भाषा

ENहिગુ
ग्रंथ पाठ

श्वेताश्वतरोपनिषद् · अध्याय 2

2.1

युञ्जानः प्रथमं मनस् तत्वाय सविता धियः
अग्नेर् ज्योतिर् निचाय्य पृथिव्या अध्य् आभरत् ॥

2.2

युक्तेन मनसा वयं देवस्य सवितुः सवे
सुवर्गेयाय शक्त्या % ॥

2.3

युक्त्वाय मनसा देवान् सुवर् यतो धिया दिवं
बृहज् ज्योतिः करिष्यतः सविता प्रसुवाति तान् ॥

2.4

युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः
वि होत्रा दधे वयुनाविद् एक इन् मही देवस्य सवितुः परिष्टुतिः ॥

2.5

युजे वां ब्रह्म पूर्व्यं नमोभिर् वि श्लोक एतु पथ्येव सूरेः
शृण्वन्ति विश्वे अमृतस्य पुत्रा आ ये धामानि दिवियानि तस्थुः ॥

2.6

अग्निर् यत्राभिमथ्यते वायुर् यत्राधिरुध्यते
सोमो यत्रातिरिच्यते तत्र संजायते मनः ॥

2.7

सवित्रा प्रसवेन जुषेत ब्रह्म पूर्व्यम्
तत्र योनिं कृणवसे नहि ते पूर्तम् अक्षिपत् ॥

2.8

त्रिरुन्नतं स्थाप्य समं शरीरं हृदीन्द्रियाणि मनसा संनिवेश्य
ब्रह्मोडुपेन प्रतरेत विद्वान् स्रोतांसि सर्वाणि भयावहानि ॥

2.9

प्राणान् प्रपीड्येह स युक्तचेष्टः क्षीने प्राणे नासिकयोच्छ्वसीत
दुष्टाश्वयुक्तम् इव वाहम् एनं विद्वान् मनो धारयेताप्रमत्तः ॥

2.10

समे शुचौ शर्करावह्निवालुका विवर्जिते शब्दजलाश्रयादिभिः
मनोऽनुकूले न तु चक्षुपीडने गुहानिवाताश्रयणे प्रयोजयेत् ॥

2.11

नीहारधूमार्कानलानिलानां खद्योतविद्युत्स्फटिकाशशीनाम्
एतानि रूपाणि पुरःसराणि ब्रह्मण्य् अभिव्यक्तिकराणि योगे ॥

2.12

पृथ्व्यप्तेजोऽनिलखे समुत्थिते पञ्चात्मके योगगुणे प्रवृत्ते
न तस्य रोगो न जरा न मृत्युः प्राप्तस्य योगाग्निमयं शरीरम् ॥

2.13

लघुत्वम् आरोग्यम् अलोलुपत्वं वर्णप्रसादः स्वरसौष्ठवं च
गन्धः शुभो मूत्रपुरीषम् अल्पं योगप्रवृत्तिं प्रथमां वदन्ति ॥

2.14

यथैव बिम्बं मृदयोपलिप्तं तेजोमयं भ्राजते तत् सुधान्तम्
तद् वात्मतत्त्वं प्रसमीक्ष्य देही एकः कृतार्थो भवते वीतशोकः ॥

2.15

यद् आत्मतत्त्वेन तु ब्रह्मतत्त्वं दीपोपमेनेह युक्तः प्रपश्येत्
अजं ध्रुवं सर्वतत्त्वैर् विशुद्धं ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥

2.16

एष ह देवः प्रदिशो ऽनु सर्वाः पूर्वो ह जातः स उ गर्भे अन्तः
स एव जातः स जनिष्यमानः प्रत्यङ् जनास् तिष्ठति सर्वतोमुखः ॥

2.17

यो देवो अग्नौ यो अप्सु यो विश्वं भुवनम् आविवेश
य ओषधीषु यो वनस्पतीषु तस्मै देवाय नमो नमः ॥

मूल पाठ: Śvetāśvataropaniṣad · Edition: the electronic text available from Sanskrit Documents (https://sanskritdocuments.org) · Data entry S. H. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc