथा + उक्तम् उग्रदत्त-परिपृच्छायां । अपगत-तूल-पिचु-उपमता-चित्तस्य + इति ॥
आर्य-गण्ड-व्यूहे * अप्य् उक्तं । दुर्-योधनं चित्तं ते दारिके उत्पादयितव्यं सर्व-क्लेश-निर्घाताय । अ-पराजित-चित्तं सर्व-अभिनिवेश-विनिर्भेदाय । अ-क्षोभ्य-चित्तं विषम-आशयत्व-सागर-आवर्त-प्रयातेष्व् इति ॥
न च + अभ्यासस्य दुष्-करं नाम किञ्-चिद् अस्ति । तथा हि मूढतराणाम् अपि तावद् भार-हारक-कैवर्तक-र्षक-आदीनां दुष्ख-अभ्यासात् क्षुद्रतर-फले * अपि वस्तुनि संरूढ-किण-अङ्कितं चित्तम् अवसादेन न परिभूयते । किं पुनः सर्व-संसार-सुख-सर्व-बोधि-सत्व-सुख-अन्-उत्तर-पद-समधिगम-फले कर्मणि । तथा प्राकृता अपि किञ्-चिद् अपकारिष्व् आत्म-दुष्कृतेन + एव हतेषु स्वयं मृत्युषु प्रहर्तुं गाढ-प्रहार-वेदना अपि संग्रामयन्त्य् एव । कि.ं पुनर् द्राघिष्ठ-काल-अपकारिषु दुष्ख-उपात्त-कुशल-धन-लव-स्तैन्येषु नरकेषु न + अवध्य-घातकेषु भव-चारक-पालकेषु निः-सरण-द्वार-दिग्-नाशकेष्व् आनुकूल्ये * अपि दृढतर-वाधा-करेष्व् अन्-अपकृत-वैरिष्व् अन्-अवधि-कल्प-आबद्ध-दृढ-वैरेषु क्लेश-शत्रुषु प्रहर्तुम् उत्साहो दुष्ख-सहनं वा न भवेत् । विशेषतस् त्रि-भुवन-विजयया बद्ध-परिकरस्य मार-शवर-प्रतिगृहीत-जगद्-बन्दि-मोक्षाय संग्रामयतः । तत्र + आत्म-दुष्ख-अभ्यास-पूर्वकं कष्टं कष्टतर-अभ्यासः सिध्यति । यथा च + अभ्यास-वशात् सत्वानां दुष्ख-सुख-स।म्ज्ञा । तथा सर्व-दुष्ख-उत्पादेषु सुख-संज्ञा प्रत्युपस्थान-अभ्यासात् सुख-संज्ञा + एव प्रत्युपतिष्ठते । एतन् निष्यन्द-फलं च सर्व-धर्म-सुख-आक्रान्तं नाम समाधिं प्रतिलभते ॥
उक्तं हि पिता-पुत्र-समागमे । अस्ति भगवन् सर्व-धर्म-सुख-क्रान्तो नाम समाधिः । यस्य समाधेः प्रतिलम्भाद् बोधि-सत्वः सर्व-आरम्बण-वस्तुषु सुखाम् एव वेदनां वेदयते । न + अ-दुष्ख-अ-सुखां । तस्य नैरयिकाम् अपि कारणां कार्यमाणस्य सुख-संज्ञा + एव प्रत्युपस्थिता भवति । मानुषीम् अपि कारणां कार्यमाणस्य हस्तेष्व् अपि छिद्यमानेषु पादेष्व् अपि कर्णेष्व् अपि नासास्व् अपि सुख-संज्ञा + एव प्रत्युपस्थिता भवति । वेत्रैर् अपि ताड्यमानस्य + अर्द्ध-वेत्रैर् अपि कशाभिर् अपि ताड्यमानस्य सुख-संज्ञा + एव प्रवर्तते बन्धन-आगारेष्व् अपि प्रक्स्.इप्तस्य ॥ पे ॥
तैल-पाचिकं वा क्रियमाणस्य । इक्षु-कुट्टितवद् वा कुट्ठ्यमानस्य । नड-चिप्पितिकं वा चिप्यमानस्य तैल-प्रद्योतिकं वा + आदीप्यमानस्य सर्पिः-प्रद्योतिकं वा दधि-प्रद्योतिकं वा + आदीप्यमानस्य सुख-संज्ञा + एव प्रत्युपस्थिता भवति । उल्का-मुखं वा ह्रियमाणस्य सिंह-मुखं वा ह्रियमाणस्य शुष्क-वर्त्तिकां वा वर्त्यमानस्य ॥ पे ॥
कार्षापण-च्छेदिकं वा छिद्यमानस्य पिष्ट-पाचनिकं वा पाच्यमानस्य हस्तिभिर् वा मर्द्यमानस्य सुख-संज्ञा + एव प्रवर्तते । अक्षिण्य्--उत्पाठ्यमाने जीव-शूलिकम् अपि क्रियमाणस्य सर्वशो वा + अ-घातं निर्णीय शिरसि वा प्रपात्यमाने सुख-संज्ञा + एव प्रवर्तते । न दुष्ख-संज्ञा । न + अ-दुष्ख-अ-सुख-संज्ञा ॥
तत् कस्य हेतोः । तथा हि बोधि-सत्वस्य महा-सत्वस्य दीर्घ-रात्रं चर्यां चरत एतत् प्रणिधानम् अभूत् । ये मां भोजयेरन् । ते उपशम-शम-सुखस्य लाभिनो भवेयुः । ये मां पालयेयुः सत्-कुर्युर् गुरु-कुर्युर् मानयेयुः पूजयेयुः सर्वे ते उपशम-सुखस्य लाभिनो भवेयुः । ये * अपि माम् आक्रोशेयुर् विस्पर्शेयुस् ताडयेयुः शस्त्रेण + आछिन्द्युर् यावत् सर्वशो जीविताद् व्यपरोपयेयुः सर्वे ते संबोधि-सुखस्य लाभिनो भवेयुः । अन्-उत्तरां सम्यक्-संबोधिम् अभिसंबुध्येरन्न् इति ॥
स एभिर् मनस्-कारैः समन्वागत एतेन कर्मणा । एभिः प्रणिधिभिः समन्वागतः सर्व-सत्व-अनुगतां सुख-संज्ञाम् आसेवते निसेवते भावयति बहुली-करोति । स तस्य कर्मणो विपाकेन सर्व-धर्म-सुख-आक्रान्तं नाम समाधिं प्रतिलभते । यस्मिन् समये बोधि-सत्वेन सर्व-धर्म-सुख-आक्रान्तो नाम समाधिः प्रतिलब्धो भवति तस्मिन् समये अ-क्षोभ्यो भवत्य् अ-संहार्यः सर्व-मार-कर्मभिर् इति विस्तरः ॥
अयं हि प्रयोगः सर्व-परित्याग-पूरणः । सर्व-चर्या-दुष्-कर-चर्या-साधनः सर्व-क्षान्ति-दृढी-करणः सर्व-वीर्य-आसंसादनः । सर्व-ध्यान-प्रज्ञा-अङ्ग-संभारः । तस्मान् नित्य-मुदितः स्यात् ॥
यथा + आह चन्द्र-प्रदीप-सूत्रे । स-गौरवः प्रीत-मनाः सदा भवेत् । सौम्याय दृष्टीय सदा स्थितो भवेद् । इति ॥

उक्तं च + अक्षयमति-सूत्रे । तत्र कतमा मुदिता । यावद् धर्म-अनुस्मरणात् प्रीतिः प्रसादः प्रामोद्यं चित्तस्य + अन्-अवलीनता + अन्-अवमृद्यता + अ-परितर्षणा । सर्व-काम-रतीनाम् अपकर्षणा सर्व-धर्म-रतीनां प्रतिष्ठानं । चित्तस्य प्रामोद्यं कायस्य + औद्बिल्यं बुद्धेः संप्रहर्षणं मनस उत्प्लवः । तथा-गत-काय-अभिनन्दन-रतिर् लक्षण-अनुव्यञ्जन-विभूषण-पर्येष्टि-कौशल्यं । कुशल-धर्म-श्रवण-अ-परिखेदता । तत्व-धर्म-प्रतिशरण-प्रतिपत्ति-प्रीति-प्रसाद-प्रमोद्यं मुदितस्य धर्म-उत्प्लवः । सततं सत्वेष्व् अ-प्रतिहत-बुद्धिता । तीव्र-च्छन्दता । बुद्ध-धर्म-पर्येष्टिषु तस्य च धर्म-च्छन्दस्य + अन्-उत्सृजनता । उदारेषु बुद्ध-धर्मेष्व् अधिमुक्तिः । विमुक्तिः प्रादेशिक-यान-अपकृष्ट-चित्त-उत्पादः । मात्सर्य-अ-संकुचितश् चित्त-उत्पादः । याचितस्य दातु-कामता । ददतो दत्त्वा च त्रि-मण्डल-परिशोधितं दान-प्रामोद्यं । शीलवत्सु सदा प्रसादः । दुः-शीलेष्व् अनुग्रह-प्रीतिः । स्व-शील-परिशुद्ध्या सर्व-दुर्-गन्धम् अतिक्रम-आश्वासनं । तथा-गत-शील-परिणामनता । दृढ-अ-भेद्यता । पर-दुर्-उक्त-दुर्-आगतेषु वचन-पथेष्व् अ-प्रतिहत-चित्तता । क्षान्ति-सौरत्यं । निर्-मानता । गुरुषु गौरव-अवनामश् चित्री-कारः । सदा स्मित-मुखता भृकुटि-विगतता । पूर्व-अभिलापिता + अ-कुहनता + अन्-एष्यैषिकता शुद्ध-आशयता चित्त-अ-कर्कशता + अ-कुटिलता । सर्वत्र + अनुशंस-दर्शिता आत्म-स्खलित-प्रत्यवेक्षिता । आपत्तिष्व् अ-चोदनता संरञ्जनीय-धर्मेष्व् अनुवर्तनता । शास्तृ-प्रेम बोधि-सत्वेषु । आत्म-प्रेम धर्मेषु । जीवित-प्रेम तथा-गतेषु । माता-पितृ-प्रेम गुरुषु । पुत्र-प्रेम सत्वेषु । बुद्ध-प्रेम आचार्य-उपाध्यायेषु । उत्तम-अङ्ग-शिरः-प्रेम प्रतिपत्तिषु । हस्त-पाद-प्रेम पारमितासु । सर्व-रत्न-प्रेम धर्म-भाणकेषु । सर्व-रति-क्रीडा-प्रेम + अनुशासनीषु । आरोग्य-प्रेम संतुष्टौ । भैषज्य-प्रेम धर्म-पर्येष्टिषु । वैद्य-प्रेम चोदक-स्मारकेषु । इति हि या सर्व-इन्द्रियेष्व् अन्-अवलीन-इन्द्रियता इयम् उच्यते मुदिता + इत्य् आदि ॥
अत्र च शिक्षितान् बोधि-सत्वान् इदं वचनम् अलं-करोति यद् उक्तम् आर्य-महा-मेघे । निरय-गति-चित्त-नित्य-समाधान-शीलाश् च निरय-गति-प्रियाश् च निरय-गति-पत्तन-वणिजश् च भवन्ति । निरय-लोलाश् च भवन्ति निरय-लोभ-मत्सरिणश् च निरय-अग्नि-चित्त-प्रगुण्णाः भवन्ति + इति ॥
उक्ता दुष्ख-अधिवासना क्षान्तिः ॥
आर्य-सागरमति-सूत्रे तु त्रि-विधा + अपि क्षान्तिर् उक्ता । इह सागरमते बोधि-सत्वो महा-सत्वः सर्व-ज्ञता-चित्त-उत्पाद-रत्ने । अन्-आर्यैर् दुः-शीलैः सत्वैर् मारैर् मार-कायिकाभिर् वा देवताभिर् मार-अधिष्ठितैर् वा मार-दूतैर् वा विहेठ्यमानः समीर्यमाणः क्षोभ्यमानस् तर्ज्यमानस् ताड्यमानो न भिद्यते ततो । अध्याशय-चित्त-उत्पादो न भिद्यते सर्व-सत्व-प्रमोक्ष-महा-करुणा-वीर्य-आरम्भात् । न भिद्यते त्रि-रत्न-वंश-अन्-उपच्छेद-पराक्रमात् । न भिद्यते सर्व-धर्म-समुदानयन-कुशल-प्रयोगात् । न भिद्यते लक्षण-अनुव्यञ्जन-परिनिष्पत्ति-गतात् पुण्य-संभार-उपचयात् । न भिद्यते बुद्ध-क्षेत्र-परिशुद्ध्य्-अभिनिर्हार-आहृताद् औत्सुक्यात् । न भिद्यते सर्व-धर्म-अ-परिग्रह-अभियुक्तात् काय-जीवित-उत्सर्गात् । न भिद्यते सर्व-सत्व-परिपाचन-अभियुक्ताद् आत्म-सौख्य-अन्-अध्यवसानात् । स एवम् अध्याशय-संपन्न एव समानः सर्व-सत्वानाम् अन्तिकाद् उच्च-घनां सहते । उन्मननां कुत्सनां सहते सर्व-सत्वानाम् आक्रोश-परिभाषां दुर्-उक्त-दुर्-आगतान् वचन-पथान् सहते । सर्व-सत्व-पीडां सहते । सर्व-सत्व-भारांश् च सहते उत्तारयति वा न च खिद्यते । न च लीयते । न संलीयते । न विषीदति । बलम् उपदर्शयति । स्थाम संजनयति । वीर्यम् आरभते । पराक्रमं पराक्रमते । उत्साहं जनयति । उन्मूढ-चित्तं निगृह्णाति । स आक्रुष्टो न प्रत्याक्रोशति । ताडितो न प्रतिताडयति । रोषितो न प्रतिरोषयति । क्रुद्धाय न प्रतिक्रुध्यति । एवं चित्त-गणना-संनाहं संनह्यति । ... सचेत् पुनर् एते सत्वा यावन्तो दशसु दिक्षु प्रभाव्यमानाः प्रभाव्यन्ते ते सर्वे * असि-शक्ति-तोमर-पालि-योगेन मां पृष्ठतः पृष्ठतो * अनुबध्नीयुः । यत्र + एष पृथिवी-प्रदेशे स्थितो वा निषण्णो वा चङ्क्रम्यमाणो वा शयानो वा बोधि-चित्तम् उत्पादयिष्यति दान-चित्तं वा यावत् प्रज्ञा-चित्तं वा श्रुत-कुशल-मूल-चित्तं वा + उत्पादयिष्यति तत्र + अस्य पृथिवी-प्रदेशे शत-धा-बदरी-पत्त्र-प्रमाणं कायं छेत्स्यामो विकरिष्यामो विध्वंसयिष्यामस् । ते चेत् सर्व-सत्वा माम् आक्रोशयेयुः परिभाषेरन् कुत्सयेयुः पंसयेयुर् अ-सत्याभिर् वाग्भिः परुषाभिर् वाग्भिः समुच्चरेयुर् अधिष्ठिता अन्-अर्थ-कर्माणः शत-धा-बदरी-पत्त्र-प्रमाणं मम कायं छिन्ध्युर् भिन्द्युर् विकरेयुर् विध्वंसयेयुः । एवं मया न कस्य-चित् सत्वस्य + अन्तिके क्षोभ-चित्तम् उत्पादयितव्यं । तत् कस्य हेतोः । पूर्वा कोटिः संसारस्य + अ-प्रमाणी-कृता यत्र मे * अयम् आत्म-भावो नरक-गतस्य + अपि तिर्यग्-योनि-गतस्य + अपि यम-लोक-गतस्य + अपि मनुष्य-गतस्य + अपि काम-आहार-पलिगुद्धस्य धर्मान् अ-श्रुतवतो विषम-आजीव-गो-चरस्य निर्-अर्थक-जीविनः अङ्ग-प्रत्य्-अङ्गस्य शत-धा छिन्नो भिन्नो निकृत्तो विविधाभिश् च कारणाभिः कारितो न च मया ततो निदानम् आत्म-अर्थं कृतो न पर-अर्थः । सचेत् पुनर् पुनर् मम + एते सर्व-सत्वा अ-पर-अन्त-कोटिं छिन्द्युर् भिन्द्युर् विकिरेयुर् विध्वंसयेयुस् तथा + अपि मया + अ-परित्यक्ता + एव सर्व-ज्ञता । अ-परित्यक्ता एव सर्व-सत्वाः । अ-परित्यक्तः कुशलो छर्म-छन्दः । तत् कस्य हेतोः । सर्वा ह्य् एषा काय-पीडा काय-विवर्तना । नैरयिकस्य दुष्खस्य शततमीम् अपि कलां न + उपैति यावद् उपनिषदम् अपि न क्षमते । नरक-आवासम् अप्य् अहम् उत्सहे । न पुनर् मया बुद्ध-धर्माः परित्यक्तव्या न सर्व-सत्व-आरम्बणा महा-करुणा ॥ पे ॥
यन् निदानं पुनर् व्यापाद उत्पद्येत । तं वयं धर्मं प्रहास्यामः । कतमश् च स धर्मो । यद् उत काय-प्रेम काय-निकेतः काय-अध्यवसानं । उत्सृष्टश् च काय उत्सृष्टो व्यापादः । एवं धर्म-गणना-आविष्टः सागरमते बोधि-सत्वः सर्व-सत्व-पीडां सहते ॥ पे ॥
यः कायस्य + उत्सर्गः काय-परित्यागः काय-अन्-अवेक्षा । इयम् अस्य दान-पारमिता ॥
यत् काये छिद्यमाने सर्व-सत्वान् मैत्र्या स्फरति । वेदनाभिश् च न संह्रियते । इयम् अस्य शील-पारमिता ॥
यत् काये छिद्यमाने य एव + अस्य कायं छिन्दति तेषाम् एव प्रमोक्ष-अर्थं क्षमते । न च चित्तेन क्षण्यते क्षान्ति-बलं च + उपदर्शयति + इयम् अस्य क्षान्ति-पारमिता ॥

येन वीर्येण तं सर्व-ज्ञता-छन्दं न + उत्सृजति चित्त-बल-आधीनं च प्रतिगृह्णाति । संसारम् एव च + अनुबध्नाति । कुशल-मूल-आरम्भम् एव च + आरभते । इयम् अस्य वीर्य-पारमिता ॥
यत् काये विकीर्यमाणे तत् सर्व-ज्ञता-चित्त-उत्पाद-रत्नं कर्तुं न संमुह्यति बोधिम् एव + अपेक्षते शान्त-प्रशान्तम् एव प्रत्यवेक्षते । इयम् अस्य ध्यान-पारमिता ॥
यत् काये छिद्यमाने कायस्य तृण-काष्ठ-कुड्यवत्-प्रतिभास-उपमतां प्रत्यवेक्षते माया-धर्मतां च कायस्य + अवतरति । भूत-अ-नित्यतां च भूत-दुष्खतां च भूत-अन्-आत्मतां च भूत-शान्ततां च कायस्य + उपनिध्यायति । इयम् अस्य प्रज्ञा-पारमिता + इति विस्तरः ॥ पे ॥
पुनर् अ-परम् अस्य + एवं भवति । एष सत्वः कुसीदः शुक्ल-धर्म-रहितः । स माम् आक्रोशयति परिभाषते । हन्त वयम् आरब्ध-वीर्या भविष्यामः । अ-तृप्ताः कुशल-मूल-पर्येषण-अभियुक्ता । एष एव तावन् मया सत्वः पूर्वतरं बोधि-मण्डे निषादयितव्यः । पश्चान् मया + अन्-उत्तरा सम्यक्-संबोधिर् अभिसंबोद्धव्या + इति ॥ पे ॥
ईदृशानाम् अस्माभिः सत्वानाम् अ-दान्तानाम् अ-गुप्तानाम् अन्-उपशान्तानाम् अर्थाय संनाहाः संनद्धव्याः ॥ पे ॥
हन्त वयं धर्मतां प्रतिसरिष्यामः । को * अत्र + आक्रोशति वा आक्रुश्यते वा । स परिगवेषमाणो न तं धर्मम् उपलभते । य आक्रोशति वा आक्रुश्यते वा । स आत्म-पर-अन्-उपलब्ध-उपलम्भ-दृष्टि-विगतः क्षमतए इति ॥
भगवत्याम् अप्य् उक्तं । एवं चित्तम् उत्पादयति । येन मया सर्व-सत्वानां विवाद उत्सारयितव्यः । सो * अहं स्वयम् एव विवदामि । लाभा मे दुर्-लब्धा यो * अहं जल्पिते प्रतिजल्पामि । येन मया सर्व-सत्वानां संक्रम-भूतेन भवितव्यं सो * अहं परस्य त्वम् इत्य् अपि वाचं भाषे । परुषं वा प्रति-वाचो ददामि । इदं मया न + एव वक्तव्यं जड-समेन । एडक-मूक-समेन मया कलह-विवादेषु भवितव्यं । परतो दुर्-उक्तान् दुर्-आगतान् दुर्-भाषितान् भाष्यमाणान् वचन-पथान् शृण्वता चित्तं न + आघातयितव्यं । परेषाम् अन्तिके न मम + एतत् साधु न प्रति-रूपं यो * अहं परस्य दोष-अन्तरं संजनयेयम् । एतन् न मम प्रति-रूपं यद् अहं परेषां दोष-अन्तरम् अपि संश्रोतव्यं मन्ये । तत् कस्य हेतोः । न मया + आशयो विकोपयितव्यो येन मया सर्व-सत्वाः सर्व-सुख-उपधानेन सुखयितव्याः परिनिर्वापयितव्याश् च + अन्-उत्तरां सम्यक्-संबोधिम् अभिसंबुध्य तत्र नाम + अहं व्यापद्ये । न च मया परेषां स्व्-अपराद्धानाम् अपि व्यापत्तव्यं । स नाम + अहं मोहं क्षोभं गच्छामि । इदं तु मया करणीयं । दृढ-पराक्रमतया पराक्रान्तव्यं । न मया जीवित-अन्तराये * अपि क्रियमाणे क्षोभः करणीयः । न मया भृकुटी मुखे [दोउब्त्fउल्] उत्पादयितव्या + इति ॥
बोधि-सत्व-प्रातिमोक्षे * अप्य् उक्तम् । ये क्रुद्धाः सत्वास् तान् आश्वासयति क्षमापयति । अनुलोमयति धर्मेण तोषयति + इति ॥
इति शिक्षा-समुच्चये क्षान्ति-पारमिता परिच्छेदो नवमः ॥
[x. वीर्यपारमिता]
वीर्य-पारमिता दशमः परिच्छेदः ॥
एवं क्षान्ति-प्रतिस्थितः श्रुते वीर्यम् आरभेत । अन्यथा श्रुतम् एव + अस्य विनाशाय संपद्यते ॥
यथा + उक्तं चन्द्र-प्रदीप-सूत्रे । कियद्-बहू धर्म-पर्यायुणेया [दोउब्त्fउल्] शीलं न रक्षेत श्रुते नमन्त । न बाहुश्रुत्येन स शक्यु त्रायितुं दुः-शीलयेन व्रजमान दुर्-गतिम् ॥

श्रुत-अनुशंसास् तु नारायण-परिपृच्छायाम् उक्ताः । तथा हि कुल-पुत्राः श्रुतवतः प्रज्ञा-आगमो भवति । प्रज्ञावतः क्लेश-प्रशमो भवति । निः-क्लेशस्य मारो * अवतारं न लभते ॥
अत्र च मह-र्षेर् उत्तरस्य जातकं विस्तरेण कृत्वा + आह । धर्म-कामानां हि । वि-मल-तेजः । बोधि-सत्वानां महा-सत्वानां स-गौरवाणां स-प्रतीशानां अन्य-लोक-धातु-स्थिता अपि बुद्धा भगवन्तो मुखम् उपदर्शयन्ति धर्मं च + अनुश्रावयन्ति । धर्म-कामानां । वि-मल-तेजः । बोधि-सत्वानां महा-सत्वानां पर्वत-कन्दर-वृक्ष-मध्येषु धर्म-निधानानि निक्षिप्तानि । धर्म-मुखान्य् अन्-अन्तानि पुस्तक-गतानि कर-तल-गतानि भवन्ति । धर्म-कामानां वि-मल-तेजः बोधि-सत्वानां पूर्व-बुद्ध-दर्शिन्यो देवता बुद्ध-प्रतिभानम् उपसंहरन्ति ॥ पे ॥
परिक्षीण-आयुष्काणां बुद्धा भगवन्तो देवताश् च + आयुर्-बलं च + उपसंहरन्ति । बुद्ध-अधिष्ठानेन देवता-अधिष्ठानेन च काङ्क्षामाणा वर्ष-सहस्रम् अवतिष्ठन्ते ॥ पे ॥
यावत् कल्पं वा कल्प-अवशेषं वा यावद् वा आकाङ्क्षन्ति धर्म-गौरव-जातानां बोधि-सत्वानां बुद्धा भगवन्तो जराम् अप्य् अपनयन्ति । व्याधीन् अपनयन्ति । स्मृतिम् उपसंहरति । गतिं मतिं प्रतिभानं च + उपसंहरन्ति ॥ पे ॥
दृष्टि-कृतानि विनोदयन्ति । सम्यग्-दृष्टिं च + उपसंहरन्ति । धर्म-गौरवेण । वि-मल-तेजः । बोधि-सत्वानां महा-सत्वानां सर्व-उपक्रम-भयानि न भवन्ति । तस्मात् तर्हि वि-मल-तेजः श्रुत-संभार-कौशल्य-अभियुक्तेन बोधि-सत्वेन भवितव्यम् इति ॥
किम् आकारं श्रुतं बोधि-सत्व-विनये प्रशस्तं । यथा आर्य-अक्षयमति-सूत्रे * अभिहितं । अशीत्य्-आकार-प्रवेशं श्रुतं । तद् यथा । छन्द-आकारम् आशय-आकारम् अध्याशय-आकारं प्रयोग-आकारं निर्माण-आकारम् अ-प्रमाण-आकारं कल्याण-मित्र-आकारं गौरव-आकारं प्रदक्षिण-आकारं सु-वचन-आकारं पर्युपासन-आकारम् अवहित-श्रोत्र-आकारं मनस्-कार-आकारम् अ-विक्षेप-आकारम् अवस्थान-आकारं रत्न-संज्ञा-आकारं भैषज्य-संज्ञा-आकारं सर्व-व्याधि-शमन-आकारं स्मृति-भजन-आकारं गति-बोधन-आकारं मति-रोचन-आकारं बुद्धि-प्रवेश-आक् आरम् अ-तृप्त-बुद्ध-धर्म-श्रवण-आकारं त्याग-वृंहण-आकारं दान्त-आजानेय-आकारं बहु-श्रुत-सेवना-आकारं सत्य-कृत्य-प्रीत्य्-अनुभवन-आकारं काय-औद्बिल्य-आकारं चित्त-प्रह्लादन-आकारम् अ-परिखेद-श्रवण-आकारं धर्म-श्रवण-आकारं प्रतिपत्ति-श्रवण-आकारं पर-देशना-श्रवण-आकारं अ-श्रुत-श्रवण-आकारं अभिज्ञा-श्रवण-आकारम् अन्य-यान-अ-स्पृहणा-श्रवण-आकारं प्रज्ञा-पारमिता-श्रवण-आकारं बोधि-सत्व-पिटक-श्रवण-आकारं संग्रह-वस्तु-श्रवण-आकारम् उपाय-कौशल्य-श्रवण-आकारं ब्रह्म-विहार-श्रवण-आकारं स्मृति-संप्रजन्य-श्रवण-आकारं गौरव-आकारं उत्पाद-कौशल्य-श्रवण-आकारम् अन्-उत्पाद-कौशल्य-श्रवण-आकारम् अ-शुभ-आकारं मैत्र्याः श्रवण-आकारं प्रतीत्य-समुत्पाद-आकारं अ-नित्य-आकारं दुष्ख-आकारम् अन्-आत्मा-आकारं शान्त-आकारं शून्यता-निमित्त-अ-प्रणिहित-आकारं अन्-अभिसंस् कार-आकारं कुशल-अभिसंस्कार-आकारं सत्व-अधिष्ठान-आकारं अ-विप्रणाश-आकारं स्व-अधीन-आकारं स्व-चित्त-आरक्षण-आकारं वीर्यस्य + आश्रंसन-आकारं धर्म-निध्यप्त्य्-आकारं क्लेश-विपक्ष-आकारं स्व-पक्ष-परिकर्षण-आकारं पर-पक्ष-क्लेश-निग्रह-आकारं सप्त-धन-समवशरण-आकारं सर्व-दारिद्र्य-उपछेद-आकारं सर्व-विद्वत्-प्रशस्त-आकारं पण्डित-अभिनन्दन-आकारं आर्य-संमत-आकारं अन्-आर्य-प्रसादन-आकारं सत्य-दर्शन-आकारं स्कन्ध-दोष-विवर्जन-आकारं संस्कृत-दोष-परितुलन-आकारम् अर्थ-प्रतिशरण-आकारं धर्म-प्रतिशरण-आकारं सर्व-पाप-अ-करण-आकारं आत्म-पर-हित-आकारं सु-कृत-कर्म-अन्-अनुतप्यन-आकारं विशेष-गमन-आकारं सर्व-बुद्ध-धर्म-प्रतिलाभ-आकारम् इति ॥
पुनर् अत्र + एव + आह । यश् च धर्म-संभार-योगः स एव + अस्य ज्ञान-संभारो भवति । तत्र कतमो धर्म-संभार-योगो या + इयम् अल्प-अर्थता + अल्प-कृत्यता + अल्प-भाषता + अल्प-परिष्कारता पूर्व-रात्र-अ-पर-रात्रं जागरिका-योगम् अनुयुक्तस्य श्रुत-अर्थ-परितुलनता । भूयो भूयः पर्येषणता । चित्तस्य + अन्-आविलता । नीवरणानां विष्कम्भनता । आपत्तिषु निः-शरण-ज्ञानं । अ-कौकृत्यता । अ-पर्युत्थानता । प्रतिपत्ति-सारता । धर्म-निम्नता धर्म-प्रवणता धर्म-प्राग्-भारता । पराक्रम-संपन्नता आदीप्त-शिरश्-चैल-उपमता ज्ञान-पर्येष्ट्या । तन्-मय-विहारिता । अ-शिथिल-शीलता + अ-निक्षिप्त-धुरता विशेष-गामिता संगणिका-विवर्जनम् एक-आरामता + अरण्य-अभिमुख-मनस्-कारता आर्य-वंश-सन्तुष्टिः धुत-गुणेष्व् अ-चलनता धर्म-आराम-रति-रतता लौकिक-मन्त्र-अ-स्मरणता लोक-उत्तर-धर्म-पर्येष्टिता स्मृत्य्-अ-प्रमोषता । अर्थ-गत्य्-अनुगमता । मत्या मार्ग-अनुलोमता । धृत्या संवर-प्रत्ययैर् ज्ञान-अनुगमः । ह्रीर्-अपत्राप्य-अलं-कारता । ज्ञान-अनुगमन-सारता । अ-ज्ञान-विधमनता । अ-विद्या-मोह-तमस्-तिमिर-पटल-पर्यवनद्धस्य प्रज्ञा-चक्षुर्-विशुद्धिः । सु-विशुद्ध-बुद्धिता । बुद्धि-विस्तीर्णता । अ-संकुचित-बुद्धिता प्रभिन्न-बुद्धिता । प्रत्य्-अक्ष-बुद्धिता । अ-पर-अधीन-गुणता । स्व-गुणैर् अ-मन्यनता । पर-गुण-परिकीर्तनता । सु-कृत-कर्म-कारिता । कर्म-विपाक-अन्-उद्धुरता । कर्म-परिशुद्धि-ज्ञानम् इति ॥
किं श्रोतव्यं । उक्तं भगवता ज्ञान-वैपुल्य-सूत्रे । स-अर्थकानि शास्त्राणि शिक्षितव्यानि । अप-अर्थकानि परिवर्जयितव्यानि । तद् यथा । लोक-आयत-शास्त्राणि दण्ड-नीति-शास्त्राणि कार्खेद-शास्त्राणि वाद-विद्या-शास्त्राणि कुमार-क्रीडा-शास्त्राणि जम्भक-विद्या-शास्त्राणि ॥ पे ॥
यान्य् अपि तद् अन्यानि कानि-चिन् मोक्ष-प्रति-कूलानि शास्त्राणि संमोहाय संवर्तन्ते तानि सर्वाणि बोधि-सत्व-यान-संप्रस्थितेन परिवर्जयितव्यानि + इति ॥
एवं श्रुतवता चित्तं शोधयितुम् अरण्यम् आश्रयणीयं । कथं पुनर् आशय-संपन्नस्य + अप्य् उग्रदत्त-परिपृच्छायां गृहम् अनुज्ञातं । यत्नवतो * अप्य् अ-सामर्थ्यात् । पर-दार-आदिष्व् अपि तर्हि न + आपत्तिः स्यात् । न तेषाम् अ-सामर्थ्ये * अपि प्रकृति-दुष्टत्वाद् गृह-आवासस्य च प्रज्ञप्ति-स-अवद्यत्वाद् इति ॥
इति शिक्षा-समुच्चये वीर्य-पारमिता परिच्छेदो दशमः ॥
[xइ. अरण्यसंवर्णनः]
अरण्य-संवर्णनं नाम + एकादशः परिच्छेदः ॥
तद् एवम् उग्रदत्त-परिपृच्छा-विधिना गृह-दोषान् भावयित्वा श्रुतवता चित्तं शोधयितुम् अरण्यम् आश्रयणीयम् इति स्थितं ॥
तथा च + उक्तं चन्द्र-प्रदीप-सूत्रे । न जातु कामान् प्रतिषेवमाणः पुत्रेषु दारेषु जनित्व तृष्णां । गृहं च सेवित्व जुगुप्सनीयम् अन्-उत्तरां प्राप्स्यति सो * अग्र-बोधिम् ॥

ये काम वर्जेन्ति यथा + अग्नि-कर्षूं पुत्रेषु दारेषु जनित्व तृष्णां । उत्तस्त गेहाद् अभिनिष्क्रमन्ति न दुर्-लभा तेष्व् इयम् अग्र-बोधिः ॥
न कश्-चि बुद्धः पुरिमेण आसीद् अन्-आगतो भेष्यति यो * अवतिष्ठते । येहि स्थितैर् एव अगार-मध्ये प्राप्ता इयं उत्तम अग्र-बोधिः ॥
प्रहाय राज्यं यथ खेट-पिण्डं वसेद् अरण्येषु विवेक-कामः । क्लेशान् प्रहाय विनिहत्य मानं बुध्यन्ति बोधिं वि-रजाम् अ-संस्कृताम् ॥ पे ॥
अन्नेहि पानेहि च चीवरेहि पुष्पेहि गन्धेहि विलेपनेहि । न + उपस्थिता भोन्ति नर-उत्तमा जिना यथ प्रव्रजित्वा चरमाण-धर्मान् ॥
यश् च + एव बोधिं प्रतिकाङ्क्षमाणः सत्व-अर्थ निर्विण्ण कु-संस्कृतातः । अरण्य-अभिमुख सप्त पदानि गच्छेद् अयं ततः पुण्य-विशिष्ट भोति ॥
यदि पुनर् विसभाग-सत्व-अनुनयात् परिषत्-कामतया वा लाभ-आदि-कामतया वा विवेक-प्रवेशे विलम्बेत । तद्-अर्थम् अत्र + एव + उक्तं । न विज्ञ बालेहि करोन्ति विग्रहं सत्-कृत्य बालान् परिवर्जयन्ति । मम + अन्तिके च + इति प्रदुष्ट-चित्ता न बाल-धर्मेहि करोन्ति संस्तवम् ॥
न विज्ञ बालान करोति सेवनां विदित्व बालान स्व-भाव-संततिम् । कियच्-चिरं बाल-सु-सेविता पि पुनो * अपि ते भोन्ति अ-मित्र-सन्निभाः ॥
न विज्ञ बालेष्व् इह विश्वसन्ति विज्ञाय बालान स्व-भाव-संततिम् । स्व-भाव-भिन्ना प्रकृतीय बालाः कुतो * अस्ति मित्रं हि पृथग्-जनानां ॥
सह-धार्मिकेनो वचनेन उक्ताः क्रोधं च दोषं च अ-प्रत्ययं च । प्राविष्करोन्ति इमि बाल-धर्मा इमम् अर्थ विज्ञाय न विश्वसन्ति ॥
बाला हि बालेहि समं समेन्ति यथा अ-मेध्येन अ-मेध्य सार्द्धम् । विज्ञः पुनर् विज्ञ-जनेन सार्द्धं समेन्ति सर्पिर् यथ सर्पि-मण्डे ॥
तथा च पुनर् अत्र + एवम् आह । सू-सुखिताः सद ते नर-लोके येषु प्रिय-अ-प्रिय न + अस्ति कहिं-चित् । ये च न कन्दरके * अभिरमन्ते श्रामणकं सु-सुखं अनुभोन्ति ॥
येषु मम + अपि तु न + अस्ति कहिं-चित् । येषु परिग्रहु सर्वशु न + अस्ति । खड्ग-समा विचरन्ति मु लोकं गगने पवन यथा + इव व्रजन्ति ॥
स्युः सुखिता वत ते नर-लोके येषु न सज्जति मानस लोके । वायु-समं सद तेष्व् इह चित्तं न + उ च प्रिय-अ-प्रिय विद्यति संगो ॥
अ-प्रिय ये दुखितेहि निवासो ये * अपि प्रिया दुखितेहि वियोगो । अन्त उभे अपि तेहि जहित्वा ते सुखिता नरये रत धर्मे ॥
पुनर् अत्र + एव + उक्तम् । भवति सततम् अल्प-कृत्य-योगी पृथु गुण दोषत सर्वि वर्जयित्वा । न विवदति कदा-चि युक्त-योगी इमि गुण तस्य भवन्त्य् अरण्य-वासे ॥
सद भवति निविण्ण संस्कृते * असौ न भवति तस्य पृहा कहिं-चि लोके । न च भवति विवृद्धिर् आस्रवाणां वन-वसतो * अस्य भवन्ति आनुशंसाः ॥
अधिकरण न तस्य जातु भोती सद उपशान्त-रतो विवेक-चारी । वचचि मनसि काय संवृत-स्यो बहु-गुण तस्य भवन्त्य् अरण्य-वासे ॥
भवति अनुकूल तस्य मोक्षो लघु प्रतिविध्यति सो * अधिमुक्ति शान्ताम् । वनि-चरि धिमुक्ति सेवते * अस्य इमि गुण भोन्त्य् अरण्य-वासि सर्वे ॥
पुनर् आह । वन-षण्ड सेवथ विविक्त सदा विजहित्व ग्राम-नगरेषु रतिम् । अ-द्वितीय-खड्ग-सम भोथ सदा न चिरेण लप्स्यथ समाधि-वरम् । इति ॥
आर्य-राष्ट्रपाल-सूत्रे * अप्य् आह । त्यक्त्वा गेहम् अन्-अन्त-दोष-गहनं चिन्ता-अन्-अपेक्षाः सदा । ते * अरण्ये रतिम् आप्नुवन्ति गुणिनः शान्त-इन्द्रियाः सूरताः ॥
न स्त्री-संभव न + एव च + अपि पुरुषैस् तेषां क्व-चिद् विद्यते । एकाकी विहरन्ति खड्ग-सदृशाः शुद्ध-आशया निर्-मलाः ॥
लाभैर् न + अपि च तेषु हर्ष स्व-मनो लीयन्त्य् अ-लाभैर् न च । अल्प-इच्छा इतर-इतरैर् अभिरता माया-कुहा-वर्जिताः । ति ॥
उग्रदत्त-परिपृच्छायाम् अप्य् आह । सत्व-संसर्गो मे न कर्तव्यो न हि मया + एक-सत्वस्य कुशल-मूलानि संजनयितव्यानि + इत्य् आदि ॥
यदि पुनः श्रुतवान् इमां क्षण-संपदम् आसाद्य लाभ-आदौ सक्तः चित्तं न शोधयेत् स एव + एकः । स-देवके लोके वञ्चितः स्याद् ॥
उक्तं ह्य् आर्य-रत्न-कूटे । तद् यथा काश्यप कश्-चिद् एव पुरुषो महता उदक-अर्णवेन + उह्यमान उदक-तृष्णया कालं कुर्याद् । एवम् एव काश्यप इह + एके श्रमण-ब्राह्मणा बहून् धर्मान् उद्गृह्य पर्यवाप्य न राग-तृष्णां विनोदयन्ति । न द्वेष-तृष्णां । न मोह-तृष्णां विनोदयन्ति । ते महता धर्म-अर्णवेन + उह्यमानाः क्लेश-तृष्णया काल-गता । दुर्-गति-विनिपात-गामिनो भवन्ति + इति ॥

तस्माद् अ-वश्यम् अरण्यम् आश्रयेत् ॥
तादृशानि च स्थानानि आश्रयेत् । येषु च स्थानेषु न + अति-दूरे पिण्ड-पात-गो-चरो भवति न + अति-संनिकृष्टे । येषु पानीयानि भवन्त्य् अच्छानि शुचीनि निर्-मलान्य् अल्प-आयासानि मुख-परिभोगानि यानि च स्थानानि वृक्ष-संपन्नानि भवन्ति पुष्प-संपन्नानि फल-संपन्नानि पत्त्र-संपन्नान्य् अपगत-दुष्ट-श्वा-पदानि गुहा-संपन्नानि प्राग्-भार-संपन्नानि सुख-परिसर्प्यकाणि शान्तान्य् अ-द्वितीयानि तादृशानि स्थानान्य् आश्रयेत् । स तेषु स्थानेष्व् आश्रितो यद् अनेन पूर्व-पठितं भवति तत् त्रिभी रात्रैस् त्रिर्-दिवसस्य स्व-अध्यायति न + अत्य्-उच्चेन स्वरेण न + अति-नीचेन न + उद्धतैर् इन्द्रियैर् न बहिर्-गतेन चित्तेन प्रसादम् उपजीवन् ग्रन्थम् उपधारयन् निमित्तान्य् उद्गृह्णन् मिद्धम् अपक्रामन् । सचेद् आरण्यकस्य भिक्षो राजा वा + उपसंक्रामति राज-मात्रो वा + अन्ये वा ब्राह्मण-क्षत्रिय-नैगम-जानपदाः । तेन तेषाम् आदरेण स्व्-आगत-क्रिया कर्तव्या । एवं च + अनेन वक्तव्यं । निषीद महा-राज यथा प्रज्ञप्तए आसने । सचेद् उपविशति द्वाभ्याम् अप्य् उपवेष्टव्यं । सचेन् न + उपविशति उभाभ्याम् अपि न + उपवेष्टव्यं । सचेच् चञ्चल-इन्द्रियो भवति उत्कर्षयितव्यं । तस्य ते महा-राज लाभाः सु-लब्धा यस्य ते भू-प्रदेशे शीलवन्तो गुणवन्तो बहु-श्रुताः श्रमण-ब्राह्मणाः प्रतिवसन्ति । अन्-उपद्रुताश् चौर-भट-आदिभिः ॥
सचेत् स्थिरो भवति विनीतः प्रशान्त-इन्द्रियः भव्यश् च भवति धर्म-देशनायाः ततो * अस्य विचित्रा धर्म-देशना उपसंहर्तव्या । सचेद् विचित्रां न प्रियायते । संवेग-अनुकूला धर्म-देशना उपसंहर्तव्या । सचेत् संवेग-अनुकूलां न प्रियायते उदार-उदाराणि तथा-गत-माहात्म्यानि उपदेष्टव्यानि । ब्राह्मण-क्षत्रिय-नैगम-जानपदानाम् अप्य् उपसंक्रामतां यथा-अनुरूपाः क्रिया उपसंहर्तव्या । स एवं बहु-श्रुतः सन् प्रति-बलो भवति धार्म-श्रवणिकानां चित्तम् आराधयितुं । ते च सत्वास् तस्य + अन्तिके प्रीतिं च प्रसादं च प्रामोद्यं च प्रतिलभन्तए इति ॥
उग्रदत्त-परिपृच्छायाम् अप्य् आह । पुनर् अ-परं गृह-पते प्रव्रजितेन बोधि-सत्वेन + अरण्ये प्रतिवसता एवम् उपपरीक्षितव्यं । किम् अर्थम् अहम् अरण्ये प्रतिवसामि । न केवलम् अरण्य-वासेन श्रमणो भवति । बहवो * अप्य् अत्र + अ-दान्ता अ-विनीता अ-युक्ता अन्-अभियुक्ताः प्रतिवसन्ति । तद् यथा । मृग-वानर-पक्षि-संघ-चौर-चण्डालाः प्रतिवसन्ति । न च ते श्रमण-गुण-समन्वागता भवन्ति । अपि तु खलु पुनर् अहं यस्य + अर्थाय + अरण्ये प्रतिवसामि स मया + अर्थः परिपूरयितव्यो यद् उत श्रामण्य-अर्थः ॥ पे ॥
पुनर् अ-परं गृह-पते प्रव्रजितेन बोधि-सत्वेन + अरण्ये विहरता एवम् उपपरीक्षितव्यं । किम् अर्थम् अहम् अरण्य्म् आगतः । तेन + एवं मीमांसयितव्यं । भय-भीतो * अस्म्य् अहम् अरण्यम् आगतः । कुतो भय-भीतः । संगणिका-भय-भीतः । संसर्ग-भय-भीतो राग-द्वेष-मोह-भय-भीतो मान-मद-म्रक्ष-परिदाह-भय-भीतो लोभ-ईर्ष्या-मात्सर्य-भय-भीतः रूप-शब्द-गन्ध-रस-स्पर्ष्टव्य-भय-भीतः । सो * अहं-कार-मम-कार-भय-भीतः । औद्धत्य-विचिकित्सा-भय-भीतः । स्कन्ध-मार-भय-भीतः । क्लेश-मार-भय-भीतो । मृत्यु-मार-भय-भीतो । देव-पुत्र-मार-भय-भीतः । अ-नित्ये नित्य इति विपर्यास-भय-भीतो * अन्-आत्मन्य् आत्मा + इति विपर्यास-भय-भीतो * अ-शुचौ शुचिर् इति विपर्यास-भय-भीतो । दुष्खे सुखम् इति विपर्यास-भय-भीतः । चित्त-मनो-विज्ञान-भय-भीतो । निवरण-आवरण-पर्युत्थान-भय-भीतः । सत्-काय-दृष्टि-भय-भीतः पाप-मित्र-भय-भीतो । लाभ-सत्-कार-भय-भीतो * अ-काल-मन्त्र-भय-भीतो * अ-दृष्टे दृष्टम् इति भय-भीतो * अ-श्रुते श्रुतम् इति भय-भीतो * अ-मते मतम् इति भय-भीतो * अ-विज्ञाते विज्ञातम् इति भय-भीतो * अ-श्रमणे श्रमण-मद-भय-भीतो * अन्यो-न्य-विद्वेषण-भय-भीतः काम-धातु-रूप-धात्व्-अ-रूप्य-धातु-भय-भीतः सर्व-भव-गत्य्-उपपत्ति-भय-भीतो निरय-तिर्यग्-योनि-पितृ-विषय-भय-भीतः संक्षेपेण सर्वेभ्यो * अ-कुशलेभ्यो मनसि-कारेभ्यो भय-भी त एभ्यो ह्य् अहम् एवं-रूपेभ्यो भय-भैरवेभ्यो भीतो * अरण्य-आवासम् उपगतः ॥ पे ॥
पुनर् अ-परं गृह-पते प्रव्रजितेन बोधि-सत्वेन + अरण्य-वास-स्थितेन भीतेन वा त्रस्तेन वा एवं शिक्षितव्यं । यानि कानि-चिद् भयान्य् उत्पद्यन्ते सर्वाणि तान्य् आत्म-ग्राहत उत्पद्यन्ते ॥ पे ॥
सचेत् पुनर् अहम् अरण्ये प्रतिवसन् न + आत्म-ग्राहं परित्यजेयं न + आत्म-अभिनिवेशं न + आत्म-परिग्रहं न + आत्म-निदानं न + आत्म-तृष्णां न + आत्म-संज्ञां न + आत्म-वाद-उपादानं न + आत्म-दृष्टिं न + आत्म-अधिष्ठानं न + आत्म-परिकल्पनां न + आत्म-रक्षां परित्यजेयं । निर्-अर्थको मे * अरण्य-वासः स्याद् । अपि तु खलु पुनर् गृह-पते न + अस्त्य् आत्म-संज्ञिनो * अरण्य-वासो । न + अस्ति पर-संज्ञिनः ॥ पे ॥
अरण्य-वासो नाम गृह-पते उच्यते सर्व-धर्मेष्व् अ-संभव-वासः सर्व-धर्मेष्व् अ-संग-वासः ॥ पे ॥
तद् यथा गृह-पते * अरण्ये तृण-गुल्म-औषधि-वनस्-पतयः प्रतिवसन्तो न बिभ्यति न + उत्त्रस्यन्ति न संत्रस्यन्ति न संत्रासम् आपद्यन्ते । एवम् एव गृह-पते प्रव्रजितेन बोधि-सत्वेन + अरण्ये विहरता तृण-गुल्म-औषधि-वनस्-पति-काष्ठ-कुड्य-वद् आत्म-प्रतिभास-वत् संज्ञा काये उत्पादयितव्या । माया-समता चित्तस्य + उत्पादयितव्या । को * अत्र बिभेति । को * अस्मिन्न् उत्त्रस्यति ।तेन भय-भीतेन वा त्रस्तेन वा एवं योनिशः काय उपपरीक्षितव्यः । न + अस्त्य् अत्र काये आत्मा वा सत्वो वा जीवो वा पोषो वा पुद्गलो वा मनु-जो वा मानवो वा । अ-भूत-परिकल्प एष यद् उत भयं नाम । स मया + अ-भूत-परिकल्पो न परिकल्पयितव्यः । तेन यथा + अरण्ये तृण-गुल्म-औषधि-वनस्-पतयः प्रतिवसन्ति अ-ममा अ-परिग्रहाः । एवम् एव + अ-ममेन + अ-परिग्रहेण + अरण्यम् एव सर्व-धर्मा इति ज्ञात्वा उपसम्पद्य विहर्तव्यं । तत् कस्य हेतोः । रण-छेदो * अरण्य-वासो * अ-ममो * अ-परिग्रहः ॥ पे ॥
पुनर् अ-परं गृह-पते प्रव्रजितेन बोधि-सत्वेन बुद्ध-अनुज्ञातो * अरण्य-वास इति ज्ञात्वा + अरण्ये वस्तव्यं । अत्र हि शुक्ल-धर्म-परिपूरिर् भवति । उपस्तब्ध-कुशल-मूलः पश्चाद्-ग्राम-नगर-निगम-राष्ट्र-राज-धानीष्व् अवतीर्य धर्मं देशयिष्यामि ॥ पे ॥

सचेत् पुनर् गृह-पते प्रव्रजितो बोधि-सत्व उद्देश-स्व-अध्याय-अर्थं गणम् अवतरति । तेन तत्र स-गौरवेण भवितव्यं स-प्रतीसेन + आचार्य-उपाध्यायेषु स्थविर-मध्य-नवकेषु भिक्षुषु प्रदक्षिण-भवितव्यम् अन्-अलसेन स्वयं-कारिणा + अ-पर-उपतापिना न च तेन + उपस्थान-गुरुकेण भवितव्यं । एवं च + अनेन + उपपरीक्षितव्यं । तथा-गतो * अप्य् अर्हन् सम्यक्-संबुद्धः स-देवस्य लोकस्य स-मारकस्य स-ब्रह्मकस्य स-श्रमण-ब्राह्मणिकायाः प्रजायाः पूजितो दक्षिणीयः सर्व-सत्वानां । सो * अपि तावन् न कस्य-चित् सकाशाद् उपस्थानं स्वी-करोति । किं पुनर् अस्माभिर् अ-शिक्षितैः शिक्षितु-कामैः । अपि तु वयम् एव सर्व-सत्वानाम् उपस्थायका भविष्यामः । वयम् एव परेषाम् उपस्थान-परिचर्यां करिष्यामो न च पुनः कस्य-चित् सकाशाद् उपस्थान-परिचर्यां स्वी-करिष्यामः । तत् कस्य हेतोः । उपस्थान-गुरुकस्य हि गृह-पते भिक्षोर् गुण-धर्म-अनुग्रहो नश्यति । येषां च संग्रहं करोति तेषाम् एवं भवति । उपस्थान-हेतोर् एषो * अस्माकं संग्रहं करोति ॥
पुनर् अत्र + एव + आह । सचेत् पुनर् गृह-पते आरण्यको बोधि-सत्वो धर्म-श्रवण-अर्थिक आचार्य-उपाध्याय-दर्शन-अर्थिको वा ग्लान-परिपृच्छको वा ग्राम-अन्तिकं शयन-आसनम् आगच्छेत् तेन सा + अयम् आगमनाय प्रक्रमणाय च चित्तम् उत्पादयितव्यं । सचेत् पुनर् अस्य पर-प्रतिबद्ध उद्देशः स्व-अध्यायो वा तेन विहारे प्रतिवसता + अरण्य-प्रवण-चित्तेन भवितव्यं । एष एव तस्य + अरण्य-वासो यत् सर्व-वस्तुष्व् अरण्य-संज्ञा धर्म-पर्येष्ट्या च + आतृप्ता + इति ॥
आर्य-रत्न-राशि-सूत्रे * अप्य् उक्तं । यदि पुनर् अस्य तत्र + अरण्य-आयतने विहरतो * अ-प्राप्त-फल-पृथग्-जनस्य व्याड-मृगा आगच्छेयुः । तेन तत्र न भयं न त्रास उत्पादयितव्यः । एवं च चित्तम् उत्पादयितव्यं । पूर्वम् एव + अहम् उत्सृष्ट-काय-जीवितो * अरण्य-वासम् उपगतो । न मया + अत्र भेतव्यं । न + उत्त्रसितव्यं । अपि तु मैत्रीम् उत्पादयित्वा दोषं विवर्जयिष्यामि भयम् अपनयिष्यामि । यद्य् एवम् अपि कृत्वा ते व्याड-मृगा मां जीविताद् व्यपरोप्य भुञ्जीरन् । तेन मया + एवं चित्तम् उत्पादयितव्यं । लाभा मे सु-लब्धा यस्य मे * अ-सारात् कायात् सारम् आदत्तं भविष्यति । न पुनर् इमे व्याड-मृगाः शक्या मया + आमिषेण तोषयितुं मम मांसं भक्षयित्वा सुख-स्पर्शं विहरिष्यन्ति ॥ पे ॥
यदि पुनस् तत्र + अरण्य-आयतने विहरतो * अ-मनुष्या उपसंक्रमिष्यन्ति सु-वर्णा वा दुर्-वर्णा वा । तेन न तत्र + अनुनेतव्यं न प्रतिहन्तव्यं । यदि पूर्व-बुद्ध-दर्शिन्यो देवता आरण्यकं भिक्षुम् उपसंक्रम्य प्रश्नं परिपृच्छेयुः । तत्र तेन + आरण्यकेन भिक्षुणा यथा-शक्ति यथा-बलं यथा-धर्म + अधिगमाय तासां देवतानां धर्मो देशयितव्यः । यदि पुनस् तावङ् गम्भीरान् प्रश्नान् परिपृच्छेयुर् यान् स आरण्यको भिक्षुर् न शक्नुयाद् विसर्जयितुं । तेन निर्-मानेन भूत्वा वाग् भाषितव्या + अ-शिक्षितो न परिभवितव्यः । युञ्जिष्यामि घटिष्ये बुद्ध-शासने । भविष्यति स कालः स समयो यदा + अधिगतान् धर्मान् श्रुत्वा सर्व-कथां विसर्जयिष्यामि । अपि तु प्रतिभातु ते । वयं धार्म-श्रवणिका इति ॥ पे ॥
तेन तत्र + अरण्य-आयतने प्रतिवसता तृण-गुल्म-औषधि-वनस्-पतीनां निमित्तं ग्रहीतव्यं । कथम् एते भवन्ति । यथा + एषां भावनाम् अ-स्वामिकानाम् अ-ममानाम् अ-परिग्रहाणाम् एवं निश्-चेष्टानां निर्-व्यापाराणां भवत्य् उत्पादो भङ्गश् च । न च + एषां कश्-चिद् उत्पादयिता । न निरोधयिता । एवम् एव + अयं कायस् तृण-काष्ठ-कुड्य-प्रतिभास-उपमो * अ-स्वामिको * अ-ममो * अ-परिग्रहो निश्-चेष्टो निर्-व्यापारो हेतु-प्रत्यय-युक्त्या उत्पद्यते । हेतु-प्रत्यय-वैकल्यान् निरुध्यते । न पुनर् अत्र कश्-चिद् धर्मः परम-अर्थत उत्पद्यते वा निरुध्यते वा + इति ॥
पुनश् च + उक्तं । तेन तत्र + अरण्य-आयतने विहरता एवं चित्तम् उत्पादयितव्यं । यद्य् अप्य् अहम् अरण्यम् आगत एको * अ-द्वितीयो । न मे कश्-चित् सहायो यो मां सु-कृतं दुष्-कृतं वा चोदयेत् । अपि तु खलु पुनः सन्ति + इमे देव-नाग-यक्षा बुद्धाश् च भगवन्तो ये मम चित्त-आशयं जानन्ति । ते मम साक्षिणः । सो * अहम् इह + अरण्य-आयतने प्रतिवसन्न् अ-कुशल-चित्तस्य वशं गच्छामि । यदि पुनर् अहम् इयद्-दूरम् आगत एको * अ-द्वितीयो * अ-संस्तब्धो * अ-ममो * अ-परिग्रहः काम-वितर्कं वा वितर्कयेयं । व्यापआदं विहिन्सा-वितर्कं वा वितर्कयेयम् अन्यं वा + अ-कुशल-वितर्कं वितर्कयेयं । निर्-विशेषो भवेयं संसर्ग-संगणिकाभिर् एतैः सत्वैः । ते च मे देव-नाग-यक्षा विसंवादिताः बुद्धाश् च भगवन्तो * अन्-अभिराद्धा भविष्यन्ति + इति ॥
इति शिक्षा-समुच्चये अरण्य-संवर्णनो नाम + एकादशः परिच्छेदः ॥
[xइइ. चित्तपरिकर्म]
चित्त-परिकर्म द्वादशः परिच्छेदः ॥
तद् एवम् अरण्ये वसन् समाधानाय युज्यते ॥
उक्तं हि भगवत्यां । स तेषाम् एव सत्वानाम् अर्थाय ध्यान-पारमितायां चरन्न् अ-विक्षिप्त-चित्तो भवति । तत् कस्य हेतोः । तथा ह्य् अस्य + एवं भवति । लौकिकी ध्यान-उपपत्तिर् अपि तावद् विक्षिप्त-चित्तस्य दुर्-लभा । कः पुनर् वादो * अन्-उत्तरा सम्यक्-संबोधिः । तस्मान् मया + अ-विक्षिप्त-चित्तेन भवितव्यम् । यावन्न् अन्-उत्तरां सम्यक्-संबोधिम् अभिसंबुद्धेयम् इति ॥
पुनर् अस्याम् उक्तं । पुनर् अ-परं सुभूते बोधि-सत्वो महा-सत्वः प्रथम-चित्त-उत्पादम् उपादाय ध्यान-पारमितायां चरन् सर्व-आकार-ज्ञता-प्रतिसंयुक्तैर् मनसि-कारैर् ध्यानं समापद्यते । स चक्षुषा रूपाणि दृष्ट्वा न निमित्त-ग्राही भवति न + अनुव्यञ्जन-ग्राही । यतो * अधिकरणम् अस्य चक्षुर्-इन्द्रियेण + अ-संवर-संवृतस्य विहरतो * अभिध्या-दौर्मनस्ये अन्ये वा पापका अ-कुशला धर्माश् चित्तम् अनुप्राप्नुयुः । तेषां संवराय प्रतिपद्यते । रक्षति चक्षुर्-इन्द्रियम् । एवं श्रोत्रेण शब्दान् श्रुत्वा । घ्राणेन गन्धान् घ्रात्वा । जिह्वया रसान् आस्वाद्य । कायेन स्प्रष्टव्यानि स्पृष्ट्वा । मनसा धर्मान् विज्ञाय न निमित्त-ग्राही भवति । न + अनुव्यञ्जन-ग्राही । यतो * अधिकरणम् अस्य मन इन्द्रियेण + अ-संवर-संवृतस्य पापकाश् चित्तम् अनुप्राप्नुयुः । तेषां संवराय प्रतिपद्यते । रक्षति मन इन्द्रियं । स गच्छन्न् अपि तिष्ठन्न् अपि निषण्णो * अपि शयानो * अपि भाषमाणो * अपि समाहित-अवस्थाम् अ-समाहित-अवस्थां न विजहाति । स भवत्य् अ-हस्त-लोलः । अ-पाद-लोलो * अ-मुख-लोलो * अ-प्रकीर्ण-वाक् । अ-विक्षिप्त-इन्द्रियो * अन्-उद्धतो * अन्-उन्नतो * अ-चपलो * अन्-अलसो * अ-संभ्रान्त-कायो * अ-संभ्रान्त-चित्तः । शान्त-कायः शान्त-वाक् शान्त-चित्तः । रहस्य् अ-रहसि वा कल्पित-ईर्या-पथः संतुष्टः ॥ पे ॥

सु-भरः सु-पोषः । सु-उपास्यः कल्याण-आचार-गो-चरः । संगणिकया + अपि विवेक-गो-चरः । लाभे * अ-लाभे च समो निर्-विकारः । अन्-उन्नतो * अन्-अवनतः । एवं सुखे दुष्खे । स्तुतौ निन्दायां । यशस्य् अ-यशसि । जीविते मरणे च समो निर्-विकारो * अन्-उन्नतो * अन्-अवनतः । एवं शत्रौ मित्रे च । मन-अपवर्तिनि ... । आर्येष्व् अन्-आर्येषु । शब्देषु संकीर्णेष्व् अ-संकीर्णेषु । प्रिय-अ-प्रियेषु च रूपेषु समो निर्-विकारः । अन्-उन्नतो * अन्-अवनतः । अनुरोध-विरोध-अपगतः । तत् कस्य हेतोः । तथा हि स स्व-लक्षण-शून्यान् अ-संभूतान् अ-निष्पन्नान् अन्-अभिनिर्वृत्तान् सर्व-धर्मान् पश्यति + इति विस्तरः ॥
तत्र लीने मनसि मुदिता भावनया + उत्तेजनं कुर्यात् । उद्धते त्व् अ-नित्यता-मनसि-कारैः प्रशमः ॥
उभय-प्रति-पक्ष-अर्थं च + आर्य-राष्ट्रपाल-उक्तां गाथां स्मरेत् । बहु कल्प-कोटीभि कदा-चि बुद्धो उत्पद्यते लोक-हितो मह-र्षि । लब्धो * अधुना स प्रवरः क्षणो * अद्य त्यजति प्रमादं यदि मोक्तु-काम । इति ॥
तथा । मया + उपमं वितथम् एतत् स्वप्न-उपमं च संस्कृतम् अवेक्ष्य न चिराद् भविष्यति वियोगः सर्व-प्रियैः । न नित्यम् इह कश्-चित् । उद्युज्य यथा घटत नित्यं पारमितासु भूमिषु बलेषु । मा जातु स्रंसय वीर्यं यावन् न बुध्यथा प्रवर-बोधिम् । इति ॥
आर्य-ललित-विस्तरे * अप्य् उक्तं । ज्वलितं त्रि-भुवं जर-व्याधि-दुखैर् मरण-अग्नि-प्रदीप्तम् अ-नाथम् इदम् । भव-निः-शरणे सद मूढ जगद् भ्रमति भ्रमरो यथा कुम्भ-गतः ॥
अ-ध्रुवं त्रि-भुवं शरद्-अभ्र-निभं नट-रङ्ग-समा जगि जन्म-च्युतिः । गिरि-नद्य-समं लघु-शीघ्र-जवं व्रजतायु जगे यथ विद्यु नभे ॥
भुवि देव-पुरे त्रि-अपाय-पथे भव-तृष्ण-अ-विद्य-वशा जनता । परिवर्त्तिषु पञ्च-गतिष्व् अ-बुधा यथ कुम्भ-करस्य हि चक्र भ्रमी ॥
प्रिय-रूप-वरैः सद स्निग्ध-रुतैः शुभ-गन्ध-रसैर् वर-स्पर्श-सुखैः । परिषिक्तम् इदं कलि-पाश जगत् मृग-लुब्धक-पाशि यथा + एव कपि ॥
स-भयाः स-रणाः सद वैर-कराः बहु-शोक-उपद्रव काम-गुणाः । असि-धार-समा विष-पत्त्र-निभाः जहित-आर्य-जनैर् यथ मीढ-घटः ॥
स्मृति-मोष-करास् तमसी-करणा भय-हेतु-करा दुख-मूल सदा । भव-तृष्ण-लताय विवृद्धि-कराः स-भयाः स-रणा सद काम-गुणाः ॥
यथ अग्नि-खदाः ज्वलिताः स-भयाः तथ काम इमे विदिता + आर्य-जनैः । मह-पङ्क-समा अशि-शूल-समा मधु-दिग्ध इव क्षुर-धार-समा ॥
यथ सर्प-शिरो यथ मीढ-घटः तथ काम इमे विदिता विदुषाम् । तथ शूल-सामा द्वि-ज-पेशि-समा यथ श्वान-करं किश-वैर तथा + उदक-चन्द्र-निभा इमि काम-गुणाः प्रतिबिम्ब इवा गिरि-घोष यथा । प्रतिभास-समा नट-रङ्ग-निभा तथ स्वप्न-समा विदिता + आर्य-जनैः ॥
क्षणिका-वसिका इमि काम-गुणाः तथ माय-मरीचि-समा अलिक-उदक-बुद्बुद-फेन-समा वितथाः परिकल्प-समुत्थित बुद्ध बुधैः ॥
प्रथमे वयसे वर-रूप-धरः प्रिय इष्ट-मतो इय बाल-चारी । जर-व्याधि-दुखैर् हत-तेज-वपुं विजहन्ति मृगा इव शुष्क-नदीम् ॥
धन-धान्य-वरो बहु-द्रव्य-बली प्रिय इष्ट-मतो इय बाल-चारी । परिहीण-धनं पुन कृच्छ्र-गतं विजहन्ति नरा इव शून्य-टवीम् ॥
यथ पुष्प-द्रुमो स-फलो व द्रुमो नरु-दान-रतः तथ प्रीति-करः । धन-हीनु जरा-अर्दितु याचनको भवते तद अ-प्रिय-गृध्र-समः ॥
प्रभु-द्रव्य-बली वर-रूप-धरः प्रिय-सङ्ग-मन-इन्द्रिय-प्रीति-करः । जरा-व्याधि-दुख-अर्दितु क्षीण-धनो भवते तद अ-प्रिय-मृत्यु-समः ॥
जरया जरितः समतीत-वयो द्रुम विद्यु-हतो व यथा भवति । जर-जीर्ण अगार यथा स-भयो जर-निः-शरणं लघु ब्रूहि मुने ॥

जर शोषयते नर-नारि-गणं यथ मालु-लता घन शाल-वनम् । जर वीर्य-पराक्रम-वेग-हरी जर पङ्क-निमग्न यथा पुरुषो ॥
जर रूप सु-रूप-वि-रूप-करी जर तेज-हरी बल-स्थाम-हरी । सद सौख्य-हरी परिभाव-करी जर मृत्यु-करी जर ओज-हरी ॥
बहु-रोग-शतैर् घन-व्याधि-दुखैः उपसृष्टु जगज् ज्वलना + इव मृगाः । जर व्याधि-गतं प्रसमीक्ष्य जगत् दुख-निः-शरणं लघु देशय ही ॥
शिशिरेहि यथा हिम-धातु महं तृण-गुल्म-वन-औषधि ओज-हरो । तथ ओज-हरो * अयु व्याधि जगे परिहीयति इन्द्रिय-रूप-बलम् ॥
धन-धान्य-महा-अर्थ-क्षय-अन्त-करः परिभाव-करः सद् व्याधि जगे । प्रतिघात-करः प्रिय-द्वेष-करः परिदाह-करो यथ सूर्यु नभे ॥
मरणं च्यवनं च्युति काल-क्रिया प्रिय-द्रव्य-जनेन वियोगु सदा । अ-पुन-आगमनं च अ-संगमनं द्रुम-पत्त्र-फला नदि-श्रोतु यथा ॥
मरणं वशितान् अ-वशी-कुरुते मरणं हरते नदि दारु यथा । अ-सहाय-नरो व्रजते * अ-द्वितीयः स्वक-कर्म-फल-अनुगतो वि-वशः ॥
मरणं ग्रसते बहु प्राणि-शतान् मकरो व जल-आकरि भूत-गणान् । गरुडो उर-गं मृग-राज गज ज्वलनो व तृण-औषधि-भूत-गणम् । इति ॥
राज-अववादक-सूत्रे * अप्य् आह । तद् यथा महा-राज चतसृभ्यो दिग्भ्यश् चत्वारः पर्वता आगच्छेयुर् दृढाः । सारवन्तो * अ-खण्डा अ-च्छिद्रा अ-सुषिराः सु-संवृता एक-घना नभः स्पृशन्तः पृथिवीं च + उल्लिखन्तः सर्व-तृण-काष्ठ-शाखा-पर्ण-पलाश-आदि सर्व-सत्व-प्राणि-भूतानि निर्मथ्नन्तस् तेभ्यो न सु-करं जवेन वा पलायितुं बलेन वा द्रव्य-मन्त्र-औषधिभिर् वा निवर्तयितुम् । एवम् एव महा-राज चत्वारि + इमानि महा-भयान्य् आगच्छन्ति येषां न सु-करं जवेन वा पलायितुं बलेन द्रव्य-मन्त्र-औषधैर् वा निवर्तनं कर्तुम् । कतमानि चत्वारि । जरा व्याधिर् मरणं विपत्तिश् च ॥
जरा महा-राज आगच्छति यौवनं प्रमथमाना । व्याधिर् महा-राज आगच्छत्य् आरोग्यं प्रमथमानः । मरणम् आगच्छति जीवितं प्रमथमानं । विपत्तिर् महा-राज + आगच्छति सर्वाः संपत्तीः प्रमथमाना । तत् कस्य हेतोः । तद् यथा महा-राज सिंहो मृग-राजो रूप-संपन्नो जव-संपन्नः सु-जात-नख-दंष्ट्रा-करालो मृग-गणम् अनुप्रविश्य मृगं गृहीत्वा यथा-काम-करणीयं करोति । स च मृगो * अति-बलं व्याड-मुखम् आसाद्य वि-वशो भवति । एवम् एव महा-राज विद्धस्य मृत्यु-शल्येन + अपगत-मदस्य + अ-परायणस्य मर्मसु छिद्यमानेषु मुच्यमानेषु सन्धिषु मांस-शोणिते परिशुष्यमाणे परितप्त-तृषित-विह्वल-वदनस्य कर-चरण-विक्षेप-अभियुक्तस्य + अ-कर्मण्यस्य + अ-समर्थस्य लाला-सिङ्घाणक-पूय-मूत्र-पुरीष-उपलिप्तस्य ईषज्-जीवित-अवशेषस्य कर्म-भवात् पुनर् भवम् आलम्बानस्य यम-पुरुष-भय-भीतस्य काल-रात्रि-वश-गतस्य चरम-आश्वास-प्रश्वासेषु + उपरुध्यमानेषु ए काकिनो * अ-द्वितीयस्य + अ-सहायस्य + इमं लोकं जहतः पर-लोकम् आक्रामतो महा-पथं व्रजतो महा-कान्तारं प्रविशतो महा-गहनं समवगाहमानस्य महा-अन्ध-कारं प्रतिपद्यमानस्य महा-अर्णवेन + उर्ज्यमानस्य कर्म-वायुना + आह्रियमाणस्य + अ-निमित्ती-कृतां दिशं गच्छतो न + अन्यत् त्राणं न + अन्यच् * छरणं न + अन्यत् परायणम् ऋते धर्मात् । धर्मो हि महा-राज तस्मिन् समये त्राणं लयनं शरणं परायणं भवति । तद् यथा शीत-आर्त्तस्य + अग्नि-प्रतापः । अग्निम् अपगतस्य + अ-निर्वापणं । उष्ण-आर्त्तस्य शैत्यं । अध्वानं प्रतिपन्नस्य शीतलं छाया-उपवनं । पिपासितस्य शीतल-जलं । बुभुक्षितस्य वा प्रणीतम् अन्नं । व्याधितस्य वैद्य-ओषधि-परिचारकाः । भय-भीतस्य बलवन्तः सहायाः । साधवः प्रति-शरणा भवन्ति । एवम् एव महा-राज विद्धस्य मृत्यु-शल्येन + अपगत-मदस्य + अ-त्राणस्य + अ-शरणस्य + अ-परायणस्य न + अन्यत् त्राणं न + अन्यत् परायणम् अन्यत्र धर्मात् । तस्मात् तर्हि ते महा-राज + अ-नित्यता-अनुदर्शिना भवितव्यं क्षय-व्यय-अनुदर्शिना भवितव्यं मरण-भय-भीतेन । धर्मेण + एव ते महा-राज राज्यं कारयितव्यं न + अ-धर्मेण । तत् कस्य हेतोः । अस्य + अपि ते महा-राज + आत्म-भावस्य + एवं सु-चिरम् अपि परिरक्षितस्य सु-चिरम् अपि शुचिना प्रणीतेन खादनीय-भोजनीय-आस्वादनीयेन संतर्पितस्य संप्रवारितस्य । क्षुत-पिपासा-परिगतस्य काल-क्रिया भविष्यति । एवं काशि-कौशेय-दूकूल-पत्त्र-ऊर्णा-क्षौम-आदिभिर् वस्त्र-विशेषैर् आच्छादितस्य चरम-शयन-अवस्थितस्य विविध-स्वेद-अम्बु-क्लिन्न-मलिन-वसन-आवृतस्य काल-क्रिया भविष्यति । एवम् अपि ते महा-राज स्नान-अनुलेपन-वास-धूप-पुष्प-सुरभि-गन्धस्य + आत्म-भावस्य न चिरेण दुर्-गन्धता भविष्यति । एवं स्त्र्य्--आगार-मध्य-गतस्य + अपि ते स्त्री-गण-परिवृतस्य नाना-वाद्य-गीत-तूर्य-नाद्यैर् उपगीयमानस्य सु-मनसः क्रीडतो रममाणस्य परिचारयतो मरण-भय-भीतस्य + अतीव दुष्ख-दौर्मनस्याभ्यां काल-क्रिया भविष्यति । एवम् अपि ते महा-राज गृहेषु + उपलेपन-उपलिप्तेषु सु-स्थापित-अर्गलेषु सु-पिहित-वात-आयनेषु बहु-गन्ध-धूप-पुष्प-तैल-वर्ति-प्रज्वालितेष्व् आसक्त-पट्ट-दाम-कलापेषु मुक्त-कुसुम-अवकीर्णेषु गन्ध-घटिका-निर्धूपितेषु अ-न्यस्त-पाद-पीठ-पटिका-आस्तरण-गोणिका-आस्तरण-काच-लिन्दिक-प्रावरण-स-अन्तर-उछद-पटिका-उभय-कृत-उपधानेषु पर्यङ्केषु शयित्वा । पुनश् च शृगाल-काक-गृध्र-मृतक-डेवर-मांस-अस्थि-केश-रुधिर-वश-आकुले परम-बीभत्से श्मशाने गत-चेष्टस्य + आत्म-भावः पृथिव्याम् अ-वशः शेष्यते । एवम् अपि ते महा-राज गज-स्कन्ध-अश्व-पृष्ठ-रथ-अभिरूढस्य शङ्ख-पटहेष्व् आहन्यमानेषु छत्रेण धार्यमाणेन बाल-व्यजनेन वीजयमानस्य + अन्-एक-हस्त्य्-अश्व-रथ-पदातिभिर् अनुयातस्य + अञ्जलि-शत-सहस्रैर् नमस्-क्रियमाणस्य । निर्गमनम् अनुभूय न चिरान् निश्-चेष्टस्य मृत-शयन-अभिरूढस्य चतुर्भिः पुरुषैर् उत्क्षिप्तस्य दक्षिणेन नगर-द्वारेण निर्णीतस्य माता-पितृ-भ्रातृ-भगिनी-भार्या-पुत्र-दुहितृ-वयस्य-दासी-दास-कर्म-कर-पौरुषेयैः शोक-गत-हृदयैर् विक्षिप्त-केशैर् उत्क्षिप्त-भुजैः स-उरस्-ताडं परम-करुणं । हा पुत्र हा नाथ हा तात हा स्वामिन्न् इत्य् आक्रन्दमानैः पौर-जानपदैः स-परिभाव-दृश्यमानस्य श्मशानं नीतस्य पुनः काक-गृध्र-श्व-शृगाल-आदिभिर् भक्षितस्य तान्य् अस्थीन्य् अग्निना वा दग्धानि पृथिव्यां वा निखानितानि अद्भिर् वा क्लिन्नानि वात-आताप-वर्षैर् वा चूर्णी-कृतानि दिग्-वि-दिक्षु प्रक्षिप्तानि तत्र + एव पूत-भवम् आयास्यन्ति । एवम् अ-नित्याः सर्व-संस्कारा एवम् अ-ध्रुवा इति विस्तरः ॥

तत्र क्लेशाः प्राधान्येन राग-द्वेष-मोहा यस्य + एषाम् एकतरस्य तावत् प्रति-पक्षम् आदौ भावयेत् तन्-निदानं च वर्जयेत् ॥
तत्र + आर्य-रत्न-मेघे तावद् आह । स रागस्य प्रति-पक्षं भजते । राग-उत्पत्ति-प्रत्ययांश् च वर्जयति । कतमश् च स रागस्य प्रति-पक्षः । कतमे च ते राग-उत्पत्ति-प्रत्ययाः । अ-शुभा-भावना + अ-रागस्य प्रति-पक्षः । जन-पद-कल्याणी-राग-उत्पत्ति-प्रत्ययः । कतमा च सा + अ-शुभा-भावना । यद् उत सन्त्य् अस्मिन् काये केशा रोमाणि नखा दन्ता रजो मलं त्वक् मांस-अस्थि स्नायुः शिरा वृक्का हृदयं प्लीहकः क्लोमकः । अन्त्राण्य् अन्त्र-गुण आम-आशयः पक्व-आशयः । औदर्यकं यकृत् पुरीषम् अश्रु स्वेदः खेटः सिङ्घाणकं वसा लसिका मज्जा मेदः पित्तं श्लेश्मा पूयं शोणितं मस्तकं मस्तक-लुङ्गं प्रस्रावः । एषु च वस्तुषु बोधि-सत्व उपपरीक्षण-जातीयो भवति । तस्य + एवम् उपपरीक्षमाणस्य + एवं भवति । यो * अपि तावत् स्याद् बालो मूढः अ-भव्यो * अ-कुशलः सो * अपि तावद् एतानि वस्तूनि ज्ञात्वा राग-चित्तं न + उत्पादयेत् । प्राग् एव स-प्रज्ञ-जातीयः । एवं हि बोधि-सत्वो * अ-शुभा-भावना-बहुलो भवति + इति ॥
भगवत्याम् अप्य् उक्तं । पुनर् अ-परं सुभूते बोधि-सत्वो महा-सत्वः प्रज्ञा-पारमितायां चरन्न् इमम् एवं कायं यथा-भूतं प्रजानाति । तद् यथा + अपि नाम सुभूते गो-घातको वा गो-घातक-अन्ते-वासी वा गां हत्वा तीक्ष्णेन शस्त्रेण चत्वारि फलकानि कृत्वा प्रत्यवेक्षते स्थितो * अथ-वा निषण्णः । एवम् एव सुभूते बोधि-सत्वः प्रज्ञा-पारमितायां चरन्न् इमम् एव कायं धातुशो यथा-भूतं प्रजानाति । अस्त्य् अस्मिन् काये पृथिवी-धातुर् अब्-धातुर् अपि तेजो-धातुर् अपि वायु-धातुर् अपि + इति । पे ॥
पुनर् अप्य् आह । तद् यथा + अपि सुभूते कर्षकस्य मूतोडी पूर्णा नाना-धान्यानां शालीनां व्रीहीणां तिलानां तण्डुलानां मुद्रानां माषाणां यवानां गो-धूमानां मशूराणां सर्षपाणां ।तान् एतान् चक्षुष्मान् पुरुषः प्रत्यवेक्षमाणः । एवं-जातीयाद् अयं शालिर् अयं व्रीहिर् अमी तिला अमी तण्डुला अमी मुद्रा अमी माषा यवा अमी गो-धूमा अमी मशूरा अमी सर्षपा इति ॥
एवम् एव बोधि-सत्वो महा-सत्वः प्रज्ञा-पारमितायां चरन्न् इमम् एव कायम् ऊर्द्ध्वं पाद-तलाद् अधः केश-मस्तक-नख-रोम-त्वक् रोम-पर्यन्तं पूर्णं नाना-प्रकारस्य + अ-शुचेर् यथा-भूतं प्रत्यवेक्षते । सन्त्य् अस्मिन् काये केशा रोमाणि नखा यावन् मस्तकं मस्तक-लुङ्गम् अक्षि-गूथं कर्ण-गूथम् इति ॥ पे ॥
पुनर् अ-परं सुभूते बोधि-सत्वः श्मशान-गतः पश्यति नाना-रूपाणि मृत-शरीराणि श्मशाने * अपविद्धानि शव-शयने उज्झितानि एक-अह-मृतानि वा द्व्य्-अह-मृतानि वा त्र्य्-अह-मृतानि वा चतुर्-अह-मृतानि वा पञ्च-अह-मृतानि वा व्याध्मातकानि विनीलकानि विपूयकानि विपठ्यकानि । स इमम् एव कायं तत्र + उपसंहरति । अयम् अपि काय एवं-धर्मा एवं-स्व-भावः । एतां धर्मताम् अ-व्यतिवृत्तए इति ॥
एवं हि सुभूते बोधि-सत्वो महा-सत्वः प्रज्ञा-पारमितायां चरन् बहिर्-धा काये काय-अनुदर्शी विहरति ॥ पे ॥
पुनर् अ-परं यदा मृत-शरीराणि श्मशाने उत्सृष्टानि पश्यति । षड्-रात्र-मृतानि काकैर् वा खाद्यमानानि कुररैर् वा गृध्रैर् वा श्वभिर् वा शृगालैर् वा ततो * अन्यैर् वा नाना-विधैः प्राणक-जातैः खाद्यमानानि स इमम् एव कायं तत्र + उपसंहरति । अयम् अपि काय एवं-धर्मा एवं-स्व-भावः । एतां धर्मतां न व्यतिवृत्तए इति ॥
पुनर् अ-परं यदा मृत-शरीराणि पश्यति श्मशाने उत्सृष्टानि विखादितान्य् अ-शुचीनि दुर्-गन्धानि । स इमम् एव कायं तत्र + उपसंहरति + इति पूर्व-वत् ॥ पे ॥
पुनर् अ-परं यदा पश्यति मृत-शरीराणि शिव-पथिकायाम् अस्थि-संकलिकां मांस-शोणित-म्रक्षितां स्नायु-विनिबद्धां ।स तत्र + इमम् एव कायम् इति पूर्व-वत् ॥
पुनर् अ-परं यदा मृत-शरीराणि पश्यति शिव-पथिकायाम् अस्थि-संकली-भूतानि अपगत-मांस-शोणित-स्नायु-बन्धनानि । स इमम् एव कायम् इति पूर्व-वत् ॥
पुनर् अ-परं यदा पश्यति शिव-पथिकायाम् अस्थीनि दिग्-वि-दिक्षु क्षिप्तानि । यद् उत + अन्येन पाद-अस्थीनि । अन्येन जङ्घ-अस्थीनि । अन्येन च + ऊर्व्-अस्थीनि । अन्येन श्रोणि-कटाहकं । अन्येन पृष्ठ-वंशम् अन्येन पार्श्वक-अस्थीनि । अन्येन ग्रीव-अस्थीनि । अन्येन बाह्व्-अस्थीनि । स इमम् एव कायम् उपसंहरति + इति पूर्व-वत् ॥ पे ॥
पुनर् अ-परं यदा पश्यति शिव-पथिकायाम् अस्थीन्य् अन्-एक-वार्षिकाणि वात-अनुपरिशोषितानि शङ्ख-सन्निभानि । इमम् एव कायं तत्र + उपसंहरति + इति पूर्व-वत् । अयम् अपि काय एवं-धर्मा एवं-स्व-भाव एतां धर्मतां न व्यतिवृत्तए इति ॥
पुनर् अ-परं सुभूते बोधि-सत्वो महा-सत्वः प्रज्ञा-पारमितायां चरन् यदा पश्यति शिव-पथिकायाम् अस्थीन्य् अन्-एक-वार्षिकाणि तिरो-भूतानि नीलानि कपोत-वर्णानि पूतीनि चूर्णक-जातानि पृथिव्यां पांसुना अ-सम-समी-भूतानि स इमम् एव कायं तत्र + उपसंहरति अयम् अपि काय एवं-धर्मा एवं-स्व-भावः । एतां धर्मतां न व्यतिवृत्तए इति ॥
एष तावत् समासतो रागस्य समुदाचार-प्रति-पक्षः । द्वेषस्य मैत्री प्रति-पक्षः । अ-प्रिय-सत्व-अ-दर्शनं च । तेन वा सह भोजन-आद्य्-एक-अर्थतया + अ-प्रीत्य्-उत्पादनं तत्र पर-सुखस्य + आशंसा प्रार्थना तृष्णा + अभिनन्दनं मैत्री । काम-राग-प्रत्य्-उपकार-हेतुभ्याम् अ-क्लिष्टः स्नेह इत्य् अर्थः ॥
सा त्रि-विधा + आर्य-अक्षयमति-सूत्रे * अभिहिता । सत्व-आरम्बणा मैत्री प्रथम-चित्त-उत्पादिकानां बोधि-सत्वानां । धर्म-आरम्बणा चर्या-प्रतिपन्नानां बोधि-सत्वानां । अन्-आरम्बणा मैत्री अन्-उत्पत्तिक-धर्म-क्षान्ति-प्रतिलब्धानां बोधि-सत्वानाम् इति ॥
पुनर् बुद्ध-आरम्बणा बोधि-सत्व-आरम्बणा श्रावक-प्रत्य्-एक-बुद्ध-आरम्बणा सत्व-आरम्बणा च । तत्र सत्व-आरम्बणायाः पूर्वं प्रिये सत्वे हित-सुख-उपसंहारान् न ध्यानम् अभ्यस्य । तत्-समे मैत्रीम् उपसंहरेत् । ततः परिचितेषु । तत उदासीनेषु । ततः समीप-वासिषु । ततः स्व-ग्राम-वासिषु । एवं पर-ग्रामे च । एवं यावद् एकां दिशम् अधिमुच्य स्फरित्वा + उपसंपद्य विहरति । एवं दशसु दिक्षु । बुद्ध-आद्य्-आरम्बणायास् त्व् अयं प्रयासो न + अस्ति ॥

