भाषा

ENहिગુ
ग्रंथ पाठ

श्वेताश्वतरोपनिषद् · अध्याय 6

6.1

स्वभावम् एके कवयो वदन्ति कालं तथान्ये परिमुह्यमानाः
देवस्यैष महिमा तु लोके येनेदं भ्राम्यते ब्रह्मचक्रम् ॥

6.2

येनावृतं नित्यम् इदं हि सर्वं ज्ञः कालकालो गुणी सर्वविद्यः
तेनेशितं कर्म विवर्तते ह पृथिव्याप्तेजोऽनिलखानि चिन्त्यम् ॥

6.3

तत् कर्म कृत्वा विनिवर्त्य भूयस् तत्त्वस्य तत्त्वेन समेत्य योगम्
एकेन द्वाभ्यां त्रिभिर् अष्टभिर् वा कालेन चैवात्मगुणैश् च सूक्ष्मैः ॥

6.4

आरभ्य कर्माणि गुणान्वितानि भावांश् च सर्वान् विनियोजयेद् यः
तेषाम् अभावे कृतकर्मनाशः कर्मक्षये याति स तत्त्वतो ऽन्यः ॥

6.5

आदिः स संयोगनिमित्तहेतुः परस् त्रिकालाद् अकलो ऽपि दृष्टः
तं विश्वरूपं भवभूतम् ईड्यं देवं स्वचित्तस्थम् उपास्य पूर्वम् ॥

6.6

स वृक्षकालाकृतिभिः परो ऽन्यो यस्मात् प्रपञ्चः परिवर्तते ऽयं
धर्मावहं पापनुदं भगेशं ज्ञात्वात्मस्थम् अमृतं विश्वधाम ॥

6.7

तम् ईश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतं
पतिं पतीनां परमं परस्ताद् विदाम देवं भुवनेशम् ईड्यम् ॥

6.8

न तस्य कार्यं करणं च विद्यते न तत्समश् चाभ्यधिकश् च दृश्यते
परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च ॥

6.9

न तस्य कश्चित् पतिर् अस्ति लोके न चेशिता नैव च तस्य लिङ्गं
स कारणं करणाधिपाधिपो न चास्य कश्चिज् जनिता न चाधिपः ॥

6.10

यस् तन्तुनाभ इव तन्तुभिः प्रधानजैः स्वभावतः
देव एकः स्वम् आवृणोति स नो दधाद् ब्रह्माप्ययम् ॥

6.11

एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा
कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश् च ॥

6.12

एको वशी निष्क्रियाणां बहूणाम् एकं बीजं बहुधा यः करोति
तम् आत्मस्थं ये ऽनुपश्यन्ति धीरास् तेषां सुखं शाश्वतं नेतरेषां ॥

6.13

नित्यो नित्यानां चेतनश् चेतनानाम् एको बहूनां यो विदधाति कामान्
तत् कारणं सांख्ययोगाधिगम्यं ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥

6.14

न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतो ऽयम् अग्निः
तम् एव भान्तम् अनुभाति सर्वं तस्य भासा सर्वम् इदं विभाति ॥

6.15

एको हंसो भुवनस्यास्य मध्ये स एवाग्निः सलिले संनिविष्टः
तम् एव विदित्वाति मृत्युम् एति नान्यः पन्था विद्यते ऽयनाय ॥

6.16

स विश्वकृद् विश्वविद् आत्मयोनिर् ज्ञः कालकालो गुणी सर्वविद्यः
प्रधानक्षेत्रज्ञपतिर् गुणेशः संसारमोक्षस्थितिबन्धहेतुः ॥

6.17

स तन्मयो ह्य् अमृत ईशसंस्थो ज्ञः सर्वगो भुवनस्यास्य गोप्ता
स ईशे अस्य जगतो नित्यम् एव नान्यो हेतुर् विद्यत ईशनाय ॥

6.18

यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश् च प्रहिणोति तस्मै
तं ह देवम् आत्मबुद्धिप्रकाशं मुमुक्षुर् वै शरणम् अहं प्रपद्ये ॥

6.19

निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्
अमृतस्य परं सेतुं दग्धेन्धनम् इवानलम् ॥

6.20

यदा चर्मवद् आकाशं वेष्टयिष्यन्ति मानवाः
तदा देवम् अविज्ञाय दुःखस्यान्तो भविष्यति ॥

6.21

तपःप्रभावाद् देवप्रसादात् ब्रह्म ह श्वेताश्वतरो ऽथ विद्वान्
अत्याश्रमिभ्यः परमं पवित्रं प्रोवाच सम्यग् ऋषिसङ्घजुष्टम् ॥

6.22

वेदान्ते परमं गुह्यं पुराकल्पे प्रचोदितम्
नाप्रशान्ताय दातव्यं नापुत्रायाशिष्याय वा पुनः ॥

6.23

यस्य देवे परा भक्तिर् यथा देवे तथा गुरौ
तस्यैते कथिता ह्य् अर्थाः प्रकाशन्ते महात्मनः प्रकाशन्ते महात्मनः ॥

मूल पाठ: Śvetāśvataropaniṣad · Edition: the electronic text available from Sanskrit Documents (https://sanskritdocuments.org) · Data entry S. H. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc