श्वेताश्वतरोपनिषद् · अध्याय 3
य एको जालवान् ईशत ईशनीभिः सर्वांल् लोकान् ईशत ईशनीभिः
य एवैक उद्भवे संभवे च य एतद् विदुर् अमृतास् ते भवन्ति ॥
एको हि रुद्रो न द्वितीयाय तस्थे य इमांल् लोकान् ईशत ईशनीभिः
प्रत्यङ् जनास् तिष्ठति संचुकोचान्तकाले संसृज्य विश्वा भुवनानि गोपाः ॥
विश्वतश्चक्षुर् उत विश्वतोमुखो विश्वतोबाहुर् उत विश्वतस्पात्
सं बाहुभ्यां धमति सं पतत्रैर् द्यावाभूमी जनयन् देव एकः ॥
यो देवानां प्रभवश् चोद्भवश् च विश्वाधिपो रुद्रो महर्षिः
हिरण्यगर्भं जनयामास पूर्वं स नो बुद्ध्या शुभया संयुनक्तु ॥
या ते रुद्र शिवा तनूर् अघोरापापकाशिनी
तया नस् तनुवा शंतमया गिरिशन्ताभिचाकशीहि ॥
याम् इषुं गिरिशन्त हस्ते बिभर्ष्य् अस्तवे
शिवां गिरित्र तां कुरु मा हिंसीः पुरुषं जगत् ॥
ततः परं ब्रह्म परं बृहन्तं यथानिकायं सर्वभूतेषु गूढं
विश्वस्यैकं परिवेष्टितारम् ईशं तं ज्ञात्वामृता भवन्ति ॥
वेदाहम् एतं पुरुषं महान्तम् आदित्यवर्णं तमसः परस्तात्
तम् एव विदित्वाति मृत्युम् एति नान्यः पन्था विद्यते ऽयनाय ॥
यस्मात् परं नापरम् अस्ति किंचिद् यस्मान् नाणीयो न ज्यायो ऽस्ति किंचित्
वृक्ष इव स्तब्धो दिवि तिष्ठत्य् एकस् तेनेदं पूर्णं पुरुषेण सर्वम् ॥
ततो यद् उत्तरतरं यद् अरूपम् अनामयम्
य एतद् विदुर् अमृतास् ते भवन्ति अथेतरे दुःखम् एवापियन्ति ॥
सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः
सर्वव्यापी स भगवांस् तस्मात् सर्वगतः शिवः ॥
महान् प्रभुर् वै पुरुषः सत्त्वस्यैष प्रवर्तकः
सुनिर्मलाम् इमां प्राप्तिम् ईशानो ज्योतिर् अव्ययः ॥
अङ्गुष्ठमात्रः पुरुषो ऽन्तरात्मा सदा जनानां हृदये संनिविष्टः
हृदा मनीषा मनसाभिकॢप्तो य एतद् विदुर् अमृतास् ते भवन्ति ॥
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्
स भूमिं विश्वतो वृत्वा अत्यतिष्ठद् दशाङ्गुलम् ॥
पुरुष एवेदं सर्वं यद् भूतं यच् च भव्यम्
उतामृतत्वस्येशानो यद् अन्नेनातिरोहति ॥
सर्वतःपाणिपादं तत् सर्वतोऽक्षिशिरोमुखं
सर्वतःश्रुतिमल् लोके सर्वम् आवृत्य तिष्ठति ॥
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितं
सर्वस्य प्रभुम् ईशानं सर्वस्य शरणं सुहृत् ॥
नवद्वारे पुरे देही हंसो लेलायते बहिः
वशी सर्वस्य लोकस्य स्थावरस्य चरस्य च ॥
अपाणिपादो जवनो ग्रहीता पश्यत्य् अचक्षुः स शृणोत्य् अकर्णः
स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तम् आहुर् अग्र्यं पुरुषं महान्तम् ॥
अणोर् अणीयान् महतो महीयान् आत्मा गुहायां निहितो ऽस्य जन्तोः
तम् अक्रतुं पश्यति वीतशोको धातुप्रसादान् महिमानम् ईशम् ॥
वेदाहम् एतम् अजरं पुराणं सर्वात्मानं सर्वगतं विभुत्वात्
जन्मनिरोधं प्रवदन्ति यस्य ब्रह्मवादिनो हि प्रवदन्ति नित्यम् ॥
मूल पाठ: Śvetāśvataropaniṣad · Edition: the electronic text available from Sanskrit Documents (https://sanskritdocuments.org) · Data entry S. H. · GRETIL (Göttingen) · CC BY-NC-SA 4.0