सा च वज्र-ध्वज-परिणामनायाम् उक्ता । स बोधि-सत्व-चर्यायां चरन् यावन्ति कानि-चिद् दृश्यन्ते रूपाणि मनो-ज्ञानि वा प्रति-कूलानि वा । एवं शब्दा गन्धा रसा स्प्रष्टव्या धर्मा मनो-ज्ञा वा प्रति-कूला वा । अन्-अवद्या विशुद्धाः कल्याण-उदार-प्रभास्वरा वा येन सौमनस्यं जायते । सुखम् अवक्रामति । प्रसादो जायते । प्रीतिः संभवति । प्रामोद्यं संतिष्ठते । हर्षः प्रादुर्-भवति । दौर्मनस्यं निवर्तते । चित्त-कल्यता प्रादुर्-भवति । चित्तं कर्मण्यं भवति । आशयो मृदु-भवति । इन्द्रियाणि प्रह्लादं गच्छन्ति । सतत-सुखं संवेदयमान एवं परिणामयति । सर्व-बुद्धानाम् एतया परिणामनया भूयस्या मात्रया ते बुद्धा भगवन्तो * अ-चिन्त्येन बुद्ध-विहार-सुखेन समन्वागता भवन्त्व् अ-तुल्येन बुद्ध-समाधि-सुखेन सु-संगृहीता भवन्त्व् अन्-अन्त-सुखेन भूयस्या मात्रया + उपस्तब्धा भवन्तु । अ-प्रमाणेन बुद्ध-विमोक्ष-सुखेन समन्वागता भवन्तु । अ-प्रमेयेण बुद्ध-प्रातिहार्य-सुखेन सु-संगृहीता भवन्तु । अ-चिन्त्येन बुद्ध-अ-संग-विहार-सुखेन सु-परिगृहीता भवन्तु । दुर्-आसदेन बुद्ध-वृषभित-सुखेन + अभिछन्ना भवन्तु । अ-प्रमेयेण बुद्ध-बल-सुखेन + आत्यन्त-सुखिता भवन्तु । सर्व-वेदित-शान्तेन + अन्-उत्पत्ति-सुखेन + अधिकार-सुखा भवन्तु । अ-संग-विहार-सतत-समाहितेन तथा-गत-सुखेन + अ-द्वय-समुदाचारेण + अ-विकोपित-सुखा भवन्तु ॥
एवं बोधि-सत्वस् तत्-कुशल-मूलं तथा-गतेषु परिणमय्य बोधि-सत्वेषु परिणमयति । यद् इदम् अ-परिपूर्णानाम् अभिप्रायाणां परिपूर्णाय परिणमयति । अ-परिशुद्धानां सर्व-ज्ञता-अध्याशयानां परिशुद्धये । अ-परिनिष्पन्नानां सर्व-पारमितानां परिनिष्पत्तये । वज्र-उपमस्य बोधि-चित्त-उत्पादस्य + अधिष्ठानाय । अ-निवर्त्यस्य सर्व-ज्ञता-संनाहस्य + अ-प्रतिप्रस्रब्धये । बोधि-सत्वानां कुशल-मूलानां मार्गणतायै । सर्व-जगत्-समता-स्थितस्य महा-प्रणिधानस्य परिपूरये । सर्व-बोधि-सत्व-विहाराणाम् अधिगमाय । सर्व-बोधि-सत्व-इन्द्रियाणां तीक्ष्ण-अभिज्ञतायै । सर्व-बोधि-सत्व-कुशल-मूलानां सर्व-ज्ञता-स्पर्शनतायै ॥
स एवं तत्-कुशल-मूलं बोधि-सत्वानाम् अर्थाय परिणमय्य बुद्ध-शासन-अवचरेषु सर्व-श्रावक-प्रत्य्-एक-बुद्धेषु तत्-कुशल-मूलम् एवं परिणामयति । ते के-चित् सत्वा एक-अच्छट-अ-संहात-मात्रम् अपि बुद्ध-शब्दं सृण्वति । धर्म-शब्दं वा + आर्य-संघ-पर्युपासनं वा कुर्वन्ति तेषां तत्-कुशल-मूलम् अन्-उत्तरायै सम्यक्-संबोधये परिणामयति बुद्ध-अनुस्मृति-परिपूर्यै परिणामयति । धर्म-अनुस्मृति-प्रयोगतायै परिणामयति । आर्य-संघ-गौरवाय परिणामयति । अ-चिर-हित-बुद्ध-दर्शनतायै परिणामयति । चित्त-परिशुद्धये परिणामयति । बुद्ध-धर्म-प्रतिवेधाय परिणामयति । अ-प्रमेय-गुण-प्रतिपत्तये परिणामयति । सर्व-अभिज्ञा-कुशल-परिशुद्धये परिणामयति । धर्म-वि-मति-विनिवर्तनाय परिणामयति । यथा बुद्ध-शासन-अवचरेषु परिणामयति । श्रावक-प्रत्य्-एक-बुद्धेषु च तथा बोधि-सत्वः सर्व-सत्वेषु तत्-कुशल-मूलं परिणामयति ॥
यद् इदं नैरयिक-मार्ग-विनिवर्तनाय परिणामयति । तिर्यग्-योनि-व्यवच्छेदाय परिणामयति । यम-लोक-उपच्छेद-सुखाय परिणामयति । निर्-अवशेष-सर्व-अपाय-गत्य्-उपपत्ति-व्यवच्छेदाय परिणामयति ॥
तेषां च सर्व-सत्वानाम् अन्-उत्तर-बोधि-छन्द-विवर्धनतायै परिणामयति । अध्याशय-सर्व-ज्ञता-चित्त-लाभाय परिणामयति । सर्व-बुद्ध-धर्म-अ-प्रतिक्षेपाय परिणामयति । अत्य्-अन्त-सुख-सर्व-ज्ञता-भूमि-संवर्तनाय परिणामयति । अत्य्-अन्त-सर्व-सत्व-विशुद्धये परिणामयति । सर्व-सत्वानाम् अन्-अन्त-ज्ञान-अधिगमाय परिणामयति । पे ॥
तस्य यत् किञ्-चिच् चीवर-पिण्ड-पात-शयन-आसन-ग्लान-प्रत्यय-भैषज्य-गमन-आगमन-शरीर-उपस्थान-निषद्य-आदि-निषेवण-आयतनानां प्रवर्तन-कर्म ईर्या-पथ-अधिष्ठानम् ईर्या-पथस्य + अ-विकोपनं काय-कर्म वाक्-कर्म मनस्-कर्म स-चुरितं षण्णाम् इन्द्रियाणां संवरः स्व-शरीर-आछादन-मर्दन-स्नान-कर्म । अशित-पीत-खादितं संमिञ्जित-प्रसारित-अवलोकित-विलोकित-सुप्त-जागरित-स्व-शरीर-गत-उपस्थानं सर्वम् एतद् बोधि-सत्वस्य सर्व-ज्ञता-आलम्बन-प्रयुक्तस्य न किञ्-चिद् अ-परिणामितं सर्व-ज्ञतायां सर्व-सत्व-हित-सुख-चित्तस्य ॥ पे ॥
सर्व-जगत्-परित्राण-मनसो नित्य-उद्युक्त-कुशल-मूलस्य मद-प्रमाद-व्यतिवृत्तस्य ॥ पे ॥
सर्व-क्लेश-पराङ्-मुखस्य सर्व-बोधि-सत्व-अनुशिक्षण-चेतसः सर्व-ज्ञता-मार्ग-अ-प्रतिहतस्य ज्ञान-भूमि-निषेवणस्य पण्डित-संवास-अभिरतस्य । पे ॥
मधु-कर इव कुशल-मूल-संभरणस्य सर्व-जगद्-उच्चलित-सन्तानस्य + अन्-अभिनिविष्ट-सर्व-संस्कारस्य । पे ॥
अन्तशः श्वस्व् अपि तद् अन्येष्व् अपि तिर्यग्-योनि-गतेष्व् एक-ओदन-उन्मिञ्जितम् एक-आलोपं वा परित्यजति । सु-गताव् उपपत्तिषु तत् सर्वं तेषाम् एव हिताय तेषाम् एव परिमोचनाय परिणामयति । तस्यास् तिर्यग्-योनेस् तस्माद् दुष्ख-आर्णवात् तस्माद् दुष्ख-उपादानात् तस्माद् दुष्ख-स्कन्धात् तस्माद् दुष्खा-वेदनायाः । तस्माद् दुष्ख-उपचयात् तस्माद् दुष्ख-अभिसंस्कारात् तस्माद् दुष्ख-निदानात् ततो दुष्ख-मूलात् तस्माद् दुष्ख-आयतनात् तेषां सत्वानां विनिवर्तनाय परिणामयति तद्-आरम्बणेन च सर्व-सत्व-आरम्बणी-करोति मनसि-करोति । तत्र कुशल-मूले पूर्वङ्-गमी-करोति । यद् इदं सर्व-ज्ञतायां परिणामयति । बोधि-चित्त-उत्पादेन प्रतिगृह्णाति । तत्र कुशल-मूलम् उपनयति । संसार-कान्ताराद् विनिवर्तयति । अन्-आवरणेन बुद्ध-सुखेन + अभिमुखी-करोति । संसार-सागराद् उन्मज्जयति । बुद्ध-धर्म-प्रयुक्ताय मैत्र्या स्फरति + इत्य् आदि ॥
इमाश् च सुवर्ण-भास-उक्ता मैत्री-करुणा-गर्भा गाथाः सर्वा आदरतः समन्वाहृत्य भावयितव्या अन्तशो वचसा + अपि ॥
सुवर्ण-भास-उत्तम-दुन्दुभेन शाम्यन्तु दुष्खास् त्रि-सहस्र-लोके । अपाय-दुष्खा यम-लोक-दुष्खा दारिद्र्य-दुष्खाश् च इह त्रि-लोके ॥
अनेन च + उ दुन्दुभि-घोष-नादिना शाम्यन्तु सर्व-व्यसनानि लोके । भवन्तु सत्वा ह्य् अ-भय-आहता तथा यथा + अ-भयाः शान्त-भयाः मुनि-इन्द्राः ॥

यथा + एव सर्व-आर्य-गुण-उपपन्नाः संसार-सर्व-ज्ञ-महा-समुद्राः । तथा + एव भोन्तू गुण-सागराः प्रजाः समाधि-बोध्य्-अङ्ग-गुणैर् उपेताः ॥
अनेन च + उ दुन्दुभि-घोष-नादिना भवन्तु ब्रह्म-स्वर सर्व-सत्वाः । स्पृशन्तु बुद्धत्व-वर-अग्र-बोधिं प्रवर्तयन्तू शुभ-धर्म-चक्रम् ॥
तिष्ठन्तु कल्पानि अ-चिन्तियानि देशेन्तु धर्मं जगतो हिताय । हनन्तु क्लेशान् विधमन्तु दुष्खान् समेन्तु रागं तथ दोष मोहम् ॥
ये सत्व तिष्ठन्ति अपाय-भूमौ आदीप्त-संप्रज्वलित-अस्थि-गात्राः । शृण्वन्तु ते दुन्दुभि-संप्रवादितं नमो * अस्तु बुद्धाय भणन्तु वाचम् ॥
जाति-स्मराः सत्वा भवन्तु सर्वे जाती-शतं जाति-सहस्र-कोट्यः । अनुस्मरन्तू सततं मुनि-इन्द्रान् शृण्वन्तु तेषां वचनं ह्य् उदारं ॥
अनेन च + उ दुन्दुभि-घोष-नादिना लभन्तु बुद्धेहि समागमं सदा । विवर्जयन्तू खलु पाप-कर्म चरन्तु कुशलानि शुभ-क्रियाणि ॥
सर्वत्र क्षेत्रेषु च सर्व-प्राणिनां सर्वे च दुष्खाः प्रशमन्तु लोके । ये सत्व वि-कल-इन्द्रिय अङ्ग-हीनाः ते सर्वि स-कल-इन्द्रिय भोन्तु सांप्रतम् ॥
ये व्याधिता दुर्-बल-क्षीण-गात्रा निस्-त्राण-भूताः शयिता दिशासु । ते सर्वि मुच्यन्तु च व्याधितो लघु लभन्तु च + आरोग्य बल-इन्द्रियाणि ॥
ये राज-चौर-भट तर्जित वध्य-प्राप्ता नाना-विधैर् भय-शतैर् व्यसन-उपपन्नाः । ते सर्वि सत्व व्यसन-आगत-दुष्खिता हि मुच्यन्तु तैर् भय-शतैः परमैः सु-घोरैः ॥
ये ताडिता बन्धन-बद्ध-पीडिता विविधेषु व्यसनेषु च संस्थिताहि । अन्-एक आयास-सहस्र आकुला विचित्र-भय-दारुण-शोक-प्राप्ताः ॥
ते सर्वि मुच्यन्त्व् इह बन्धनेभ्यः संताडिता मुच्यिषु ताडनेभ्यः । वध्याश् च संयुज्यिषु जीवितेन व्यसन-आगता निर्-भय भोन्तु सर्वे ॥
ये सत्व क्षुत्-तर्ष-पिपास-पीडिता लभन्तु ते भोजन-पान-चित्रम् । अन्धाश् च पश्यन्तु विचित्र-रूपां बधिराश् च शृण्वन्तु मनो-ज्ञ-घोषान् ॥
नग्नाश् च वस्त्राणि लभन्तु चित्रां दरिद्र-सत्वाश् च निधिं लभन्तु । प्रभूत-धन-धान्य-विचित्र-रत्नैः सर्वे च सत्वाः सुखिनो भवन्तु ॥
मा कस्य-चिद् भावतु दुष्ख-वेदनाः सौख्य-अन्विताः सत्व भवन्तु सर्वे । अभिरूप-प्रासादिक-सौम्य-रूपा अन्-एक सुख संचित नित्य भोन्तु ॥
मनस-अन्न-पानाः सु-समृद्ध-पुण्याः सह चित्त-मात्रेण भवन्तु तेषां । वीणा मृदङ्गाः पणवाः सु-घोषकाः उत्सा सराः पुष्करिणी तडागाः ॥
सुवर्ण-पद्म-उत्पल-पद्मिनीश् च सह चित्त-मात्रेण भवन्तु तेषाम् । गन्धं च माल्यं च विलेपनं च वासश् च चूर्णं कुसुमं विचित्रम् ॥
त्रिष्-काल-वृक्षेभि प्रवर्षयन्तु गृह्णन्तु ते सत्व भवन्तु हृष्टाः । कुर्वन्तु पूजां दशसू दिशासु अ-चिन्तियां सर्व-तथा-गतानाम् ॥
स बोधि-सत्वान् अथ श्रावकाणां धर्मस्य बोधि प्रतिसृष्टि तस्य । नीचां गतिं सत्व विवर्जयन्तु भवन्तु अष्ट-अक्षण-वीति-वृत्ताः ॥
आसादयन्तू जिन-राजम् उत्तमं लभन्तु बुद्धेहि समागमं सदा । सर्वा स्त्रियो नित्य नरा भवन्तु शूराश् च वीरा विदु-पण्डिताश् च ॥
ते सर्वि बोधाय चरन्तु नित्यं चरन्तु ते पारमितासु षट्सु । पश्यन्तु बुद्धान् दशसू दिशासु रत्न-द्रुम-इन्द्रेषु सुख-उपविष्टान् । वैडूर्य-रत्न-आसन-संनिषण्णान् धर्मांश् च शृण्वन्तु प्रकाश्यमानान् । इति ॥
एषा संक्षेपतो मैत्री ॥
द्वेष-समुदाचार-प्रति-पक्षः ॥
मोह-अनुशयस्य प्रतीत्य-समुत्पाद-दर्शनं प्रति-पक्षः ॥
तत्र प्रतीत्य-समुत्पादः शालि-स्तम्ब-सूत्रे * अभिहितः । तत्र + आध्यात्मिकस्य प्रतीत्य-समुत्पादस्य हेतु-उपनिबन्धः कतमः । यद् इदम् अ-विद्या-प्रत्ययाः संस्कारा यावज् जाति-प्रत्ययं जरा-मरणम् इति । अ-विद्या चेन् न + अभविष्यन् न + एव संस्काराः प्राज्ञास्यन्त । एवं यावद् यदि जातिर् न + अभविष्यन् न जरा-मरणं प्राज्ञास्यत । अथ सत्याम् अ-विद्यायां संस्काराणाम् अभिनिर्वृत्तिर् भवति । एवं यावज् जात्यां सत्यां जरा-मरणस्य + अभिनिर्वृत्तिर् भवति । तत्र + अ-विद्याया न + एवं भवति । अहं संस्कारान् अभिनिर्वर्तयामि + इति । संस्काराणाम् अप्य् एवं न भवति । वयम् अ-विद्यया + अभिनिर्वृत्ता इति । एवं यावज् जात्या न + एवं भवति । अहं जरा-मरणम् अभिनिर्वर्तयामि + इति । जरा-मरणस्य + अपि न + एवं भवति । अहं जात्या निर्वृत्त इति ।अथ च सत्याम् अ-विद्यायां संस्काराणाम् अभिनिर्वृत्तिर् भवति प्रादुर्-भावः । एवं यावज् जात्यां सत्यां जरा-मरणस्य + अभिनिर्वृत्तिर् भवति प्रादुर्-भावः ॥
एवम् आध्यात्मिकस्य प्रतीत्य-समुत्पादस्य हेतु-उपनिबन्धो द्रष्टव्यः ॥
कथम् आध्यात्मिकस्य प्रतीत्य-समुत्पादस्य प्रत्यय-उपनिबन्धो द्रष्टव्य इति । षण्णां धातूनां समवायात् । कतम् एषां षण्णां धातूनां समवायात् । यद् इदं पृथिव्य्--अप्-तेजो-वाय्व्-आकाश-विज्ञान-धातूनां समवायाद् आध्यात्मिकस्य प्रतीत्य-समुत्पादस्य प्रत्यय-उपनिबन्धो द्रष्टव्यः ॥
तत्र + आध्यात्मिकस्य प्रतीत्य-समुत्पादस्य पृथिवी-धातुः कतम इति । यो * अयं कायस्य संश्लेषतः कठिन-भावम् अभिनिर्वर्तयत्य् अयम् उच्यते पृथिवी-धातुः । यः कायस्य + अनुपरिग्रहं कृत्यं करोति अयम् उच्यते * अब्-धातुः । यः कायस्य + अशित-पीत-भक्षितं परिपाचयति अयम् उच्यते तेजो-धातुः । यः कायस्य + आश्वास-प्रश्वास-कृत्यं करोत्य् अयम् उच्यते वायु-धातुः । यः कायस्य + अन्तः-सौषिर्य-भावम् अभिनिर्वर्तयत्य् अयम् उच्यते आकाश-धातुः । यो नाम-रूपम् अभिनिर्वर्तयति नड-कलाप-योगेन पञ्च-विज्ञान-काय-संप्रयुक्तं स-आस्रवं च मनो-विज्ञानम् अयम् उच्यते विज्ञान-धातुः ॥
अ-सत्सु प्रत्ययेषु कायस्य + उत्पत्तिर् न भवति । यदा + आध्यात्मिकः पृथिवी-धातुर् अ-विकलो भवत्य् एवम् अप्-तेजो-वाय्व्-आकाश-विज्ञान-धातवश् च + अ-विकला भवन्ति । ततः सर्वेषां समवायात् कायस्य + उत्पत्तिर् भवति ॥

तत्र पृथिवी-धातोर् न + एवं भवति । अहं कायस्य कठिन-भावम् अभिनिर्वर्तयामि + इति । अब्-धातोर् न + एवं भवति । अहं कायस्य + अनुपरिग्रह-कृत्यं करोमि + इति । तेजो-धातोर् न + एवं भवति । अहं कायस्य + अशित-पीत-खादितं परिपाचयामि + इति । वायु-धातोर् न + एवं भवति । अहं कायस्य + आश्वास-प्रश्वास-कृत्यं करोमि + इति । आकाश-धातोर् न + एवं भवति । अहं कायस्य + अन्तः सौर्षिर्यं करोमि + इति । विज्ञान-धातोर् न + एवं भवति । अहम् एभिः प्रत्ययैर् जनित इति । अथ च सत्स्व् एषु प्रत्ययेषु कायस्य + उत्पत्तिर् भवति । तत्र पृथिवी-धातुर् न + आत्मा न सत्वो न जीवो न जन्तुर् न मनु-जो न मानवो न स्त्री न पुमान् न न-पुंसकं । न च + अहं । न मम । न च अप्य् अन्यस्य कस्य-चित् । एवम् अब्-धातुस् तेजो-धातुर् वायु-धातुर् आकाश-धातुर् विज्ञान-धातुर् न सत्वो न जीवो न जन्तुर् न मनु-जो न मानवो न स्त्री न पुमान् न न-पुंसकं न च + अहं न मम न च + अप्य् अन्यस्य कस्य-चित् ॥
तत्र + अ-विद्या कतमा । या एष्व् एव षट्सु धातुष्व् एक-संज्ञा पिण्ड-संज्ञा नित्य-संज्ञा ध्रुव-संज्ञा शाश्वत-संज्ञा सुख-संज्ञा आत्म-संज्ञा सत्व-जीव-मनु-ज-मानव-संज्ञा । अहं-कार-मम-कार-संज्ञा । एवम्-आदि विविधम् अ-ज्ञानम् इयम् उच्यते * अ-विद्या + इति । एवम् अ-विद्यायां सत्यां विषयेषु राग-द्वेष-मोहाः प्रवर्तन्ते । तत्र ये राग-द्वेष-मोहा विषयेष्व् अमी उच्यन्ते संस्कारा इति । वस्तु-प्रति-विज्ञप्तिर् विज्ञानं । विज्ञान-सह-जाश् चत्वारो * अ-रूपिण उपादान-स्कन्धास् तन् नाम-रूपं । चत्वारि च महा-भूतानि च + उपादाय उपादाय र् ऊपम् ऐकध्यम् अभिसंक्षिप्य तन् नाम-रूपं । नाम-रूप-संनिश्रितानि + इन्द्रियाणि षड्-आयतनं । त्रयाणां धर्माणां संनिपातः स्पर्शः । स्पर्श-अनुभवना वेदना । वेदना-अध्यवसानं तृष्णा । तृष्णा वैपुल्यम् उपादानं । उपादान-निर्जातं पुनर्-भव-जनकं कर्म । भवः । तद्-धेतुक-स्कन्ध-प्रादुर्-भावो जातिः । स्कन्ध-परिपाको जरा विनाशो मरणं । म्रियमाणस्य मूढस्य स्व-अभिष्वङ्गस्य + अन्तर्-दाहः शोकः । लालप्यनं परिदेवः । पञ्च-विज्ञान-काय-संप्रयुक्तम् अ-शात-अनुभवनं दुष्खं । मनसि-कार-संप्रयुक्तं मानसं दुष्खं दौर्मनस्यम् । ये च + अन्यए एवम्-आदय उपक्लेशास् तए उपायासाः ॥ पे ॥
पुनर् अ-परं तत्वे * अ-प्रतिपत्तिः मिथ्या प्रतिपत्तिः अ-ज्ञानम् अ-विद्या । एवम् अ-विद्यायां सत्यां त्रि-विधाः संस्काराः अभिनिर्वर्तन्ते । पुण्य-उपगा अ-पुण्य-उपगा आनिञ्ज्य-उपगाश् च + इमए उच्यन्ते * अ-विद्या-प्रत्ययाः संस्कारा इति । पुण्य-उपगानां संस्काराणां पुण्य-उपगम् एव विज्ञानं भवति । अ-पुण्य-उपगानां संस्काराणाम् अ-पुण्य-उपगम् एव विज्ञानं भवति । आनिञ्ज्य-उपगानां संस्काराणाम् आनिञ्ज्य-उपगम् एव विज्ञानं भवति । इदम् उच्यते संस्कार-प्रत्ययं विज्ञानम् इति । एवं नाम-रूपं । नाम-रूप-विवृद्ध्या षड्भिर् आयतन-द्वारैः कृत्य-क्रियाः प्रवर्तन्ते । तन् नाम-रूप-प्रत्ययं षड्-आयतनम् इत्य् उच्यते । षड्भ्य आयतनेभ्यः षट् स्पर्श-कायाः प्रवर्तन्ते * अयं षड्-आयतन-प्रत्ययः स्पर्श इत्य् उच्यते । यज्-जातीयः स्पर्शो भवति तज्-जातीया वेदना प्रवर्तते । इयं स्पर्श-प्रत्यया वेदना + इत्य् उच्यते । यस् तां वेदयति विशेषेण + आस्वादयति । अभिनन्दत्य् अध्यवस्यत्य् अत्यधितिष्ठति । सा वेदना-प्रत्यया तृष्णा + इत्य् उच्यते । आस्वादन-अभिनन्दन-अध्यवसानं । मा मे प्रिय-रूप-शात-रूपैर् वियोगो भवत्व् इति । अ-परित्यागो भूयो भूयश् च प्रार्थना । इदं तृष्णा-प्रत्ययम् उपादानम् इत्य् उच्यते । एवं प्रार्थयमानः पुनर्-भव-जनकं कर्म समुत्थापयति कायेन वाचा मनसा । अयम् उपादान-प्रत्ययो भव इत्य् उच्यते । या कर्म-निर्जातानां स्कन्धानाम् अभिनिर्वृत्तिः सा भव-प्रत्यया जातिर् इत्य् उच्यते । यो जात्य्-अभिनिर्वृत्तानां स्कन्धानाम् उपचय-परिपाकाद् विनाशो भवति । तद् इदं जाति-प्रत्ययं जरा-मरणम् उच्यते ॥ पे ॥
एवम् अयं द्वादश-अङ्गः प्रतीत्य-समुत्पादो * अन्यो-न्य-हेतुको * अन्यो-न्य-प्रत्ययतो । न + एव + अ-नित्यो न नित्यो । न संस्कृतो न + अ-संस्कृतो । न वेदयिता । न क्षय-धर्मो न निरोध-धर्मो । न वि-राग-धर्मो । अन्-आदि-कार-प्रवृत्तो * अन्-उद्भिन्नो * अनुप्रवर्तते नदी-स्रोत-वत् ॥
अथ च + इमान्य् अस्य द्वादश-अङ्गस्य प्रतीत्य-समुत्पादस्य चत्वारि अङ्गानि संघात-क्रियायै हेतुत्वेन प्रवर्तन्ते । कतमानि चत्वारि । यद् उत । अ-विद्या तृष्णा कर्म विज्ञानं च । तत्र विज्ञानं बीज-स्व-भावत्वेन हेतुः । कर्म क्षेत्र-स्व-भावत्वेन हेतुः । अ-विद्या तृष्णा च क्लेश-स्व-भावत्वेन हेतुः । कर्म-क्लेशा विज्ञान-बीजं संजनयन्ति । तत्र कर्म विज्ञान-बीजस्य क्षेत्र-कार्यं करोति । तृष्णा विज्ञान-बीजं स्नेहयति । अ-विद्या विज्ञान-बीजम् अवकिरति । अ-सतां येषां प्रत्ययानां बीजस्य + अभिनिर्वृत्तिर् न भवति ॥
तत्र कर्मणो न + एवं भवति । अहं विज्ञान-बीजस्य क्षेत्र-कार्यं करोमि + इति । तृष्णाया अपि न + एवं भवति ।अहं विज्ञान-बीजं स्नेहयामि + इति । अ-विद्याया अपि न + एवं भवति । अहं विज्ञान-बीजम् अवकिरामि + इति । विज्ञान-बीजस्य + अपि न + एवं भवत्य् अहम् एभिः प्रत्ययैर् जनित इति । अपि तु विज्ञान-बीजे कर्म-क्षेत्र-प्रतिष्ठिते तृष्णा-स्नेह-अभिष्यन्दिते * अ-विद्या-अवकीर्णे तत्र तत्र + उत्पत्त्य्-आयतन-सन्धौ मातुः कुक्षौ विरोहति । नाम-रूप-अङ्कुरस्य + अभिनिर्वृत्तिर् भवति । स च नाम-रूप-अङ्कुरो न स्वयं-कृतो न पर-कृतो न + उभय-कृतो न + ईश्वर-आदि-निर्मितो न काल-परिणामितो न च + एक-कारण-अधीनो न + अप्य् अ-हेतु-समुत्पन्नः । अथ च माता-पितृ-संयोगाद् ऋतु-समवायाद् अन्येषां च प्रत्ययानां समवायाद् आस्वाद-अनुप्रविद्धं विज्ञान-बीजं मातुः कुक्षौ नाम-रूप-अङ्कुर-बीजम् अभिनिर्वर्तयति । अ-स्वामिकेषु धर्मेष्व् अ-ममेष्व् अ-परिग्रहेष्व् अ-प्रत्य्-अर्थिकेष्व् आकाश-समेषु माया-लक्षण-स्व-भावेषु हेतु-प्रत्ययानाम् अ-वैकल्यात् ॥
तद् यथा पञ्चभिः कारणैश् चक्षुर्-विज्ञानम् उत्पद्यते । कतमैः पञ्चभिः ॥
चक्षुश् च प्रतीत्य रूपं च + आलोकं च + आकाशं तज्-जं च मनसि-कारं च प्रतीत्य + उत्पद्यते चक्षुर्-विज्ञानं ॥
तत्र चक्षुर्-विज्ञानस्य चक्षुर्-आश्रय-कृत्यं करोति । रूपम् आरम्बण-कृत्यं करोति । आलोको * अवभास-कृत्यं करोति । आकाशम् अन्-आवरण-कृत्यं करोति । तज्-ज-मनसि-कारः समन्वाहार-कृत्यं करोति । असत्स्व् एषु प्रत्ययेषु चक्षुर्-विज्ञानं न + उत्पद्यते ॥
यदा चक्षुर् आध्यात्मिकम् आयतनम् अ-विकलं भवति । एवं रूप-आलोक-आकाश-तज्-ज-मनसि-काराश् च + अ-विकला भवन्ति । ततः सर्व-समवायाच् चक्षुर्-विज्ञानस्य + उत्पत्तिर् भवति ॥

तत्र चक्षुषो न + एवं भवति । अहं चक्षुर्-विज्ञानस्य + आश्रय-कृत्यं करोमि + इति । रूपस्य + अपि न + एवं भवति । अहं चक्षुर्-विज्ञानस्य + आरम्बण-कृत्यं करोमि + इति । आलोकस्य + अपि न + एवं भवति । अहम् अवभास-कृत्यं करोमि + इति । आकाशस्य + अपि न + एवं भवति । अहं चक्षुर्-विज्ञानस्य + अन्-आवरण-कृत्यं करोमि + इति । तज्-ज-मनसि-कारस्य + अपि न एवं भवति । अहं चक्षुर्-विज्ञानस्य समन्वाहार-कृत्यं करोमि + इति । चक्षुर्-विज्ञानस्य + अपि न + एवं भवति । अहम् एभिः प्रत्ययैर् जनित इति । अथ च पुनः सत्स्व् एषु प्रत्ययेषु चक्षुर्-विज्ञानस्य + उत्पत्तिर् भवति प्रादुर्-भावः । एवं शेषाणाम् इन्द्रियाणां यथा-आयोगं कर्तव्यं ॥
तत्र न कश्-चिद् धर्मो * अस्माल् लोकात् परं लोकं संक्रामति । अस्ति च कर्म-फल-प्रतिविज्ञप्तिः । हेतु-प्रत्ययानाम् अ-वैकल्यात् । यथा + अग्निर् उपादान-वैकल्यान् न ज्वलति । एवम् एव कर्म-क्लेश-जनितं विज्ञान-बीजं तत्र तत्र + उत्पत्त्य्-आयतन-प्रति-सन्धौ मातुः कुक्षौ नाम-रूप-अङ्कुरम् अभिनिर्वर्तयति । अ-स्वामिकेषु धर्मेष्व् अ-ममेष्व् अ-परिग्रहेष्व् अ-प्रत्य्-अर्थिकेष्व् आकाश-समेषु माया-लक्षण-स्व-भावेषु हेतु-प्रत्ययानाम् अ-वैकल्यात् ॥

तन् न + आध्यात्मिकः प्रतीत्य-समुत्पादः पञ्चभिः कारणैर् द्रष्टव्यः ॥
कतमैः पञ्चभिः । न शाश्वततो न + उच्छेदतो न संक्रान्तितः । परीत्त-हेतुनो विपुल-फल-अभिनिर्वृत्तितस् तत्-सदृश-अनुप्रबन्धतश् च + इति ॥
कथं न शाश्वततः । यस्माद् अन्ये मारण-अन्तिकाः स्कन्धा अन्यए औपपत्त्य्-अंशिकाः । न तु यए एव मारण-अन्तिकाः स्कन्धास् तए एव + औपपत्त्य्-अंशिकाः स्कन्धा । अपि तु मारण-अन्तिकाश् च स्कन्धा निरुध्यमाना औपपत्त्य्-अंशिकाः स्कन्धाश् च प्रादुर्-भवन्ति । अतो न शाश्वततः ॥
कथं न + उच्छेदतः । न च निरुद्धेषु स्कन्धेषु औपपत्त्य्-अंशिकाः स्कन्धाः प्रादुर्-भवन्ति न + अप्य् अ-निरुद्धेषु । अपि तु मारण-अन्तिकाश् च स्कन्धा निरुध्यन्ते औपपत्त्य्-अंशिकाश् च प्रादुर्-भवन्ति । तुला-दण्ड-उन्नाम-अवनाम-वत् । अतो न + उच्छेदतः ॥
कथं न संत्रान्तितः । वि-सदृशात् सत्व-निकायाद् * धि स-भागाः स्कन्धा जात्य्-अन्तरे * अभिनिर्वर्तन्ते । अतो न संक्रान्तितः ॥
कथं परीत्त-हेतुतो विपुल-फल-अभिनिर्वृत्तितः परीत्तं कर्म क्रियते । विपुलः फल-विपाको * अनुभूयते । अतः परीत्त-हेतुतो विपुल-फल-अभिनिवृत्तिः ॥
कथं तत्-सादृश-अनुप्रबन्धतः । यथा वेदनीयं कर्म क्रियते । तथा वेदनीयो विपाको * अनुभूयते । अतस् तत्-सदृश-अनुप्रबन्धतश् च + इति ॥
यः कश्-चिद् भदन्त शारिपुत्र + इमं प्रतीत्य-समुत्पादं भगवता सम्यक्-प्रणीतम् एवं यथा-भूतं सम्यक्-प्रज्ञया सतत-समितम् अ-जीवं निर्-जीवं यथा-वद् अ-विपरीतम् अ-जातम् अ-भूतम् अ-कृतम् अ-संस्कृतम् अ-प्रतिघम् अन्-आवरणं शिवम् अ-भयम् अ-हार्यम् अ-व्ययम् अ-व्युपशमम् अ-स्व-भावं पश्यति । अ-सत्यतस् तुच्छत ऋक्ततो * अ-सारतो * अघतो * अ-नित्यतो दुष्खतः शून्यतो * अन्-आत्मनश् च समनुपश्यति । स न पूर्व-अन्तं प्रतिसरति । किम् अहम् अभूवम् अतीते * अध्वन्य् आहो स्विन् न + अभूवम् अतीते * अध्वनि । को न्व् अहम् अभूवम् अतीते * अध्वनि ॥
अ-पर-अन्तं वा पुनर् न प्रतिसरति । किं नु भविष्याम्य् अन्-आगते * अध्वन्य् आहो स्विन् न भविष्याम्य् अन्-आगते * अध्वनि । को नु भविष्यामि + इति । प्रत्य्-उत्पन्नं वा पुनर् न प्रतिसरति । किं स्विद् इदं कथं स्विद् इदं । के सन्तः के भविष्याम इति ॥
आर्य-दश-भूमके * अप्य् उक्तं । तत्र + अ-विद्या-तृष्णा-उपादानं च क्लेश-वर्त्मनो * अ-व्यवच्छेदः । संस्कारा भवश् च कर्म-वर्त्मनो * अ-व्यवच्छेदः । परिशेषं दुष्ख-वर्त्मनो * अ-व्यवच्छेदः । अपि तु खलु पुनर् यद् उच्यते * अविद्या-प्रत्ययाः संस्कारा इति । एषा पूर्व-अन्तिक्य् अपेक्षा ॥
विज्ञानं यावद् वेदना + इति । एषा प्रत्युत्पन्ना + अपेक्षा । तृष्णा यावद् भव इति । एषा + अ-पर-अन्तिक्य् अपेक्षा + अत ऊर्द्ध्वम् अस्य् प्रवृत्तिर् इति ॥ पे ॥
तस्य + एवं भवति । संयोगात् संस्कृतं प्रवर्तते । वि-संयोगान् न प्रवर्तते । सामग्र्याः संस्कृतं प्रवर्तते । वि-सामग्र्या न प्रवर्तते । हन्त वयम् एवं बहु-दोष-दुष्टं संस्कृतं विदित्वा + अस्य संयोगस्य + अस्याश् च सामग्र्या व्यवच्छेदं करिष्यामो । न च + अत्यन्त-उपशमं सर्व-संस्काराणाम् अधिगमिष्यामः सत्व-परिपाचनतायै । इति ॥
इदं संक्षेपान् मोह-शोधनं ॥
इति शिक्षा-समुच्चये चित्त-परिकर्म परिच्छेदो द्वादशमः ॥
[xइइइ. स्मृत्युपस्थानपरिच्छेद]
स्मृत्य्-उपस्थान-परिच्छेदः त्रयोदशः । एवं कर्मण्य-चित्तः स्मृत्य्-उपस्थानान्य् अवतरेत् ॥
तत्र + अ-शुभ-प्रस्तावेन काय-स्मृत्य्-उपस्थानम् उक्तम् ॥
तद् एव च भेद-लेशेन धर्म-संगीति-सूत्रे * अभिहितं । पुनर् अ-परं कुल-पुत्र बोधि-सत्व एवं काये स्मृतिम् उपस्थापयति । अयं कायः पाद-पाद-अङ्गुलि-जङ्घ-ऊरु-त्रिक-उदर-नाभि-पृष्ठ-वंश-हृदय-पार्श्व-पार्श्वका-हस्त-कलाची-बाह्व्-अंश-ग्रीवा-हनु-ललाट-शिरः-कपाल-मात्र-समूहः कर्म-भव-कारक-उपचितो नाना-क्लेश-संकल्प-विकल्प-शत-सहस्राणाम् आवास-भूतो । बहूनि च + अत्र द्रव्याणि समवहितानि । यद् उत । केश-रोम-नख-दन्त-अस्थि-चर्म-पिशित-वपा-स्नायु-मेदो-वशा-लसीका-यकृन्-मूत्र-पुरीष-आम-आशय-रुधिर-खेट-पित्त-पूय-सिङ्घाणक-मस्तक-लुङ्गानि । एवम् बहु-द्रव्य-समूहः । तत् को * अत्र कायः । तस्य प्रत्यवेक्षमाणस्य + एवं भवति । आकाश-समो * अयं कायः । स आकाश-वत् काये स्मृतिम् उपस्थापयति । सर्वम् एतद् आकाशम् इति पश्यति । तस्य काय-परिज्ञान-हेतोर् न भूयः क्व-चित् स्मृतिः प्रसरति । न विसरति । न प्रतिसरति + इति ॥
पुनर् उक्तं । अयं कायो न पूर्व-अन्ताद् आगतो । न पर-अन्ते संक्रान्तो न पूर्व-अन्त-अ-पर-अन्त-अवस्थितो * अन्यत्र + अ-सद्-विपर्यास-संभूतः कारक-वेदक-रहितो न + आद्य्-अन्त-मध्ये प्रतिष्ठित-मूलः । अ-स्वामिकः । अ-ममः । अ-परिग्रहः । आगन्तुकैर् व्यवहारैर् व्यवह्रियते काय इति देह इति भोग इति आश्रय इति शरीरम् इति कुणप इति आयतनम् इति । अ-सारको * अयं कायो माता-पितृ-शोणित-शुक्र-संभूतो * अ-शुचि-पूति-दुर्-गन्ध-स्व-भावो राग-द्वेष-मोह-भय-विषाद-तस्कर-आकुलो नित्यं शतन-पतन-भेदन-विकिरण-विध्वन्सन-धर्मा । नाना-व्याधि-शत-सहस्र-नीत इति ॥
आर्य-रत्न-चूडे * अप्य् आह । अ-नित्यो वत + अयं कायो * अ-चिर-स्थितिको मरण-पर्यवसान इति ज्ञात्वा न काय-हेतोर् विषमया जीवति । सारं च + एव + आदत्ते । स त्रीणि साराण्य् आदत्ते ।कतमानि त्रीणि । काय-सारं भोग-सारं जीवित-सारं च । सो * अ-नित्यः काय इति सर्व-सत्वानां दासत्व-शिष्यत्वम् अभ्युपगम्य किङ्-करणीयतायै उत्सुको भवति । अ-नित्यः काय इति सर्व-काय दोष-वङ्क-शाठ्य-कुहनां न करोति । अ-नित्यः काय इति जीवितेन + आश्वास-प्राप्तो जीवित-हेतोर् अपि पापं कर्म न करोति । अ-नित्यः काय इति भोगेषु तृष्णा-अध्यवसानं न करोति । सर्वस्व-परित्यागी + इव भवति + इति ॥
पुनर् अ-परं कुल-पुत्र बोधि-सत्वः काये काय-अनुदर्शन-स्मृत्य्-उपस्थानं भावयन् सर्व-सत्व-कायांस् तत्र स्व-कायए उपनिबध्नाति । एवं च + अस्य भवति । सर्व-सत्व-काया मया बुद्ध-काय-प्रतिष्ठान-प्रतिष्ठिताः कर्तव्याः । यथा च तथा-गत-काये न + आश्रवस् तथा स्व-काय-धर्मतां प्रत्यवेक्षते । सो न + आश्रव-धर्मता-कुशलः सर्व-सत्व-कायान् अपि तल्-लक्षणान् एव प्रजानाति + इत्य् आदि ॥

वीरदत्त-परिपृच्छायाम् अप्य् उक्तम् । यद् उत + अयं कायो * अनुपूर्व-समुदागतो * अनुपूर्व-विनाशो परम-अणु-संचयः शुषिर उन्नाम-अवनामौ नव-व्रण-मुख-रोम-कूप-स्रावी वल्मी-कव-दासी-विष-निवासः [दोउब्त्fउल्] । अ-जात-शत्रुः । मर्कट-वन् मित्र-द्रोही । कु-मित्र-वद् वि-संवादन-आत्मकः । फेन-पिण्ड-वत् प्रकृति-दुर्-बलः । उदक-बुद्बुद-वद् उत्पन्न-भग्न-विलीनः । मरीचि-वद् विप्रलम्भ-आत्मकः । कदली-वन् निभुज्यमाना-सारकः । माया-वद् वञ्चन-आत्मकः । राज-वद् आज्ञा-बहुलः । शत्रु-वद् अवतार-प्रेक्षी । चोर-वद् अ-विश्वसनीयः । वध्य-घातक-वद् अन्-अनुवीतः । अ-मित्र-वद् अ-हित-एषी । वधक-वत् प्रज्ञा-जीवित-अन्तराय-करः । शून्य-ग्राम-वद् आत्म-विरहितः । कुलाल-भाण्ड-वद् भेदन-पर्यन्तः । मूतोडी-वन् नाना-अ-शुचि-परिपूर्णः । मेदक-स्थाली-वद् अ-शुचि-स्रावी ॥ पे ॥
व्रण-वद् घट्टन-अ-सहिष्णुः । शल्य-वत् तुदन-आत्मकः । जीर्ण-गृह-वत् प्रति-संस्कार-धार्यः । जीर्ण-यान-पात्र-वत् प्रति-संस्कार-वाह्यः । आम-कुम्भ-वद् यत्न-अनुपाल्यः ॥ पे ॥
नदी-तट-वृक्ष-वच् चल-अ-चलः । महा-नदी-स्रोतो-वन् मरण-समुद्र-पर्यवसानः । आगन्तुक-आगार-वत् सर्व-दुष्ख-निवासः । अ-नाथ-शाला-वद् अ-परिगृहीतः । चारक-पाल-वद् उत्कोच-साध्यः ॥ पे ॥
बाल-दारक-वत् सतत-परिपाल्यः ॥
पुनर् आह । एवं-विधं कायम् अ-चौक्ष-राशिं । रूप-अभिमानी बहु मन्यते यः । प्रज्ञायमानः स हि बाल-बुद्धिः विष्ठा-घटं याति वहन् वि-चेताः ॥
पूय-प्रकारं वहते * अस्य नासा । वक्त्रं कु-गन्धं वहते सदा च । चिक्कास् तथा + अक्ष्णोः क्रिमि-वच् च जन्तोः । कस् तत्र रागो बहु-मानता वा ॥
अङ्गारम् आदाय यथा हि बालो । घृष्येद् अयं यास्यति शुक्ल-भावम् । याति क्षयं न + एव तु शुक्ल-भावं बालस्य बुद्धिर् वितथा + अभिमाना ॥
एवं हि यः चौक्ष-मतिर् मनुष्यः चौक्षं करिष्ये * अहम् इदं शरीरम् । सु-उद्वर्तितं तीर्थ-शत-अभिषिक्तं याति क्षयं मृत्यु-वशाद् अ-चौक्षम् ॥
तथा प्रभङ्गुरः । प्रस्रवन् बोधि-सत्वेन कायः प्रत्यवेक्षितव्यो नव व्रण-मुखैर् यावत् । आवासो बोधि-सत्वेन कायः प्रत्यवेक्षितव्यः । अशीति-क्रिमि-कुल-सहस्राणाम् ॥ पे ॥
पर-भोजनो बोधि-सत्वेन कायः प्रत्यवेक्षितव्यः । वृक-शृगाल-श्व-पिशित-अशिनां । यन्त्र-उपमो बोधि-सत्वेन कायः प्रत्यवेक्षितव्यः । अस्थि-स्नायु-यन्त्र-संघात-विनिबद्धः । अ-स्व-अधीनो बोधि-सत्वेन कायः प्रत्यवेक्षितव्यः अन्न-पान-संभूत इति विस्तरः ॥
तत्र + एव ज्ञेयं । वेदना स्मृत्य्-उपस्थानं तु यथा तावद् आर्य-रत्न-चूड-सूत्रे । इह कुल-पुत्र बोधि-सत्वो वेदनासु वेदना-अनुपश्यना-स्मृत्य्-उपस्थानं भावयन् वेदित-सुख-आश्रितेषु सत्वेषु महा-करुणां प्रतिलभते । एवं च प्रतिसंशिक्षते । तत् सुखं यत्र वेदितं न + अस्ति स सर्व-सत्व-वेदित-प्रहाणाय वेदनासु वेदना-स्मृत्य्-उपस्थानं भावयति । वेदित-निरोधाय च सत्वानां संनाहं संनह्यति । आत्मना च वेदित-निरोधं न + अर्पयति । स यां कां-चिद् वेदनां वेदयते तां सर्वां महा-करुणा-परिगृहीतां वेदयते । स यदा सुखां वेदनां वेदयते तदा राग-चरितेषु सत्वेषु महा-करुणां प्रतिलभते आत्मनश् च राग-अनुशयं प्रतिजहाति । यदा दुष्खां वेदनां वेदयते तदा द्वेष-चरितेषु सत्वेषु महा-करुणां प्रतिलभते आत्मनश् च दोष-अनुशयं प्रजहाति । यदा + अ-दुष्ख-अ-सुखां वेदनां मोह-चरितेषु सत्येषु महा-करुणां प्रतिलभते । आत्मनश् च मोह-अनुशयं प्रजहाति । स सुखायां वेदनायां न + अनुनीयते । अनुनय-समुद्घातं च + अर्जयति । दुष्खायां वेदनायां न प्रतिहन्यते प्रतिघ-समुद्घातं च + अर्जयति । अ-दुष्ख-अ-सुखायां वेदनायां न + अ-विद्या-गतो भवति । अ-विद्या-समुद्घातं च + अर्जयति । स यां काञ्-चिद् वेदनां वेत्ति सर्वां ताम् अ-नित्य-वेदितां वेत्ति । सर्वां तां दुष्ख-वेदितां वेत्ति । अन्-आत्म-वेदितां वेत्ति । स सुखायां वेदनायाम् अ-नित्य-वेदितो भवति । दुष्खायां वेदनायां शल्य-वेदितो भवति । अ-दुष्ख-अ-सुखायां वेदनायां शान्ति-वेदितो भवति । इति हि यत् सुखं तद् अ-नित्यं यद् दुष्खं सुखम् एव तत् । यद् अ-दुष्ख-अ-सुखं तद् अन्-आत्मकम् इत्य् आदि ॥
आर्य-अक्षयमति-सूत्रे * अप्य् उक्तं । दुष्खया वेदनया स्पृष्टः सर्व-पाप-अ-क्षण-उपपन्नेषु सत्वेषु महा-करुणाम् उत्पादयति ॥ पे ॥
अपि तु खलु पुनर् अभिनिवेशो वेदना परिग्रहो वेदना + उपादानं वेदना + उपलम्भो वेदना विपर्यासो वेदना विकल्पो वेदना + इत्य् आदि ॥
धर्म-संगीति-सूत्रे * अप्य् उक्तं ॥
वेदना-अनुभवः प्रोक्तः । केन + असाव् अनुभूयते । वेदको वेदनाद् अन्यः पृथग्-भूतो न विद्यते ॥
एवं स्मृतिर् उपस्थेया वेदनायां विचक्षणैः । यथा बोधिस् तथा ह्य् एषा शान्ता शुद्धा प्रभास्वरा ॥
एतत् समासतो वेदना-स्मृत्य्-उपस्थानम् ॥
चित्त-स्मृत्य्-उपस्थानं तु यथा + आर्य-रत्न-कूटे । स एवं चित्तं परिगवेषते । कतरत् तु चित्तं । रज्यति वा दुष्यति वा मुह्यति वा । किम् अतीतम् अन्-आगतं प्रत्य्-उत्पन्नं वा + इति । तत्र यद् अतीतं तत् क्षीणं । यद् अन्-आगतं तद् अ-संप्राप्तं । प्रत्युत्पन्नस्य स्थितिर् न + अस्ति । चित्तं हि काश्यप न + अध्यात्मं न बहिर्-धा न + उभयम् अन्तरेण + उपलभ्यते । चित्तं हि काश्यप + अ-रूपम् अ-निदर्शनम् अ-प्रतिघम् अ-विज्ञप्तिकम् अ-प्रतिष्ठम् अ-निकेतं । चित्तं हि काश्यप सर्व-बुद्धैर् न दृष्टं । न पश्यन्ति न द्रक्ष्यन्ति यत् सर्व-बुद्धैर् न दृष्टं ।न पश्यन्ति न द्रक्ष्यन्ति । कीदृशस् तस्य प्रचारो द्रष्टव्यः । अन्यत्र वितथ-पतितया संज्ञया धर्माः प्रवर्तन्ते । चित्तं हि काश्यप माया-सदृशम् अ-भूत-परिकल्पनया विविधाम् उपपत्तिं परिगृह्णाति ॥ पे ॥
चित्तं हि काश्यप नदी-स्रोतः-सदृशम् अन्-अवस्थितम् उत्पन्न-भग्न-विलीनं । चित्तं हि काश्यप दीप-अर्च्चिः-सदृशं हेतु-प्रत्ययतया प्रवर्तते । चित्तं हि काश्यप विद्युत्-सदृशं क्षण-भङ्ग-अन्-अवस्थितम् । चित्तं हि काश्यप + आकाश-सदृशम् आगन्तुकैः क्लेशैर् उपक्लिश्यते । पे ॥

चित्तं हि काश्यप पाप-मित्र-सदृशं सर्व-दुष्ख-संजननतया । पे । चित्तं हि काश्यप मत्स्य-बडिश-सदृशं दुष्खे सुख-संज्ञया । तथा नील-मक्षिका-सदृशम् अ-शुचौ शुचि-संज्ञया । चित्तं हि काश्यप प्रत्य्-अर्थिक-सदृशं विविध-कारण-आकरणतया । चित्तं हि ओजो-हार-यक्ष-सदृशं सदा विवर-गवेषणतया । एवं चोर-सदृशं सर्व-कुशल-मूल-मुषणतया । चित्तं हि काश्यप रूप-आरामं पतङ्-ग-नेत्र-सदृशं । चित्तं हि काश्यप शब्द-आरामं संग्राम-भेरी-सदृशं । चित्तं हि काश्यप गन्ध-आरामं वराह इव + अ-शुचि-मध्ये । चित्तं हि काश्यप रस-आरामं रथ-अवशेष-भोक्तृ-चेटी-सदृशं । चित्तं हि काश्यप स्पर्श-आरामं मक्षिका + इव तैल-पात्रे । चित्तं हि काश्यप परिगवेष्यमाणं न लभ्यते । यन् न लभ्यते तन् न + उपलभ्यते । यन् न + उपलभ्यते तन् न + एव + अतीतं न + अन्-आगतं न प्रत्य्-उत्पन्नं । यन् न + एव + अतीतं न + अन्-आगतं न प्रत्य्-उत्पन्नं तत् त्र्य्-अध्व-समतिक्रान्तं । यत् त्र्य्-अध्व-समतिक्रान्तं तन् न + इव + अस्ति न न + अस्ति + इत्य् आदि ॥
आर्य-रत्न-चूड-सूत्रे * अप्य् आह । स चित्तं परिगवेषमाणो न + आध्यात्मं चित्तं समनुपश्यति । न बहिर्-धा चित्तं समनुपश्यति ।न स्कन्धेषु चित्तं समनुपश्यति । न धातुषु चित्तं समनुपश्यति । न + आयतनेषु चित्तं समनुपश्यति । स चित्तम् अ-समनुपश्यंश् चित्त-धारां पर्येषते । कुतः चित्तस्य + उत्पत्तिर् इति । तस्य + एवं भवति आलम्बने सति चित्तम् उत्पद्यते । तत् किम् अन्यद् आलम्बनम् । अथ यद् एव + आलम्बनं तद् एव चित्तं । यदि तावद् अन्यद् आलम्बनम् अन्यच् चित्तं । तद् द्वि-चित्तता भविष्यति । अथ यद् एव + आलम्बनं तद् एव चित्तं । तत् कथं चित्तं चित्तं समनुपश्यति । न हि चित्तं चित्तं समनुपश्यति । तद् यथा न तया + एव + असि-धारया सा + एव + असि-धारा शक्यते छेत्तुम् । न तेन + एव + अङ्गुल्य्--अग्रेण तद् एव + अङ्गुल्य्--अग्रं स्प्रष्टुं शक्यते । न + एव चित्तेन तद् एव चित्तं शक्यते द्रष्टुम् ॥ पे ॥
पुनर् अ-परं कुल-पुत्र यद् उपद्रुत-प्रद्रुत-अन्-अवस्थित-प्रचारस्य वानर-मारुत-सदृशस्य । पे । दूरं-गम-चारिणो * अ-शरीरस्य लघु-परिवर्तिनो विषय-लोलस्य षड्-आयतन-गो-चरस्य + अ-पर-अ-पर-संप्रयुक्तस्य चित्तस्य + अवस्थानाम् एक-अग्रता + अ-शरणम् अ-विशरणं शमथा + एक-अग्रता + अ-विक्षेप इत्य् उच्यते चित्तस्य स्मृतिर् इति ॥
आर्य-अक्षयमति-सूत्रे * अप्य् उक्तं ।विठपनायां मया योगः करणीयः । इयं च चित्त-धर्मता न विहातव्या । तत्र कतमा चित्त-धर्मता । कतमा विठपना । माया-उपमं चित्तम् इयम् उच्यते चित्त-धर्मता । यत् पुनः सर्वस्वं परित्यज्य सर्व-बुद्ध-क्षेत्र-परिशुद्धये परिणामयति + इति + इयम् उच्यते विठपना + इत्य् आदि ॥
धर्म-स्मृत्य्-उपस्थानं तु ॥
यथा तावद् अत्र + आह । धर्मे धर्म-अनुदर्शी विहरन् बोधि-सत्वो न कञ्-चिद् धर्मं समनुपश्यति । यतो न बुद्ध-धर्मा यतो न बोधिः । यतो न मार्गो यतो न निः-सरणं । स सर्व-धर्म-अ-निः-सरणम् इति विदित्वा + अन्-आवरणं नाम महा-करुणा-समाधिं समापद्यते । स सर्व-धर्मेषु सर्व-क्लेशेषु च कृत्रिम-संज्ञां प्रतिलभते । निः-क्लेशा एते धर्मा । न + एते स-क्लेशाः । तत् कस्य हेतोः । तथा ह्य् एते नीत-अर्थे समवसरन्ति । न + अस्ति क्लेशानां संचयो । न राशी-भावः । न राग-भावो न द्वेष-भावो न मोह-भाव । एषाम् एव क्लेशानाम् अवबोधाद् बोधिः । यत् स्व-भावाश् च क्लेशास् तत् स्व-भावा बोधिर् इत्य् एवं स्मृतिम् उपस्थापयति + इति ॥
आर्य-रत्न-चूडे * अप्य् उक्तम् । इह कुल-पुत्र बोधि-सत्वस्य धर्मे धर्म-अनुपश्यना स्मृत्य्-उपस्थानेन विहरत एवं भवति । धर्मा एव + उत्पद्यमाना उत्पद्यन्ते । धर्मा एव निरुध्य्माना निरुध्यन्ते ॥
न पुनर् अत्र कश्-चिद् आत्म-भावे सत्वो वा जीवो वा जन्तुर् वा पोषो वा पुरुषो वा पुद्गलो वा मनु-जो वा यो जायते वा जीर्यते वा च्यवते वा + उत्पद्यते वा । एषा धर्माणां धर्मता । यदि समुदानीयन्ते । समुदागच्छन्ति । अथ न समुदानीयन्ते न समुदागच्छन्ति । यादृशाः समुदानीयन्ते तादृशाः समुदागच्छन्ति कुशला वा + अ-कुशला वा अनिञ्ज्या वा । न + अस्ति धर्माणां समुदानेता । न च + अ-हेतुकानां धर्माणां का-चिद् उत्पत्तिर् इत्य् आदि ॥
तत्र + एव + आह । स कियद्-गम्भीरान् अपि धर्मान् प्रत्यवेक्षमाणस् तां सर्व-ज्ञता-बोधि-चित्त-अनुस्मृतिं न विजहाति ॥
आर्य-ललित-विस्तर-सूत्रे * अप्य् उक्तम् । संस्कार अ-नित्य अ-ध्रुवा आम-कुम्भ-उपम-भेदन-आत्मकाः । पर-केलिक-याचित-उपमाः पांशु-नगर-उपमता च कालिका ॥
संस्कार प्रलोप धर्मिमे वर्ष-कालि चलितं विलेपनं । नदि-कूल इव स-वालुकं प्रत्यय-अधीन स्व-भाव-दुर्-बलाः ॥
संस्कार प्रदीप अर्चि-वत् क्षिप्र-उत्पत्ति निरोध-धर्मकाः । अन्-अवस्थित-मारुत-उपमाः फेन-पिण्डा-वद् अ-सार-दुर्-बलाः ॥
संस्कार निर्-ईह शून्यकाः कदली-स्कन्ध-समा निरीक्षतः । माया-उपम चित्त-मोहना बाल-उल्लापन-रिक्त-मुष्टि-वत् ॥
हेतूभि च प्रत्ययेभि वा सर्व संस्कार-गतं प्रवर्तते । अन्यो-न्य-प्रतीत्य-हेतुतः तद् इदं बाल-जनो न बुध्यते ॥
यथा मुञ्ज प्रतीत्य बल्ब-जं रज्जु व्यायाम-बलेन वर्तिता । घटि-यन्त्र स-चक्र वर्तते तेष्व् एक-एकशु न + अस्ति वर्तना ॥
तथ सर्व-भव-अङ्ग-वर्तनी अन्यो-न्य-उपचयेन निःश्रिता । एक-एकशु तेषु वर्तनी पूर्व-अ-पर-अन्ततो न + उपलभ्यते ॥
बीजस्य सतो यथा + अङ्कुरो न च यो बीज स च + एव अङ्कुरो । न च अन्य ततो न च + एव तत् । एवम् अन्-उच्छेद अ-शाश्वत धर्मता ॥
संस्कार अ-विद्य-प्रत्ययाः ते च संस्कार न सन्ति तत्वतः । संस्कार अ-विद्य च + एव हि शून्य एते प्रकृती निर्-ईहकाः ॥
मुद्रात् प्रति-मुद्र दृश्यते मुद्र-संक्रान्ति न च + उपलभ्यते । न च तत्र न च + एव सान्यतो एवं संस्कार्-अन्-उच्छेद-शाश्वताः ॥
चक्षुश् च प्रतीत्य रूपतः चक्षु विज्ञानम् इह + उपजायते । न च चक्षुषि रूप-निश्रितं रूप-संक्रान्ति न च + एव चक्षुषि ॥
नैरात्म्य-शुभाश् च धर्मिमे ते पुनर् आत्मा + इति शुभाश् च कल्पिताः । विपरीतम् अ-सद्-विकल्पितं चक्षु-विज्ञान ततो उपजायते ॥
विज्ञान निरोध-संभवं विज्ञ उत्पाद-व्ययं विपश्यति । अ-कहिञ्-चि गतम् अन्-आगतं शून्य माया-उपम योगि पश्यति ॥
अरणिं यथ च + उत्तर-अरणिं हस्त-व्यायाम-त्रयेभि संगतिं । इति प्रत्ययतो * अग्नि जायते जातु कृतु-कार्यु लघू निरुध्यते ॥
अथ पण्डितु कश्-चि मार्गते कुत यम् आगतु कुत्र याति वा । विदिशो दिशि सर्व मार्गतो न गतिर् न + अप्य् अ-गतिश् च लभ्यते ॥
स्कन्ध-आयतनानि धातवः तृष्ण अ-विद्या इति कर्म-प्रत्ययाः । सामग्रि तु सत्व-सूचना सा च परम-अर्थतु न + उपलभ्यते ॥

कण्ठ-ओष्ठ प्रतीत्य तालुकं जिह्व परिवर्तिर् अवर्ति अक्षरा । न च कण्ठ-गता न तालुकैः अक्षर-एक-एक तु न + उपलभ्यते ॥
सामग्रि-प्रतीत्यश् च सा वाचम् अनुबुधि-वशेन निश्चरी । मन-वाच अ-दृश्य-रूपिणी बाह्यतो * अभ्यन्तरि न + उपलभ्यते ॥
उत्पाद-व्ययं विपश्यतो वाच-रुत-घोष-स्वरस्य पण्डिताः । क्षणिकां वशिकां तद् ईदृशीं सर्व-वाचः प्रतिश्रुतक-उपमाः ॥
यथ तन्त्रि प्रतीत्य दारु च हस्त-व्यायाम-त्रयेभि संगतिम् । तुण-वीण-सु-घोषक-आदिभिः शब्दो निश्चरते तद्-उद्भवः ॥
अथ पण्डितु कश्-चि मार्गते कुतो * अयम् आगतु कुत्र याति वा । विदिशो दिश सर्व-मार्गतः शब्दम् अन्-आगमनं न लभ्यते ॥
तथ हेतुभि प्रत्ययेभि च सर्व-संस्कार-गतं प्रवर्तते । योगी पुन भूत-दर्शनात् शून्य संस्कार निर्-ईह पश्यति ॥
स्कन्ध-आयतनानि धातवः शून्य-अध्यात्मिक शून्य-बाह्यकाः । सत्व-आत्म-विविक्तन-आलयाः धर्म-आकाश-स्व-भाव-लक्षणाः ॥
लोक-नाथ-व्याकरणे * अप्य् उक्तम् ॥
शून्या अ-नामका धर्माः नाम किं परिपृच्छसि । शून्यता न क्व-चिद् देवा न नागा न + अपि राक्षसाः ॥
मनुष्या वा + अ-मनुष्या वा सर्वे तु एष विद्यते । नाम्ना हि नामता शून्या नाम्नि नाम न विद्यते ॥
अ-नामकाः सर्वे धर्माः नाम्ना तु परिदीपिताः ॥
यो हि स्व-भावो नाम्नो वै न स दृष्टो न च श्रुतः । न च + उत्पन्नो निरुद्धो वा कस्य नाम + इह पृच्छसि ॥
व्यवहार-कृतं नाम प्रज्ञप्तिर् नाम-दर्शिता । रत्न-चित्रो ह्य् अयं नाम्ना रत्न-उत्तम-पर इति ॥
इति शिक्षा-समुच्चये स्मृत्य्-उपस्थान-परिच्छेदस् त्रयोदशः ॥
[xइव्. आत्मभावपरिशुद्धि]

आत्म-भाव-परिशुद्धिः परिच्छेदश् चतुर्दशः ॥
उक्तानि स्मृत्य्-उपस्थानानि । एवं योग्य-चित्तो दशसु दिक्षु शेषस्य जगतो दुष्ख-सागर-उद्धरण-अभिसंबोध्य्-उपायो व्योम-पर्यन्त-त्रैकाल्य-सर्व-धर्म-वश-वर्तित्वाय + एव तु पुनः सर्व-धर्म-शून्यताम् अवतरेत् । एवं हि पुद्गल-शून्यता सिद्धा भवति । ततश् च छिन्न-मूलत्वात् क्लेशा न समुदाचरन्ति ॥
यथा + उक्तम् आर्य-तथा-गत-गुह्य-सूत्रे । तद् यथा + अपि नाम शान्तमते वृक्षस्य मूल-छिन्नस्य सर्व-शाखा पत्र-पलाशाः शुष्यन्ति । एवम् एव शान्तमते सत्-काय-दृष्ट्य्-उपशमात् सर्व-क्लेशा उपशाम्यन्ति + इति ॥
शून्यता-भावना-अनुशंसास् त्व् अ-पर्यन्ताः ॥
यथा तावच् चन्द्र-प्रदीप-सूत्रे । सो * असौ शिक्ष न जातु त्रशती सु-गतानां । सो * असौ शूरु न जातु इस्त्रिणां वशम् एती । सो * असौ सासनि प्रीति विन्दते सु-गतानां । यो * असौ धर्म-स्व-भाव जानती सु-प्रशान्तं ॥
सो * असौ न + इह चिरेण भेष्यते द्वि-पद-इन्द्रः । सो * असौ वैद्य-भिषक् भेष्यते सुख-दाता । सो * असौ उद्धरि शल्य सर्वशो दुखितानां ।यो * असौ धर्म-स्व-भाव जानती सु-प्रशान्तं ॥
सो * असौ क्षान्ति-बलेन उद्गतो नर-चन्द्रः । सो * असौ लोष्टक-दण्ड ताडितो न च कुप्यी । सो * असौ छिद्यति अङ्गम् अङ्गशो न च क्षुभ्यो । यो * असौ धर्म-स्व-भाव जानती सु-प्रशान्तं ॥
न + असौ दुर्गतिषू पतिष्यती अनुव्यञ्जन । नित्यं लक्षण-धारि भेष्यती अभिरूपः । पञ्च्यो तस्य अभिज्ञ भाविता इम नित्यं । पुरतः सो सु-गतान स्थास्यती स च शूर । इत्य् आदि ॥
भगवत्याम् अप्य् उक्तं । पुनर् अ-परं शारिपुत्र बोधि-सत्वेन महा-सत्वेन बुद्ध-कायं निष्पादयितु-कामेन द्वात्रिंशन्-महा-पुरुष-लक्षणान्य् अशीतिं च + अनुव्यञ्जनानि प्रतिलब्धु-कामेन सर्वत्र जातौ जाति-स्मरतां बोधि-चित्त-अ-विप्रणाशतां बोधि-सत्व-चर्या + अ-संप्रमोषतां प्रतिलब्धु-कामेन सर्व-पाप-मित्र-पाप-सहायान् विवर्जयितु-कामेन सर्व-बुद्ध-बोधि-सत्व-कल्याण-मित्राण्य् आरागयितु-कामेन सर्व-मार-मार-कायिक-देवता-निर्जेतु-कामेन सर्व-आवरणी यानि शोधयितु-कामेन सर्व-धर्म-अन्-आवरणतां प्रतिलब्धु-कामेन प्रज्ञा-पारमितायां शिक्षितव्यं । पुनर् अ-परं शारिपुत्र बोधि-सत्वेन महा-सत्वेन ये दशसु दिक्षु बुद्धा भगवन्तस् तिष्ठन्ति ते मे वर्णं भाषेरन्न् इति प्रज्ञा-पारमितायां शिक्षितव्यं । पुनर् अ-परं शारिपुत्र बोधि-सत्वेन महा-सत्वेन + एक-चित्त-उत्पादेन पूर्वस्यां दिशि गङ्गा-नदी-वालुका-उपमान् लोक-धातून् समतिक्रमितु-कामेन । पे । एवं सर्व-दिक्षु प्रज्ञा-पारमितायां शिक्षितव्यम् इत्य् आद्य् इति [दोउब्त्fउल्] विस्तरः ॥
तत्र यथा निर्-आत्मानश् च सर्व-धर्माः । कर्म-फल-संबन्ध-अ-विरोधश् च निः-स्व-भावता च यथा-दृष्ट-सर्व-धर्म-अ-विरोधश् च । तथा पितृ-पुत्र-समागमे दर्शितम् । षड्-धातुर् अयं महा-राज पुरुषः षट्-स्पर्श-आयतनः । अष्टादश-मन-उपविचारः । षड्-धातुर् अयं महा-राज पुरुष इति । न खलु पुनर् एतद् युक्तं । किं वा + एतद् प्रतीत्य + उक्तं षड् इमे महा-राज धातवः । कतमे षट् । तद् यथा पृथिवी-धातुर् अब्-धातुस् तेजो-धातुर् वायु-धातुर् आकाश-धातुर् विज्ञान-धातुश् च । इमे महा-राज षड् धातवः ॥
यावत् षड् इमानि महा-राज स्पर्श-आयतनानि । कतमानि षट् । चक्षुः स्पर्श-आयतनं रूपाणां दर्शनाय । श्रोत्रं स्पर्श-आयतनं शब्दानां श्रवणाय । घ्राणं स्पर्श-आयतनं गन्ध-आराम-आघ्राणाय । जिह्वा स्पर्श-आयतनं रसानाम् आस्वादनाय । काय-स्पर्श-आयतनं स्प्रष्टव्यानां स्पर्शनाय । मनः-स्पर्श-आयतनं धर्माणां विज्ञानाय । इमानि च महा-राज षट् स्पर्श-आयतनानि ॥ पे ॥
अष्टादश + इमे महा-राज मन-उपविचाराः । कतमे * अष्टादश । इह पुरुषश् चक्षुषा रूपाणि दृष्ट्वा । सौमनस्य-दौर्मनस्य-उपेक्षा-स्थानीयान्य् उपविचरति । एवं श्रोत्र-आदिषु वाच्यं । तेन प्रत्य्-एकम् इन्द्रिय-षट्केन सौमनस्य-आदि-त्रयाणां भेदाद् अष्टादश मन-उपविचारा भवन्ति । पे । कतमश् च महा-राज + आध्यात्मिकः पृथिवी-धातुः । यत् किञ्-चिद् अस्मिन् काये * अध्यात्मं कक्खटत्वं खर-गतम् उपात्तं । तत् पुनः कतमत् । तद् यथा । केशा रोमाणि नखा दन्ता इत्य् आदि । अयम् उच्यते + आध्यात्मिकः पृथिवी-धातुः ॥

कतमश् च महा-राज बाह्यः पृथिवी-धातुः । यत् किञ्-चिद् बाह्यं कक्खट्वं खर-गतम् अनुपात्तम् अयम् उच्यते बाह्यः पृथिवी-धातुः । तत्र महा-राज + आध्यात्मिकः पृथिवी-धातुर् उत्पद्यमानो न कुतश्-चिद् आगच्छति निरुध्यमानो न क्व-चित् संनिचयं गच्छति । भवति महा-राज स समयो यत् स्त्री अध्यात्मम् अहं स्त्री + इति कल्पयति । सा + अध्यात्मम् अहं स्त्री + इति कल्पयित्वा बहिर्-धा पुरुषं पुरुष इति कल्पयति । सा बहिर्-धा पुरुषं पुरुष इति कल्पयित्वा संरक्ता सती बहिर्-धा पुरुषेण सार्धं संयोगम् आकाङ्क्षते । पुरुषो * अध्यात्मं पुरुषो * अस्मि + इति कल्पयति + इति पूर्व-वत् । तयोः संयोग-आकाङ्क्षया संयोगो भवति । संयोग-प्रत्ययात् कललं जायते । तत्र महा-राज यश् च संकल्पो यश् च संकल्पयिता । उभयम् एतन् न संविद्यते । स्त्रियां स्त्री न संविद्यते । पुरुषे पुरुषो न संविद्यते । इति ह्य् अ-सन्न् अ-सद्-भूतः संकल्पो जातः । सो * अपि संकल्पा-स्व-भावेन न संविद्यते । यथा संकल्पस् तथा संयोगो * अपि कललम् अपि स्व-भावेन न संविद्यते । यश् च स्व-भावतो न संविद्यते तत् कथं कक्खटत्वं जनयिष्यति । इति हि महा-राज संकल्पं ज्ञात्वा कक्खटत्वं वेदितव्यं यथा कक्खटत्वम् उत्पद्यमानं न कुतश्-चिद् आगच्छति । निरुध्यमानं न क्व-चित् संनिचयं गच्छति + इति । भवति महा-राज समयो यद् अयं कायः श्मशान-पर्यवसानो भवति । तस्य तत् कक्खटत्वं संक्लिद्यमानं निरुध्यमानं न पूर्वां दिशं गच्छति । न दक्षिणां । न पश्चिमां । न + उत्तरां । न + ऊर्ध्वं । न + अधो । न तु वि-दिशं गच्छति । एवं महा-राज + आध्यात्मिकः पृथिवी-धातुर् द्रष्टव्यः । भवति महा-राज स समयो यदा + आकाशी-भूते लोक-संनिवेशे ब्राह्मं विमानं संतिष्ठते महा-रत्न-मयं । तन् महा-राज कक्खटत्वम् उत्पद्यमानं न कुतश्-चिद् आगच्छति । चक्र-वाड-महा-चक्र-वाडाः संतिष्ठन्ते दृढाः सारा एक-घना वज्र-मयास् तेषाम् अपि कक्खटत्वम् उत्पद्यमानं न कुतश्-चिद् आगच्छति । सुमेरवः पर्वत-राजानो युगं-धरा निमिं-धरा ईशा-धरा यावत् काल-पर्वताः संतिष्ठन्ते । सर्वश् च त्रि-साहस्र-महा-साहस्रो लोक-धातुः संतिष्ठते । चतुर्-अशीतिर् योजन-सहस्राण्य् उद्वेधेन । मध्ये च + अष्टषष्टिं योजन-शत-सहस्रं महा-पृथिवी संतिष्ठते । तद् अपि महा-राज कक्खटत्वं समुदागच्छत् कुतश्-चिद् आगच्छति । भवति महा-राज स समयो यदा + अयं लोकः संवर्तते । तदा + इयं महा-पृथिवी अग्निना वा दह्यते * अद्भिर् वा क्लिद्यते वायुना वा विकीर्यते । तस्या अग्निना दह्यमानाया मषिर् अपि न प्रजायते तद् यथा + अपि नाम सर्पिषो वा तैलस्य वा + अग्निना दह्यमानस्य न मषिर् न छायिका प्रज्ञायते एवम् एव + अस्यास् त्रि-साहस्र-महा-साहस्राया लोक-धातोर् अग्निना दह्यमानाया न + एव मषिर् न छायिका + अवशिष्टा प्रज्ञायते । एवम् अद्भिर् लवण-विलय-वद् वायुना वैरम्भ-वात-अभिहत-शकुन्त-वत् पृथिव्यां न किञ्-चिद् अवशिष्टं प्रज्ञायतए इति पठ्यते । तत्र महा-राज पृथिवी-धातोर् उत्पादो * अपि शून्यः व्ययो * अपि शून्य उत्पन्नो * अपि पृथिवी-धातुः स्व-भाव-शून्य । इति हि महा-राज पृथिवी-धातुः पृथिवी-धातुत्वेन न + उपलभ्यते * अन्यत्र व्यवहारात् । सो * अपि व्यवहारो न स्त्री न पुरुषः । एवम् एव + एतन् महा-राज यथा-भूतं सम्यक्-प्रज्ञया द्रष्टव्यं । तत्र कतमो * अब्-धातुः । यद् इदम् अस्मिन् काये * अध्यात्मं प्रत्य्-आत्मम् आपः । अब्-गतं । अप्त्वं स्नेहः । स्नेह-गतं स्नेहत्वं द्रवत्वम् उपगतम् उपात्तं ॥
तत् पुनः कतमत् । तद् यथा । अश्रु स्वेदः खेटः सिङ्घाणकं वशा लसिका मज्जा मेदः पित्तं श्लेष्मा पूयः शोणितं क्षीरं प्रस्राव इत्य् आदिर् अयम् उच्यन्ते आध्यात्मिको * अब्-धातुः । पे ॥
भवति महा-राज स समयो यत् प्रियं दृष्ट्वा + अश्रु प्रवर्तते । दुष्खेन च + अभ्याहतस्य धर्म-संवेगेन वा + अश्रु प्रवर्तते । वातेन वा + अक्षि प्रस्यन्दते । यावत् स महा-राज + अब्-धातुर् न कुतश्-चिद् आगच्छति । भवति महा-राज स समयो यदा + आध्यात्मिको * अब्-धातुः परिशुष्यति । स परिशुष्यन् निरुध्यमानो न क्व-चिद् गच्छति । पे । विवर्तमाने खलु पुनर् लोके समन्ताद् द्वात्रिंशत् पटला अभ्र-घनाः संतिष्ठन्ते संस्थाय सर्वावन्तः । त्रि-साहस्र-महा-साहस्रं लोक-धातुं छादयन्ति । यतः पञ्च-अन्तर-कल्पान् ईषाधारो देवो वर्षति । एवं पञ्च गज-प्रमेहो देवो वर्षति । पञ्च-आच्छिन्न-धारः ।पञ्च स्थूल-बिन्दुकः । तत इयं महा-पृथिवी यावद् ब्रह्म-लोकाद् उदकेन स्फुटा भवति । स महा-राज तावन् महान् अब्-धातुर् उत्पद्यमानो न कुतश्-चिद् आगच्छति । भवति महा-राज स समयो यद् अयं लोकः संवर्तते । संवर्तमाने खलु पुनर् लोके द्वितीयस्य सूर्यस्य प्रादुर्-भावो भवति । द्वितीयस्य सूर्यस लोके प्रादुर्-भावाद् उत्साः सरांसि कुनद्यश् च शुष्यन्ति । एवं तृतीयस्य महा-उत्सा महा-नद्यः । चतुर्थस्य + अन्-अवतप्तं महा-सरः सर्वेण सर्वम् उच्छुष्यति । चतुर्थस्य सूर्यस्य प्रादुर्-भावान् महा-समुद्रस्य योजनिकम् अप्य् उदकं परिक्षयं पर्यादानं गच्छति । द्वि-योजनिकम् अपि त्रि-चतुः-पञ्च-दश-विंशति-त्रिंशच्-चत्वारिंशत्-पञ्चाशद्-योजनिकम् अपि यावच् चत्वारिंशद्-योजन-सहस्रम् उदकम् अवशिष्टं भवति । यावद् द्वि-ताल-मात्रं ।यावत् कण्ठ-मात्रं । यावद् गोष्पद-मात्रम् उदकम् अवशिष्टं भवति । भवति महा-राज स समयो यन् महा-समुद्रे पृथित-पृथितान्य् अवशिष्टानि भवन्ति । पे ॥
भवति महा-राज स समयो यन् महा-समुद्रे * अङ्गुलि-स्नेह-मात्रम् अप्य् उदकं न + अवशिष्टं भवति । स महा-राज तावान् अब्-धातुर् निरुध्यमानो न क्व-चिद् गच्छति । पे । तस्य खलु पुनर् महा-राज + अब्-धातोर् उत्पादो * अपि शून्यः । व्ययो * अपि शून्यः तिष्ठन्न् अपि सो * अब्-धातुः स्व-भाव-शून्य इति हि महा-राज + अब्-धातुर् अब्-धातुत्वेन + उपलभ्यते * अन्यत्र व्यवहार-मात्रात् । सो * अपि व्यवहारो न स्त्री न पुरुषः पूर्व-वत् ॥
आध्यात्मिकस् तेजो-धातुः कतमः ॥
यत् किञ्-चिद् अस्मिन् काये तेजस् तेजो-गतम् ऊष्म-गतम् उपगतम् उपात्तं । तत् पुनः कतमत् । येन + अयं काय आतप्यते संतप्यते । येन वा + अस्य + असित-पीत-खादितानि सम्यक्-सुखेन परिपाकं गच्छति । यस्य च + उत्सदत्वाज् ज्वरितो ज्वरित इति संख्यां गच्छति ॥ पे ॥

बाह्यस् तेजो-धातुः कतमः । यद् बाह्यं तेजस् तेजो-गतम् ऊष्म-गतम् उपगतम् उपात्तं । तत् पुनः कतमत् । यन् मनुष्या अरणी-सहगतेभ्यो गर्भल-सहगतेभ्यो वा गो-मय-चूर्णेन वा कार्पास-पिचुना + आवासम् अन्वेषन्ते यद् उत्पन्नं ग्रामम् अपि दहति ग्राम-प्रदेशम् अपि दहति यावद् द्वीपं वा कक्षं तृणानां वा दावं वा काष्ठं वा यावद् दहन् परैति + इत्य् आदि ।तत्र महा-राज + आध्यात्मिकस् तेजो-धातुर् उत्पद्यते न कुतश्-चिद् आगच्छति निरुध्यमानो न क्व-चित् संनिचयं गच्छति । इति ह्य् अ-भूत्वा भवति भूत्वा च प्रतिविगच्छति स्व-भाव-रहितत्वात् ॥
एवं यत् किञ्-चिद् अस्मिन् काये वायुर् वायु-गतं लघुत्वं समुदीरणत्वं । तत् पुनः कतमत् । तद् यथा ऊर्ध्व-गमा वायवो * अधो-गमाः पार्श्व-आश्रयाः पृष्ठ-आश्रयाः कुक्षि-गमाः शस्त्रकाः क्षुरकाः सूचकाः पिप्पलका वात-अष्ठीला वात-गुल्मा आश्वास-प्रश्वासा अङ्ग-अनुसारिणो वायव इत्य् आदि । सन्ति बहिर्-धा पूर्वे वायवो दक्षिणाः पश्चिमा उत्तरा वायवः स-रजसः अ-रजसः परीत्ता महद्-गता वायव इति । भवति महा-राज स समयो यन् महा-वायु-स्कन्धः समुदागतः । वृक्ष-अग्रान् अपि पातयति । कुड्यान् अपि पर्वत-अग्रान् अपि पातयति । पातयित्वा निर्-उपादानो विगच्छति । यं सत्वाश् चीवर-कर्णिकेन वा विधमनकेन वात-अनुवृत्तेन वा पर्येष्यन्ते । यावद् अयम् उच्यते बाह्यो वायु-धातुः । तस्य + अप्य् उत्पत्तिः पूर्व-वत् ॥
आध्यात्मिक आकाश-धातुः कतमः । यत् किञ्-चिद् अस्मिन् काये * अध्यात्मं प्रत्य्-आत्मम् उपगतम् उपात्तम् आकाश-गतम् इह + अभ्यन्तर-संख्या-भूतं । अ-स्फुटम् अ-स्फरणीयं त्वङ्-मान्स-शोणितेन । तत् पुनः कतमत् । यद् अस्मिन् काये चक्षुः सुषिरम् इति वा यावन् मुखं वा मुख-द्वारं वा कण्ठं वा कण्ठ-नाड्या वा येन च + अभ्यवहरति यत्र च + अवतिष्ठते । येन च + अस्य + अशित-पीत-खादित-आस्वादितम् अधस्तात् प्रघरति । अयम् उच्यतए आध्यात्मिक आकाश-धातुः । एवं बाह्ये * अपि यद् अ-स्फुटम् अ-स्फरणीयं रूप-गतेन + अ-पलिगुद्धं सुषिर-भावश् छिद्रं । अयम् उच्यते बाह्यः आकाश-धातुः ॥
भवति महा-राज स समयो यत् कर्म-प्रत्ययाद् आयतनानि प्रादुर्-भवन्ति तान्य् आकाश-धातुं परिचारयन्ति । तत्र संख्या भवत्य् आध्यात्मिक आकाश-धातुर् इति । स न कुतश्-चिद् आगच्छति । भवति समयो यद् रूपं बिभर्ति सर्वम् आकाशी-भवति । तत् कस्य हेतोः । अ-क्षयो ह्य् आकाश-धातुः स्थिरो * अ-चलः । तद् यथा महा-राज + अ-संस्कृतो निर्वाण-धातुः । एवम् एव + आकाश-धातुः सर्वत्र + अनुगतो द्रष्टव्यः । तद् यथा + अपि नाम महा-राज पुरुष उत्थले देशे उद-पानं वा कुटकं वा कूपं वा पुष्करिणीं वा खानयेत् । तत् किं मन्यसे महा-राज यत् तत्र + आकाशः कुतस् तद् आगतम् इति । आह । न कुतश्-चिद् भगवन् । भगवान् आह । तद् यथा + अपि नाम महा-राज स पुरुषः पुनर् एव तद् उद-पानं वा यावत् पुष्करिणीं वा पूरयेत् । तत् किं मन्यसे महा-राज यत् तद् आकाशं क्व-चिद् गतम् इति । आह । न क्व-चिद् गतं भगवन् । तत् कस्य हेतोः । न ह्य् आकाश-धातुर् गमने वा आगमने वा प्रत्युपस्थितः । न स्त्री-भावेन न पुरुष-भावेन प्रत्युपस्थितः । भगवान् आह । इति हि महा-राज बाह्य-आकाश-धातुर् अ-चलः ।अ-विकारः ।तत् कस्य हेतोः । शून्यो ह्य् आकाश-धातुर् आकाश-धातुत्वेन । विरहित आकाश-धातुर् आकाश-धातुत्वेन । न पुरुष-भावेन न स्त्री-भावेन प्रत्युपस्थितः । एवम् एव यथा-भूतं सम्यक्-प्रज्ञया द्रष्टव्यं ॥
तत्र कतमो विज्ञान-धातुर् या चक्षुर्-इन्द्रिय-अधिपतेया । रूप-आरम्बण-प्रतिविज्ञप्तिः । यावद् इति हि महा-राज या का-चिद् वर्ण-संस्थान-प्रतिविज्ञप्तिर् अयम् उच्यते चक्षुर्-विज्ञान-धातुः । पे । इति हि या षड्-इन्द्रिय-अधिपतेया षड्-विषय-आरम्बणा विषय-विज्ञप्तिर् अयम् उच्यते विज्ञान-धातुः । स खलु पुनर् अयं महा-राज विज्ञान-धातुर् न + इन्द्रिय-निश्रितो न विषयेभ्य आगतो न मध्ये * अन्तर-स्थायी स न + अध्यात्म बहिर्-धा न + उभयम् अन्तरेण । स खलु पुनर् अयं महा-राज विज्ञान-धातुर् वस्तु प्रतिविज्ञप्य निरुद्धः । स उत्पद्यमानो न कुतश्-चिद् आगच्छति निरुध्यमानो न क्व-चिद् गच्छति । तस्य खलु पुनर् विज्ञान-धातोर् उत्पादो * अपि शून्यः । व्ययो * अपि शून्यः । उत्पन्नो * अपि विज्ञान-धातुः स्व-भाव-शून्यः । इति महा-राज विज्ञान-धातुर् विज्ञान-धातुत्वेन शून्यो न + उपलभ्यते * अन्यत्र व्यवहारात् । सो * अपि व्यवहारो न स्त्री न पुरुषः । एवम् एतद् यथा-भूतं सम्यक्-प्रज्ञया द्रष्टव्यं ॥
तत्र महा-राज कतमच् चक्षुर्-आयतनं । यच् चतुर्णां महा-भूतानां प्रसादः । तद् यथा पृथिवी-धातोर् अब्-धातोस् तेजो-धातोर् वायु-धातोर् यावत् । तत्र पृथिवी-धातु-प्रसादश् चक्षुर्-आयतनं न + अब्-धातु-प्रसादो न तेजो-धातु-प्रसादो न वायु-धातु-प्रसादश् चक्षुर्-आयतनं । तत् कस्य हेतोः । न हि पृथिवी-धातु-प्रसादः कस्य-चिद् धर्म-आयतनं वा आयतन-प्रतिलम्भेन वा प्रत्युपस्थितः । एवं यावन् न वायु-धातु-प्रसादः कस्य-चिद् धर्मस्य + आयतनं वा आयतन-प्रतिलम्भेन वा प्रत्युपस्थितः । तत् कस्य हेतोः । निश्-चेष्टा ह्य् एते धर्मा निष्ठापारा निर्वाण-समा । इति हि महा-राज एक-एकतो धर्मान् मृग्यमाणान् चक्षुर्-आयतनं न + उपलभते * अन्यत्र व्यवहारात् । तत् कस्य हेतोः । शून्यो हि पृथिवी-धातु-प्रसादः पृथिवी-धातु-प्रसादेन । यावच् * छून्यो वायु-धातु-प्रसादो वायु-धातु-प्रसादेन । ये च धर्माः स्व-भावेन शून्याः कस् तेषां प्रसादो वा क्षोभो वा । येषां न प्रसादो न क्षोभ उपलभ्यते । कथं ते रूपं द्रक्ष्यन्ति । इति ह्य् अत्यन्ततया चक्षुर्-आयतनं शून्यं चक्षुर्-आयतन-स्व-भावेन तत् पूर्व-अन्ततो न + उपलभ्यते ॥

