भाषा

ENहिગુ
ग्रंथ पाठ

श्वेताश्वतरोपनिषद् · अध्याय 4

4.1

य एको ऽवर्णो बहुधा शक्तियोगाद् वर्णान् अनेकान् निहितार्थो दधाति
वि चैति चान्ते विश्वम् आदौ स देवः स नो बुद्ध्या शुभया संयुनक्तु ॥

4.2

तद् एवाग्निस् तद् आदित्यस् तद् वायुस् तद् उ चन्द्रमाः
तद् एव शुक्रं तद् ब्रह्म तद् आपस् तत् प्रजापतिः ॥

4.3

त्वं स्त्री त्वं पुमान् असि त्वं कुमार उत वा कुमारी
त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः ॥

4.4

नीलः पतङ्गो हरितो लोहिताक्षस् तडिद्गर्भ ऋतवः समुद्राः
अनादिमांस् त्वं विभुत्वेन वर्तसे यतो जातानि भुवनानि विश्वा ॥

4.5

अजाम् एकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः
अजो ह्य् एको जुषमाणो ऽनुशेते जहात्य् एनां भुक्तभोगाम् अजो ऽन्यः ॥

4.6

द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते
तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य् अनश्नन्न् अन्यो अभिचाकशीति ॥

4.7

समाने वृक्षे पुरुषो निमग्नो अनीशया शोचति मुह्यमानः
जुष्टं यदा पश्यत्य् अन्यम् ईशं अस्य महिमानम् इति वीतशोकः ॥

4.8

ऋचो अक्षरे परमे व्योमन् यस्मिन् देवा अधि विश्वे निषेधुः
यस् तन् न वेद किम् ऋचा करिष्यति य इत् तद् विदुस् त इमे समासते ॥

4.9

छन्दांसि यज्ञाः क्रतवो व्रतानि भूतं भव्यं यच् च वेदा वदन्ति
अस्मान् मायी सृजते विश्वम् एतत् तस्मिंश् चान्यो मायया संनिरुद्धः ॥

4.10

मायां तु प्रकृतिं विद्यान् मायिनं तु महेश्वरं
तस्यावयवभूतैस् तु व्याप्तं सर्वं इदं जगत् ॥

4.11

यो योनिं-योनिम् अधितिष्ठत्य् एको यस्मिन्न् इदं सं च वि चैति सर्वम्
तम् ईशानं वरदं देवम् ईड्यं निचाय्येमां शान्तिम् अत्यन्तम् एति ॥

4.12

यो देवानां प्रभवश् चोद्भवश् च विश्वाधिको रुद्रो महर्षिः
हिरण्यगर्भं पश्यत जायमानं स नो बुद्ध्या शुभया संयुनक्तु ॥

4.13

यो देवानाम् अधिपो यस्मिंल् लोका अधिश्रिताः
य ईशे अस्य द्विपदश् चतुष्पदः कस्मै देवाय हविषा विधेम ॥

4.14

सूक्ष्मातिसूक्ष्मं कलिलस्य मध्ये विश्वस्य स्रष्टारम् अनेकरूपं
विश्वस्यैकं परिवेष्टितारं ज्ञात्वा शिवं शान्तिम् अत्यन्तम् एति ॥

4.15

स एव काले भुवनस्य गोप्ता विश्वाधिपः सर्वभूतेषु गूढः
यस्मिन् युक्ता ब्रह्मर्षयो देवताश् च तम् एवं ज्ञात्वा मृत्युपाशांश् छिनत्ति ॥

4.16

घृतात् परं मण्डम् इवातिसूक्ष्मं ज्ञात्वा शिवं सर्वभूतेषु गूढं
विश्वस्यैकं परिवेष्टितारं ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥

4.17

एष देवो विश्वकर्मा महात्मा सदा जनानां हृदये संनिविष्टः
हृदा मनीषा मनसाभिकॢप्तो य एतद् विदुर् अमृतास् ते भवन्ति ॥

4.18

यदातमस् तन् न दिवा न रात्रिर् न सन् न चासच् छिव एव केवलः
तद् अक्षरं तत् सवितुर् वरेण्यं प्रज्ञा च तस्मात् प्रसृता पुराणी ॥

4.19

नैनम् ऊर्ध्वं न तिर्यञ्चं न मध्ये परिजग्रभत्
न तस्य प्रतिमा अस्ति यस्य नाम महद् यशः ॥

4.20

न संदृशे तिष्ठति रूपम् अस्य न चक्षुषा पश्यति कश्चनैनं
हृदा हृदिस्थं मनसा य एनम् एवं विदुर् अमृतास् ते भवन्ति ॥

4.21

अजात इत्य् एवं कश्चिद् भीरुः प्रपद्यते
रुद्र यत् दक्षिणं मुखम् तेन मां पाहि नित्यम् ॥

4.22

मा नस् तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः
वीरान् मा नो रुद्र भामितो वधीर् हविष्मन्तः सदम् इत् त्वा हवामहे ॥

मूल पाठ: Śvetāśvataropaniṣad · Edition: the electronic text available from Sanskrit Documents (https://sanskritdocuments.org) · Data entry S. H. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc