श्वेताश्वतरोपनिषद् · अध्याय 1
किंकारणं ब्रह्म कुतः स्म जाता जीवामः केन क्व च संप्रतिष्ठाः
अधिष्ठिताः केन सुखेतरेषु वर्तामहे ब्रह्मविदो व्यवस्थाम् ॥
कालः स्वभावो नियतिर् यदृच्छा भूतानि योनिः पुरुषेति चिन्त्यम्
संयोग एषां न त्व् आत्मभावाद् आत्मा ह्य् अनीशः सुखदुःखहेतोः ॥
ते ध्यानयोगानुगता अपश्यन् देवात्मशक्तिं स्वगुणैर् निगूढाम्
यः कारणानि निखिलानि तानि कालात्मयुक्तान्य् अधितिष्ठत्य् एकः ॥
तम् एकनेमिं त्रिवृतं षोडशान्तं शतार्धारं विंशतिप्रत्यराभिः
अष्टकैः षड्भिर् विश्वरूपैकपाशं त्रिमार्गभेदं द्विनिमित्तैकमोहम् ॥
पञ्चस्रोतोऽम्बुं पञ्चयोन्युग्रवक्त्रां पञ्चप्राणोर्मिं पञ्चबुद्ध्यादिमूलां
पञ्चावर्तां पञ्चदुःखौघवेगां पञ्चाशद्भेदां पञ्चपर्वाम् अधीमः ॥
सर्वाजीवे सर्वसंस्थे बृहन्ते तस्मिन् हंसो भ्राम्यते ब्रह्मचक्रे
पृथग् आत्मानं प्रेरितारं च मत्वा जुष्टस् ततस् तेनामृतत्वम् एति ॥
उद्गीतम् एतत् परमं तु ब्रह्म तस्मिंस् त्रयं स्वप्रतिष्ठाक्षरं च
अत्रान्तरं ब्रह्मविदो विदित्वा लीना ब्रह्मणि तत्परा योनिमुक्ताः ॥
संयुक्तम् एतत् क्षरम् अक्षरं च व्यक्ताव्यक्तं भरते विश्वम् ईशः
अनीशश् चात्मा बध्यते भोक्तृभावाज् ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥
ज्ञाज्ञौ द्वाव् अजाव् ईशनीशाव् अजा ह्य् एका भोक्तृभोगार्थयुक्ता
अनन्तश् चात्मा विश्वरूपो ह्य् अकर्ता त्रयं यदा विन्दते ब्रह्मम् एतत् ॥
क्षरं प्रधानम् अमृताक्षरं हरः क्षरात्मानाव् ईशते देव एकः
तस्याभिध्यानाद् योजनात् तत्त्वभावाद् भूयश् चान्ते विश्वमायानिवृत्तिः ॥
ज्ञात्वा देवं सर्वपाशापहानिः क्षीनैः क्लेशैर् जन्ममृत्युप्रहाणिः
तस्याभिध्यानात् तृतीयं देहभेदे विश्वैश्वर्यं केवल आप्तकामः ॥
एतज् ज्ञेयं नित्यम् एवात्मसंस्थं नातः परं वेदितव्यं हि किंचित्
भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्मम् एतत् ॥
वह्नेर् यथा योनिगतस्य मूर्तिर् न दृश्यते नैव च लिङ्गनाशः
स भूय एवेन्धनयोनिगृह्यस् तद्वोभयं वै प्रणवेन देहे ॥
स्वदेहम् अरणिं कृत्वा प्रणवं चोत्तरारणिं
ध्याननिर्मथनाभ्यासाद् देवं पश्येन् निगूढवत् ॥
तिलेषु तैलं दधनीव सर्पिर् आपः स्रोतःस्व् अरणीषु चाग्निः
एवम् आत्मा आत्मनि गृह्यते ऽसौ सत्येनैनं तपसा यो ऽनुपश्यति ॥
सर्वव्यापिनम् आत्मानं क्षीरे सर्पिर् इवार्पितम्
आत्मविद्यातपोमूलं तद् ब्रह्मोपनिषत्परं तद् ब्रह्मोपनिषत्परम् ॥
मूल पाठ: Śvetāśvataropaniṣad · Edition: the electronic text available from Sanskrit Documents (https://sanskritdocuments.org) · Data entry S. H. · GRETIL (Göttingen) · CC BY-NC-SA 4.0