अ-पर-अन्ततो * अपि न + उपलभ्यते । अन्-आगमनतां गमनतां च + उपादाय स्थानम् अप्य् अस्य न + उपलभ्यते स्व-भाव-विरहितत्वात् । यच् च स्व-भावेन न संविद्यते । न तत् स्त्री न पुरुषः । तेन का मन्यना । मन्यना च नाम महा-राज मार-गो-चरः । अ-मन्यना बुद्ध-गो-चरः । तत् कस्य हेतोः । मन्यना + अपगता हि सर्व-धर्माः । पे । तत्र महा-राज कतमच् * छ्रोत्र-आयतनं । यच् चतुर्णां महा-भूतानां प्रसादो । यावद् इति हि महा-राज सर्व-धर्मा विमोक्ष-अभिमुखा धर्म-धातु-नियता आकाश-धातु-पर्यवसाना अ-प्राप्तिका अ-व्यवहारा अन्-अभिलाप्या अन्-अभिलपनीयाः । यत्र महा-राज इन्द्रियाणि प्रतिहन्यन्ते ते विषया इत्य् उच्यन्ते । चक्षुर् हि रूपे प्रतिहन्यते तस्माद् रूपाणि चक्षुर्-विषया इत्य् उच्यन्ते । एवं श्रोत्रं शब्देष्व् इत्य् आदि । तत्र चक्षू रूपे प्रतिहन्यत इति निपातः । प्रतिहन्यना तेषां निर्दिष्टा । तथा हि चक्षू रूपेषु त्रि-विधं निपतति + इति । अनु-कूलेषु शुभ-संज्ञया । प्रति-कूलेषु प्रतिघ-संज्ञया । न + एव + अनु-कूलेषु न प्रति-कूलेषु + उपेक्षया । एवं मनो धर्मेष्व् इत्य् आदि । तए इमे विषया मनो-गो-चरा इत्य् उच्यन्ते । अत्र हि मनश् चरति । उपविचरति । तस्मान् मनो-गो-चरा इत्य् उच्यन्ते । यद् एतन् महा-राज मनो * अ-प्रति-कूलेषु रूपेष्व् अनुनीतं चरति । तेन + अस्य राग उत्पद्यते । प्रति-कूलेषु रूपेषु प्रतिहतं चरति तेन + अस्य द्वेष उत्पद्यते । न + एव + अनु-कूलेषु न प्रति-कूलेषु संमूढं चरति । तेन + अस्य मोह उत्पद्यते । एवं शब्द-आदिष्व् अपि त्रि-विधम् आरम्बणम् अनुभवति पूर्व-वत् ॥
तत्र महा-राज माया-उपमानि + इन्द्रियाणि । स्वप्न-उपमा विषयाः । तद् यथा + अपि नाम महा-राज पुरुषः सुप्तः स्वप्न-अन्तरे जन-पद-कल्याण्या स्त्रिया सार्धं परिचरेत् । स शयित-विबुद्धो जन-पद-कल्याणीं स्त्रियम् अनुस्मरेत् । तत् किं मन्यसे महा-राज संविद्यते स्वप्न-अन्तरे जन-पद-कल्याणी स्त्री । आह । न + उ हि + इदं भगवन् । भगवान् आह । तत् किं मन्यसे महा-राज + अपि नु स पुरुषः पण्डित-जातीयो भवेत् । यः स्वप्न-अन्तरे जन-पद-कल्याणीं स्त्रियम् अनुस्मरेत् । तया वा सार्धं क्रीडितम् अभिनिवेशेत् । आह । न + उ हि + इदं भगवन् । तत् कस्य हेतोः । अत्य्-अन्ततया हि भगवन् स्वप्न-अन्तरे जन-पद-कल्याणी न संविद्यते न + उपलभ्यते । कुतः पुनर् अनया सार्धं परिचरणा । अन्यत्र यावद् एव स पुरुषो विघातस्य क्लमथस्य भागी स्यात् । यस् ताम् अभिनिविशेत् ॥
भगवान् आह । एवम् एव महा-राज बालो * अ-श्रुतवान् पृथग्-जनश् चक्षुषा रूपाणि दृष्ट्वा सौमनस्य-स्थानीयान्य् अभिनिविशेत् । सो * अभिनिविष्टः सन्न् अनुनीयते * अनुनीतः संरज्यते । संरक्तो राग-जं कर्म + अभिसंस्करोति । त्रि-विधं कायेन चतुर्-विधं वाचा त्रि-विधं मनसा । तच् च कर्म + अभिसंस्कृतम् आदित एव क्षीणं निरुद्धं विगतं विपरिणतं न पूर्वां दिशं निश्रित्य तिष्ठति । न दक्षिणां न पश्चिमां न + उत्तरां न + ऊर्ध्वं न + अधो न + अनुविदिशं । न + इह न तिर्यक् । न उभयम् अन्तरा । तत् पुनः काल-अन्तरेण मरण-काल-समये प्रत्युपस्थिते । जीवित-इन्द्रिय-निरोधे आयुषः परिक्षयात् तत्-स-भागस्य कर्मणः क्षीणत्वाच् चरम-विज्ञानस्य निरुध्यमानस्य मनस आरम्बणी-भवति । तद् यथा + अपि नाम शयित-विबुद्धस्य जन-पद-कल्याणी + इति मनस आरम्बणं भवति । इति हि महा-राज चरम-विज्ञानेन + अधिपतिना तेन च कर्मणा आरम्बणेन + औपपत्त्य्-अंशिक-द्वय-प्रत्ययं प्रथम-विज्ञानम् उत्पद्यते । यदि वा नरकेषु यदि वा तिर्यग्-योनौ यदि वा यम-लोके यदि वा आसुरे काये यदि वा मनुष्येषु यदि वा देवेषु । तस्य च प्रथम-विज्ञानस्य औपपत्त्य्-अंशिकस्य समनन्तर-निरुद्धस्य + अन्-अन्तर-स-भागा चित्त-संततिः प्रवर्तते । यत्र विपाकस्य प्रतिसंवेदना प्रज्ञायते । तत्र यश् चरम-विज्ञानस्य निरोधस् तत्र च्युतिर् इति संख्यां गच्छति । यः प्रथम-विज्ञानस्य प्रादुर्-भावस् तत्र + उपपत्तिः । इति हि महा-राज न कश्-चिद् धर्मो * अस्माल् लोकात् परं लोकं गच्छति । च्युत्य्-उपपत्ती च प्रजायेते । तत्र महा-राज चरम-विज्ञानम् उत्पद्यमानं न कुतश्-चिद् आगच्छति ॥

निरुध्यमानं न क्व-चिद् गच्छति । कर्म + अप्य् उत्पद्यमानं न कुतश्-चिद् आगच्छति । निरुध्यमानं न क्व-चिद् गच्छति । प्रथम-विज्ञानम् अप्य् उत्पद्यमानं न कुतश्-चिद् आगच्छति । निरुध्यमानं च न क्व-चिद् गच्छति । तत् कस्य हेतोः । स्व-भाव-विरहितत्वात् । चरम-विज्ञानं चरम-विज्ञानेन शून्यं । कर्म कर्मणा शून्यं । प्रथम-विज्ञानं प्रथम-विज्ञानेन शून्यं । च्युतिश् च्युत्या शून्या । उपपत्तिर् उपपत्त्या शून्या । कर्मणां च + अ-बन्ध्यता प्रजायते विपाकस्य च प्रतिसंवेदना न च + अत्र कश्-चित् कर्ता न भोक्ता + अन्यत्र नाम-संकेतात् । तद् यथा + अपि नाम महा-राज पुरुषः सुप्तः स्वप्न-अन्तरे शत्रुणा सार्धं संग्रामयेत् । स शयित-विबुद्धः । तम् एव + अनुस्मरेत् । तत् किं मन्यसे महा-राज संविद्यते स्वप्न-अन्तरे शत्रुः । शत्रुणा वा सार्धं संग्राम इति । आह । न + उ हि + इदं भगवन् । भगवान् आह । तत् किं मन्यसे महा-राज + अपि नु स पुरुषः पण्डित-जातीयो भवेत् । यो * असौ स्वप्न-अन्तरे शत्रुम् अभिनिविशेत् । शत्रुणा वा सार्धं संग्रामं । आह । न + उ हि + इदं भगवन् । तत् कस्य हेतोः । अत्य्-अन्ततया हि भगवन् स्वप्ने शत्रुर् न संविद्यते कुतः पुनस् तेन सार्धं संग्रामः । अन्यत्र यावद् एव स पुरुषो विघातस्य क्लमथस्य च भागी स्यात् यस् तम् अभिनिविशेत् । भगवान् आह । एवम् एव महा-राज बालो * अ-श्रुतवान् पृथग्-जनश् चक्षुषा रूपाणि दृष्ट्वा दौर्मनस्या-स्थानीयान्य् अभिनिविशते * अभिनिविष्टः सन् प्रतिहन्यते । प्रतिहतः संतुष्यति । दुष्टो दोष-जं कर्म + अभिसंस्करोति + इति पूर्व-वत् । तद् यथा + अपि नाम महा-राज पुरुषह् सुप्तः स्वप्न-अन्तरे पिशाचेन परिपात्यमानो भीतः संओहम् आपद्यते । स शयित-विबुद्धस् तं पिशाचं तं च संमोहम् अनुस्मरेत् । तत् किं मन्यसे महा-राज संविद्यन्ते स्वप्ने पिशाचः संमोहो वा । यावद् एवम् एव महा-राज बालो * अ-श्रुतवान् पृथग्-जनश् चक्षुषा रूपाणि दृष्ट्वा उपेक्षा-स्थानीयान्य् अभिनिविशते * अभिनिविष्टः सन् मुह्यति मूढो मोह-जं कर्म + अभिसंस्करोति + इति पूर्व-वत् । तद् यथा + अपि नाम महा-राज पुरुषः सुप्तः स्वप्न-अन्तरे जन-पद-कल्याण्या गायन्त्या मधुरं गीत-स्वरं मधुरं च तन्त्री-स्वरं च शृणुयात् । सा तेन गीत-वादितेन परिचारयेत् । स शयित-विबुद्धस् तद् एव गीत-वादितम् अनुस्मरेत् । तत् किं मन्यसे महा-राज + अपि नु स पुरुषः पण्डित-जातीयः स्वप्न-अन्तरे जन-पद-कल्याण्या गीत-वादितम् अभिनिविशेत् । आह । न + उ हि + इदं भगवन् । भगवान् आह । तत् कस्य हेतोः । अत्य्-अन्ततया हि भगवन् स्वप्न-अन्तरे जन-पद-कल्याणी स्त्री न संविद्यते न + उपलभ्यते । कुतः पुनर् अस्या गीत-वादितं । अन्यत्र यावद् एव स पुरुषो विघातस्य क्लमथस्य च भागी स्यात् । यस् तद् अभिनिविशेत् । भगवान् आह । एवम् एव महा-राज बालो * अ-श्रुतवान् पृथग्-जनः श्रोत्रेण शब्दान् श्रुत्वा सौमनस्य-स्थानीयान्य् अभिनिविशते । इति पूर्व-वत् । एवं गन्ध-आदिषु त्रि-धा त्रि-धा वेदितव्यम् ॥ पे ॥
अत्र महा-राज मानसं निवेशयितव्यं । किम् इत्य् अहं स-देवकस्य लोकस्य चक्षुर् भवेयं । उल्का प्रदीप आलोक-भूतः । कूलं नौस् तीर्थं । नायकः परिणायकः दैशिकः स-अर्थ-वाहः । पुरो जवेयं । मुक्तो मोचयेयम् आश्वस्त आश्वासयेयं परिनिर्वृत्तः परिनिर्वापयेयम् इति । पूर्वा हि कोटिर् महा-राज न प्रज्ञायते ऐश्वर्य-आधिपत्यानाम् अनुभूय मानानां । इति हि महा-राज माया-उपमानि + इन्द्रियाण्य् अ-तृप्तान्य् अ-तर्षणीयानि । स्वप्न-उपमा विषया अ-तर्षका अ-तृप्ति-कराः ॥
अत्र + अन्-अन्त-यशश्-चक्रवर्तिनः कथा स्वर्गाच् च पतिते तस्मिन् स-राजकैः पौरैः परिवृत एवं पठ्यते । तद् यथा + अपि नाम महा-राज सर्पिर्-मण्डो वा नव-नीत-मण्डो वा तप्तायां वालुकायाम् उपनिक्षिप्तो * अवसीदति । न संतिष्ठते । एवम् एव महा-राज + अन्-अन्त-यशा अवसीदति न संतिष्ठते । अथ राजा प्रियंकरो राजानम् अन्-अन्त-यशसं तथा + अवसीदन्तं । उपसंक्रम्य + एतद् अवोचत् । किं वयं महा-राज लोकस्य व्याकुर्यामः । किं राज्ञो * अन्-अन्त-यशसः सु-भाषितम् इति । स आह । वक्तव्यं । महा-राज-अन्-अन्त-यशाश् चतुर्-द्वीपेषु राज्य-ऐश्वर्यं कारयित्वा + अ-बन्ध्य-मनो-रथताम् अनुभूय सर्व-द्रुम-अ-काल-फलतां सर्व-उपद्रव-प्रस्रब्धि-सर्व-सत्व-अ-बन्ध्य-मनो-रथतां गन्ध-उदक-वर्षं हिरण्य-वर्षं सुवर्ण-वर्षं सर्व-उपकरण-वर्षं च + अनुभूय चतुरो महा-द्वीपान् अध्यावसित्वा शक्रस्य + अर्ध-आसनम् आक्रम्याति + इच्छया न मुक्तो * अ-तृप्त एव कामैः काल-गत इति । एवं त्वं महा-राज व्याकुर्या इत्य् एवम् उक्त्वा च राजा + अन्-अन्त-यशाः कालम् अकार्षीत् । पे ॥
तस्मात् तर्हि ते महा-राज मरीचिकायाम् उदक-स्व-भावो न + अभून् न भविष्यति न च + एतर्हि विद्यते । एवम् एव महा-राज रूप-वेदना-संज्ञा संस्कार-विज्ञनां स्व-भावो न + अभून् न भविष्यति न च + एतर्हि विद्यतए इत्य् आदि ॥
पुनर् अप्य् उक्तं । एतावच् च + एतत् ज्ञेयम् । यद् उत संवृतिः परम-अर्थश् च । तच् च भगवता शून्यतः सु-दृष्टं सु-विदितं सु-साक्षात्-कृतं । तेन स सर्व-ज्ञ इत्य् उच्यते । तत्र संवृतिर् लोक-प्रचारतस् तथा-गतेन दृष्टा । यः पुनः परम-अर्थः सो * अन्-अभिलाप्यः । अन्-आज्ञेयो * अ-विज्ञेयो * अ-देशितो * अ-प्रकाशितो यावद् अ-क्रियो यावन् न लाभो न + अ-लाभो न सुखं न दुष्खं न यशो न + अ-यशः । न रूपं न + अ-रूपम् इत्य् आदि ॥
तत्र जिनेन जगस्य कृतेन संवृति देशित लोक-हिताय । येन जगत् सु-गतस्य सकाशे संजनयीह प्रसाद-सुख-अर्थे ॥
संवृति प्रज्ञ-मयी नर-सिंहः षड्-गतयो भणि सत्व-गणानां । नरक-तिरश् च तथा + एव च प्रेतान् आसुर-काय नरांश् च मरूंश् च ॥
नीच-कुलांस् तथ उच्च-कुलांश् च आढ्य-कुलांश् च दरिद्र-कुलांश् च + इत्य् आदि ॥
पुनश् च + उक्तं । कतम एष धर्मो यो भगवता व्याकृतो * अन्-उत्तरायां सम्यक्-संबोधौ । किं रूपम् उत वेदना आहो श्वित् संज्ञा उत-आहो संस्कारा अथ विज्ञानं भगवता व्याकृतम् अन्-उत्तरायां सम्यक्-संबोधाव् इति । तेषाम् एतद् अभूत् । न रूपं यावन् न विज्ञानं भगवता व्याकृतम् अन्-उत्तरायां सम्यक्-संबोधौ । तत् कस्य हेतोः । अन्-उत्पादो हि रूपम् अन्-उत्पादो बोधिः । तत् कथम् अन्-उत्पादो * अन्-उत्पादम् अभिसंबुध्यते । एवं यावद् विज्ञानम् ॥ पे ॥
तद् एवम् अन्-उपलभ्यमानेषु सर्व-धर्मेषु कतमो * अत्र बुद्धः । कतमा बोधिः । कतमो बोधि-सत्वः । कतमद् व्याकरणम् । शून्यं हि रूपं रूपेण यावद् विज्ञानं ॥ पे ॥
यावद् एव व्यवहार-मात्रम् एतत् । नाम-धेय्-मात्रं संकेत-मात्रं संवृति-मात्रं प्रज्ञप्ति-मात्रं । न + अलम् अत्र पण्डितैर् अभिनिवेश उत्पादयितव्य इति ॥

तथा + अत्र + एव + आहुः । निर्माण-रतयो देवा यथा वयं भगवन् । भगवतो भाषितस्य + अर्थम् आजानीमः । सर्व-धर्मा भूत-कोटिर् अन्-अन्त-कोटिर् अन्-आवरण-कोटिर् अ-प्रतिष्ठित-कोटिर् इत्य् आदि ॥
सर्व-धर्मा भगवन् बोधिः । स्व-भाव-विरहिता बोद्धव्याः । अन्तश आनन्तर्याण्य् अपि बोधिः । तत् कस्य हेतोः । अ-प्रकृतिका हि भगवन् बोधिर् अ-प्रकृतिकानि च * पञ्च + आनन्तर्याणि । तेन + उच्यते आनन्तर्याणि बोधिर् इति । तथा विहस्यन्ते भगवन् ये के-चित् परिनिर्वातु-कामाः । तत् कस्य हेतोः । यदि कश्-चित् संसार-प्रतिपन्नो भवेत् । स निर्वाणं पर्येषतए इति ॥

पुनर् उक्तं । भूत-कोटिर् इति भगवन् यद् उक्तं निर्माण-रतिभिर् देवैस् तत्र वयं भूतम् अपि न + उपलभामहे । किं पुनर् अस्य कोटिम् । तत् कस्य हेतोः । यो हि कश्-चिद् भगवन् भूतम् उपलभते । कोटिम् अपि स तस्य + उपलभते द्वये च + असौ चरति + इति ॥
तथा + अत्र + एव सहांपति-ब्रह्मणा शास्ता स्तुतः ॥
सुपिति यथ नरः क्षुधा + अभिभूतः शत-रस-भोजन-भुञ्जिनो च तृप्तः । न पि च क्षुध न भोजनं न सत्वः सुपिन यथा + एव निदृष्ट सर्व-धर्माः ॥
भणि नरु पठने मनो-ज्ञ-वाचं प्रियु भवती न च संक्रमो * अस्ति वाचं । न च वचन च + अस्य रक्त वाचाम् उपलभसे न च तत्र संशयो * अस्ति ॥
श्रुणति यथ मनो-ज्ञ वीण-शब्दं मधुर न च + अस्ति स्व-भावतः स शब्दः । तथ इमि विदु स्कन्ध प्रेक्षमाणो न लभति भावु स्व-भावतः सु-मेधाः ॥ पे ॥
यथ नरु इह शङ्ख-शब्द श्रुत्वा विमृशति विद्व कुतो य प्रादु-भूतः । न च लभति स्व-भाव शून्य-भावं तथ त्व् अय दृष्ट नर-इन्द्र सर्व-धर्माः ॥
यथ नरु इह भोजनं प्रणीतं विमृशति अङ्गशु सिद्धम् अ-स्वभावम् । यथ रसु तथ ते * अङ्ग तत्-स्व-भावास् तथ त्व् अय दृष्ट मह-र्षि सर्व-धर्माः ॥
यथ नरु इह इन्द्र-यष्टि दृष्ट्वा विमृशति अङ्गशु निः-स्व-भाव शून्यम् । विमृशतु यथ यष्टि ते * अङ्ग शून्यास् तथ त्व् अय दृष्ट मह-र्षि सर्व-धर्माः ॥
पुर-वर यथ अङ्गशो विभज्य नगरु स्व-भावतु नामतो न लब्धम् । यथ नगर तथ + अङ्ग सर्व-शून्यास् तथ त्व् अय दृष्ट नर-इन्द्र सर्व-धर्माः ॥
मुदित यथ नराग मुक्त भेरी हर्ष जनेति स्व-भाव-शून्य-शब्दा । स्वरु यथ तथ ते * अङ्ग तत्-स्वभावं तथ त्व् अय दृष्ट मह-र्षि सर्व-धर्माः ॥
... ... हनतु यथ नरस्य तां हि भेरीं प्रतिघु न विद्यति न + अपि स्नेह-धातुः । विमृशतु भेरी + इव ते * अङ्ग तत्-स्व-भावास् तथ त्व् अय दृष्ट नर-इन्द्र सर्व-धर्माः ॥
हनतु यथ नरस्य तां हि भेरीं स्वरु न स मन्यति रामयामि लोकम् । स्वरु यथ तथ ते * अङ्ग तत्-स्व-भावाः तथ त्व् अय दृष्ट नर-इन्द्र सर्व-धर्माः ॥
हनतु यथ नरस्य तस्य भेर्यां न पि स्वरु अङ्गशु न + अपि स स्व-तन्त्रः । स्वरु यथ तथ ते * अङ्ग तत्-स्व-भावास् तथ त्व् अय दृष्ट मह-र्षि सर्व-धर्माः ॥
पुनश् च + उक्तं । सत्व-आरम्बण-नायकेन कथिता मैत्री शुभा-भावना । सत्वश् च + अस्य विभावितः सु-विदितं निः-सत्व सर्वं जगत् । तत्र + एवं द्वि-पद-उत्तमो * अ-कलुषो निः-संशया मानसः । तेन त्वा सु-गतं विभावित-मतिं पूजेम पूजा-अरिहम् ॥
दुष्खं चा * सु-गता [दोउब्त्fउल्] दश-द्दिशि-गतं न + एवं परीदृश्यते । सत्वेषू करुणा च नाम भणिता देव-अति-देव त्वया । एवं भो जिन-पुङ्-गवा जिन-मतं अज्ञात यथावतः । तेन त्वां द्वि-पद-उत्तमा नर-वराः पूजेम पूजा-अरिहम् ॥
सत्वान + एव न दुष्खं शाक्य-मुनिना यस्य + अपनीतं दुखं । जातास् ते मुदिताश् च हृष्ट-मनसो * अ-रतीश् च तैर् न + उदिताः ॥
एवं बुद्ध-नयं अ-चिन्तिय-नयं याथावतो जानतो । तस्मात् पूजिय त्वां नराण प्रवरं प्रायेम प्राप्तं फलं ॥
कायः काय-विवर्जितेन मुनिना न + आसादितो मार्गतां । न + एवं ते स्मृति-नायका न भणिता न + एव प्रमुष्टा स्मृतिः ॥
उक्तं च + उ सु-गतेन भाव-पथिमाः कायं गता भावनाः । एवं बुद्ध-नयं विदित्व सु-गता पूजा कृता तायिनः ॥
भावेथः शमथं विपश्यनम् अयं मार्गं दुखा शान्तये । शान्तास् ते भगवन् स-वासन-मला येही जगत् क्लिष्यते ॥
शमथश् च + अथ विपश्यना न च मला सर्वे * अति शून्या मुने । अस्मिन् देव-गणा न काङ्क्ष क्व-चना पूजेन्तु त्वां नायकं । इत्य् आदि ॥
पुनर् उक्तं । शून्यं हि चक्षुश् चक्षुः-स्व-भावेन । यस्य च धर्मस्य स्व-भावो न विद्यते सो * अ-वस्तुकः । यो * अ-वस्तुकः सो * अ-परिनिष्पन्नः यो * अ-परिनिष्पन्नः स न + उत्पद्यते न निरुध्यते । पे ॥
यत् त्रिष्व् अप्य् अध्वसु न + उपलभ्यते न तच् चक्षुर् न + इन्द्रियं कथं तस्य व्यवहारो ज्ञेयः । तद् यथा + अपि नाम रिक्त-मुष्टिर् अ-लीकः । यावद् एव नाम-मात्रं न + उ तु खलु परम-अर्थतो रिक्तम् उपलभ्यते न मुष्टिः । एवं चक्षुश् च + इन्द्रियं च रिक्ते मुष्टि-सदृशम् अ-लीकम् अ-सद्-भूतं तुच्छं मृषा-मोष-धर्मे बाल-उपलापनं मूर्ख-संमोहनम् यावद् एव नाम-मात्रम् ॥
पुनर् अत्र + एव + आह । स्वप्न-अन्तरे महा-वृष्टिर् आस्रवाणां प्रवर्तना । दर्शिता ते महा-वीर आस्रव-उत्पत्ति-पण्डिताः ॥
स्वप्ने यथा शिरश्-छेदो दृष्टस् ते आस्रव-क्षयः । दर्शितः सर्व-विज्ञानां सर्व-दर्शिन् नमो * अस्तु ते ॥
अत्र + एव च द्रुमेण किन्नर-राजेन भगवान् पृष्टः प्रत्याह । यद् वदसि शून्यतां च व्याकरणं । च + अप्य् अहं न जानामि । स्याद् यदि किं-चिद् अ-शून्यं न भवेज् जिनेन + अस्य व्याकरणम् ॥
किं-कारणं । तथा हि । स्थितं भवेत् तत् स्वके भवे । कूट-स्थ-निर्-विकारं । न तस्य वृद्धिर् न परिहाणिः । न क्रिया न च कारणं । यत् स्व-भाव-शून्यम् आदर्श-मण्डले सु-परिशुद्धे संदृश्यते प्रतिबिम्बम् । तथा + एव द्रुम जानीहि + इमान् धर्मान् । अ-वि-कारं धर्म-धातुम् इमां च पूजां द्रुम + अङ्गशो विचारयसि । अङ्गशो निरीक्ष्य पूजां । कतमे * अ-वि-कारिणो * अङ्गाः ॥
यद् अपि च निर्-ईहकत्वं क्रियां च न जानसे मया प्रोक्तं । शकट-अङ्ग संनिपातं निरीक्ष्व शकटस्य च + एव क्रियां ॥
कर्म च मे आख्यातं कर्ता न विद्यते दशसु दिक्षु । वात-ईरिताद् इव तरोर् यथा हि निवर्तते वह्निः ॥
न च मारुतो न च तरुश् चेतयति हुत-अशनं च यजने । न निवर्तते वह्निस् तथा + एव कर्मस्य कर्तारः ॥
यद् अपि वदसे न च संचय पुण्यस्य हि विद्यते । सु-चरितस्य समुदागमश् च । बोधिस् तस्य + अपि शृणु क्रमन्त त्वं । यथा भणसि मनुष्याणाम् आयुः-परिमाणं वर्ष-शतं जीविन् । न च + अस्ति वर्ष-पुञ्जी । अयम् अपि समुदागमस् तद्-वद् इति ॥
भगवत्याम् अप्य् उक्तं । किं पुनर् आयुष्मन् सुभूते उत्पन्नो धर्म उत्पद्यते उत + अन्-उत्पन्नः । सुभूतिर् आह । न + अहम् आयुष्मन् शारिपुत्र उत्पन्नस्य धर्मस्य + उत्पत्तिम् इच्छामि न च + अन्-उत्पन्नस्य + इति ॥

धर्म-संगीत्याम् अप्य् उक्तं । तथता तथता + इति कुल-पुत्र शून्यताया एतद् अधिवचनं । सा च शून्यता न + उत्पद्यते न निरुध्यते । आह । यद्य् एवं धर्माः शून्या उक्ता भगवता तस्मात् सर्व-धर्मा न + उत्पत्स्यन्ते न निरोत्स्यन्ते । निर्-आरम्भो बोधि-सत्वः । आह । एवम् एव कुल-पुत्र तथा यथा + अभिसंबुध्यसे सर्व-धर्मा न + उत्पद्यन्ते न निरुध्यन्ते । आह । यद् एतद् उक्तं भगवता । संस्कृता धर्मा उत्पद्यन्ते निरुध्यन्ते च + इत्य् अस्य तथा-गत-भाषितस्य को * अभिप्रायः । आह । उत्पाद-निरोध-अभिनिविष्टः कुल-पुत्र लोक-संनिवेशः । तत्र तथा-गतो महा-कारुणिको लोकस्य + उत्त्रास-पद-परिहार-अर्थं व्यवहार-वशाद् उक्तवान् उत्पद्यन्ते निरुध्यन्ते च + इति । न च + अत्र कस्य-चिद् धर्मस्य + उत्पादो न निरोध इति ॥
पुनर् अत्र + एव + उक्तं । तत्र भगवंश् चक्षू-रूपेषु न रणति श्रोत्रं । शब्देषु । यावन् मनो-धर्मेषु न रणति । स धर्मः । तत्र कथं चक्षू-रूपेषु न रणति । संसर्ग-अ-भावात् । न हि चक्षू-रूपेण संसृज्यते । यावन् न मनो-धर्मेण संसृज्यते । यन् न संसृज्यते तन् न रणति । अ-द्वितीयस्य भगवन् धर्मस्य रणं न + अस्ति । अ-द्वितीयाश् च भगवन् सर्व-धर्माः परस्-परं न जानन्ति न विजानन्ति । न कल्पयन्ति न विकल्पयन्ति । न संभवन्ति न विसंभवन्ति । न हीयन्ते न वर्द्धन्ते । न रज्यन्ति । न विरज्यन्ति । न संसरन्ति न परिनिर्वान्ति न + एते कस्य-चित् । न + एषां कश्-चित् । न + एते भगवन् धर्मा उद्विजन्ते न संक्लिश्यन्ते न व्यवदायन्ते । एवम् अहं भगवन् जानाम्य् एवम् अवबुध्ये । यद् अप्य् अहं । भगवन्न् एवं वदामि । एवम् अहं जानाम्य् एवम् अहं बुध्यामि + इति । आयतनानाम् एष वि-कारः । न च भगवन्न् आयतनानाम् एवं भवति । अस्माकम् एष वि-कार इति । यो ह्य् एवं जानाति स न केन-चित् सार्द्धं विवदति । यन् न विवदति तच् * छ्रमण-धर्मम् अनुसरति + इति । तथा धर्म-दर्शनं बुद्ध-दर्शनं सर्व-सत्व-दर्शनं सर्व-सत्व-हेतु-प्रत्यय-दर्शनं शून्यता-दर्शनं शून्यता-दर्शनम् अ-दर्शनं । अ-दर्शनं भगवन् सर्व-धर्माणां दर्शनं सम्यग्-दर्शनम् इति ॥
कथम् अन्-अधिष्ठाना संवृतिर् युक्ता । कथं पुनर् अ-युक्ता । यथा + अ-सति स्थाणौ पुरुष-भ्रान्तिः । कस्य पुनः शून्यता-वादिनः परम-अर्थतः स्थाणुः सिद्धो यद्-आश्रयात् पुरुष-भ्रान्तिः स्याद् । अ-मूला एव च सर्व-धर्मास् तत्वतो मूल-अन्-उपपत्तेः ॥
तथा च + उक्तम् आर्य-विमलकीर्ति-निर्देशे । अ-भूत-परिकल्पस्य किं मूलं । आह । विपर्यस्ता संज्ञा मूलं । आह । विपर्यस्तायाः संज्ञायाः किं मूलं । अ-प्रतिष्ठानं मूलं । आह । अ-प्रतिष्ठायाः किं मूलं । आह । यन् मञ्जुश्रीर् अ-प्रतिष्ठानं न तस्य किञ्-चिन् मूलम् इति ह्य् अ-प्रतिष्ठान-मूल-प्रतिष्ठिताः सर्व-धर्मा इति ॥
इयं समासतः प्रज्ञा-पारमिता चित्त-शुद्ध्य्-अर्थिना भावयितव्या । भावयित्वा च क्लेश-रिपु-रण-कुशलेन भवितव्यं । न स्व-गृह-शूरेण ॥
यथा + उक्तम् आर्य-धर्म-संगीति-सूत्रे । न शून्यता-वादी लोक-धर्मैः संह्रियते * अ-निश्रितत्वात् । न स लाभेन संहृष्याति । अ-लाभेन न वि-मना भवति । यशसा न विस्मयते * अ-यशसा न संकुचति । निन्दया न + अवलीयते । प्रशंसया न + अनुनीयते । सुखेन न रज्यते दुष्खेन न विरज्यते । यो ह्य् एवं लोक-धर्मैर् न संह्रियते स शून्यतां जानीतए इति ॥
तथा शून्यता-वादिनो न क्व-चिद् अनुरागो न वि-रागः । यस्मिन् रज्येत तच् * छून्यम् एव जानीते । शून्यम् एव पश्यति । न + असौ शून्यतां जानीते यः क्व-चिद् धर्मे रज्यते वा विरज्यते वा तथा न + असौ शून्यतां जानीते यः केन-चित् सार्द्धं वि-ग्रहं वि-वादं वा कुर्याच् * छून्यम् एव जानीते तच् * छून्यम् एव पश्यति + इत्य् आदि ॥
एतत् संक्षेपाच् चित्त-शोधनम् ॥

अथ + एवम् अपि परम-विशुद्धिर् धर्म-दर्शने सति । इह पञ्च-कषाय-संक्लिष्टस्य कल्याण-मित्र-अवसादितस्य वा संक्षेपेण तावत् कुत्र यत्नं कृत्वा शीघ्रं चित्त-शुद्धिर् भवति । आत्म-बहु-मान-पर-अवज्ञा-त्यागे * अनयोर् मूलम् आत्म-सत्व-दृष्टिः । सा च + एतद्-अभ्यासात् सु-करं प्रहीयतए इति पर-गौरवम् आत्म-अवज्ञा च + एवं भावनीया ॥
यदि सत्वो यदि स्कन्धाः क्षमता सर्वथा स्थिता । एकस्य हि पर-आत्मत्वं विरुद्धं संभवेत् कथं ॥
विना + आलम्बनम् अप्य् एतद् आचरन्त्य् एव देहिनः । अन्-आदि-कल्यान-अभ्यासात् किम् अभ्यासस्य दुष्-करम् ॥
एवम् अभ्यास-वश्यत्वे तुल्ये कस्मात् सुख-उदयम् । पर-गौरवम् उत्सृज्य स्व-सुखायान् यद् इष्यते ॥
चिन्ता-मणिर् यथा + उक्ताश् च सन्ति गौरव-हेतवः । न तु मे गौरवात् सौख्यम् इह + अपि जन-दुर्-भगात् ॥
तस्मात् सत्व-अन्तरे यद्-वद् रूक्ष-मत्सर-मानिनः । आत्म-स्नेहवतो वृत्तिर् भावयेत् तद्-विपर्ययम् ॥
आत्मनो बहु-मानो * अयं स्तुति-निन्दा-आदि-सेकतः । वर्धते नारक-वशात् सेकान् नरक-वह्नि-वत् ॥
शब्दस् तावद् अ-चित्तत्वान् मां स्तौति + इति न संभवः । परः किल मयि प्रीत इत्य् अयं मे मति-भ्रमः ॥
तत्-तुष्ट्या + एव मम प्रीतिः सामान्ये न सदा + अस्तु सा । तत्-सुखेन न चेत् कार्यं तेन तुष्टेन किं मम ॥
अन्यत्र मयि वा प्रीत्या किं हि मे परकीयया । न मे परेण तुष्टेन काये सौख्यम् इह + अण्व् अपि ॥
एवं ज्ञात्वा प्रहातव्या कल्पना निर्-विबन्धना । अ-कीर्ति-निन्दा सत्-कारा एवं ज्ञेयाश् च निष्-फलाः ॥
न धर्मो न + आयुर् आरोग्यं न बलं वन्दना-आदिभिः । यद्-वद् उत्प्रास्यमानस्य विकारैर् अन्य-कायिकैः ॥
हृष्टस्य + अथ विषण्णस्य लाभ-अ-लाभौ सम-उदयौ । विवर्ज्य निष्-फलं तस्माद् भवेयं शैल-मानसः ॥
संस्तव-त्यागाच् च शीघ्रं चित्त-विशुद्धिर् भवति । इति ॥
तत्र + अपि चिन्त्यते । निमित्त-उद्ग्रह-संभूता प्रत्य्-अभिज्ञा पुनः पुनः । उत्पादयत्य् अनु-नयं जायते प्रतिघो * अप्य् अतः ॥
प्रतिघ-अनुनयौ यस्य तस्य पापम् अ-वारितम् । अभ्याख्यानानि चित्राणि मात्सर्यं च + ईर्ष्यया सह ॥
लाभ-आदि-कामता नाम इत्य् आद्य् आवर्तते बहु । तस्मात् सर्व-प्रयत्नेन संस्तवं प्रहरेन् मुनिः ॥
सादृश्याद् अन्यद् अप्य् एतद् वारि-स्रोतो-वद् ईक्ष्यते । तद् एव + इदम् इति भ्रान्त्या तत्वे तिष्ठाम्य् अतो बलात् ॥
अ-वस्तु च + एतत् सादृश्यं दुष्खं च जनयिष्यति । अहं च + एतच् च सर्वं च न चिरान् न भविष्यति । इति ॥
आत्म-भाव-परिशुद्धिश् चतुर्दशः परिच्छेदः ॥
[xव्. भोगपुण्यशुद्धि]
भोग-पुण्य-शुद्धिः पञ्चदशः परिच्छेदः ॥
शिक्षा-समुच्चयस्य + आत्म-शुद्ध्य्-अन्-अन्तरं भोग-शुद्धिः संचय-अ-भावात् । पृथग् इह लेखिता । भोग-शुद्धिं च जानीयात् सम्यग्-आजीव-शोधनात् ॥
यथा + उक्तम् आर्य-उग्र-परिपृच्छायाम् । इह गृह-पते गृही बोधि-सत्वो धर्मेण भोगान् पर्येषते न + अ-धर्मेण । समेन न वि-षमेण । सम्यग्-आजीवो भवति न वि-षम-आजीव इति ॥
आर्य-रत्न-मेघे * अप्य् उक्तं । न बोधि-सत्वो दायकं दान-पतिं दृष्ट्वा + ईर्या-पथम् आरचयति । कथं न + ईर्या-पथम् आरचयति । न शनैर् मन्दं मन्दं क्रमान् उत्क्षिपति न निक्षिपति युग-मात्र-प्रेक्षिकया स-विश्वस्त-प्रेक्षिकया + अन्-आभोग-प्रेक्षिकया । एवं काय-कुहनां न करोति । कथं वाक्-कुहनां न करोति । न बोधि-सत्वो लाभ-हेतोर् लाभ-निदानं मन्द-भाणी मृदु-भाणी न प्रिय-भाणी भवति । न + अनुवर्तन-वचनानि निश्चारयति । पे ॥
कथं न चित्त-कुहनां कुरोति । बोधि-सत्वो दायकेन दान-पतिना वा लाभेन प्रवार्यमाणो वा च + अल्प-इच्छतां दर्शयति । चित्ते न स्पृहाम् उत्पादयति । अन्तर्-दाह एष कुल-पुत्र यद् वाच-अल्प-इच्छता चित्तेन लाभ-कामता । एवं हि कुल-पुत्र बोधि-सत्वः कुहन-लपन-लाभ-अपगतो भवति । पे । न बोधि-सत्वो दान-पतिं वा दृष्ट्वा निमित्तं करोति । विघातो मे चीवरेण । विघातो मे पात्रेण । विघातो मे ग्लान-भैषज्येन । न च तं दायकं दान-पतिं वा किं-चित् प्रार्थयते । न वाचं निश्चारयति । एवं हि बोधि-सत्वो निमित्त-लाभ-अपगतो भवति । यावन् न बोधि-सत्वो दायकं दान-पतिं दृष्ट्वा एवं वाचं निश्चारयति । अमुकेन + अमुकेन वा मे दान-पतिना + अमुकं वस्तु प्रतिपादितं तस्य च मया + अमुक उपकारः कृतः । तेन मे शीलवान् अयम् इति कृत्वा इदं च + इदं च दत्तं बहु-श्रुत इति । अल्प-इच्छ इति कृत्वा । मया च तस्य कारुण्य-चित्तम् उपस्थाप्य परिगृहीतं । पे ॥
तत्र काय-क्षतिर् यद् उत लाभ-हेतोर् लाभ-निदानम् आधावन-परिधावनं दौःशील्य-समुदाचरणं च । चित्त-क्षतिर् यद् उत प्रार्थना । लाभिनां च ब्रह्म-चारिणाम् अन्तिके व्यापाद-बहुलता । एवं हि बोधि-सत्वो विषम-पर्येष्टि-लाभ-अपगतो भवति । पे ॥
इह बोधि-सत्वो न तुला-कूटेन न मान-कूटेन न विस्रंभ-घातिकया न धूर्ततया लाभम् उपार्जयति । एवं हि बोधि-सत्वो * अ-धर्म-लाभ-अपगतो भवति । पे । ये ते लाभा स्तौपिक-संसृष्टा वा धार्मिक-संसृष्टा वा सांघिक-संसृष्टा वा + अ-दत्ता वा + अन्-अनुज्ञाता वा । तान् न प्रतीच्छति न स्वी-करोति । एवं हि बोधि-सत्वो * अ-परिशुद्ध-लाभ-अपगतो भवति । यावल् लब्धा लाभं न ममायते । न धनायते । न संनिधिं करोति । काल-अनुकालं च श्रमण-ब्राह्मणेभ्यो ददाति । माता-पितृ-मित्र-अमात्य-ज्ञाति-सालोहितेभ्यः काल-अनुकालम् आत्मना परिभुङ्क्ते परिभुञ्जानश् च + अ-रक्तः परिभुङ्क्ते । स्व्-अनध्यवसितो न च + आलभ्यमाने लाभे खेद-चित्तम् उत्पादयति । न परितप्यति न च दायक-दान-पतीनाम् अन्तिके * अ-प्रसाद-चित्तम् उत्पादयति + इत्य् आदि ॥
तत्र + एष + अप्य् अस्य बोधि-सत्वस्य भोग-शुद्धिर् आत्म-भाव-शुद्धि-वत् पर-हिताय भवेत् ॥
यथा + उक्तम् आर्य-विमलकीर्ति-निर्देशे । पुनर् अ-परं भदन्त शारिपुत्र ये प्रविशन्ति + इदं गृहं तेषां समनन्तर-प्रविष्टानां सर्व-क्लेशा न बाधन्ते * अयं द्वितीय आश्चर्य-अद्भुतो धर्मः ॥
पुनर् अत्र + एव + उक्तं । अथ ततो भोजनात् सर्वावती सा पर्षत् तृप्ता भूता । न च तत् भोजनं क्षीयते । यैश् च बोधि-सत्वैः श्रावकैश् च शक्र-ब्रह्म-लोक-पालैस् तद् अन्यैश् च सत्वैस् तद् भोजनं भुक्तं तेषां तादृशं सुखं काये * अवक्रान्तं यादृशं सर्व-सुख-मण्डितायां लोक-धातौ बोधि-सत्वानां सुखं । सर्व-रोम-कूपेभ्यश् च तेषां तादृशो गन्धः प्रवाति । तद् यथा + अपि नाम तस्याम् एव सर्व-गन्ध-सु-गन्धायां लोक-धातौ वृक्षाणां गन्धः ॥

पुनश् च + उक्तं । यैश् च भदन्त + आनन्द भिक्षुभिर् अन्-अवक्रान्त-नियामैर् एतद् भोजनं भुक्तं तेषाम् एव + अवक्रान्त-नियमानां परिणंस्यति । पे । यैर् अन्-उत्पादित-बोधि-चित्तैः सत्वैः परिभुक्तं तेषाम् उत्पादित-बोधि-चित्तानां परिणंस्यति । यैर् उत्पादित-बोधि-चित्तैर् भुक्तं तेषां न + अ-प्रतिलब्ध-क्षान्तिकानां परिणंस्यति + इति विस्तरः ॥
शून्यता-करुणा गर्भ-चेष्टितात् पुण्य-शोधनम् ॥
उक्तं ह्य् आर्य-गगन-गञ्ज-सूत्रे । यद् उत + अहं-कार-विशुद्धं तद् दानं ददाति । मम-कार-विशुद्धं तद् दानं ददाति । हेतु-विशुद्धं तद् दानं ददाति । दृष्टि-विशुद्धं तद् दानं ददाति । निमित्त-विशुद्धं तद् दानं ददाति । नानात्व-विशुद्धं तद् दानं ददाति । विपाक-प्रतिकाङ्क्षणा-विशुद्धं तद् दानं ददाति । यथा गगनं सम-विशुद्धं तद् दानं ददाति ॥
पे । यथा गगनम् अ-पर्यन्तम् एवम् अ-पर्यन्ती-कृतेन चित्तेन तद् दानं ददाति । यथा गगनं विस्तीर्णम् अन्-आवरणम् एवं बोधि-परिणामितं तद् दानं ददाति । यथा गगनम् अ-रूपि एवं सर्व-रूप-अ-निश्रितं तद् दानं ददाति । यथा गगनम् अ-वेदयितृ । एवं सर्व-वेदित-प्रतिप्रस्रब्धं दानं ददाति । एवम् अ-संज्ञि अ-संस्कृतम् अ-विज्ञप्ति-लक्षणम् एवम् अ-प्रतिज्ञानं तद् दानं ददाति । यथा गगनं सर्व-बुद्ध-क्षेत्र-स्फरणम् एवं सर्व-सत्व-मैत्री-स्फरणं तद् दानं ददाति । पे । यथा गगनं सदा-प्रकाशम् एवं चित्त-प्रकृति-विशुद्धं तद् दानं दद-ति । यथा गगनं सर्व-सत्व-अवकाशं एवं सर्व-सत्व-उपजीव्यं तद् दानं ददाति । यावद् यथा निर्मितो निर्मिताय ददाति निर्-विकल्पो * अन्-आभोगः । चित्त-मनो-विज्ञान-विगतः सर्व-धर्म-निः-प्रतिकाङ्क्षी । एवं द्वय-विगमतया माया-लक्षण-स्व-भाव-विशुद्धं बोधि-सत्वस् तद् दानं ददाति । यस्य + ईदृशो दान-परित्यागः प्रज्ञा-ज्ञानेन च सर्व-सत्व-क्लेश-परित्यागः । उपाय-ज्ञानेन च सत्व-अ-परित्यागः । एवं त्याग-चित्तः कुल-पुत्र बोधि-सत्वो गगन-सम-दानो भवति ॥
आर्य-अक्षयमति-सूत्रे * अप्य् उक्तं । न + अस्ति सत्व-उत्पीडना-दानम् । यावन् न + अस्ति यथा-उक्ते ऊन-दानं । यावन् न + अस्ति सर्व-सत्वेषु दक्षिणीया-अवमन्यना-दानं । पे । न + अस्ति निक्रन्द-दानं यावन् न + अस्ति याचनकेषु + उपतप्त-दानं न + अस्त्य् उच्चग्घन उल्लापन-दानं न + अस्ति पराङ्-मुख-दानं न + अस्त्य् अपविद्ध-दानं न + अस्त्य् अ-स्व-हस्त-दानं । पे । न + अस्त्य् अ-कल्पिक-दानं । न + अस्त्य् अ-काल-दानं न + अस्ति विष-शस्त्र-दानं न + अस्ति सत्व-विहेठना-दानम् इति ॥
यत् तर्ह्य् उग्र-परिपृच्छायाम् उक्तं । दान-पारमिता-कालो * अयं यस्य येन + अर्थस् तस्य तत्-प्रदान-कालः । अपि तु तथा + अहं करिष्यामि । मद्य-पेभ्य एव मद्य-पानं दास्यामि । तांस् तान् स्मृति-संप्रजन्ये समादापयिष्यामि + इति ॥
मद्य-पानाद् अपि नैराश्य-कृते बोधि-सत्वे प्रतिघो गरीयान् । सत्व-संग्रह-हानिश् च + अतो * अन्य-प्रसादन-उपाय-अ-संभवे मद्यं देयम् इत्य् अभिप्रायः । शस्त्र-आदिष्व् अपि यद्य् अनुबध-गुरुल-आद्य्-अवविचाराद् दानम् आपद्येत । न + एव + आपत्तिर् इत्य् अत एव गम्यते । सूत्रेषु तु सामान्येन प्रतिषेध । इत्य् उक्ता दान-विशुद्धि-दिक् ॥
शील-विशुद्धिर् आर्य-गगन-गञ्ज-सूत्रे एव + अभिहिता । अ-विरहित-बोधि-चित्तता चित्त-विशुद्ध्यै अपगत-श्रावक-प्रत्य्-एक-बुद्ध-चित्तता प्रामाणिक-विशुद्ध्यै इत्य् आदि ॥
पुनर् अ-परा शील-विशुद्धिः । शुद्धं गगनं शुद्धं तच्-छीलं ।वि-मलं गगनं वि-मलं तच्-छीलं । शान्तं गगनं शान्तं तच्-छीलं । अन्-उन्नतं गगनम् अन्-उन्नतं तच्-छीलं । अनुनीतं गगनम् अनुनीतं तच्-छीलम् । यावद् अ-छेद्य-अ-भेद्यं गगनम् अ-छेद्य-अ-भेद्यं तच्-छीलम् इत्य् आदि ॥

अ-प्रतिहतं गगनं सर्व-सत्व-अ-प्रतिघ-चित्तस्य क्षान्ति-परिशुद्धिः । सम-प्रयोगं गगनं सर्व-सत्व-सम-चित्तस्य क्षान्ति-परिशुद्धिर् इत्य् आदि ॥
तद् यथा + अपि स्यान् महा-शाल-वनं । तस्मिन् कश्-चिद् एव + आगत्य शालं छिन्द्यात् । तत्र तेषाम् अवशिष्टानां न + एवं भवति । एष छिन्नो वयम् अ-च्छिन्ना इति । न तेषाम् अनुनयो न प्रतिघः । न कल्पो न विकल्पो न परिकल्पः ॥
या + एवं क्षान्तिर् इयं बोधि-सत्वस्य परमा गगन-समा क्षान्तिर् । इति ॥
आर्य-रत्न-चूड-सूत्रे विस्तरम् उक्त्वा आह । इदम् उच्यते वीर्यं । तस्य काय-परिशुद्धिः । यत् कायस्य प्रतिभास-प्रतिबिम्ब-ज्ञानं वाचो * अन्-अभिलाप्य-ज्ञानं । चित्तस्य + अत्य्-अन्त-उपशम-ज्ञानं । तथा मैत्री-संनाह-संनद्धो महा-करुणा-अधिष्ठान-प्रतिष्ठितः । सर्व-आकार-वर-उपेतं शून्यता-आकार-अभिनिर्हृतं ध्यानं ध्यायति । तत्र कतमा सर्व-आकार-वर-उपेता शून्यता । या न दान-वि-कला । यावन् न + उपाय-वि-कला । न महा-मैत्री-मुदिता-उपेक्षा-वि-कला । न सत्य-ज्ञान-अवतार-वि-कला । न बोधि-चित्त-सत्व-अपेक्षा-वि-कला । न + आशय-अध्याशय-प्रयोग-वि-कला । न दान-प्रिय-वद्यता + अर्थ-क्रिया समान-अर्थता-वि-कला । न स्मृति-संप्रजन्य-वि-कला । न स्मृत्य्-उपस्थान-सम्यक्-प्रहाण-र्द्धि-पाद-इन्द्रिय-बल-बोध्य्-अङ्ग-अष्ट-अङ्ग-मार्ग-वि-कला न शमथ-विपश्यना-वि-कला । पे । उपशान्ता च स्व-भावेन । अन्-उपशान्ता च कर्म-क्लेशेषु । उपेक्षिका च सर्व-धर्माणां । अवेक्षिका च बुद्ध-धर्माणां । जहा च स्व-लक्षणेन । विक्रान्ता च + अधिष्ठान-कार्यतया । अ-व्यापृता च स्व-रसेन । सदा व्यापृता च बुद्ध-कार्येषु । शीती-भूता च + उपशमेन । सदा + उज्ज्वलिता च सत्व-परिपाके । इयम् उच्यते सर्व-आकार-वर-उपेता शून्यता ॥
यावद् इयं कुल-पुत्र ध्यान-पारमिता चर्या-परिशुद्धिर् इति ॥
एतेन प्रज्ञा-परिशुद्धिर् वेदितव्या । एवं सर्व-पुण्येष्व् इति ॥
तथा + आर्य-विमलकीर्ति-निर्देशे * अप्य् उक्तं ।सद्-धर्म-चक्र-प्रवर्तन-महा-परिनिर्वाण-संदर्शन-गो-चरश् च बोधि-सत्व-चर्या + अ-त्यजन-गो-चरश् च + अयम् अपि बोधि-सत्वस्य गो-चर । इति ॥
भोग-पुण्य-शुद्धिः पञ्चदशः परिच्छेदः ॥
[xवि. भद्रचर्याविधिः]
भद्र-चर्या-विधिः षोडशः परिच्छेदः ॥
इदानीं त्रयाणाम् अपि वृद्धिर् वाच्या ॥
किम् अर्थं । ग्रहीतारः सु-बहवः स्व्-अल्पं च + इदम् अनेन किं । न च + अति-तृप्ति-जनकं वर्धनीयम् इदं ततः ॥
अति-तृप्ति बुद्धत्वं । तन् न श्रावक-साधारणेन शुद्धि-मात्रेण सत्वानां जन्यतए इत्य् अर्थः । आत्म-भावस्य का वृद्धिर् बल-अन्-आलस्य वर्धनं ॥
तत्र + आर्य-रत्न-मेघे बलम् उक्तं ।न स सत्वः सत्व-निकाये संविद्यते यो बोधि-सत्वस्य बलेन बलं मर्दयेद् इत्य् आदि ॥
तस्य कथं वर्धनम् । यद् उक्तम् आर्य-तथा-गत-गुह्य-सूत्रे आर्य-वज्रपाणेर् बल-दर्शन-विस्मित-अजातशत्रु-पृष्टेन भगवता । दशभिर् महा-राज धर्मैः समन्वागतो बोधि-सत्व एवं-रूपां बलवत्तां प्रतिलभते ।कतमैर् दशभिः । इह महा-राज बोधि-सत्वः कायं जीवितं च परित्यजति । न च पुनः सद्-धर्मं परित्यजति । सर्व-सत्वानां च + अवनमति न च पुनर् मानं बृंहयति । दुर्-बलानां च सत्वानां क्षमते । न प्रतिघं करोति । जिघत्सितानां च सत्वानाम् अग्रं वर-भोजनं ददाति । भीतानां च सत्वानाम् अ-भयं ददाति । ग्लानानां च सत्वानां भूत-चिकित्सायै उत्सुको भवति । दरिद्रांश् च सत्वान् भोगैः संतर्पयति । तथा-गत-चैत्ये च सु-धा-पिण्ड-लेपनं करोति । आनन्द-वचनं सत्वानां श्रावयति । दरिद्र-दुष्खितानां च सत्वानां भोग-संविभागं करोति । श्रान्त-क्लान्तानां च सत्वानां भारं वहति । एभिर् महा-राज दशभिर् इति ॥
अन्-आलस्य-वर्धनं कतमत् । यद् वीर्य-वर्धनं । यथा + उक्तं सागरमति-सूत्रे । आरब्ध-वीर्येण सागरमते बोधि-सत्वेन भवितव्यं सदा दृढ-पराक्रमेण । तीव्र-च्छन्देन बोधि-सत्वेन भवितव्यम् अ-निक्षिप्त-धुरेण । आरब्ध-वीर्याणां हि सागरमते बोधि-सत्वानां न दुर्-लभा भवत्य् अन्-उत्तरा सम्यक्-संबोधिः । तत् कस्य हेतोः । यत्र सागरमते वीर्यं तत्र बोधिः । कुसीदानां पुनः सु-दूर-विदूरे बोधिः । न + अस्ति कुसीदस्य दानं यावन् न + अस्ति प्रज्ञा न + अस्ति कुसीदस्य पर-अर्थ इति ॥
चन्द्र-प्रदीप-सूत्रे * अप्य् आह । उत्पलं वारि-मध्ये वा सो * अनुपूर्वेण वर्धतए ।इत्य् आदि ॥
इयं संक्षेपाद् आत्म-भाव-वृद्धिः ॥
शून्यता करुणा-गर्भाद् दानाद् भोगस्य वर्धनं ॥
यथा + उक्तं वज्र-च्छेदिकायां । यो बोधि-सत्वो * अ-प्रतिष्ठितो दानं ददाति । तस्य पुण्य-स्कन्धस्य न सु-करं प्रमाणम् उद्ग्रहीतुम् इति ॥
महत्याम् अपि प्रज्ञा-पारमितायाम् उक्तं । पुनर् अ-परं शारिपुत्र बोधि-सत्वेन महा-सत्वेन + अल्पम् अपि दानं ददता सर्व-सत्वेषु सर्व-आकार-ज्ञतायाम् उपाय-कौशल्य-परिणामनतायाम् अ-प्रमेयम् अ-संख्येयं कर्तु-कामेन प्रज्ञा-पारमितायां शिक्षितव्यम् । तथा सर्व-सत्वानां मनो-रथान् परिपूरयितु-कामेन । यावज् जात-रूप-रजत-उद्यान-राज्य-आदिभिर् उपकरणैः प्रज्ञा-पारमितायां शिक्षितव्यम् इति ॥
विना च करुणया न बोधि-सत्वानां किं-चिच् चेष्टितम् इति वक्ष्यामः । इति संक्षेपाद् भोग-वृद्धिः ॥
पुण्य-वृद्धिः सर्व-वृद्धीनां मूलम् इति तद्-अर्थं परिकर-बन्ध उच्यते ॥
कृत्वा + आदाव् एव यत्नेन व्यवसाय-आशायौ दृढौ । करुणां च पुरस्-कृत्य यतेत शुभ-वृद्धये ॥
चित्त-शुद्धि-काल-भावितानां व्यवसाय-आदीनां प्रयोग-आरम्भे पुनर् आमुखी-करणेन दृढता + अ-पादन-अर्थः श्लोकः । कृत्वा + इत्य् आदि-पूर्वक एव ॥
आसन्न-युद्ध-कालानां अस्त्र-कौशल्य-आदर-वत् प्रयोग-सम-कालं दृढी-करिष्यामि + इति शैथिल्य-निवारण-अर्थम् आदि-ग्रहणम् । तत्र कथं व्यवसायं दृढी-करोति ॥

यथा + आर्य-सुधन आर्य-मैत्रेयम् उपसंप्रक्रान्तः सम्यक्-चर्या-निः-समर्थः । पूर्व-अन्त-कोटी-गत-काय-प्रणामः काय-समन्वाहारेण काय-बलं दृढी-कुर्वाणः । पूर्व-अन्त-कोटी-गत-काय चित्त-परिशुद्धि-निष्-कारण-सांसारिक-चित्त-प्रचार-समन्वाहारेण चित्त-मनसि-कारं निगृह्णन् । पूर्व-अन्त-कोट्य्--अ-सत्-कर्म-लौकिक-कार्य-प्रयुक्त-निष्-प्रयोजन-परिस्यन्द-समन्वाहारेण प्रत्य्-उत्पन्न-प्रयोजन-महा-सामर्थ्यं विचिन्तयन् । पूर्व-अन्त-अ-भूत-परिकल्प-समुत्थित-वितथ-संकल्प-संदर्शित-मनसि-कार-समन्वाहारेण सर्व-बोधि-सत्व-चर्या-सम्यक्-संकल्प-अभिसंस्कार-बलं समुत्थापयन् । अतीत-आत्म-भाव-अर्थ-प्रयोग-आरम्भ-विषमता-समन्वाहारेण सर्व-सत्व-आरम्भ-वैशेषिकतया + अध्याशय-बलं दृढी-कुर्वाणः । अतीत-काय-समुदाचार-निर्-आस्वादता-समन्वाहारेण । सर्व-बुद्ध-धर्म-प्रतिलाभ-प्रयोग-महा-आश्वास-प्रतिलाभ-इन्द्रिय-वेगान् विवर्धयमानो * अतीत-अध्व-विपर्यास-प्रयुक्त-मिथ्या-आशय-प्रयोग-समन्वाहॄएण । प्रत्य्-उत्पन्न-अध्व-सम्यग्-दर्शन-अ-विपर्यास-संप्रयुक्तेन बोधि-सत्व-प्रणिधान-समादानेन संततिं परिशोधयन् । पूर्व-अन्त-गत-आयोग-वीर्य-आरम्भ-कार्य-अ-परिनिष्पन्न-आर्य-समादान-समन्वाहारेण [दोउब्त्fउल्] । प्रत्य्-उत्पन्न-बुद्ध-धर्म-समुदागम-प्रत्युपस्थानेन महा-वीर्य-आरम्भ-विक्रमेण काय-चित्त-संप्रग्रहं संजनयमानः । पूर्व-अन्त-कोटी-पञ्च-गत्य्-अपाय-निक्षिप्त-आत्म-पर-निर्-उपकरण-आख्य-निर्-उपजीव्य-समुच्छ्रय-परिग्रह-समन्वाहारेण । सर्व-बुद्ध-धर्म-उत्थापक-सर्व-जगद्-उपजीव्य-सर्व-कल्याण-मित्र-आरागण-समर्थ्य-आत्म-भाव-परिग्रहणतया विपुल-प्रीति-प्रामोद्य-वेगान् विवर्धयमानः प्रत्य्-उत्पन्न-जन्म-अभिनिर्वृत्तं जरा-व्याधि-मरण-शोक-आकर-भूतं संयोग-वियोग-निधान-भूतं समुच्छ्रयं । अपर-अन्त-कल्प-कोटी-गत-बोधि-सत्व-चर्या-आचरण-प्रयुक्तस्य सत्व-परिपाचन-बुद्ध-धर्म-परिग्रह-प्रयुक्तस्य तथा-गत-संदर्शन-सर्व-बुद्ध-क्षेत्र-अनुचरण-सर्व-धर्म-भाणक-उपस्थान-सर्व-तथा-गत-शासन-समन्वाहरण-प्रयुक्तस्य सर्व-धर्म-पर्येष्टि-सहाय-भूतस्य सर्व-कल्याण-मित्र-दर्शन-सर्व-बुद्ध-धर्म-समुदानयन-प्रयुक्तस्य बोधि-सत्व-प्रणिधि-ज्ञान-शरीरस्य हेतु-प्रत्यय-भूतम् अवलोक्य-अ-चिन्त्य-कुशल-मूल-इन्द्रिय-वेगान् विव र्धयमान इति । आर्य-अक्षयमति-निर्देशे महा-यान-सूत्रे * अप्य् उक्तं । एको बोधि-सत्वो * अ-द्वितीयो * अ-सहायो * अन्-उत्तरायां सम्यक्-संबोधौ संनाहं संनह्यति । स वीर्य-बल-परिगृहीतेन + अध्याशयेन + अ-पर-अवकाश-अ-स्वयं-कारी । स्व-बल-बल-उद्गतः । स एवं दृढ-संनाहः संनद्धो । यत् किञ्-चित् सर्व-सत्वानां परिप्रापयितव्यं भविष्यति तद् अहं परिप्रापयिष्यामि । यत् सर्व-आर्याः सर्व-नव-यान-संप्रस्थिता बोधि-सत्वा न परिप्रापयिष्यन्ति तद् अहं परिप्रापयिष्यामि । न मम दानं सहायकं ।अहं पुनर् दानस्य सहायः । न मम शील-क्षान्ति-वीर्य-ध्यान-प्रज्ञाः सहायिकाः । अहं पुनः शील-क्षान्ति-वीर्य-ध्यान-प्रज्ञानां सहायो । न + अहं पारमिताभिर् उपस्थातव्यो मया पुनः पारमिता उपस्थातव्याः । एवं संग्रह-वस्तुषु सर्व-कुशल-मूलेषु चलेयम् । यावद् एकाकिना मया + अ-द्वितीयेन + अ-सहायेन वज्र-मये मही-मण्डले स्थितेन स-बलं स-वाहनं मारं धर्षयित्वा एक-चित्त-क्षण-सम-आयुक्तया प्रज्ञया + अन्-उत्तरा सम्यक्-संबोधिर् अभिसंबोद्धव्या + इति ॥
आर्य-वज्र-ध्वज-सूत्रे * अप्य् आह । तद् यथा + अपि नाम सूर्यो देव-पुत्र उदयमानो न तिष्ठति । जात्य्-अन्ध-दोषेण । न तिष्ठति गन्धर्व-नगर-दोषेण । न तिष्ठति चतुर्-द्वीप-लोक-धातु-भूमि-रजो-दोषेण । न तिष्ठति राह्व्-असुर-इन्द्र-दोषेण । न तिष्ठति धूम-मण्डल-दोषेण । न तिष्ठति जम्बू-द्वीप-क्लेश-दोषेण । न तिष्ठति नाना-छाया-दोषेण । न तिष्ठति वि-षम-पर्वत-दोषेण । एवम् एव बोधि-सत्वो महा-सत्वः स्मृति-संप्रजन्य-विपुल-गम्भीर-चेता अ-दीन-सत्वो गुण-चर्या-ज्ञान-चर्या-अवसानं यावन् न विवर्तते सत्व-द्रौहिल्य-दोषैः । न विप्रवसति कुशल-मूल-परिणामैः । सत्व-दृष्टि-कालुष्य-दोषैर् न विवर्तते । सत्व-क्षोभ-चेतोभिर् न दूरी-भवति । सत्व-विनष्ट-संतत्या बोधि-संनाहं न विष्कम्भयति । सर्व-जगत्-परित्राण-प्रणिधानस्य सत्व-कलि-कलुषैर् न स्रंसनां करोति यावद् बाल-जन-समवधानेन । न निर्विद्यते पर-सत्व-दोषैश् च । तत् कस्य हेतोः । अन्-आवरण-मण्डलम् एतद् उदयति । यद् उत सर्व-जगद्-विशुद्धि-विनयाय । पे ॥
यश् च तेषां सर्व-सत्वानां दुष्ख-स्कन्धो विविधं च + आवरणीयं कर्म समुत्थितं येन ते आवरणीयेन कर्मणा बुद्धान् न पश्यन्ति । धर्मं न शृण्वन्ति । संघं न जानन्ति । तद् अहं तेषां त्रि-विधम् आवरणीयं कर्म + उपचितं दुष्ख-स्कन्धेन स्वकेन शरीरेण + उपाददामि तासु तासु नरक-उपपत्तिष्व् अपाय-भूमिषु संवासेषु च । ते च सर्व-सत्वास् ततश् च्यवन्तां । अहं च दुष्ख-उपादानम् उपाददामि व्यवस्याम्य् उत्सहे । न निवर्ते न पलायामि न + उत्त्रस्यामि न संत्रस्यामि न बिभेमि न प्रत्युदावर्ते न विषीदामि । तत् कस्य हेतोः । अ-वश्यं निर्वाहयितव्यो मया सर्व-सत्वानां भारो । न + एष मम काम-कारः । सर्व-सत्व-उत्तारण-प्रणिधानं मम । मया सर्व-सत्वाः परिमोचयितव्या । मया सर्व-जगत् समुत्तारयितव्यं । जाति-कान्ताराज् जरा-कान्ताराद् व्याधि-कान्ताराच् च्युत्य्-उपपति-कान्तारात् सर्व-आपत्ति-कान्तारात् सर्व-अपाय-कान्तारात् सर्व-संसार-कान्तारात् सर्व-दृष्टि-गहन-कान्तारात् कुशल-धर्म-प्रणाश-कान्ताराद् अ-ज्ञान-समुत्थित-कान्तारात् तद् एते मया सर्व-सत्वाः सर्व-कान्तारेभ्यः परिमोचयितव्याः । तृष्णा-जाल-सक्ता अ-विद्या-निवरण-आवृता भव-तृष्णा-संप्रयुक्ताः प्रणाश-पर्यवसाना दुष्ख-पञ्जर-प्रक्षिप्ताश् चारक-संनिश्रिता । अ-बुधाः प्रतिज्ञा-विरुद्धाः संशय-भूताः सदा वि-मतयो * अ-क्षेम-दर्शिनः । अ-निः-शरण-कुशला भव-अर्णवे आवर्त-मण्डल-एक-चरणाः । पे ॥

सर्व-सत्वानाम् अन्-उत्तर-ज्ञान-राज्य-प्रतिष्ठापन-अर्थम् अहं चरामि । न + अहं केवलम् आत्म-परिमोचन-अभियुक्तः । सर्व-सत्वा ह्य् एते मया सर्व-ज्ञता-चित्त-प्लवेन संसार-दुर्-गाद् * धर्तव्या । महा-प्रपाताद् अभ्युत्क्षेप्तव्याः । सर्व-उपद्रवेभ्यः परिमोचयितव्याः । संसार-स्रोतसः प्रतारयितव्या आत्मना मया सर्व-सत्व-दुष्ख-स्कन्धो * अध्यवसितः । यावद् उत्सहे * अहं सर्व-अपायेषु सर्व-लोक-धातु-पर्यापन्नेषु सर्व-दुष्ख-वासम् अनुभवितुम् । न च मया सर्व-सत्वाः कुशल-मूलैर् वञ्चितव्याः । व्यवस्याम्य् अहम् एक-एकस्मिन्न् अपाये * अपर-अन्त-कोटी-गतान् कल्पान् संवसयितुं । यथा च एक-अपाये तथा सर्व-अपाय-निर्-अवशेष-सर्व-लोक-धातु-पर्यापन्नेषु सर्व-सत्व-परिमोचन-निदानं ।तत् कस्य हेतोः । वरं खलु पुनर् अहम् एको दुष्खितः स्यां न च + इमे सर्व-सत्वाः अपाय-भूमि-प्रपतिताः । मया तत्र + आत्मा बन्धको दातव्यः । सर्व-जगच् च निः-क्रेतव्यं नरक-तिर्यग्-योनि-यम-लोक-कान्ताराद् अहं च सर्व-सत्वानाम् अर्थाय सर्व-दुष्ख-वेदना-स्कन्धम् अनेन स्वकेन शरीरेण + अनुभवेयम् । सर्व-सत्व-निदानम् अहं च सर्व-सत्वानां प्रातिभाव्यम् उत्सहे सत्य-वादी प्रत्ययितो * अ-विसंवादकः । न च मया सर्व-सत्वाः परित्यक्ताः । तत् कस्य हेतोः । सर्व-सत्व-आरम्बणो मम सर्व-ज्ञता-चित्त-उत्पाद उत्पन्नो यद् उत सर्व-जगत्-परिमोचनाय । न च + अहं रति-कामतया + अन्-उत्तरायां सम्यक्-संबोधौ संप्रस्थितो न + अपि पञ्च-काम-गुण-रत्य्-अनुभवनाय न + अपि काम-विषय-निषेवणाय । न च + अहम् अन्यो-न्य-काम-धातु-पर्यापन्न-रति-व्यूह-समुदानयनाय चरामि बोधि-सत्व-चर्यां । तत् कस्य हेतोः । अ-रतयो ह्य् एषा सर्व-लोक-रतयः ।मार-विषय एष यद् उत काम-विषय-निषेवणं । दुर्-बुद्धि-सेवितो ह्य् एष मार्गः ।सर्व-बुद्धि-विवर्णितो ह्य् अयम् उपदेशः यद् उत काम-निषेवणं ।अतश् च + एष सर्व-दुष्ख-स्कन्धस्य + उत्पाद एव निषेवणं अत एव च नरक-तिर्यग्-योनि-यम-लोकानाम् उत्पादः । कलह-भण्डन-विवाद-क्षोभाश् च सत्वानाम् अत एव प्रादुर्-भवन्ति । एते च सत्वाः कामान् निषेवमाणाः बुद्धानां भगवतां सकाशाद् दूरी-भवन्ति । स्वर्ग-उपपत्तेर् अप्य् एते कामा अन्तरायाय संवर्तन्ते । किं पुनर् अन्-उत्तरस्य ज्ञान-राजस्य सर्व-सत्व-योग-क्षेमस्य । सो * अहम् एवम् अ-प्रमाण-दोषान् कामानां पश्यन् परीत्तान् आदीप्तांस् तस्माद् अहम् एतन् निदानम् अ-चरणतायां प्रतिपत्स्ये ॥ पे ॥
तथा तथा + एव मया कुशल-मूलं परिणामयितव्यं यथा यथा + एव सर्व-सत्वा अत्य्-अन्त-सुखम् अ-वेदित-सुखं यावत् सर्व-ज्ञता-सुखं प्रतिलभेरन् । मया सारथिना मया परिणायकेन मया + उल्का-धारिणा मया क्षेम-गति-दर्शकेन मया क्षण-गति-प्रतिलब्धेन मया + उपाय-ज्ञेन मया + अर्थ-विदुषा मया संसार-सागरे सर्व-ज्ञ-ज्ञान-यान-पात्र-महा-देश-स्थितेन मया परिणामन-कुशलेन मया पार-दर्शकेन ॥ पे ॥
न खलु पुनर् अस्मिंश् चातुर्महा-द्वीपके लोक-धातौ यावन्तः सत्वास् तावन्त एव सूर्या उदागच्छन्ति चातुर्द्वीपक-लोक-धात्व्-अवभासनाय । अथ च पुनर् एक एव + एषां सूर्य उदागच्छति चतुर्-द्वीप-अवभासनाय । न च तेषां सत्वानां चतुर्-द्वीप-उपपन्नानां स्वक-स्वकैः शरीरैर् अवभासः प्रादुर्-भवति । येन ते दिवस-संख्यां जानीयुः । स्व-कार्यं वा परिप्रापयेयुः । सस्यानि वा परिपाचयेयुः । अहर् अहर् वा उद्यान-नगरेषु रति-क्रीडा-परिभोगम् अनुभवेयुः । दिशो वा पश्येयुः । गमन-आगमनं वा ग्राम-नगर-निगम-राष्ट्र-राज-धानीषु कुर्युः । व्यवहार-कार्येषु प्रयुज्येरन् ।पे । अथ च पुनः सूर्यस्य देव-पुत्रस्य + उदयत एकस्य सूर्य-मण्डलस्य + अ-द्वितीयस्य चातुर्द्वीपके लोक-धातौ सर्व-सत्वानाम् अवभासः प्रादुर्-भवति । एवम् एव बोधि-सत्वस्य महा-सत्वस्य कुशल-मूलान्य् उपार्पयमानस्य कुशल-मूलं परिणामयमानस्य + एवं चित्तम् उत्पद्यते । न + एतेषां सत्वानां तत् कुशल-मूलं विद्यते येन ते आत्मानं परित्रायेरन् । कः पुनर् वादः परम् । अहं पुनः सर्व-सत्वानां कृतशः कुशल-मूलानि समुदानयामि कुशल-मूलं परिणामयामि । यद् उत सर्व-सत्व-मोचनाय । सर्व-सत्वानाम् अवभासनाय सर्व-सत्वानां ज्ञापनाय सरव्-सत्वानाम् अवतारणाय सर्व-सत्वानां परिग्रहणाय सर्व-सत्वानां परिनिष्पादनाय सर्व-सत्वानां प्रसादनाय सर्व-सत्वानां प्रह्लादनाय सर्व-सत्वानां संशय-च्छेदनाय आदित्य-मण्डल-कल्पैर् अस्माभिर् भवितव्यं । न परः प्रतिकाङ्क्षितव्यः । न परस्य + अवकाशम् उत्पाद्य सत्वेषु संनाह उत्स्रष्टव्यः । न च सर्व-सत्वानाम् अन्तिकात् सर्व-सत्व-त्राण-व्यवशायो निवर्तयितव्यः । न परिणामनायाः सर्व-दुष्ख-हत्या विनिवर्तितव्यं । न परीत्तानि कुशल-मूलानि परिग्रहीतव्यानि । न परीत्तया परिणामनया तुष्टिर् मन्तव्या इत्य् आदि ॥
आर्य-अक्षयमति-सूत्रे * अप्य् आह । स न कल्प-गणनया बोधिं पर्येषते । इयतः कल्पान् संनत्स्यामि । इयतः कल्पान् संनत्स्यामि + इति । अपि तु खल्व् अ-चिन्त्यम् एव संनाहं संनह्यति । यावती पूर्वा-कोटिः संसारस्य यद्य् एतावद् एकं रात्रिं-दिवं भवेत् । एवं-रूपै रात्रिं-दिवैः पञ्चदश-दैवसिकेन पक्षेण त्रिंशद्-दैवसिकेन मासेन द्वादश-मासिकेन संवत्सरेण अनया वर्ष-गणनया यावद् वर्ष-शत-सहस्रेण + एकं बोधि-चित्तम् उत्पादयेयम् एकं च तथा-गतम् अर्हन्तं सम्यक्-संबुद्धं पश्येयं । अनेन प्रवेशेन + अनया गणनया गङ्गा-नदी-वालुका-समैश् चित्त-उत्पादैस् तथा-गत-दर्शनैश् च एक-एकस्य + अपि सत्वस्य चित्त-चरितं जानीयां । अनेन + एव प्रवेशेन + अनया गणनया सर्व-सत्वानां तावद्भिश् चित्त-उत्पादैस् तथा-गत-दर्शनैः स्व-चित्त-चरितानि प्रजनीयाम् इत्य् अन्-अवलीनः । संनाहो * अयं बोधि-सत्वस्य + अ-क्षयः संनाहः ।एवं दान-आदिषु बोधि-पाक्षिक-महा-पुरुष-लक्षणेषु च नयः ॥
आर्य-रत्न-मेघे * अप्य् उक्तं ॥
न बोधि-सत्वः सत्व-खटुङ्कतां सत्व-दुर्-दान्ततां ज्ञात्वा । अलम् एभिः सत्वैर् एवं खटुङ्कैर् एवं दुर्-दान्तैर् इति । ततो निदानं परिखिन्नः परा-पृष्ठी-भूतः । परिशुद्धायां लोक-धातौ प्रणिधानं करोति । यत्र + ईदृशानां सत्वानां नाम + अपि न शृणुयात् । न च सत्व-अर्थ-वैमुख्यस्य बोधि-सत्व-परिशुद्धायां लोक-धाताव् उपपत्तिर् भवति । तत्र प्राज्ञो बोधि-सत्व एवं चित्तम् उत्पादयति । तस्मात् सत्व-धातोर् ये सत्वाः स्युः प्रत्यवरा धजड-एड-मूक-जातीयाः । अ-परिनिर्वाण-धर्मकाः कृत्स्ना सत्व-धातौ न चिकित्सिताः सर्व-बुद्धैः सर्व-बोधि-सत्वैश् च प्रत्याख्याताः । तेषां मदीये बुद्ध-क्षेत्रे संनिपातः स्यात् । तान् अहं सर्वान् बोधि-मण्डे निषीद्य + अन्-उत्तरां सम्यक्-संबोधिम् अभिसंबोधयेयं ॥

एवं हि बोधि-सत्वस्य चिन्तयतश् चित्त-उत्पादे चित्त-उत्पादे सर्व-मार-भवनानि प्रकम्पन्ते । सर्व-बुद्धाश् च + अस्य वर्ण-वादिनो भवन्ति + इति ॥
एवं तावत् पुण्य-वृद्धि-कामेन आशयो दृढी-कर्तव्यः । आशय-दृढी-करण-अर्थम् अधुना + उच्यते । किं पुनर् अनेन दृढी-कृतेन + इति । विमर्ष-निरासाय धर्म-संगीति-सूत्रे गदितं ।आशये सम्यग् भगवन् बुद्ध-धर्माणां मूलं । यस्य पुनर् आशयो न + अस्ति सर्वे बुद्ध-धर्मास् तस्य दूरे ॥
आशय-संपन्नस्य पुनर् भगवन् यदि बुद्धा न भवन्ति गगन-तलाद् धर्म-शब्दो निश्चरति कुड्म-वृक्षेभ्यश् च । आशय-शुद्धस्य बोधि-सत्वस्य स्व-मनो-जल्पाद् एव सर्व-अववाद-अनुशासन्यो निश्चरन्ति । तस्मात् तर्हि भगवन् बोधि-सत्वेन + आशय-संपन्नेन भवितव्यं ॥
तद् यथा भगवन् यस्य पादौ तस्य गमनं एवं भगवन् यस्य + आशयस् तस्य बुद्ध-धर्माः ।तद् यथा भगवन् यस्य + उत्तम-अङ्गं तस्य जीवितं एवम् एव भगवन् यस्य + आशयस् तस्य बुद्ध-बोधिः । तद् यथा भगवन् यस्य जीवितं तस्य लाभः । एवम् एव भगवन् यस्य + आशयस् तस्य बुद्धत्व-लाभः । तद् यथा भगवन् सतीत्वेन + अग्निर् ज्वलति । अ-सतीत्वेन न ज्वलति । एवम् एव भगवन्न् आशये सति बोधि-सत्वस्य सर्व-बुद्ध-धर्मा ज्वलन्ति । अ-सत्य् आशये न ज्वलन्ति । तद् यथा भगवन् सत्स्व् अभ्र-मेघेषु वर्षं वर्षत्य् अ-सत्सु न वर्षति । एवम् एव भगवन्न् आशये सति बुद्ध-धर्माः प्रवर्तन्ते । तद् यथा भगवन् यस्य वृक्षस्य मूलं विपन्नं तस्य पुष्प-फलानि न भूयः प्ररोहन्ति । एवम् एव भगवन् यस्य + आशयो विपन्नस् तस्य सर्वे कुशला धर्मा न भूयः संभवन्ति । तस्मात् तर्हि भगवन् बोधि-सत्वेन बुद्ध-बोध्य्-अर्थिकेन स्व-आशयः सु-उद्गृहीतः स्व्-आरक्षितः सु-शोधितः स्व्-अधिष्ठितः कर्तव्य इति ॥
को * अयम् आशयो नाम । आर्य-अक्षयमति-सूत्रे * अभिहितः । स खलु पुनर् आशयो * अ-कृत्रिमः अ-कृतकत्वात् । अ-कृतको निः-साध्यत्वात् । निः-साध्यः सु-विदितत्वात् । सु-विदितो निर्-मायत्वात् । निर्-मायः शुद्धत्वात् । शुद्धः ऋजुकत्वात् । ऋजुकः अ-कुटिलत्वात् । अ-कुटिलः स्पष्टत्वात् । स्पष्टो * अ-वि-षमत्वात् । अ-वि-षमः सारत्वात् । सारो * अ-भेद्यत्वात् । अ-भेद्यो दृढत्वात् । दृढो * अ-चलितत्वात् । अ-चलित अ-निश्रितत्वाद् इत्य् आदि । अयम् एव च + अधिक-अधिक-गुण-अधिगम-प्रवृत्तो * अध्याशय इत्य् उच्यते ॥

यथा + अत्र + एव + उक्तं । उत्तरण-अध्याशयो विशेष-गमनतया इत्य् आदि ॥
अपि च + अध्याशय उच्यते । सौम्यता भूतेषु । मैत्रता सत्वेषु । हित-चित्तता आर्येषु । कारुण्यम् अन्-आर्येषु । गौरवं गुरुषु । त्राणता अ-त्राणेषु । शरणता अ-शरणेषु । द्वीपता + अ-द्वीपेषु । परायणता अ-परायणेषु । सहायता अ-सहायेषु । ऋजुता कुटिलेषु । स्पष्टता खटुङ्केषु । अ-शठता शठेषु । अ-माया आगहन-चरितेषु । कृत-ज्ञता अ-कृत-ज्ञेषु । कृत-वेदिता द्रोहिषु । उपकारिता अन्-उपकारिषु । सत्यता अ-भूत-गतेषु । निर्-मानता श्रब्धेषु । अ-निन्दिता सु अ-निन्दना कृतेषु [दोउब्त्fउल्] । अन्-आरोचनता पर-स्खलितेषु । आरक्षणता विप्रतिपन्नेषु । अ-दोष-दर्शनता सर्व-उपाय-कौशल्य-चर्यासु । शुश्रूषणता सर्व-दक्षिणीयेषु । प्रदक्षिण-ग्राहिता + अनुशासनीष्व् इत्य् आदि ॥
तद् एवं व्यवसाय-आशयौ दृढी-कृत्य कारुण्यं पुरस्-कृत्य यते शुभ-वृद्धये ॥
यथा + उक्तम् आर्य-धर्म-संगीति-सूत्रे । अथ खल्व् अवलोकितेश्वरो बोधि-सत्वो महा-सत्वो भगवन्तम् एतद् अवोचत् । न भगवन् बोधि-सत्वेन + अति-बहुषु धर्मेषु शिक्षितव्यं । एको धर्मो भगवन् बोधि-सत्वेन स्व्-आराधितः सु-प्रतिविद्धः कर्तव्यः । तस्य सर्व-बुद्ध-धर्माः कर-तल-गता भवन्ति । कतम एक-धर्मो । यद् उत महा-करुणा । महा-करुणया भगवन् बोधि-सत्वानां सर्व-बुद्ध-धर्माः कर-तल-गता भवन्ति । तद् यथा भगवन् येन राज्ञश् चक्र-वर्तिनश् चक्र-रत्नं गच्छति । तेन सर्वो बल-कायो गच्छति । एवम् एव भगवन् येन बोधि-सत्वस्य महा-करुणा गच्छति । तेन सर्वे बुद्ध-धर्मा गच्छन्ति । तद् यथा भगवन्न् आदित्ये उदिते सत्वाः कर्म-क्रियासु प्रचुरा भवन्ति । एवम् एव भगवन् महा-करुणा यत्र + उदिता भवति तत्र + अन्य-बोधि-करा धर्माः क्रियासु प्रचुरा भवन्ति । तद् यथा भगवन् सर्वेषाम् इन्द्रियाणां मनसा + अधिष्ठितानां स्व-स्व-विषये ग्रहण-प्राचुर्यं भवति । एवम् एव भगवन् महा-करुणा-अधिष्ठितानाम् अन्येषां बोधि-कराणां धर्माणां स्वस्मिन् स्वस्मिन् करणीये प्राचुर्यं भवति । तद् यथा भगवन् जीवित-इन्द्रिये सत्य् अन्येषाम् इन्द्रियाणां प्रवृत्तिर् भवति । एवम् एव भगवन् महा-करुणायां सत्याम् अन्येषां बोधि-कराणां धर्माणां प्रवृत्तिर् भवति + इति ॥
आर्य-अक्षयमति-सूत्रे * अप्य् आह ॥
तद् यथा + अपि नाम भदन्त सारद्वतीपुत्र पुरुषस्य जीवित-इन्द्रियस्य + आश्वासाः प्रश्वासाः पूर्वं-गमाः । एवम् एव भदन्त सारद्वतीपुत्र बोधि-सत्वस्य महा-यान-समुदागतस्य महा-करुणा पूर्वं-गमाः ॥ पे ॥
स्याद् यथा + अपि नाम श्रेष्ठिनो वा गृह-पतेर् वा एक-पुत्रके गुणवति मज्जा-गतं प्रेम । एवम् एव महा-करुणा-प्रतिलब्धस्य बोधि-सत्वस्य सर्व-सत्वेषु मज्जा-गतं प्रेम + इति ॥
कथम् एषा भावयितव्या । स्वकम् अन्-एक-विधं पूर्व-अनुभूतम् अनुभूयमानं वा दुष्खं भयं च स्व-आत्मन्य् अत्य्-अन्तम् अन्-इष्टं भावयित्वा । प्रिय-आदिषु मैत्री मैत्रीवता भावयितव्या प्रत्य्-उत्पन्न-दुष्ख-व्याधिषु महा-दुष्ख-सागर-अन्-अवधि-दीर्घ-संसार-व्यसन-अनुनीतेषु वा ॥
यथा + उक्तम् आर्य-दश-भूमक-सूत्रे । तस्य + एवं भवत्य् आश्चर्यं यावद् अ-ज्ञान-संमूढा वत + इमे बाल-पृथग्-जनाः । येषाम् अ-संख्येया आत्म-भावा निरुद्धा निरुध्यन्ते निरोत्स्यन्ते च । एवं च क्षीयमाणा काये न निर्-वेदम् उत्पादयन्ति । भूयस्या मात्रया दुष्ख-यन्त्रं विवर्धयन्ति । संसार-श्रोतसश् च महा-भयान् न निवर्तन्ते । स्कन्ध-आलयं च न + उत्सृजन्ति । धातु-उर-गेभ्यश् च न निर्विद्यन्ते । नन्दी-राग-अन्धाश् च न + अवबुध्यन्ते । षड्-आयतन-शून्य-ग्रामं च न व्यवलोकयन्ति । अहं-कार-मम-कार-अभिनिवेश-अनुशयं च न प्रजहन्ति । मान-दृष्टि-शल्यं च न + उद्धरन्ति । राग-द्वेष-मोह-जालं च न प्रशमयन्ति । अ-विद्या-मोह-अन्ध-कारं च न विधमयन्ति । तृष्णा-अर्णवं च न + उच्छोषयन्ति । दश-बल-स-अर्थ-वाहं च न पर्येषन्ते । मार-आशय-गहन-अनुगताश् च संसार-सागरे विविध-अ-कुशल-वितर्क-ग्राह-आकुले परिप्लवन्ते । अ-प्रति-शरणाः तथा संवेगम् आपद्यन्ते बहूनि दुष्खानि प्रत्यनुभवन्तः । यद् इदं जाति-जरा-व्याधि-मरण-शोक-परिदेव-दुष्ख-दौर्मनस्य-उपायासान् । हन्त + अहम् एषां सत्वानां दुष्ख-आर्तानाम् अ-नाथानाम् अ-त्राणानाम् अ-शरणानाम् अ-लयनानाम् अ-अ-परायणानाम् अन्धानाम् अ-विद्या-अण्ड-कोष-पटल-पर्यवनद्धानां तमो-अभिभूतानाम् अर्थाय + एको * अ-द्वितीयो भूत्वा तथा-रूप-पुण्य-ज्ञान-संभार-उपचयं बिभर्मि । यथा-रूपेण पुण्य-ज्ञान-संभार-उपचयेन संभृतेन इमे सर्व-सत्वा अभ्यन्त-विशुद्धिम् अनुप्राप्नुयुर् इति ॥
तथा + अत्र + एव + आह । संसार-अटवी-कान्तार-मार्ग-प्रपन्ना वत + इमे सत्वा निरय-तिर्यग्-योनि-यम-लोक-प्रपात-अभिमुखाः कु-दृष्टि-वि-षम-जाल-अनुप्राप्ताः मोह-गहन-संछन्ना मिथ्या-मार्ग-वितथ-प्रयाता । अन्धी-भूताः परिणायक-वि-कलाः ॥ पे ॥
संसार-श्रोत-अनुवाहिनः तृष्णा-नदी-प्रपन्नाः । महा-वेग-ग्रस्ता । अवलोकना-अ-समर्थाः [दोउब्त्fउल्] काम-व्यापाद-विचिकित्सा-विहिंसा-वितर्क-प्रपात-अनुचरिताः । स्व-काय-दृष्ट्य्-उदक-राक्षस-गृहीताः । काम-गहन-आवर्त्त-अनुप्रविष्टाः नन्दी-राग-मध्य-संसक्ताः । अस्मि-मान-स्थल-उच्छन्नाः । अ-परायणाः । आयतन-ग्राम-अन्-उच्छलिताः । कुशल-संभारक-विरहिताः । ते * अस्माभिर् महा-कुशल-मूल-बलेन + उद्धृत्य निर्-उपद्रवे अ-रजसि शिव-सर्व-ज्ञता-रत्न-द्वीपे प्रतिष्ठापयितव्या । रुद्धा वत + इमे सत्वा बहु-दुष्ख-दौर्मनस्य-उपायास-बहुल-अनुनय-प्रतिघ-प्रिय-अ-प्रिय-विनिबन्धने स-शोक-परिदेव-अनुचरिते तृष्णा-निगड-बन्धने माया-शाठ्य-अ-विद्या-गहन-संछन्ने त्रैधातुक-चारके । ते अस्माभिः सर्व-त्रैधातुक-विवेके अ-भय-पुरे सर्व-दुष्ख-उपशमे [दोउब्त्fउल्] अन्-आवरण-निर्वाणे प्रतिष्ठापयितव्या इत्य् आदि ॥
एवम् एभिः परस्-पर-दृढी-कृत्यैर् व्यवसाय-आशय-कारुण्यैः पुण्य-वृद्धिम् आरभेत् । तत्र तावद् भद्र-आचार्या-विधिः कार्या वन्दना-आदिः सद्-आदरात् ॥
आर्य-उग्रदत्त-परिपृच्छायां हि त्रि-रात्रे त्रिर् दिवसस्य च शुचेः शुचि-वस्त्र-प्रावृतस्य च त्रि-स्कन्धक-प्रवर्तनम् उक्तं ॥
तत्र त्रयः स्कन्धाः पाप-देशना-पुण्य-अनुमोदना-बुद्ध-अध्येषण-आख्याः पुण्य-राशित्वात् । तत्र वन्दना पाप-देशनायाम् अन्तर्-भवति । बुद्धान् नमस्-कृत्य + उपालि-परिपृच्छायां देशना + इति कृत्वा । याचनम् अध्येषणायां एक-अर्थत्वात् । पूजा तु विभव-अ-भावाद् अ-नित्या + इति न + उक्ता । मानसी वाचसी च सूत्र-अन्तर-प्रसिद्धत्वान् न + उक्ताः । त्रयाणां तु वचनात् प्राधान्यं गम्यते । तत्र वन्दना । सर्व-बुद्धान् नमस्यामि + इति ॥

