भाषा

ENहिગુ
ग्रंथ पाठ

सिद्धान्तबिन्दु · अध्याय 4

4.1

न स्तौमि तं व्यासम् अशेषम् अर्थं सम्यङ् न सूत्रैर् अपि यो बबन्ध ।
विनापि तैः सङ्ग्रथिताखिलार्थं तं शङ्करं स्तौमि सुरेश्वरं च

4.2

लघुर् अपि बह्वर्थवहश् चिन्तामणिर् इव निबन्धो ऽयम् ।
मधुसूदनेन मुनिना विहितो गुणिनां विनोदाय

4.3

यद् अत्र सौष्ठवं किञ्चित् तद्गुरोर् इव मे न हि ।
यद् अत्रासौष्ठवं किञ्चित् तन् ममैव गुरोर् न हि

4.4

बहुयाचनया मयायमल्पो बलभद्रस्य कृए कृतो निबन्धः ।
यद् अदुष्टम् इहास्ति यच् च दुष्टं तदुदाराः सुधियो विवेचयन्तु

मूल पाठ: Siddhāntabindu · Edition: Divānji. Baroda : Oriental Institute 1933. · Data entry Takahiro Kato · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc