श्वेताश्वतरोपनिषद् · अध्याय 5
द्वे अक्षरे ब्रह्मपरे त्व् अनन्ते विद्याविद्ये निहिते यत्र गूढे
क्षरं त्व् अविद्या ह्य् अमृतं तु विद्या विद्याविद्ये ईशते यस् तु सो ऽन्यः ॥
यो योनिं योनिम् अधितिष्ठत्य् एको विश्वानि रूपाणि योनीश् च सर्वाः
ऋषिं प्रसूतं कपिलं यस् तम् अग्रे ज्ञानैर् बिभर्ति जायमानं च पश्येत् ॥
एकैकं जालं बहुधा विकुर्वन्न् अस्मिन् क्षेत्रे संहरत्य् एष देवः
भूयः सृष्ट्वा पतयस् तथेशः सर्वाधिपत्यं कुरुते महात्मा ॥
सर्वा दिश ऊर्ध्वम् अधश् च तिर्यक् प्रकाशयन् भ्राजते यद् वानड्वान्
एवं स देवो भगवान् वरेण्यो योनिस्वभावान् अधितिष्ठत्य् एकः ॥
यच् च स्वभावं पचति विश्वयोनिः पाच्यांश् च सर्वान् परिणामयेद् यः
सर्वम् एतद् विश्वम् अधितिष्ठत्य् एको गुणांश् च सर्वान् विनियोजयेद् यः ॥
तद् वेदगुह्योपनिषत्सु गूढं तद् ब्रह्मा वेदते ब्रह्मयोनिं
ये पूर्वं देवा ऋषयश् च तद् विदुस् ते तन्मया अमृता वै बभूवुः ॥
गुणान्वयो यः फलकर्मकर्ता कृतस्य तस्यैव स चोपभोक्ता
स विश्वरूपस् त्रिगुणस् त्रिवर्त्मा प्राणाधिपः संचरति स्वकर्मभिः ॥
अङ्गुष्ठमात्रो रवितुल्यरूपः संकल्पाहंकारसमन्वितो यः
बुद्धेर् गुणेनात्मगुणेन चैव आराग्रमात्रो ह्य् अवरो ऽपि दृष्टः ॥
वालाग्रशतभागस्य शतधा कल्पितस्य च
भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते ॥
नैव स्त्री न पुमान् एष न चैवायं नपुंसकः
यद् यच् छरीरम् आदत्ते तेन तेन स युज्यते ॥
संकल्पनस्पर्शनदृष्टिमोहैर् ग्रासाम्बुवृष्ट्या चात्मविवृद्धिजन्म
कर्मानुगान्य् अनुक्रमेन देही स्थानेषु रूपाण्य् अभिसंप्रपद्यते ॥
स्थूलानि सूक्ष्माणि बहूनि चैव रूपाणि देही स्वगुणैर् वृणोति
क्रियागुणैर् आत्मगुणैश् च तेषां संयोगहेतुर् अपरो ऽपि दृष्टः ॥
अनाद्यनन्तं कलिलस्य मध्ये विश्वस्य स्रष्टारम् अनेकरूपं
विश्वस्यैकं परिवेष्टितारं ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥
भावग्राह्यम् अनीडाख्यं भावाभावकरं शिवं
कलासर्गकरं देवं ये विदुस् ते जहुस् तनुम् ॥
मूल पाठ: Śvetāśvataropaniṣad · Edition: the electronic text available from Sanskrit Documents (https://sanskritdocuments.org) · Data entry S. H. · GRETIL (Göttingen) · CC BY-NC-SA 4.0