आर्य-अक्षयमति-सूत्रे त्व् आत्म-पर-पाप-देशना पुण्य-संभारे पठ्यते ॥
गाथा-चतुष्टयेन च यथा-गीतैश् च स्तोत्रैः । आर्य-भद्र-चर्या-आदि-गाथाभिर् वा पूजना च ॥
आर्य-रत्न-मेघे यथा + उक्तं । इह बोधि-सत्वो यानि + इमानि भवन्ति पुष्प-जातानि वा फल-जातानि वा अ-ममान्य् अ-परिग्रहाणि । तानि त्रिष्-कृत्वा रात्रौ त्रिष्-कृत्वा दिवसे बुद्ध-बोधिसत्वेभ्यो निर्यातयति ॥ पे ॥
सयथि + इमे [दोउब्त्fउल्] धूप-वृक्षा वा गन्ध-वृक्षा वा रत्न-वृक्षा वा कल्प-वृक्षा वा अ-ममा अ-परिग्रहास् तान् अपि त्रिष्-कृत्वा रात्रौ त्रिष्-कृत्वा दिवसे बुद्ध-बोधिसत्वेभ्यो निर्यातयति + इति ॥
आर्य-त्रि-समय-राजे * अपि स्थल-जा रत्न-पर्वताः । जल-जा रत्न-पर्वता स्थल-जल-जानि रत्नानि दश-दिग्-अवस्थितानि । अ-ममान्य् अ-परिग्रहाणि देयानि + इत्य् उक्तं ॥
अनया च दिशा सर्व-भैषज्यानि सर्व-रसायनानि सर्व-सलिलानि अन्-अवद्यानि अप्-मण्डलानि । सर्व-काञ्चन-मण्डलानि । विवृत्तेषु वा लोक-धातुषु ये परम-रस-स्पर्श-संपन्ना भू-पर्पटकाः । अ-मृत-लता । अ-कृष्ट-उप्ता वा शालयः । सर्व-उत्तर-कुरु-द्वीपेषु । परिशुद्धेषु च लोक-धातुषु ये रमणीयतराः परिभोगाः ॥
यथा च + आर्य-रत्न-मेघे एव + आह । स यानि + इमानि सूत्र-अन्तेषु + उदार-उदाराणि तथा-गत-पूजा-उपस्थानानि शृणोति । तान्य् आशयतस् तीव्रेण + अध्याशयेन बुद्ध-बोधिसत्वेभ्यः परिणामयति + इति । तथा । स विविधानि पूजा-उपस्थानानि अनुविचिन्तयति + इति ॥
देशना पूर्व-उक्ता + इव । आर्य-अक्षयमति-सूत्रे त्व् आत्म-पर-पाप-देशना पुण्य-संभारे पठ्यते । अनुमोदना भद्र-चर्या-गाथया । चन्द्र-प्रदीप-अनुमोदना-परिवर्तेन वा । अध्येषणा भद्र-चर्यया + एव । परिणामना तु सकल-समाप्ता + आर्य-भद्र-चर्यया + एव । वज्र-ध्वज-परिणामनां वा पश्येत् ॥
अथ-वा दश-भूमक-उक्तानि महा-प्रणिधानानि । यथा + आह । यद् उत + अ-शेष-निः-शेष-अन्-अवशेष-सर्व-बुद्ध-पूजा-उपस्थापनाय । सर्व-आकार-वर-उपेतम् उदार-अधिमुक्ति-विशुद्धं धर्म-धातु-विपुलम् आकाश-धातु-पर्यवसानम् अ-पर-अन्त-कोटी-निष्ठं सर्व-कल्प-संख्या-बुद्ध-उत्पाद-संख्या-प्रतिप्रस्रब्धं । महा-पूजा-उपस्थानाय । प्रथमं महा-प्रणिधानम् अभिनिर्हरति ॥
यद् उत सर्व-तथा-गत-भाषित-धर्म-नेत्री-संधारणाय सर्व-बुद्ध-बोधि-सत्व-परिग्रहाय । सर्व-सम्यक्-संबुद्ध-शासन-परिरक्षणाय । धर्म-धातु-विपुलम् आकाश-धातु-पर्यवसानम् अ-पर-अन्त-कोटी-निष्ठं । सर्व-संकल्प-संख्या-बुद्ध-उत्पाद-संख्या-प्रतिप्रस्रब्धं । सद्-धर्म-परिग्रहाय । द्वितीयं महा-प्रणिधानम् अभिनिर्हरति ॥
यद् उत सर्व-बुद्ध-उत्पाद-निर्-अवशेष-सर्व-लोक-धातु-प्रसरेषु । तुषित-भवन-वासम् आदिं कृत्वा च्यवन-आचङ्क्रमण-गर्भ-स्थिति-जन्म-कुमार-क्रीडा-अन्तः-पुर-वास-अभिनिष्क्रमण-दुष्-कर-चर्या-बोधि-मण्ड-उपसंक्रमण-मार-धर्षण-अभिसंबोध्य्-अध्येषण-महा-धर्म-चक्र-प्रवर्तन-महा-परिनिर्वाण-उपसंक्रमणाय । पूजा-धर्म-संग्रह-प्रयोग-पूर्वं-गमं कृत्वा सर्व-त्रैकाल-विवर्तनाय । धर्म-धातु-विपुलम् आकाश-धातु-पर्यवसानम् अ-पर-अन्त-कोटी-निष्ठं सर्व-कल्प-संख्या-बुद्ध-उत्पाद-संख्या-प्रतिप्रस्रब्धं यावन् महा-परिनिर्वाण-उपसंक्रमणाय । तृतीयं महा-प्रणिधानम् अभिनिर्हरति ॥
यद् उत सर्व-बोधि-सत्व-चर्या-विपुल-महद्-गत-अ-प्रमाण-अ-संभिन्न-सर्व-पारमिता-सु-संग्रहीतः । सर्व-भूमि-परिशोधनं स-अङ्ग-उपाङ्ग-निर्हारं यावत् स-लक्षण-वि-लक्षण-संवर्त-विवर्त-सर्व-बोधि-सत्व-चर्या-भूत-यथा-वद् भूमि-पथ-उपदेश-पारमिता-परिकर्म-अववाद-अनुशासन्य्--अनुप्रदान-उपस्तम्भ-चित्त-उत्पाद-अभिनिर्हाराय । धर्म-ध-तु-विपुलम् आकाश-धातु-पर्यवसानम् अ-पर-अन्त-कोटी-निष्ठं सर्व-कल्प-संख्या-चर्या-संख्या-प्रतिप्रस्रब्धं चित्त-उत्पाद-अभिनिर्हाराय । चतुर्थं महा-प्रणिधानम् अभिनिर्हरति ॥
यद् उत निर्-अवशेष-सर्व-सत्व-धातु-रूप्य्-अ-रूपि-संज्ञा-संज्ञि न + एव संज्ञि न + अ-संज्ञ्य् अण्ड-ज-जरायु-ज-संस्वेद-ज-औपपादुक-त्रैधातुक-पर्यापन्न-षड्-गति-समवसृत-सर्व-उपपत्ति-पर्यापन्न-नाम-रूप-संगृहीत-अ-शेष-सर्व-सत्व-धातु-परिपाचनाय । सर्व-बुद्ध-धर्म-अवतारणाय । सर्व-गति-संख्या-व्यवच्छेदनाय । सर्व-ज्ञ-ज्ञान-प्रतिष्ठापनाय । धर्म-धातु-विपुलम् आकाश-धातु-पर्यवसानम् अ-पर-अन्त-कोटी-निष्ठं सर्व-कल्प-संख्या-सत्व-धातु-संख्या-प्रतिप्रस्रब्धं ।सर्व-सत्व-धातु-परिपाचनाय । पञ्चमं महा-प्रणिधानम् अभिनिर्हरति ॥
यद् उत निर्-अवशेष-सर्व-लोक-धातु-विपुल-संक्षिप्त-महद्-गत-अ-प्रमाण-सूक्ष्म-औदारिक-व्यत्यस्त-अवमूर्द्ध-सम-तल-प्रवेश-समवसरण-अनुगत-इन्द्र-जाल-विभाग-दश-दिग्-अ-शेष-वैमात्र्य-प्रवेश-विभाग-ज्ञान-अनुगम-प्रत्यक्षतायै । धर्म-धातु-विपुलम् आकाश-धातु-पर्यवसानम् अ-पर-अन्त-कोटी-निष्ठं सर्व-कल्प-संख्या-लोक-धातु-संख्या-प्रतिप्रस्रब्धं लोक-धातु-वैमात्र्य-अवतारणाय । षष्ठं महा-प्रणिधानम् अभिनिर्हरति ॥
यद् उत सर्व-क्षेत्र-एक-क्षेत्र एक-क्षेत्र सर्व-क्षेत्रै-समवशरण-परिशोधनं [दोउब्त्fउल्] । अ-प्रमाण-बुद्ध-क्षेत्र प्रभा-व्यूह-अलं-कार-प्रतिमण्डितं । सर्व-क्लेश-अपनयन-परिशुद्धि-पथ-उपेतं । अ-प्रमाण-ज्ञान-आकार-सत्व-परिपूर्णम् उदार-बुद्ध-विषय-समवसरणं । यथा-आशय-सर्व-सत्व-संदर्शन-संतोषणाय । धर्म-धातु-विपुलम् आकाश-धातु-पर्यवसानम् अ-पर-अन्त-कोटी-निष्ठं ।सर्व-कल्प-संख्या-बुद्ध-क्षेत्र-संख्या-प्रतिप्रस्रब्धं ।सर्व-बुद्ध-क्षेत्र-परिशोधनाय ।सप्तमं महा-प्रणिधानम् अभिनिर्हरति ॥
यद् उत सर्व-बोधि-सत्व-एक-आशय-प्रयोगतायै । निः-सपत्न-कुशल-मूल-उपचयाय । एक-आरम्बण-सर्व-बोधि-सत्व-समतायै । अ-विरहित-सतत-समित-बुद्ध-बोधि-सत्व-समवधानाय । यथा-इष्ट-बुद्ध-उत्पाद-संदर्शनाय । स्व-चित्त-उत्पाद-तथा-गत-प्रभाव-ज्ञान-अनुगमाय । अ-च्युत-अनुगामिन्य्--अभिज्ञा-प्रतिलम्भाय । सर्व-लोक-धात्व्-अनुविचरणाय सर्व-पर्षन्-मण्डल-प्रतिभास-प्राप्तये । सर्व-उपपत्ति-स्व-शरीर-अनुगमाय । अ-चिन्त्य-महा-यान-उपेततायै । बोधि-सत्व-चर्या-चरण-अ-व्यवच्छेदाय । धर्म-धातु-विपुलम् आकाश-धातु-पर्यवसानम् अ-पर-अन्त-कोटी-निष्ठं । सर्व-कल्प-संख्या-चर्या-संख्या-प्रतिप्रस्रब्धं । महा-यान-अवतारणाय । अष्टमं महा-प्रणिधानम् अभिनिर्हरति ॥

यद् उत + अ-विवर्त्य-चक्र-समारूढ-बोधि-सत्व-चर्या-चरणाय । अ-मोघ-काय-वाङ्-मनस्-करेण । सह-दर्शन-नियत-सर्व-बुद्ध-धर्म-प्रतिलम्भाय । सह-घोष-उदाहार-ज्ञान-अनुगमाय । सह-प्रसाद-क्लेश-विवर्तनाय । महा-भैषज्य-राज-उपम-आश्रय-प्रतिलम्भाय । चिन्ता-मणि-वत् काय-प्रतिलम्भाय । सर्व-बोधि-सत्व-चर्या-चरणाय । धर्म-धातु-विपुलम् आकाश-धातु-पर्यवसानम् अ-पर-अन्त-कोटी-निष्ठं । सर्व-कल्प-संख्या-चर्या-संख्या-प्रतिप्रस्रब्धं ।अमोघ-घोषतायै । नवमं महा-प्रणिधानम् अभिनिर्हरति ॥
यद् उत सर्व-लोक-धातुष्व् अन्-उत्तर-सम्यक्-संबोध्य्-अभिसंबोधनाय । एक-वाल-पथ-अ-व्यतिवृत्त-सर्व-बाल-पृथग्-जन-जन्म-उपपत्त्य्-अभिनिष्क्रमण-विकुर्वण-बोधि-मण्ड-धर्म-चक्र-प्रवर्तन-महा-परिनिर्वाण-उपदर्शनाय । महा-बुद्ध-विषय-प्रभाव-ज्ञान-अनुगमाय । सर्व-सत्व-धातु-यथा-आशय-बुद्ध-उत्पाद-क्षण-क्षण-अवबोध-प्रशम-प्रापण-संदर्शनाय । एक-अभिसंबोधि-सर्व-धर्म-धातु-निर्माण-स्फरणाय । एक-घोष-उदाहार-सर्व-सत्व-चित्त-आशय-संतोषणाय । महा-परिनिर्वाण-उपदर्शन-चर्या-बल-अ-व्युपच्छेदाय । महा-ज्ञान-भूमि-सर्व-धर्म-व्युत्थापन-संदर्शनाय । धर्म-ज्ञान-ऋद्धि-माया-अभिज्ञा-सर्व-लोक-धातु-स्फरणाय । धर्म-धातु-विपुलम् आकाश-धातु-पर्यवसानम् अ-पर-अन्त-कोटी-निष्ठं । सर्व-कल्प-संख्या-अभिसंबोधि-संख्या-प्रतिप्रस्रब्धं । महा-यान-अभिनिर्हाराय । दशमं महा-प्रणिधानम् अभिनिर्हरति + इति ॥
एतच् च भावयन् सर्वत्र परिणामयामि + इति योज्यं ॥
आर्य-अवलोकितेश्वर-विमोक्षे च यद् उक्तं तद् अप्य् एवं योज्यं । एतत् कुशल-मूलं सर्व-सत्व-प्रपात-भय-विगमाय परिणामयामि । सर्व-सत्वान् सान्तानिक-भय-प्रशमनाय । सर्व-सत्व-संमोह-भय-विनिवर्तनाय परिणामयामि । सर्व-सत्व-बन्धन-भय-समुच्छेदाय । सर्व-सत्व-जीवित-उपरोध-उपक्रम-भय-व्यावर्तनाय । सर्व-सत्व-उपकरण-वैकल्य-भय-अपनयनाय । सर्व-सत्व-आजीविका-भय-व्युपशमनाय । सर्व-सत्व-अ-श्लोक-भय-समतिक्रमणाय परिणामयामि । सर्व-सत्व-सांसारिक-भय-उपशमनाय । सर्व-सत्व-पर्षच्-छारद्य-भय-विगमाय । सर्व-सत्व-मरण-भय-व्यतिक्रमाय । सर्व-सत्व-दुर्-गति-भय-विनिवर्तनाय । सर्व-सत्व-तमो-अन्ध-कार-वि-षम-गत्य्-अ-प्रत्युदावर्तन-अवभास-करणाय परिणामयामि । सर्व-सत्वानां वि-सभाग-समवधान-भय-अभ्यन्त-विगमाय । सर्व-सत्व-प्रिय-वि-प्रयोग-भय-निरोधाय । सर्व-सत्व-अ-प्रिय-संवास-भय-अपनयनाय । सर्व-सत्व-काय-परिपीडा-भय-विसंयोगाय । सर्व-सत्व-चित्त-परिपीडन-भय-निर्मोक्षणाय । सर्व-सत्व-दुष्ख-दौर्मनस्य-उपायास-समतिक्रमणाय परिणामयामि + इति ॥
संक्षेपतः पुनर् इयम् अन्-उत्तरा परिणामना या + इयम् आर्य-भद्र-चर्या-गाथायां । मञ्जुशिरी यथ जानति शूरः सो च समन्तत भद्र तथ + एव । तेषु अहं अनुशिक्षयमाणो नामयमी कुशलं इमु सर्वं ॥
सर्व-त्रिय्-अध्व गतेभि जिनेभिर् या परिणामन वर्णित अग्रा । ताय अहं कुशलं इमु सर्वं नामयमी वर-भद्र-चरीये । इति ॥
इति शिक्षा-समुच्चये भद्र-चर्या-विधिः षोडशमः परिच्छेदः समाप्तः ॥
[xविइ. वन्दनाद्यनुशंसा]
वन्दना-अनुशंसाः सप्तदशः परिच्छेदः ॥
उक्तो वन्दना-आदि-विधिः । तेन पुण्य-वृद्धिर् भवति + इति कुतो गम्यते ॥

आर्य-अवलोकन-सूत्रात् । एवं हि तत्र + उक्तं । वर्जयत्य् अ-क्षणान्य् अष्टौ यए इमे देशिता मया । क्षणं च + आरागयत्य् एकं बुद्ध-उत्पादं सु-शोभनं ॥
वर्णवान् रूप-संपन्नो लक्षणैः समलं-कृतः स्थाम्ना बलेन च + उपेतो न + असौ कौसीद्यम् ऋच्छति [दोउब्त्fउल्] ॥
आढ्यो महा-धनश् च + असौ अ-धृष्यः पुण्यवान् अपि । आराग्य लोक-प्रद्योतं सत्-करोति पुनः पुनः ॥
श्रेष्ठी-कुलेषु स्फीतेषु स आढ्येषु + उपपद्यते । भवेद् दान-पतिः शूरो मुक्त-त्यागो ह्य् अ-मत्सरी ॥
राजा भवेद् धार्मिको * असौ चतुर्-द्वीप-ईश्वरः प्रभुः । प्रशासयेन् महीं कृत्स्नां समुद्र-गिरि-कुण्डलाम् ॥
मह-र्द्धिकश् चक्र-वर्ती सप्त-रत्न-समन्वितः । राज्ये प्रतिष्ठितो बुद्धान् सत्-करोति पुनः पुनः ॥
श्च्युत। च + अस्माद् गतः स्वर्गं प्रसन्नो जिन-शासने । शक्रो भवति देव-इन्द्रः ईश्वरो मरु-मूर्द्धनि ॥
न शक्यं भाषता वर्णं क्षपयितुं कल्प-कोटिभिः । य स्तूपं लोक-नाथस्य नरः कुर्यात् प्रदक्षिणम् ॥
न जातु सो * अन्धः खञ्जो वा कल्पानाम् अपि कोटिभिः । उत्पाद्य बोधि-चित्तं यः शास्तु स्तूपं हि वन्दते ॥
दृढ-वीर्यो दृढ-स्थामो वीरश् च दृढ-विक्रमः । कौशल्यं गच्छति क्षिप्रं कृत्वा स्तूप-प्रदक्षिणम् ॥
यो बुद्ध-कोटि-नियुत-शत-सहस्रान् कल्पान् कोटी च तुलिय सत्-करया । यश् च + इह कल्पे चरमक घोर-काले वन्देय स्तूपं बहुतर तस्य पुण्यम् ॥
अग्रो हि बुद्धो * अ-तुलिय दक्षिणीयो * अग्रां चरित्वा चरिय-विशेष प्राप्तः । तस्य + इह पूजां करिअ नर-रिषभस्य विपाक श्रेष्ठो भवति अ-तुल्य-रूपः ॥
इतश् च्युत्वा मनुष्येभ्यस् त्रायस्त्रिंशेषु गच्छति । विमानं लभते तत्र विचित्रं रतनाम् अयम् ॥
कूट-आगारं स्वयं दत्वा अप्सरो-गण-सेवितः । मालां स्तूपे संप्रदाय त्रायस्त्रिंशेषु जायते ॥
अष्ट-अङ्ग-जल-संपूर्णां सुवर्ण-सिकत-आस्त्रिताम् । वैडूर्य-स्फटिकैश् च + एव दिव्यां पुष्करिणीं लभेत् ॥
भुक्त्वा च तां रतिं दिव्यां आयुः संपूर्य पण्डितः । च्युत्वा च देव-लोकात् स मनुष्यो भवति भोगवान् ॥
जाति-कोटि-सहस्रणि शतानि नियुतानि च । सत्-कृतः स्याच् च सर्वत्र चैत्ये मालां प्रदाय च ॥
चक्र-वर्ती च राजा + असौ शक्रश् च भवति + ईश्वरः । ब्रह्मा च ब्रह्म-लोकस्मिन् चैत्ये मालां प्रदाय च ॥
पट्ट-प्रदान दत्वा तु लोक-नाथस्य तायिनः । सर्वे * अस्य + अर्थाः समृध्यन्ति ये दिव्या ये च मानुषाः ॥
त्यजेद् * धीनान् अ-कुशलान् न स तत्र + उपपद्यते । माला-विहारं कृत्वा च लोक-नाथस्य धातुषु । अ-भेद्य-परिवारेण राजा भूयान् मह-र्द्धिकः ॥
प्रियः सदयितश् च + असौ सत्-कृतश् च प्रशंसितः । दवानाम् अथ नागानां ये लोकेस्मिंश् च पण्डिताः ॥
यत्र + असौ जायते वीरः पुण्य-तेजः-सु-दीपितः । ते कुलाः सत्-कृता भोन्ति राष्ट्राणि नगराणि च ॥
यः सर्षपात् सूक्ष्मतरं गृहीत्वा धूपेय धूपं भगवति चैत्यकेषु । तस्य + अनुशंसान् शृणुत प्रभाषतो मे प्रसन्न-चित्ता जहिय खिलां मलांश् च ॥
स पुण्यवांश् चरति दिशः समन्ताद् आरोग्य-प्राप्तो दृढ-मतिर् अ-प्रमत्तः । विनेति शोकं विचरति चारिकायां प्रियो मनापो भवति महा-जनस्य ॥
राज्यं च लब्ध्वा जिन वरु सत्-करोती महा-अनुभावो विदु चक्र-वर्ती । सुवर्ण-वर्णो विचित्र-लक्षणैः स मनो-ज्ञ-गन्धान् लभि सर्व-लोके ॥
जात-मात्रो लभते श्रेष्ठ-वस्त्रान् दिव्य-विशिष्ट-सु-रुचिर-कौशिकांश् च । भोती सुख-सु-कायः संवेष्ट्य-स्तूपं नाथस्य चीवरैः । यश् चीवरेण चैत्येषु कुर्यात् पूजाम् अ-तुलां नायकानां । तस्य + इह भोती अ-सदृशु आत्म-भावो द्वात्रिंशतीभिः कवचित लक्षणेभिः । पाणी-तलेषु सु-रुचिरु मुक्त-हाराः प्रादुर्-भवन्ती विविध अन्-अन्त-कल्पाः । सिंह-लताः सु-रुचिर-वर्ण-सूत्रा वेठित्व स्तूपं भगवत चीवरेभिः ॥
दत्वा पताकां भगवत चेतिकेषू छन्दं जनित्वा तथ सिय बुद्ध-लोके । स पूजनीयो भवति महा-जनस्य चरन्तु श्रेष्ठो जिन-चारिकाये ॥
सुवर्ण-वर्णो भवति सि आत्म-भावो लाभी स भोती सु-रुचिर-चीवराणां । कर्पासिकानां सु-सहित कम्बलानां दु-कूलकानां तथ वर-कौशकानां ॥
ध्वजं ददित्वा हत-रजि सत्व-सारे धनं प्रभूतं प्रतिलभि न चिरेण । प्रभूत-कोषो भवति अन्-अन्त-प्रज्ञो परिचारु तस्य भवत्य् अ-दीन-चित्तः । न चित्त-शूलं जनयति सो परस्य प्रसाद-चित्तः सद अ-प्रमत्तः । न तस्य अग्निः क्रमति विषन्न-शस्त्रं उद्वीक्षणीयो भवति महा-जनस्य ॥
अधो उपादाय च विभव-अग्रु यावत् जाम्बूनदं तेन भवति बुद्ध-क्षेत्रं । शक्यं क्षयेतुं आयु-श्रिय एव-रूपा न बुद्ध-स्तूपे धरयत एक दीपम् ॥
न तस्य कायो भवति अ-वर्णित-अङ्गो दृढ-असु भोती परिघ-भुजो * अ-छम्भी । आलोक-प्राप्तो [दोउब्त्fउल्] विचरति सर्व-लोके ददित्व दीपं भगवत चेतिकेषु ॥
यदि बुद्ध-क्षेत्रा नियुत-शता सहस्रा भवेयु पूर्णा शिख-गत-सर्षपेभिः । शक्यं गणेतुं तुलयितु भाषितुं वा न तथा-गतेषू धरयितु एक-दीपम् ॥
अलङ्-करित्वा सु-रुचिर-दर्शनीयं यो देति छत्रं भगवत चेतिकेषु । तस्य + इह भोत्य् अ-सदृश आत्म-भावो द्वात्रिंशतीभिः कवचित लक्षणेभिः ॥
येभिर् जिनस्य प्रतपत आत्म-भावो रूपं विशिष्टं यथ-र्-इव [दोउब्त्fउल्] काञ्चनस्य । जाम्बूनदो वा सु-रुचिर-दर्शनीया अभिकीर्ण ... कुसुमित लक्षणेभिः ॥
अभिज्ञ-प्राप्तो भवति महा-यश-आख्यः चरति श्रेष्ठ-आवर-चारिकायां । न भोग-हानिर् भवति कदा-चिद् अस्य देवान भोति गुरु-कृत पूजितश् च ॥
न काम-भोगौ रमति कदा-चि धीरो विशुद्ध-शीलः स-कुशल-ब्रह्म-चर्यः ।समादयित्वा वन्-उपवने उषित्वा + अभियुक्ति-ध्यानो भवति विशेष-प्राप्तः ॥
न ज्ञान-हानिर् भवति कदा-चिद् अस्य न बोधि-चित्तं विजहति सो कथञ्-चित् । मैत्री-विहारी भवति अ-दीन-चित्तो दत्वा + इह छत्त्रं भगवत-चेतिकेषु ॥
वाद्येन पूजां नर-वृषभस्य कृत्वा न शोक शल्य-वश जातु भोति । मनो-ज्ञ-घोषो भवति मनुष्य-लोके स्वर-अङ्गु तस्य + अ-वि-कल विशुद्ध भोति ॥
विशुद्ध-चक्षुर् भवति स संप्रजन्यो विशुद्ध-श्रोत्रो भवति उदग्र-चित्तः । घ्रण-इन्द्रियं परम उत्तप्त भोति वादित्व वाद्यं भगवत चेतिकेषु ॥
जिह्वा + अस्य भोति सु-रुचिर दर्शनीया सु-सूक्ष्म मृद्वी रुचिर मनो-ज्ञ घोषा । रक्ता प्रवाला यथ-र्-इव [दोउब्त्fउल्] देवतानां स्वर-अङ्ग कोटी-वर सृजते * अ-प्रमेयां ॥

न जातु भोती उर-गु अ-जिह्वको वा न खञ्ज-कुब्जो न + अपि च नामित-अङ्गः । विशिष्ट भोती सु-रुचिर आत्म-भावो वादित्व वाद्यं भगवत चेतिकेषु ॥
न जातु कश्-चिज् जनये प्रसादं देवो च नागो मनु-ज महा-उर-गो वा । आश्वास-प्राप्तो विचरति सर्व-लोके वादित्व वाद्यं भगवत चेतिकेषु ॥
कल्पान कोटी-नियुत-शता सहस्रं विशिष्ट-कायो भवति अ-निन्दित-अङ्गः । प्रासादिको * असौ कवचित लक्षणेभिः संशोध्य स्तूपं भगवत निर्वृतस्य ॥
विमान-श्रेष्ठं लभति मनो-ज्ञ-गन्धं दिव्यं विशिष्टं सु-रुचिर-चन्दनस्य । न जातु तृष्णां जनयति सो कदा-चित् संशोध्य स्तूपं भगवत निर्वृतस्य ॥
प्रलोप-काले जिन-वर-शासनस्मिन् न जातु भोती उपगत जम्बु-द्वीपे । स्वर्गे स भोति प्रतिष्ठित तस्मि काले गन्ध-अनुलेपं ददिय जिनस्य स्तूपे ॥
दुर्-गन्धि-कामान् अ-शुचि-जुगुप्सनीयान् वर्जेति नित्यं प्रतिष्ठित शील-स्कन्धे । चरी स नित्यम् इमु वर ब्रह्म-चर्यं गन्ध-अनुलेपं करिय जिनस्य स्तूपे ॥
इतश् च्युतो * असौ मरु-पति स्वर्ग-लोके अर्थं सहस्रा तुलयति न + उ चिरेण । करोति च + अर्थं सु-विपुल-देवतानां गन्ध-अनुलेपं करिय जिनस्य स्तूपे ॥
विशिष्ट-वाक्यो भवति मनो-ज्ञ-घोषः प्रियो मनापो बहु-जन-सत्-कृतश् च । सुखं च तस्य भवति सदा प्रसन्नं गन्ध-अनुलेपं करिय जिनस्य स्तूपे ॥
अपाय-भूमिं ... विजहात्य् अ-शेषां आसन्नको भवति तथा-गतानां । प्रसाद-लब्धः सद सुखि प्रेमणीयो गन्ध-अनुलेपं करिय जिनस्य स्तूपे ॥
सो * अ-क्षणं वै विजहाति सर्वं अष्ट क्षणाश् च + अस्य विशिष्ट भोन्ति । बुद्धान पूजाम् अ-तुलिय सो करोति छोरित्व जालं भगवत चेतिकेषु ॥
शूरश् च भोति दृढ-मतिर् अ-प्रमत्तो न काम-भोगे * अभिरतिं जनेति । नैष्क्रम्य-प्राप्तौ च अ-दीन-चित्तः छोरित्व जालं भगवत चेतिकेषु ॥
न बोधि-चित्तं प्रमुष्यति तस्य जातु अ-खण्ड-शीलो * अस्ति सु-संवृतश् च । धर्मं वि-रागं लभते विशुद्धं उपनीय जालं भगवत चेतिकेषु ॥
दुर्-वाचतां विजहति सर्व-कालं प्रज्ञा-अ-भावं च जहात्य् अ-शेषम् ।विशाल-प्रज्ञो विहरति चारिकायां उपनीय जालं भगवत चेतिकेषु ॥
लाभी च भोती शुचि-भोजनानां वस्त्रान् विशिष्टान् लभते सुवर्णान् । स्पर्श-अभ्युपेतान् रुचि-दर्शनीयान् उपनीय जालं जिन-चेतिकेभ्यः ॥
अभ्युत्क्षिपित्वा जिन-चेतिकेभ्यः निर्-माल्य-शुष्कं प्रमुदित-वेग-जातः । व्रजेत कामान् दुःख-द-वैर-घोरान् आरागयेद् दश-बल-स-अर्थ-वाहान् ॥
प्रासादिको भोति विशुद्ध-कायः उद्वीक्षणीयो बहु-जन-पूजनीयः । न तस्य राजा + अपि प्रदुष्ट-चित्तः यो जीर्ण-पुष्पान् अपनेय चैत्ये ॥
कु-मार्ग सर्वं पिथित अपाय-भूमिः स शील-स्कन्धे स्थित बोधि-सत्वः । अवतारयित्वा जिन-चेतिकेभ्यः पुष्पं च प्राग् अन्य-नरैः प्रदत्तं ॥
शोकांश् च दोषान् विजहात्य् अ-मत्तो रोगान् अ-शेषान् विजहात्य् अन्-एकान् । आश्वास-प्राप्तश् च अन्-अन्त-कल्पान् यो जीर्ण-पुष्पान् अपनेति चैत्ये ॥
बुद्धश् च भोत्य् अ-सदृश-दक्षिणीयो * अ-तुल्य-प्राप्तो नर-मरु-पूजनीयः । अलं-कृतो भवति विशुद्ध-कायः यो जीर्ण-पुष्पान् अपनेति चैत्ये ॥
दद्याच् च यः सु-रुचिर-दिव्य पुष्पं मान्दारवान् अप्य् अथ पाटलं वा । निर्-माल्यकं यो * अपनयेत चैत्ये विपाक श्रेष्ठो * अस्य भवेद् अ-तुल्यः ॥
यः प्राञ्जलिः प्रणमति नाथ-स्तूपं छन्दं जनित्वा च स-बुद्ध-लोके । सो भोति लोके गुरु-कृतु सत्-कृतश् च प्रासादिको भवति सु-दर्शनीयः ॥
तस्य + इह राज्यं निपतति सर्व-लोको देव-असुरा नाग-मनुष्यकाश् च । सर्वाः सहस्राः कुसुमित लोक-धातुः प्रशास्ति राज्ञो वश ईश्वरांश् च ॥
ये तस्य राज्ये स्थित भोन्ति सत्वाः स्थापेय सर्वान् अ-कलुष-बुद्ध-ज्ञाने । अपाय-भूम्यस् त्यक्ता भवन्ति करोति च + एषां परम-सु-श्रेष्ठम् अर्थम् ॥
परिचारो * अस्य भवति मनो-ज्ञ-घोषः पुण्यैर् उपेतः स्मृति-मति-पूजनीयः । आश्वास-प्राप्तो विचरति जीव-लोके सदा + अभिप्रायं जनयति श्रेष्ठ-प्रीतिं ॥
परिचार भोत्य् अस्य स्वर-अङ्ग शुद्धः ज्ञायेत सत्वैर् मधुर-प्रशान्त-वाक्यो । न तस्य कश्-चिज् जनयति च + ईश्वरत्वं विलोकनीयो भवति महा-जनस्य । दान-प्रमोदं प्रियता-अर्थ-चर्यां समान-अर्थतां जनयति महा-जनस्य । आक्रुष्टः सन् न + आजनयेत रोषं यः प्राञ्जलिः प्रणमति बुद्ध-स्तूपं ॥
देव-इन्द्र भोत्य् उपगत-स्वर्ग-लोके मनुष्यको भवति नरस्य राजा । न पारिहाणिर् भवति कदा-चिद् अस्य यो * अञ्जलीभिर् नमति + इह स्तूपं ॥
न + असाव् अपाये प्रपतेत जातु हीनांश् च वर्जेत स काम लोके । आढ्यो धनी भोति प्रभूत-कोषो यो * अञ्जलीभिर् नमति बुद्ध-स्तूपम् ॥
सूत्र-अन्त-चर्या न कदा-चिद् अस्य न + अ-स्थान-कोपं कुरुते नृ-लोके । सत्वाश् च तृप्ता मुदिता + अस्य भोन्ति यः संप्रमुञ्ची गुणवति एक-वाचं ॥
यः पुष्प-मुष्टिं गृहीत्वा + उदग्र-चित्तः प्रसादतो * अवकिरति लोक-नाथे । स पुण्यवान् भवति मनुष्य-लोके राक्षे च स्थित्वा जिन सत्-करोति ॥
शोका न दोषाः खिल-मल न + अस्य भोन्ति अ-तुल्यता-आप्तश् च सु-संस्थित-अङ्गः । आलोकनीयश् च महा-जनस्य व्रजेत कामान भय-कर-वैर-घोरान् । इति ॥
आर्य-महा-करुणा-पुण्डरीक-सूत्रे * अप्य् उक्तं ।तिष्ठतु तावद् आनन्द यो मां संमुखं सत्-कुर्यात् । तिष्ठतु मे शरीरस्य पूजा सर्षप-फल-म-त्रेषु धातुषु । तिष्ठतु माम् उद्दिश्य कृतेषु स्तूपेषु सत्-कारः । ये के-चिद् आनन्द बुद्धम् आलम्ब्य + अन्तश एक-पुष्पम् अप्य् आकाशे क्षेप्स्यन्ति । तस्य पुण्य-स्कन्धस्य यो विपाकः सचेद् यावान् अन्-आदिः संसारो यस्य पूर्वा कोटिर् न प्रज्ञायते । तावतः कल्पान् संसरतां तेषां शक्रत्वं ब्रह्मत्वं चक्र-वर्तित्वं । न शक्यस् तत्-पर्यन्तो * अधिगन्तुम् । तिष्ठतु बुद्ध-आलम्बता + अन्तश आकाशे * अप्य् एक-पुष्प-निक्षेपः । सचेद् अन्तशः स्वप्न-अन्तर-गता अपि सत्वा बुद्धम् आलम्ब्य + आकाशे एक-पुष्पम् अपि क्षेप्स्यन्ति तद् अप्य् अहं कुशल-मूलं निर्वाण-पर्यवसानं वदामि + इति ॥
उक्तं च + आर्य-बृहत्सागर-नाग-राज-परिपृच्छायां । अष्टाभिर् भुज-ग-अधिपते धर्मैः समन्वागता बोधि-सत्वाः सतत-समितं बुद्ध-समवधानं प्रतिलभन्ते । कतमैर् अष्टाभिः । बुद्ध-बिम्ब-दर्शन-सत्व-समादापनतया । तथा-गतस्य + उपस्थान-करणतया । तथा-गतस्य + अभीक्ष्णं वर्ण-भाषणतया । तथा-गत-प्रतिमा-करणतया । तथा-गत-दर्शन-सर्व-सत्व-समादापनतया । यत्र च बुद्ध-क्षेत्रे तथा-गत-श्रवं शृण्वन्ति तत्र प्रणिधानम् उत्पादयन्ति । न च + अवलीन-संततयो भवन्ति । उदार-संततिकाश् च बुद्ध-ज्ञानम् अभिलषन्तए इति ॥
किं पुनः पुण्य-वृद्ध्य्-अर्थिनो बुद्ध-समवधानेन प्रयोजन-भूतं । यस्य गुण-पर्यन्तम् अ-सर्व-ज्ञो न + अधिगच्छेत् ॥

यथा + आर्य-गण्ड-व्यूहे संवर्णितं । सु-दुर्-लभो बुद्ध-शब्दः कल्प-कोटि-शतैर् अपि । किं पुनर् दर्शनं सर्व-काङ्क्षा-च्छेदनम् उत्तमम् ॥
सु-दृष्टो लोक-प्रद्योतः सर्व-धर्म-गतिं गतः । पुण्य-तीर्थं त्रैलोकस्य सर्व-सत्व-विशोधनम् ॥
महत् पुण्यम् अयं क्षेत्रं मुदितं ज्ञान-मण्डलं । भासयत्य् अभितं लोकं पुण्य-स्कन्ध-विवर्द्धनम् ॥
छेदनो दुष्ख-जालस्य ज्ञान-स्कन्ध-विशोधनः । न दुर्-गति-भयं तेषां यैर् इह + आरागितो जिनः ॥
विपुलं जायते चित्तं पश्यतां द्वि-पद-उत्तमं । प्रज्ञा-बलम् अ-संख्येयं जायते च प्रभास्वरं ॥
पुनर् अत्र + एव + आह । अर्थाय सर्व-सत्वानाम् उत्पद्यन्ते तथा-गताः । महा-कारुणिका वीरा धर्म-चक्र-प्रवर्तकाः ॥
प्रतिकर्तुं कथं शक्यं बुद्धानां सर्वे-देहिभिः । सत्व-अर्थेष्व् अभियुक्तानां कल्प-कोटि-शतैर् अपि ॥

कल्प-कोटिं वरं पक्तुं त्र्य्-अपाये भृश-दारुणे । न त्व् एव + अ-दर्शनं शास्तुः सर्व-सर्ग-निवर्तिनः ॥
यावन्तः सर्व-लोकस्मिन्न् अपाय-गतयः पृथक् । वरं तत्र चिरं वासो बुद्धानाम् अ-श्रुतिर् न च ॥
किं कारणम् अपायेषु निवासश् चिरम् इष्यते । यत्-कारणं जिन-इन्द्रस्य दर्शनं ज्ञान-वर्धनम् ॥
छिद्यन्ते सर्व-दुष्खाणि दृष्ट्वा लोक-ईश्वरं जिनं । संभवत्य् अवतारश् च ज्ञाने संबुद्ध-गो-चरे ॥
क्षपयत्य् आवृतीः सर्वा दृष्ट्वा बुद्धं नर-उत्तमम् । वर्धयत्य् अ-मितं पुण्यं येन बोधिर् अवाप्यतए । इति ॥
तद् एवम् अस्ति पुण्य-वृद्धौ बुद्ध-समवधानेन प्रयोजनं ।अपि च प्रतिमा-मात्र-दर्शनम् अपि तावद् अ-परिमित-फलं तथा-गतानां । किं पुनः स्व-रूपेण ॥
उक्तं ह्य् आर्य-श्रद्धा-बल-आधान-अवतार-मुद्रा-सूत्रे । यः कश्-चिन् मञ्जुश्रीः कुल-पुत्रः कुल-दुहिता वा सर्व-लोक-धातु-रज-उपमानां प्रत्य्-एक-बुद्धानां दिने दिने शत-रसम् आहारं दद्यात् दिव्यानि च वस्त्राणि । एवं ददद् गङ्गा-नदी-वालुका-उपमान् कल्पान् दद्यात् । यश् च + अन्यो मञ्जुश्रीः कुल-पुत्रः कुल-दुहिता वा चित्र-कर्म-लिखितं वा पुस्तक-कर्म-कृतं वा बुद्धं पश्येद् । अयं ततो * अ-संख्येयतरं पुण्यं प्रसवति । कः पुनर् वादो यो * अञ्जलि-प्रग्रहं वा कुर्यात् पुष्पं वा दद्यात् धूपं वा गन्धं वा दीपं वा दद्याद् । अयम् एव ततो * अ-संख्येयतरं पुण्यं प्रसवति + इति ॥
आर्य-बोधि-सत्व-पिटके * अपि पुण्य-वृद्ध्य्-उपाय उक्तः । यस् तथा-गत-चैत्यं शोधयति स चतस्रो * अग्राः प्रणिधान-विशुद्धीर् अनुप्राप्नोति । कतमाश् चतस्रः । अग्रां रूप-प्रणिधान-विशुद्धिं । अग्रां दृढ-समादान-प्रणिधान-विशुद्धिं । अग्रां तथा-गत-दर्शन-प्रणिधान-विशुद्धिं ।अग्रां लक्षण-संपत्-प्रणिधान-विशुद्धिम् इति ॥
पुनर् अत्र + एव + आख्यातं । तथा-गत-चैत्येषु पुष्प-अवरोपणं गन्ध-अनुलेपनं कृत्वा + अष्टाव् अ-वि-कलता अनुप्राप्नोति । कतमा अष्टौ । न रूप-वि-कलो भवति । न भोग-वि-कलः । न परिवार-वि-कलः । न शील-वि-कलः । न समाधि-वि-कलः । न श्रुत-वि-कलो न प्रज्ञा-वि-कलो न प्रणिधान-वि-कल इति ॥
उक्तं च + आर्य-रत्न-राशि-सूत्रे । ये त्रि-भव-पर्यापन्नाः सत्वास् ते सर्वे प्रत्य्-एकं तथा-गत-स्तूपान् कारयेयुर् एवं-रूपान् उच्चैस्त्वेन । तद् यथा सुमेरुः पर्वत-राजः । तांश् च गङ्गा-नदी-वालिका-समान् कल्पान् प्रत्य्-एकं सर्व-सत्-कारैः सत्-कुर्युः । यश् च बोधि-सत्वो * अ-विरहित-सर्व-ज्ञता-चित्तेन + एक-पुष्पम् अप्य् आरोपयेत् । अयं तस्मात् पूर्वकात् पुण्य-स्कन्धाद् बहुतरं पुण्यं प्रसवेत् ॥
अत्र + एव + उक्तं । ये खलु पुनस् त्रि-साहस्र-महा-साहस्रे लोक-धातौ सत्वास् ते सर्वे महा-यान-संप्रस्थिता भवेयुः । सर्वे च चक्र-वर्ति-राज्य-समन्वागता भवेयुर् एक-एकश् च राजा चक्र-वर्ती महा-समुद्र-प्रमाण-दीप-स्थालीं कृत्वा । सुमेरु-मात्रां वर्तीम् आदीप्य प्रत्य्-एकम् एवं-रूपां दीप-पूजां तथा-गत-चैत्येषु प्रवर्तयेत् । यश् च + अभिनिष्क्रान्त-गृह-आवासो बोधि-सत्वस् तैल-प्रक्षिप्तां वर्तीं कृत्वा + आदीप्य तथा-गत-चैत्ये धारयेत् । अस्यास् तैल-प्रक्षिप्ताया वर्तेर् एतत् पूर्वकं प्रदीप-दानं शततमीम् अपि कलां न + उपैति । यावद् उपनिषदम् अपि न क्षमतए इति । पेयालं ॥
ये च खलु पुनस् ते राजानश् चक्र-वर्तिनो बुद्ध-प्रमुखं भिक्षु-संघं सर्व-सुख-उपधानैः सत्-कुर्युः यश् च + अभिनिष्क्रान्त-गृह-आवासो बोधि-सत्वः पिण्ड-पात्रं चरित्वा पात्र-पर्यापन्नं परेषां संविभज्य परिभुञ्जीत । इदं ततो बहुतरं च महा-अर्घतरं च । यच् च ते राजानश् चक्र-वर्तिनः सुमेरु-मात्रं चीवर-राशिं बुद्ध-प्रमुखाय भिक्षु-संघाय दद्युः । यच् च + अभिनिष्क्रान्त-गृह-आवासो बोधि-सत्वस् त्रि-चीवरं बहिर्-धा महा-यान-संप्रस्थिताय बुद्ध-प्रमुखाय भिक्षु-संघाय वा तथा-गत-चैत्ये वा दद्याद् । इदं भिक्षोश् चीवर-दानम् एतत् पूर्वक-चीवर-राशिम् अभिभवति । यच् च ते राजानः प्रत्य्-एकं सर्वं जम्बू-द्वीपं पुष्प-संस्तृतं कृत्वा तथा-गत-चैत्ये निर्यातयेत् । यच् च + अभिनिष्क्रान्त-गृह-आवासो बोधि-सत्वः अन्तश एक-पुष्पम् अपि तथा-गत-चैत्ये आरोपयेत् । अस्य दानस्य + एतत् पूर्वकं दानं शततमीम् अपि कलां न + उपैति । यावद् उपनिषदम् अपि न + उपैति + इति ॥
आर्य-अनुपूर्व-समुद्गत-परिवर्ते * अपि देशितं । चतुर इमान् भद्र-अनुशंसान् पश्यन् बोधि-सत्वस् तथा-गत-पूजायाम् उत्सुको भवति । कतमांश् चतुरः । अग्रश् च मे दक्षिणीयः पूजितो भविष्यति मां च दृष्ट्वा + अन्ये * अपि तथा शिक्षिष्यन्ति । तथा-गतं च पूजयित्वा बोधि-चित्तं दृढं भविष्यति । द्वात्रिंशतां च महा-पुरुष-लक्षणानां संमुख-दर्शनेन कुशल-मूलम् उपचितं भविष्यति । इमाश् चत्वारः इति ॥
इदं च निर्-उत्तरं तथा-गत-पूजा-उपस्थानं ।यथा + उदाहृतम् आर्य-सागरमति-परिपृच्छा-सूत्रे । त्रीणि + इमानि सागरमते तथा-गतस्य निर्-उत्तराणि पूजा-उपस्थानानि । कतमानि त्रीणि । यच् च बोधि-चित्तम् उत्पादयति । यच् च सद्-धर्मं परिगृह्णाति । यच् च सत्वेषु महा-करुणा-चित्तम् उत्पादयति + इति ॥
निर्दिष्टम् अप्य् आर्य-रत्न-मेघे । दशभिः कुल-पुत्र धर्मैः समन्वागता बोधि-सत्वा अन्-अनुलिप्ता गर्भ-मलेन जायन्ते । कतमैर् दशभिः । यद् उत । तथा-गत-प्रतिमा-करणतया । जीर्ण-चैत्य-संस्करणतया । तथा-गत-चैत्येषु गन्ध-विलेपन-अनुप्रदानेन । तथा-गत-प्रतिमासु गन्ध-उदक-स्नान-अनुप्रदानेन । तथा-गत-चैत्येषु संमार्जन-उपलेपन-अनुप्रदानेन । माता-पितॄणां काय-परिचर्या-आचरणेन आचार्य-उपाध्यायानां काय-परिचर्या-आचरणेन । स-ब्रह्म-चारिणां काय-परिचर्या-आचरणेन । तच् च निर्-आमिषेण चित्तेन न स-आमिषेण । तच् च कुशलम् एवं परिणामयन्ति । अनेन कुशल-मूलेन सर्व-सत्वा निर्-उपलिप्ता गर्भ-मलेन जायन्ताम् इति । तच् च तीव्रेण + आशयेन चिन्तयन्ति । एभिः कुल-पुत्र दशभिर् धर्मैर् इति ॥
अनुमोदन-अनुशंसास् त्व् आर्य-प्रज्ञा-पारमितायाम् उक्ताः । यः प्रथम-यान-संप्रस्थितानां बोधि-सत्वानां महा-सत्वानां तांश् चित्त-उत्पादान् अनुमोदते ।चरताम् अपि बोधि-सत्व-चर्यां तांश् चित्त-उत्पादान् अनुमोदते । अ-विनिवर्तनीयाम् अपि अ-विनिवर्तनीय-धर्मताम् अनुमोदते बोधि-सत्वानां महा-सत्वानां । कियन्तं स भगवन् कुल-पुत्रो वा कुल-दुहिता वा बहुतरं पुण्य-स्कन्धं प्रसवति ॥
एवम् उक्ते भगवान् शक्रं देवानाम् इन्द्रम् एतद् अवोचत् । पे । स्यात् खलु पुनः कौशिक त्रि-साहस्र-महा-साहस्रस्य लोक-धातोः पल-अग्रेण तुल्यमानसस्य प्रमाणम् उद्ग्रहीतुं । न त्व् एव कौशिक बोधि-सत्वस्य महा-सत्वस्य तेषाम् अनुमोदना-सह-गतानां चित्त-उत्पादानां पुण्य-प्रमाणं ग्रहीतुं ॥

एवम् उक्ते शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत् । मार-अधिष्ठितास् ते भगवन् सत्वा वेदितव्या । ये बोधि-सत्वानां महा-सत्वानां प्रथम-चित्त-उत्पादम् उपादाय यावद् अन्-उत्तरां सम्यक्-संबोधिम् अभिसंबुद्धानाम् एवम् अ-प्रमेयम् अनुमोदना-सह-गतं पुण्यम् इति न शृण्वन्ति न जानन्ति । ताम् अनुमोदनां न समन्वाहरन्ति । मार-पक्षिकास् ते भगवन् सत्वा भविष्यन्ति ॥
भगवान् आह । पे । यैः कौशिक कुल-पुत्रैः कुल-दुहितृभिश् च + इमे चित्त-उत्पादा अनुमोदिता बोधि-सत्व-यानिकैर् वा प्रत्य्-एक-बुद्ध-यानिकैर् वा श्रावक-यानिकैर् वा । ते क्षिप्रं तथा-गतान् अर्हतः सम्यक्-संबुद्धान् आरागयिष्यन्ति ॥
भगवान् आह ॥
एवं तैर् अनुमोदना-सह-गतैश् चित्त-उत्पाद-कुशल-मूलैर् यत्र यत्र + उपपत्स्यन्ते तत्र तत्र सत्-कृताश् च भविष्यन्ति गुरु-कृताश् च मानिताश् च पूजिताश् च अर्चिताश् च अपचायिताश् च भविष्यन्ति । न च ते * अ-मन-आपानि रूपाणि द्रक्ष्यन्ति । न च ते * अ-मन-आपान् शब्दान् श्रोष्यन्ति । एवं न गन्धान् न रसान् न स्प्रष्टव्यान् स्प्रक्ष्यन्ति न च तेषाम् अपायेषु + उपपत्तिः प्रतिकाङ्क्षितव्या स्वर्ग-उपपत्तिस् तेषां प्रतिकाङ्क्षितव्या । तत् कस्य हेतोः । तथा हि तैः सत्वैः सर्व-सत्व-सुख-आवहनानि अ-संख्येयानां सत्वानां कुशल-मूलान्य् अनुमोदितानि यावद् अन्-उत्तरां सम्यक्-संबोधिम् अभिसंबुद्ध्य + अ-प्रमेय-अ-संख्येयान् सत्वान् परिनिर्वापयिष्यन्ति + इति ॥
पुनर् अत्र + एव + आह । ये सुभूते गङ्गा-नदी-वालिका-उपमेषु त्रि-साहस्र-महा-साहस्रेषु लोक-धातुषु सर्व-सत्वास् ते सर्वे * अन्-उत्तरां सम्यक्-संबोधिं प्रतितिष्ठेयुर् अन्-उत्तरां सम्यक्-संबोधिं प्रतिष्ठाय गङ्गा-नदी-वालिका-समान् कल्पान् उपलम्भ-संज्ञिनश् चत्वारि ध्यानानि समापद्येरन् । यश् च बोधि-सत्वो महा-सत्वो * अनया प्रज्ञा-पारमितया उपाय-कौशल्येन च परिगृहीता + अतीत-अन्-आगत-प्रत्य्-उत्पन्नानां बुद्धानां भगवतां शील-समाधि-प्रज्ञा-विमुक्ति-विमुक्ति-ज्ञान-दर्शन-स्कन्धं । श्रावकानां प्रत्य्-एक-बुद्धानाम् अपि शील-समाधि-प्रज्ञा-विमुक्ति-विमुक्ति-ज्ञान-दर्शन-स्कन्धं सर्वम् एकतो * अभिसंक्षिप्य पिण्डयित्वा तुलयित्वा निर्-अवशेषम् अनुमोदेत + अग्रया + अनुमोदनया ज्येष्ठया श्रेष्ठया वरया प्रवरया प्रणीतया उत्तरया निर्-उत्तरया उत्तर-उत्तरया अ-समया + अ-सम-समया + अ-प्रति-समया + अनुमोदनया + अनुमोद्य + अनुमोदना-सह-गतं [दोउब्त्fउल्] पुण्य-क्रिया-वस्त्व् अन्-उत्तरायै सम्यक्-संबोधये परिणामयति । अस्य सुभूते * अनुमोदना-सह-गतस्य पुण्य-क्रिया-वस्तुनो * असौ पूर्वक औपलम्भिकानां बोधि-सत्वानां चतुर्-ध्यान-मयः पुण्य-अभिसंस्कारः शततमीम् अपि कलां न + उपैति यावद् उपनिषदम् अपि न क्षमतए इति ॥
अयम् एव नयः परिणामनायाम् उक्तः । अथ-वा + अग्र-परिणामनया परिणामितत्वात् सर्व-पुण्यानाम् अस्य बुद्धत्वाय सत्-कृत-प्रणिधि-बुद्धत्वम् एव स्यात् । अतः का परा पुण्य-वृद्धिः । तद् * ध्य् अ-शेष-सत्व-मोक्ष-कृत-पुण्य-ज्ञान-उपेतं निर्-विकल्पं च ॥
अध्येषणायास् त्व् अनुशंसा आर्य-उग्र-परिपृच्छायाम् उक्ता धर्म-ग्राह्यताम् उपादाय + अ-प्रमेय-अ-संख्येयेषु बुद्ध-क्षेत्रेष्व् आयुः परिरक्षणाय + इति ॥
आर्य-शिक्षा-समुच्चये वन्दना-आद्य्-अनुशंसा सप्तदश-परिच्छेदः समाप्तः ॥
[xविइइ रत्नत्रयानुस्मृति]
रत्न-त्रय-अनुस्मृतिर् नाम + अष्टादशः परिच्छेदः ॥
उक्ता भद्र-चर्या-विधिना पुण्य-वृद्धिः । अस्याश् च + अयम् अ-परो हेतुः । यो * अयं श्रद्धा-आदीनां सदा + अभ्यासः ॥
यथा + उक्तम् आर्य-तथा-गत-गुह्य-सूत्रे । चत्वार इमे महा-राज धर्मा महा-यान-संप्रस्थितानां विशेष-गामितायै संवर्तन्ते * अ-परिहाणाय च । कतमे चत्वारः । श्रद्धा महा-राज विशेष-गामितायै संवर्तते * अ-परिहाणाय । तत्र कतमा श्रद्धा । यया श्रद्धया आर्यान् उपसंक्रामति । अ-करणीयं च न करोति ॥
गौरवं महा-राज विशेष-गामितायै संवर्तते । येन गौरवेण सु-भाषितं शृणोति शुश्रूषते * अ-विरहित-श्रोत्रश् च धर्मं शृणोति ॥
निर्-मानता महा-राज विशेष-गामितायै संवर्तते । यया निर्-मानतया आर्याणाम् अभिनमति प्रणमति नमस्यति ॥
वीर्यं महा-राज विशेष-गामितायै संवर्तते * अ-परिहाणाय । येन वीर्येण काय-लघुतां चित्त-लघुतां च प्रतिलभते सर्व-कार्याणि च + उत्तारयति ॥
इमे महा-राज चत्वार इति ॥
एषां श्रद्धा-आदीनां सदा + अभ्यासः कार्यः । अथ-वा + अन्येषां श्रद्धा-आदीनां ॥
यथा + आह आर्य-अक्षयमति-सूत्रे पञ्च + इमानि + इन्द्रियाणि । कतमानि पञ्च । श्रद्धा-इन्द्रियं वीर्य-इन्द्रियं स्मृति-इन्द्रियं समाधि-इन्द्रियं प्रज्ञा-इन्द्रियम् इति ॥
तत्र कतमा श्रद्धा । यथा श्रद्धायाश् चतुरो धर्मान् अभिश्रद्दधाति । कतमांश् चतुरः । संसार-अवचरीं लौकिकीं सम्यग्-दृष्टिं श्रद्दधाति । स कर्म-विपाक-प्रति-शरणो भवति । यद् यत् कर्म करिष्यामि तस्य तस्य कर्मणः फल-विपाकं प्रत्यनुभविष्यामि + इति । स जीवित-हेतोर् अपि पापं कर्म न करोति । बोधि-सत्व-चारिकाम् अभिश्रद्दधाति । तच्-चर्या-प्रतिपन्नश् च + अन्यत्र याने स्पृहां न + उत्पादयति । परम-अर्थ-नीत-अर्थं गम्भीर-प्रतीत्य-समुत्पाद-नैरात्म्य-निः-सत्व-निर्-जीव-निः-पुद्गल-व्यवहार-शून्यता-निमित्त-अ-प्रणिहित-लक्षणान् सर्व-धर्मान् श्रुत्वा श्रद्दधाति । सर्व-दृष्टि-कृतानि च न + अनुशेते सर्व-बुद्ध-धर्मान् बल-वैशारद्य-प्रभृतींश् च श्रद्दधाति । श्रद्धाय च विगत-कथं-कथस् तान् बुद्ध-धर्मान् समुदानयति । इदम् उच्यते श्रद्धा-इन्द्रियम् ॥
तत्र कतमद् वीर्य-इन्द्रियं । यान् धर्मान् श्रद्धा-इन्द्रियेण श्रद्दधाति तान् धर्मान् वीर्य-इन्द्रियेण समुदानयति + इदम् उच्यते वीर्य-इन्द्रियं ॥
तत्र कतमत् स्मृति-इन्द्रियं । यान् धर्मान् वीर्य-इन्द्रियेण समुदानयति तान् धर्मान् स्मृति-इन्द्रियेण न विप्रणाशयति । इदम् उच्यते स्मृति-इन्द्रियम् ॥
तत्र कतमत् समाधि-इन्द्रियं । यान् धर्मान् स्मृति-इन्द्रियेण न विप्रणाशयति तान् समाधि-इन्द्रियेण + एक-अग्री-करोति + इदम् उच्यते समाधि-इन्द्रियं ॥
तत्र कतमत् प्रज्ञा-इन्द्रियम् ।यान् धर्मान् समाधि-इन्द्रियेण + एक-अग्री-करोति तान् प्रज्ञा-इन्द्रियेण प्रत्यवेक्षते प्रतिविध्यति । यद् एतेषु धर्मेषु प्रत्य्-आत्म-ज्ञानम् अ-पर-प्रत्यय-ज्ञानम् इदम् उच्यते प्रज्ञा-इन्द्रियं ॥

एवम् इमानि पञ्च-इन्द्रियाणि सहितान्य् अनुप्रबद्धानि सर्व-बुद्ध-धर्मान् परिपूरयन्ति । व्याकरण-भूमिं च + आप्ययन्ति इति ॥
श्रद्धा-आदीनां बलानां सदा + अभ्यासः कार्यः । यथा + उक्तम् आर्य-रत्न-चूड-सूत्रे । तत्र कतमत् कुल-पुत्र बोधि-सत्वस्य बल-चर्या-परिशुद्धिः । यद् एभिर् एव + इन्द्रियैर् उपस्तब्धो * अन्-अवमर्द्यो भवति सर्व-मारैः । अ-संहार्यो भवति श्रावक-प्रत्य्-एक-बुद्ध-यानाभ्यां । अ-विनिवर्त्यो भवति महा-यानात् । दुर्-धर्षो भवति सर्व-क्लेशैः । दृढो भवति पूर्व-प्रतिज्ञासु । तृप्तो भवति चित्तेन । बलवान् भवति कायेन । गुप्तो भवति + इन्द्रियैः । दुः-पराजयो भवति तीर्थि-करैः । इत्य् आदि ॥
एवं तावच् * छ्रद्धा-आदीनां सदा + अभ्यासः पुण्य-वृद्धये ॥
का मैत्री ॥
यथा + आह चन्द्र-प्रदीप-सूत्रे । यावन्ति पूजा बहु-विध अ-प्रमेया या क्षेत्र-कोटीन् अ-युत-बिम्बरेषु । तां पूज-कृत्वा पुरुष-वरेषु नित्यं संख्या-कलापो न भवति मैत्र-चित्त । इति ॥
का बुद्ध-आद्य्-अनुस्मृतिः ॥
तत्र राष्ट्रपाल-सूत्रे संवर्णिता । वन्दामि ते कनक-वर्ण-निभा वर-लक्षणा वि-मल-चन्द्र-मुखा । वन्दामि ते अ-सम-ज्ञान-परा सदृशो न ते * अस्ति त्रि-भवे वि-रजा ॥
मृदु चारु स्निग्ध शुभ केश नखा गिरि-राज-तुल्य तव च + उष्णिर् इह । न + उष्नीषम् ईक्षितु तव + अस्ति समो विभ्राजते भ्रुवि तव + ऊर्ण मुने ॥
कुन्द-इन्दु-शङ्ख-हिम-शुभ्र-निभा नील-उत्पल-अभ-शुभ-नेत्र-वरा । कृपया + ईक्षसे जगद् इदं हि यया वन्दामि ते वि-मल-नेत्र जिन ॥
जिह्वा प्रभूत तनु ताम्र-निभा वदनं च छादयसि येन स्वकं । धर्मं वदन् विनयसे च जगत् वन्दामि ते मधुर-स्निग्ध-गिरा ॥
दशनाः शुभाः सु-दृढ वज्र-निभाः त्रिंशद्-दश + अप्य् अ-विरलाः सहिताः । कुर्वन् स्मितं विनयसे च जगत् वन्दामि ते मधुर-सत्य-कथा ॥
रूपेण च + अ-प्रति-समो * असि जिनः प्रभया च भासयसि क्षेत्र-शतान् । ब्रह्म-इन्द्र-पाल-जगतो भगवन् जिह्मी-भवन्ति तव ते प्रभया ॥
एणेय जङ्घ भगवन्न् अ-समा गज-राज-बर्हि-मृग-राज-गतो । ईक्षन् व्रजस्य् अपि युगं भगवन् संकम्पयन् धरणि-शैल-तटान् ॥
कायश् च लक्षण-चितो भगवन् सूक्ष्म छवी कनक-वर्ण-निभा । न + ईक्षञ् जगद् व्रजति तृप्तिम् इदं रूपं तव + अ-प्रतिम-रूप-धर ॥
त्वं पूर्व-कल्प-शत-चीर्ण-तपाः त्वं सर्व-त्याग-दम-दान-रतः । त्वं सर्व-सत्व-कृप-मैत्र-मनाः वन्दामि ते परम-कारुणिकम् ॥
त्वं दान-शील-निरतः सततं त्वं क्षान्ति-वीर्य-निरतः सु-दृढः । त्वं ध्यान-प्रज्ञ-प्रभ-तेज-धरो वन्दामि ते अ-सम-ज्ञान-धर ॥
त्वं वादि-सूर कु-गण-प्रमथी त्वं सिंह-वन् नदसि पर्षदि च । त्वं वैद्य-राज त्रि-मल-अन्त-करो वन्दामि ते परम-प्रीति-कर ॥
वाक्-काय-मानस-विशुद्ध मुने त्रि-भवेष्व् अ-लिप्त-जल-पद्मम् इव । त्वं ब्रह्म-घोष-कलविङ्क-रुतो वन्दामि ते त्रैभव-पार-गतम् ॥
माया-उपमं जगद् इमं भवता नट-रङ्ग-स्वप्न-सदृशं विदितं । न + आत्मा न सत्व न च जीव-गती धर्मा मरीचि-दक-चन्द्र-समाः ॥
शून्याश् च शान्त अन्-उत्पाद-नयं अ-विजानद् एव जगद् उद्भ्रमति । तेषाम् उपाय-नय-युक्ति-शतैः अवतारयस्य् अति-कृपालुतया ॥
राग-आदिभिश् च बहु-राग-शतैः संभ्रामितं सतत वीक्ष्य जगत् । वैद्य-उपमो विचरसे * अ-प्रतिमो परिमोचयन् सु-गत सत्व-शतान् ॥
जाती-जरा-मरण-शोक-हतं प्रिय-वि-प्रयोग-परिदेव-शतैः । सतत-आतुरं जगद् अवेक्ष्य मुने परिमोचयन् विचरसे कृपया ॥
रथ-चक्र-वद् भ्रमति सर्व-जगत् तिर्यक्षु प्रेत-निरये सु-गतौ । मूढा अ-देशिक अ-नाथ-गताः तस्य प्रदर्शयसि मार्ग-वरं ॥
ये ते बभूवु पुरिमाश् च जिनाः धर्म-ईश्वरा जगति च + अर्थ-कराः । अयम् एव तैः प्रकथित-आर्य-पथो यद् देशयस्य् अपि विभो * अ-प्रतिमः ॥
स्निग्धं ह्य् अ-कर्कश मनो-ज्ञ वरं ब्रह्म-अधिकं परम-प्रीति-करं । गन्धर्व-किन्नर-वर-अप्सरसाम् अभिभूय तां गिरम् उदाहरसे ॥
सत्य-आर्जव-अ-क्षयम् उपाय-नयैः परिशोधितां गिरम् अन्-अन्त-गुणां । श्रुत्वा हि यां नियुत-सत्व-शताः यान-त्रयेण जनयन्ति शमम् ॥
तव पूजया सुखम् अन्-एक-विधम् दिव्यं लभन्ति मनु-जेषु तथा । आढ्यो महा-धन महा-विभवो भवते जगद्-धित-करो नृ-पतिः ॥
बल-चक्र-वर्त्य् अपि च द्वीप-पतिः जगद् आवृणोति दशभिः कुशलैः । रत्नानि सप्त लभते सु-शुभा त्वयि संप्रसाद-जनको * अ-प्रतिमः ॥
ब्रह्मा + अपि शक्र अपि लोक-पतिः भवते च संतुषिट देव-पतिः । पर-निर्मितो * अपि च स याम-पतिः त्वत्-पूजया भवति च + अपि जिनः ॥
एवं ह्य् अ-मोघ तव पूजा कृता संदर्शनं श्रवणम् अप्य् अ-समं । भवते जगद् विविध-दुःख-हरं स्पृशते पदं च परमं वि-रजं ॥
मार्ग-ज्ञ मार्ग-कुशला भगवन् कु-पथान् निवारयसि लोकम् इमं । क्षेमे शिवे वि-रजि आर्य-पथे प्रतिष्ठापयसि जगद् भगवन् ॥
पुण्य-अर्थिकस्य तव पुण्य-निधे सतत-अ-क्षया भवति पुण्य-क्रिया । बहु-कल्प-कोटिषु न याति क्षयं यावद् * धि न स्पृशति बोधि वरां ॥
परिशुद्ध-क्षेत्र लभते रुचिरं परिनिर्मित-अभ सद प्रीति-करं । शुद्धाश् च काय-वचसा मनसा सत्वा भवन्त्य् अपि च क्षेत्र-वरे ॥
इत्य् एवम् आदि-गुण न + एक-विधान् लभते जिन-अर्चन-कृतान् मनु-जः । स्वर्ग-अपवर्ग मनु-जेषु सुखं लभते च पुण्य-निधि सर्व-जगे ॥
कीर्ति-यशश् च प्रसृतं विपुलं तव सर्व-दिक्षु बहु-क्षेत्र-शतान् । संकीर्तयन्ति सु-गताः सततं तव वर्ण-माल परिषत्सु जिनाः ॥
विगत-ज्वरा जगति मोक्ष-कराः प्रिय-दर्शना अ-सम-कारुणिकाः । शान्त-इन्द्रिया शम-रता भगवन् वन्दामि ते नर-वर-प्रवर ॥
लब्धा अभिज्ञ जिन पञ्च मया गगने स्थितेन ते निशम्य गिरम् । भविता + अस्मि वीर सु-गत-प्रतिमो विभजिष्य धर्मम् अ-मलं जगतः ॥
स्तुत्वा + अद्य सर्व-गुण-पार-गतं नर-देव-नाग-महितं सु-गतं । पुण्यं यद् अर्जितम् इदं विपुलं जगद् आप्नुयाद् अपि च बुद्ध-पदम् ।इति ॥
अथ-वा यथा + आर्य-धर्म-संगीति-सूत्रे कथितं । पुनर् अ-परं बुद्धा भगवन्तो महा-पुण्य-ज्ञान-संभारा महा-मैत्री-महा-करुणा-गो-चरा महा-सत्व-राशेः त्राण-भूता महा-भैषज्य-शल्य-हर्तारः सर्व-सत्व-सम-चित्त-अ-नित्य-समाधि-गो-चराः संसार-निर्वाण-विमुक्ता यावत् सत्वानां माता-पितृ-कल्पाः समान-मैत्र-चित्ताः । पे ॥

सर्व-लोक-अन्-अभिभूताः सर्व-लोकस्य + आलोक-भूता महा-योग-योगिनो महा-आत्मानो महा-जन-परिवारा विशिष्ट-जन-परिवारा अ-निवारित-दर्शन-श्रवण-पर्युपासनाः स्व-सुख-निर्-अपेक्षाः पर-दुष्ख-प्रशमन-प्रिया धर्म-प्रिया धर्म-धरा धर्म-आहारा धर्म-भिषजो धर्म-ईश्वरा धर्म-स्वामिनो धर्म-दान-पतयो नित्य-त्याग-अभिरता नित्य-अ-प्रमत्ता नित्य-विवेक-अभिरताः सर्वत्र तीर्थ-सेतु-भूता महा-राज-मार्ग-प्रख्या यावद् * अ-सेचनक-दर्शना बुद्धा भगवन्त । एवं तान् अनुस्मरति । एवं च तान् अनुस्मृत्य तद्-गुण-परिनिष्पत्त्य्-अर्थं स्मृतिम् उपस्थापयति + इति ॥

तद् उच्यते बुद्ध-अनुस्मृतिर् इति ॥
अत्र + एव धर्म-अनुस्मृतिम् आह । इह बोधि-सत्वस्य + एवं भवति । यए एते बुद्धा भगवन्तो * अन्-अन्त-अ-पर्यन्त-गुणा एते धर्म-जा धर्म-पदा धर्म-निर्मिता धर्म-अधिपतेया धर्म-प्रभा धर्म-गो-चरा धर्म-प्रति-शरणा धर्म-निष्पन्नाः । पेयालं ॥
यान्य् अपि लौकिकानि लोक-उत्तराणि च सुखानि सन्ति । तान्य् अपि धर्म-जानि धर्म-निष्पन्नानि । तस्मान् मया बोध्य्-अर्थिकेन धर्म-गुरुकेण भवितव्यं । धर्म-गौरवेण धर्म-प्रति-शरणेन धर्म-परायणेन धर्म-सारेण धर्म-अन्व ... धर्म-प्रतिपन्नेन । इति + इयम् उच्यते बोधि-सत्वस्य धर्म-अनुस्मृतिः ॥
पुनर् अ-परं बोधि-सत्वस्य + एवं भवति । समो हि धर्मः समः सत्वेषु प्रवर्तते । धर्मो हीन-मध्य-विशिष्ट-अन्-अपेक्ष्यः प्रवर्तते । तथा मया धर्म-सदृश-चित्तेन भवितव्यं । न धर्मो सुख-प्रेक्षिकया प्रवर्तते । अ-पक्ष-पतितो हि धर्मः । तथा मया धर्म-सदृश-चित्तेन भवितव्यं ।न धर्मः कालम् अपेक्ष्य प्रवर्तते ।आकालिको हि धर्मः । ऐहिपश्यिकः । प्रत्य्-आत्म-वेदनीयः ।तथा मया धर्म-सदृश-चित्तेन भवितव्यं ।न धर्म उदारे प्रवर्तते हीनेषु न प्रवर्तते । अन्-उन्नाम-अवनामो हि धर्मः ।तथा मया धर्म-सदृश-चित्तेन भवितव्यं ।न धर्मः शुद्धेषु प्रवर्तते क्षतेषु न प्रवर्तते । उत्कर्ष-अपकर्ष-अपगतो हि धर्मस् तथा मया धर्म-सदृश-चित्तेन भवितव्यं ।न धर्म आर्येषु प्रवर्तते पृथग्-जनेषु न प्रवर्तते । क्षेत्र-दृष्टि-विगतो हि धर्मः । तथा मया धर्म-सदृश-चित्तेन भवितव्यं । न धर्मो दिवा प्रवर्तते रात्रौ न प्रवर्तते । रात्र्यां वा प्रवर्तते दिवा न प्रवर्तते । सदा + अधिष्ठितो हि धर्मः । तथा मया धर्म-सदृश-चित्तेन भवितव्यम् । न धर्मो विनय-वेलाम् अतिक्रामति । न धर्मस्य क्व-चिद् विलम्बः । तथा मया धर्म-सदृश-चित्तेन भवितव्यम् । न धर्मस्य + ऊनत्वं न पूर्णत्वम् अ-प्रमेय-अ-संख्येयो हि धर्म आकाश-वन् न क्षीयते न वर्धते । तथा मया धर्म-सदृश-चित्तेन भवितव्यं । न धर्मः सत्वै रक्ष्यते । धर्मः सत्वान् रक्षति । तथा मया धर्म-सदृश-चित्तेन भवितव्यं ।न धर्मः शरणं पर्येषते ।धर्मः सर्व-लोकस्य शरणं ।तथा मया धर्म-सदृश-चित्तेन भवितव्यं ।न धर्मस्य क्व-चित् प्रतिघातो । अ-प्रति-हत-लक्षणो हि धर्मः ।तथा मया धर्म-सदृश-चित्तेन भवितव्यं ।न धर्मो * अनुशयं वहति । निर्-अनुशयो हि धर्मः ।तथा मया धर्म-सदृश-चित्तेन भवितव्यम् । न धर्मः संसार-भय-भीतो न निर्वाण-अनुनीतः । सदा निर्-विकल्पो हि धर्मः ।तथा मया धर्म-सदृश-चित्तेन भवितव्यम् ।एवं बोधि-सत्वो धर्म-वद् धर्मे स्मृतिम् उपस्थापयति । तद् उच्यते धर्म-अनुस्मृतिर् इति ॥
अत्र + एव + आह । संघो हि धर्म-वादी धर्म-चरणो धर्म-चिन्तको धर्म-क्षेत्रं धर्म-धरो धर्म-प्रति-शरणो धर्म-पूजको धर्म-कृत्य-कारी धर्म-गो-चरो धर्म-चारित्र-संपन्नः । स्व-भाव-ऋजुकः स्व-भाव-शुद्धः स-अनुक्रोशो धर्म-अनुकारुणिकः सदा विवेक-गो-चरः । सदा धर्म-परायणः सदा शुक्ल-कारी + इत्य् आदि ॥
तत्र बोधि-सत्वस्य संघम् अनुस्मरतः एवं भवति । यए एते संघस्य भूता गुणा एते मया + आत्मनः सर्व-सत्वानां च निष्पादयितव्या इति ॥
यथा + आर्य-विमलकीर्ति-निर्देशे बोधि-सत्व-गुणा उक्तास् तथा संघ-अनुस्मृतिर् भाव्या । सर्व-सत्वान ये रूपा रुत-घोषाश् च ईरिताः । एक-क्षणेन दर्शेन्ति बोधि-सत्वा विशारदाः ॥
ते जीर्ण-व्याधिता भोन्ति बोधि-सत्वा मृतम् आत्मान दर्शयी ।सत्वानां परिपाकाय माया-धर्म विक्रीडिताः ॥
कल्प-उद्दाहं च दर्शेन्ति उद्दहित्वा वसुं-धराम् । नित्य-संज्ञिन सत्वानाम् अ-नित्यम् इति दर्शयी ॥
सत्वैः शत-सहस्रेभिर् एक-राष्ट्रे निमन्त्रिताः । सर्वेषां गृह भुञ्जन्ति सर्वान् नामन्ति बोधये ॥
ये के-चिन् मन्त्र-विद्या वा शिल्प-स्थाना बहु-विधाः । सर्वत्र पारमि-प्राप्ताः सर्व-सत्व-सुख-आवहाः ॥
यावन्तो लोक पाषण्डाः सर्वत्र प्रव्रजन्ति ते । नाना-दृष्टि-गतं प्राप्तांस् ते सत्वान् परिपाचति ॥
चन्द्रा वा भोन्ति सूर्या वा शक्र-ब्रह्म-प्रज-ईश्वराः । भवन्ति आपस् तेजश् च पृथिवी मारुतस् तथा ॥
रोग अन्तर-कल्पेषु भैषज्यं भोन्ति उत्तमाः । येन ते सत्व मुच्यन्ते सुखी भोन्ति अन्-आमयाः ॥
दुर्-भिक्षा-अन्तर-कल्पेषु भवन्ती पान-भोजनम् ।क्षुधा-पिपासाम् अपनीय धर्मं देशेन्ति प्राणिनाम् ॥
शस्त्र अन्तर-कल्पेषु मैत्री-ध्यायी भवन्ति ते । अ-व्यापादे नियोजेन्ति सत्व-कोटि-शतान् बहून् ॥
महा-संग्राम-मध्ये च सम-पक्षा भवन्ति ते । सन्धि-सामग्रि रोचेन्ति बोधि-सत्वा महा-बलाः ॥
ये च + अपि निरयाः के-चिद् बुद्ध-क्षेत्रेष्व् अ-चिन्तिषु । संचिन्त्य तत्र गच्छन्ति सत्वानां हित-कारणात् ॥
यावन्त्या गतयः काश्-चित् तिर्यग्-योनौ प्रकाशिताः । सर्वत्र धर्मं देशेन्ति तेन उच्यन्ति नायकाः ॥
काम-भोगांश् च दर्शेन्ति ध्यानं च ध्यायिनां तथा । विध्वस्त मारं कुर्वन्ति अवतारं न देन्ति ते ॥
अग्नि-मध्ये यथा पद्मम् अ-भूतं तं विनिर्दिशेत् । एवं कामांश् च ध्यानं च अ-भूतं ते विदर्शयी ॥
संचिन्त्य गणिकां भोन्ति पुंसाम् आकर्षणाय ते । राग-अङ्कु संलोभ्य बुद्ध-ज्ञाने स्थापयन्ति ते ॥
ग्रामिकाश् च सदा भोन्ति स-अर्थ-वाहाः पुरो-हिताः । अग्र-अमात्य + अथ च + अमात्यः [दोउब्त्fउल्] सत्वानां हित-कारणात् ॥
दरिद्राणां च सत्वानां निधाना भोन्ति अ-क्षयाः । तेषां दानानि दत्वा च बोधि-चित्तं जनेन्ति ते ॥
मान-स्तब्धेषु सत्वेषु महा-नग्ना भवन्ति ते । सर्व-मानसम् उद्घातं बोधिं प्रार्थेन्ति उत्तमाम् ॥
भय-अर्दितानां सत्वानां संतिष्ठन्ते * अग्रतः सदा । अ-भयं तेषु दत्वा च परिपाचेन्ति बोधये ॥
पञ्च-अभिज्ञाश् च ते भूत्वा ऋषयो ब्रह्म-चारिणः । शीले सत्वान् नियोजेन्ति क्षान्ति-सौरत्य-संयमे ॥
उपस्थान-गुरून् सत्वान् पश्यन्ति + इह विशारदाः । चेटा भवन्ति दासा वा शिष्यत्वम् उपयान्ति च ॥
येन येन + एव च + अङ्गेन सत्वो धर्म-रतो भवेत् । दर्शेन्ति हि क्रियाः सर्वा महा-उपाय-सु-शिक्षिताः ॥
येषाम् अन्-अन्ता शिक्षा हि अन्-अन्तश् च + अपि गो-चरः । अन्-अन्त-ज्ञान-संपन्ना अन्-अन्त-प्राणि-मोचकाः ॥
न तेषां कल्प-कोटीभिः कल्प-कोटि-शतैर् अपि । बुद्धैर् अपि वदद्भिस् तु गुण-अन्तः सु-वचो भवेद् । इति ॥
यथा + आर्य-रत्न-उल्का-धारण्यां बोधि-सत्व-गुणा उक्तास् तथा भावयितव्याः । रश्मि प्रमुञ्चिय माल्य-वियूहा माल्य-वतंसक माल्य वितानाः । माल्य-विचिन्न-विकीर्ण-समन्ताः ते जिन-पूज करोन्ति महा-आत्मा ॥
रश्मि प्रमुञ्चिय चूर्ण-वियूहा चूर्ण-वतंसक चूर्ण-वितानाः । चूर्ण-विचित्र-विकीर्ण समन्तान् ते जिन-पूज करोन्ति मह--आत्मा ॥

रश्मि प्रमुञ्चिय पद्म-वियूहा पद्म-वतंसक पद्म-विताना । पद्म-विचित्र-विकीर्ण-समन्तान् ते जिन-पूज करोन्ति महा-आत्मा ॥
रश्मि प्रमुञ्चिय हार-वियूहा हार-वतंसक हार-विताना । हार-विचित्र-विकीर्ण-समन्तान् ते जिन-पूज करोन्ति महा-आत्मा ॥
रश्मि प्रमुञ्चिय ध्वज-अग्र-वियूहा ते ध्वज पाण्डुर-लोहित-पीताः । नीलम् अन्-एक पताक विचित्रा ॥
ध्वज समलं-करिते जिन-क्षेत्राः ते मणि-जाल-विचित्र-वियूहा । पट्ट पताक प्रलम्बित दामा किङ्किणि-जाल जिन-स्वर-घोषान् ॥
छत्र धरेन्ति तथा-गत-मूर्ध्ने ते यथ एक-जिनस्य करोन्ति । पाणि-तलात् तु अ-चिन्तिय-पूजां एवम् अ-शेषत-सर्व-जिनानां ॥
एष समाधि विकुर्व ऋषीणां ते जग-संग्रह-ज्ञान-विकुर्वा । अग्र-समाध्य्-अभिनिर्हरमाणाः सर्व-क्रिया उपचार सुखेभिः ॥
सत्व विनेन्ति उपाय-सहस्रैः के-चि तथा-गत-पूज-मुखेन । दान अ-चिन्ति अ-त्याग-मुखेन सर्व-धुतं-गुण-शील-मुखेन ॥

मूल पाठ: Śikṣāsamuccaya · Data entry Mirek Rozehnahl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc