भाषा

ENहिગુ
ग्रंथ पाठ

शुक्लयजुर्वेदः · अध्याय 11

11.11.1

अग्निचयने उखादि समिदाध्यन्त मन्त्राः

11.11.2

युञ्जानः प्रथमं मनस् तत्वाय सविता धियम् ।
अग्नेर् ज्योतिर् निचाय्य पृथिव्या ऽ अध्य् आभरत्

11.11.3

युक्तेन मनसा वयं देवस्य सवितुः सवे ।
स्वर्ग्याय शक्त्या

11.11.4

युक्त्वाय सविता देवान्त् स्वर्यतो धिया दिवम् ।
बृहज् ज्योतिः करिष्यतः सविता प्र सुवाति तान्

11.11.5

युञ्जते मन ऽ उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः ।
वि होत्रा दधे वयुनाविद् एक ऽ इन् मही देवस्य सवितुः परिष्टुतिः

11.11.6

युजे वां ब्रह्म पूर्व्यं नमोभिर् वि श्लोक ऽ एतु पथ्येव सूरेः ।
शृण्वन्तु विश्वे ऽ अमृतस्य पुत्रा ऽ आ ये धामानि दिव्यानि तस्थुः

11.11.7

यस्य प्रयाणम् अन्व् अन्य ऽ इद् ययुर् देवा देवस्य महिमानम् ओजसा ।
यः पार्थिवानि विममे स ऽ एतशो रजासि देवः सविता महित्वना

11.11.8

देव सवितः प्र सुव यज्ञं प्र सुव यज्ञपतिं भगाय ।
दिव्यो गन्धर्वः केतपूः केतं नः पुनातु वाचस् पतिर् वाचं नः स्वदतु

11.11.9

इमं नो देव सवितर् यज्ञं प्र णय देवाव्यꣳ सखिविदꣳ सत्राजितं धनजितꣳ स्वर्जितम् ।
ऋचा स्तोमꣳ समर्धय गायत्रेण रथन्तरं बृहद् गायत्रवर्तनि स्वाहा

11.11.10

देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।
आ ददे गायत्रेण छन्दसाङ्गिरस्वत् पृथिव्याः सधस्थाद् अग्निं पुरीष्यम् अङ्गिरस्वद् आ भर त्रैष्टुभेन छन्दसाङ्गिरस्वत्

11.11.11

अभ्रिर् असि नार्य् असि त्वया वयम् अग्निꣳ शकेम खनितुꣳ सधस्थ आ जागतेन छन्दसाङ्गिरस्वत्

11.11.12

हस्त ऽ आधाय सविता बिभ्रद् अभ्रिꣳ हिरण्ययीम् ।
अग्नेर् ज्योतिर् निचाय्य पृथिव्या ऽ अध्य् आ भर ।
आनुष्टुभेन छन्दसाङ्गिरस्वत्

11.11.13

प्रतूर्तं वाजिन्न् आ द्रव वरिष्ठाम् अनु सम्वतम् ।
दिवि ते जन्म परमम् अन्तरिक्षे तव नाभिः पृथिव्याम् अधि योनिर् इत्

11.11.14

युञ्जाथाꣳ रासभं युवम् अस्मिन् यामे वृषण्वसू ।
अग्निं भरन्तम् अस्मयुम्

11.11.15

योगे-योगे तवस्तरं वाजे-वाजे हवामहे ।
सखाय ऽ इन्द्रमूतये

11.11.16

प्रतूर्वन्न् एह्य् अवक्रामन्न् अशस्तो रुद्रस्य गाणपत्यं मयोभूर् एहि ।
उर्व् अन्तरिक्षं वीहि ।
स्वस्तिगव्यूतिर् अभयानि कृण्वन् पूष्णा सयुजा सह

11.11.17

पृथिव्याः सधस्थाद् अग्निं पुरीष्यम् अङ्गिरस्वद् आ भर ।
अग्निं पुरीष्यम् अङ्गिरस्वद् अच्छेमः ।
ऽ अग्निं पुरीष्यम् अङ्गिरस्वद् भरिष्यामः

11.11.18

अन्व् अग्निर् उषसाम् अग्रम् अख्यद् अन्व् अहानि प्रथमो जातवेदाः ।
अनु सूर्यस्य पुरुत्रा च रश्मीन् अनु द्यावापृथिवी ऽ आ ततन्थ

11.11.19

आगत्य वाज्य् अध्वानꣳ सर्वा मृधो विधूनुते ।
अग्निꣳ सधस्थे महति चक्षुषा नि चिकीषते

11.11.20

आक्रम्य वाजिन् पृथिवीम् अग्निम् इच्छ रुचा त्वम् ।
भूम्या वृक्त्वाय नो ब्रूहि यतः खनेम तं वयम्

11.11.21

द्यौस् ते पृष्ठं पृथिवी सधस्थम् आत्मान्तरिक्षꣳ समुद्रो योनिः ।
विख्याय चक्षुषा त्वम् अभि तिष्ठ पृतन्यतः

11.11.22

उत् क्राम महते सौभगायास्माद् आस्थानाद् द्रविणोदा वाजिन् ।
वयꣳ स्याम सुमतौ पृथिव्या ऽ अग्निं खनन्त ऽ उपस्थे ऽ अस्याः

11.11.23

उद् अक्रमीद् द्रविणोदा वाज्य् अर्वाकः सु लोकꣳ सुकृतं पृथिव्याम् ।
ततः खनेम सुप्रतीकम् अग्निꣳ स्वो रुहाणा ऽ अधि नाकम् उत्तमम्

11.11.24

आ त्वा जिघर्मि मनसा घृतेन प्रतिक्षियन्तं भुवनानि विश्वा ।
पृथुं तिरश्चा वयसा बृहन्तं व्यचिष्ठम् अन्नै रभसं दृशानम्

11.11.25

आ विश्वतः प्रत्यञ्चं जिघर्म्य् अरक्षसा मनसा तज् जुषेत ।
मर्यश्री स्पृहयद्वर्णो ऽ अग्निर् नाभिमृशे तन्वा जर्भुराणः

11.11.26

परि वाजपतिः कविर् अग्निर् हव्यान्य् अक्रमीत् ।
दधद् रत्नानि दाशुषे

11.11.27

परि त्वाग्ने पुरं वयं विप्रꣳ सहस्य धीमहि ।
धृषद्वर्णं दिवे-दिवे हन्तारं भङ्गुरावताम्

11.11.28

त्वम् अग्ने द्युभिस् त्वम् आशुशुक्षणिस् त्वम् अद्भ्यस् त्वम् अश्मनस् परि ।
त्वं वनेभ्यस् त्वम् ओषधीभ्यस् त्वं नृणां नृपते जायसे शुचिः

11.11.29

देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।
पृथिव्याः सधस्थाद् अग्निं पुरीष्यम् अङ्गिरस्वत् खनामि ।
ज्योतिष्मन्तं त्वाग्ने सुप्रतीकम् अजस्रेण भानुना दीद्यतम् ।
शिवं प्रजाभ्यो ऽहिꣳसन्तं पृथिव्या सधस्थाद् अग्निं पुरीष्यम् अङ्गिरस्वत् खनामः

11.11.30

अपां पृष्ठम् असि योनिर् अग्नेः समुद्रम् अभितः पिन्वमानम् ।
वर्धमानो महाꣳ२ऽ आ च पुष्करे दिवो मात्रया वरिम्णा प्रथस्व

11.11.31

शर्म च स्थो वर्म च स्थो ऽच्छिद्रे बहुले ऽ उभे ।
व्यचस्वती सं वसाथां भृतम् अग्निं पुरीष्यम्

11.11.32

संवसाथा स्वर्विदा समीची ऽ उरसा त्मना ।
अग्निम् अन्तर् भरिष्यन्ती ज्योतिष्मन्तम् अजस्रम् इत्

11.11.33

पुरीष्यो सि विश्वभरा ऽ अथर्वा त्वा प्रथमो निर् अमन्थद् अग्ने ।
त्वाम् अग्ने पुष्कराद् अध्य् अथर्वा निर् अमन्थत ।
मूर्ध्नो विश्वस्य वाघतः

11.11.34

तम् उ त्वा दध्यङ्ङ् ऋषिः पुत्र ऽ ईधे अथर्वणः ।
वृत्रहणं पुरंदरम्

11.11.35

तम् उ त्वा पाथ्यो वृषा समीधे दस्युहन्तमम् ।
धनंजयꣳ रणे-रणे

11.11.36

सीद होतः स्व ऽ उ लोके चिकित्वान् सादया यज्ञꣳ सुकृतस्य योनौ ।
देवावीर् देवान् हविषा यजास्य् अग्ने बृहद् यजमाने वयो धाः

11.11.37

नि होता होतृषदने विदानस् त्वेषो दीदिवाꣳ२ ऽ असदत् सुदक्षः ।
अदब्धव्रतप्रमतिर् वसिष्ठः सहस्रम्भरः शुचिजिह्वो ऽ अग्निः

11.11.38

सꣳ सीदस्व महाꣳ२ ऽ असि शोचस्व देववीतमः ।
वि धूमम् ऽ अग्ने अरुषं मियेध्य सृज प्रशस्त दर्शतम्

11.11.39

अपो देवीर् उपसृज मधुमतीर् अयक्ष्माय प्रजाभ्यः ।
तासाम् आस्थानाद् उज् जिहताम् ओषधयः सुपिप्पलाः

11.11.40

सं ते वायुर् मातरिश्वा दधातूत्तानाया हृदयं यद् विकस्तम् ।
यो देवानां चरसि प्राणथेन कस्मै देव वषड् अस्तु तुभ्यम्

11.11.41

सुजातो ज्योतिषा सह शर्म वरूथम् आसदत् स्वः ।
वासो ऽ अग्ने विश्वरूपꣳ संव्ययस्व विभावसो

11.11.42

उद् उ तिष्ठ स्वध्वरावा नो देव्या धिया ।
दृशे च भासा बृहता शुशुक्वनिर् आग्ने याहि सुशस्तिभिः

11.11.43

ऊर्ध्व ऽ ऊ षु ण ऽ ऊतये तिष्ठा देवो न सविता ।
ऊर्ध्वो वाजस्य सनिता यद् अञ्जिभिर् वाघद्भिर् विह्वयामहे

11.11.44

स जातो गर्भो ऽ असि रोदस्योर् अग्ने चारुर् विभृत ऽ ओषधीषु ।
चित्रः शिशुः परि तमास्य् अक्तून् प्र मातृभ्यो ऽ अधि कनिक्रदद् गाः

11.11.45

स्थिरो भव वीड्व् अङ्ग ऽ आशुर् भव वाज्य् अर्वन् ।
पृथुर् भव सुषदस् त्वम् अग्नेः पुरीषवाहणः

11.11.46

शिवो भव प्रजाभ्यो मानुषीभ्यस् त्वम् अङ्गिरः ।
मा द्यावापृथिवी ऽ अभि शोचीर् मान्तरिक्षं मा वनस्पतीन्

11.11.47

प्रैतु वाजी कनिक्रदन् नानदद् रासभः पत्वा ।
भरन्न् अग्निं पुरीष्यं मा पाद्य् आयुषः पुरा ।
वृषाग्निं वृषणं भरन्न् अपां गर्भꣳ समुद्रियम् ।
अग्न ऽ आयाहि वीतये

11.11.48

ऋतꣳ सत्यम् ऋतꣳ सत्यम् ।
अग्निं पुरीष्यम् अङ्गिरस्वद् भरामः ।
ओषधयः प्रति मोदध्वम् अग्निम् एतꣳ शिवम् आयन्तम् अभ्य् अत्र युष्माः ।
व्यस्यन् विश्वा ऽ अनिरा ऽ अमीवा निषीदन् नो ऽ अप दुर्मतिं जहि

11.11.49

ओषधयः प्रति गृभ्णीत पुष्पवतीः सुपिप्पलाः ।
अयं वो गर्भ ऽ ऋत्वियः प्रत्नꣳ सधस्थम् आसदत्

11.11.50

वि पाजसा पृथुना शोशुचानो बाधस्व द्विषो रक्षसो ऽ अमीवाः ।
सुशर्मणो बृहतः शर्मणि स्याम् अग्नेर् अहꣳ सुहवस्य प्रणीतौ

11.11.51

आपो हि ष्ठा मयोभुवस् ता न ऽ ऊर्जे दधातन ।
महे रणाय चक्षसे

11.11.52

यो वः शिवतमो रसस् तस्य भाजयतेह नः ।
उशतीर् इव मातरः

11.11.53

तस्मा ऽ अरं गमाम वो यस्य क्षयाय जिन्वथ ।
आपो जनयथा च नः

11.11.54

मित्रः सꣳसृज्य पृथिवीं भूमिं च ज्योतिषा सह ।
सुजातं जातवेदसम् अयक्ष्माय त्वा सꣳ सृजामि प्रजाभ्यः

11.11.55

रुद्राः सꣳसृज्य पृथिवीं बृहज् ज्योतिः सम् ईधिरे ।
तेषां भानुर् अजस्र ऽ इच् छुक्रो देवेषु रोचते

11.11.56

सꣳसृष्टा वसुभी रुद्रैर् धीरैः कर्मण्यां मृदम् ।
हस्ताभ्यां मृद्वीं कृत्वा सिनीवाली कृणोतु ताम्

11.11.57

सिनीवाली सुकपर्दा सुकुरीरा स्वौपशा ।
सा तुभ्यम् अदिते मह्योखां दधातु हस्तयोः

11.11.58

उखां कृणोतु शक्त्या बाहुभ्याम् अदितिर् धिया ।
माता पुत्रं यथोपस्थे साग्निं बिभर्तु गर्भ ऽ आ ।
मखस्य शिरोऽसि

11.11.59

वसवस् त्वा कृण्वन्तु गायत्रेण छन्दसाऽङ्गिरस्वद् ध्रुवासि पृथिव्यसि ।
धारया मयि प्रजा रायस्पोषं गौपत्यꣳ सुवीर्यꣳ सजातान् यजमानाय ।
रुद्रास् त्वा कृण्वन्तु त्रैष्टुभेन छन्दसाऽङ्गिरस्वद् ध्रुवास्य् अन्तरिक्षम् असि ।
धारया मयि प्रजाꣳ रायस्पोषं गौपत्यꣳ सुवीर्यꣳ सजातान् यजमानाय ।
आदित्यास् त्वा कृण्वन्तु जागतेन छन्दसाऽङ्गिरस्वद् ध्रुवासि द्यौर् असि ।
धारया मयि प्रजा रायस्पोषं गौपत्यꣳ सुवीर्यꣳ सजातान् यजमानाय ।
विश्वे त्वा देवा वैश्वानराः कृण्वन्त्व् आनुष्टुभेन छन्दसाङ्गिरस्वद् ध्रुवासि दिशोऽसि ।
धारया मयि प्रजा रायस्पोषं गौपत्यꣳ सुवीर्यꣳ सजातान् यजमानाय

11.11.60

अदित्यै राम्नासि ।
अदितिष् टे बिलं गृभ्णातु ।
कृत्वाय सा महीम् उखां मृन्मयीं योनिम् अग्नये ।
पुत्रेभ्यः प्रायच्छद् अदितिः श्रपयान् इति

11.11.61

वसवस् त्वा धूपयन्तु गायत्रेण छन्दसाङ्गिरस्वत् ।
रुद्रास् त्वा धूपयन्तु त्रैष्टुभेन छन्दसाङ्गिरस्वत् ।
आदित्यास् त्वा धूपयन्तु जागतेन छन्दसाङ्गिरस्वत् ।
विश्वे त्वा देवा वैश्वानरा धूपयन्त्व् आनुष्टुभेन छन्दसाङ्गिरस्वत् ।
इन्द्रस् त्वा धूपयतु ।
वरुणस् त्वा धूपयतु ।
विष्णु त्वा धूपयतु

11.11.62

अदितिष् ट्वा देवी विश्वदेव्यावती पृथिव्याः सधस्थे ऽ अङ्गिरस्वत् खनत्व् अवट ।
देवानाम् त्वा पत्नीर् देवीर् विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽ अङ्गिरस्वद् दधतूखे ।
धिषणास् त्वा देवीर् विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽ अङ्गिरस्वद् अभीन्धताम् उखे ।
वरूत्रीष् ट्वा देवीर् विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽ अङ्गिरस्वच् छ्रपयन्तूखे ।
ग्नास् त्वा देवीर् विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽ अङ्गिरस्वत् पचन्तूखे ।
जनयस् त्वाच्छिन्नपत्रा देवीर् विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽ अङ्गिरस्वत् पचन्तूखे

11.11.63

मित्रस्य चर्षणीधृतोऽवो देवस्य सानसि ।
द्युम्नं चित्रश्रवस्तमम्

11.11.64

देवस् त्वा सवितोद्वपतु सुपाणिः स्वङ्गुरिः सुबाहुर् उत शक्त्या ।
अव्यथमाना पृथिव्याम् आशा दिश ऽ आ पृण

11.11.65

उत्थाय बृहती भवोद् उ तिष्ठ ध्रुवा त्वम् ।
मित्रैतां तऽउखां परि ददाम्य् अभित्त्या ऽएषा मा भेदि

11.11.66

वसवस् त्वा छृन्दन्तु गायत्रेण छन्दसाङ्गिरस्वत् ।
रुद्रास् त्वा छृन्दन्तु त्रैष्टुभेन छन्दसाङ्गिरस्वत् ।
आदित्यास् त्वा छृन्दन्तु जागतेन छन्दसाङ्गिरस्वत् ।
विश्वे त्वा देवा वैश्वानरा ऽ आ छृन्दन्त्व् आनुष्टुभेन छन्दसाङ्गिरस्वत्

11.11.67

आकूतिम् अग्निं प्रयुजꣳ स्वाहा ।
मनो मेधाम् अग्निं प्रयुजꣳ स्वाहा ।
चित्तं विज्ञातम् अग्निं प्रयुजꣳ स्वाहा ।
वाचो विधृतिम् अग्निं प्रयुजꣳ स्वाहा ।
प्रजापतये मनवे स्वाहा ।
ऽ अग्नये वैश्वानराय स्वाहा

11.11.68

विश्वो देवस्य नेतुर् मर्तो वुरीत सख्यम् ।
विश्वो राय ऽ इषुध्यति द्युम्नं वृणीत पुष्यसे स्वाहा

11.11.69

मा सु भित्था मा सु रिषो ऽम्ब धृष्णु वीरयस्व सु ।
अग्निश् चेदं करिष्यथः

11.11.70

दृꣳहस्व देवि पृथिवि स्वस्तय ऽ आसुरी माया स्वधया कृतासि ।
जुष्टं देवेभ्य ऽ इदम् अस्तु हव्यम् अरिष्टा त्वम् उद् इहि यज्ञे ऽ अस्मिन्

11.11.71

द्र्वन्न सर्पिरासुतिः प्रत्नो होता वरेण्यः ।
सहसस् पुत्रो ऽ अद्भुतः

11.11.72

परस्या ऽ अधि संवतो वराꣳ ऽ अभ्य् आतर ।
यत्राहम् अस्मि ताꣳ ऽ अव

11.11.73

परमस्याः परावतो रोहिद् अश्व ऽ इहा गहि ।
पुरीष्यः पुरुप्रियोऽग्ने त्वं तरा मृधः

11.11.74

यद् अग्ने कानि कानि चिद् आ ते दारूणि दध्मसि ।
सर्वं तद् अस्तु ते घृतं तज् जुषस्व यविष्ठ्य

11.11.75

यद् अत्त्य् उपजिह्विका यद् वम्रो ऽ अतिसर्पति ।
सर्वं तद् अस्तु ते घृतं तज् जुषस्व यविष्ठ्य

11.11.76

अहर्-अहर् अप्रयावं भरन्तोऽश्वायेव तिष्ठते घासम् अस्मै ।
रायस्पोषेण सम् इषा मदन्तो ऽग्ने मा ते प्रतिवेशा रिषाम

11.11.77

नाभा पृथिव्याः समिधाने ऽ अग्नौ रायस्पोषाय बृहते हवामहे ।
इरंमदं बृहदुक्थ्यं यजत्रं जेतारम् अग्निं पृतनासु सासहिम्

11.11.78

याः सेना ऽ अभीत्वरीर् आव्याधिनीर् उगणा ऽ उत ।
ये स्तेना ये च तस्करास् ताꣳस् ते ऽ अग्ने ऽपि दधाम्य् आस्ये

11.11.79

दꣳष्ट्राभ्यां मलिम्लून् जम्भ्यैस् तस्कराꣳ ऽउत ।
हनुभ्याꣳ स्तेनान् भगवस् ताꣳस् त्वं खाद सुखादितान्

11.11.80

ये जनेषु मलिम्लव स्तेनासस् तस्करा वने ।
ये कक्षेष्व् अघायवस् ताꣳस् ते दधामि जम्भयोः

11.11.81

यो ऽ अस्मभ्यम् अरातीयाद् यश् च नो द्वेषते जनः ।
निन्दाद् यो ऽ अस्मान् धिप्साच् च सर्वं तं भस्मसा कुरु

11.11.82

सꣳशितं मे ब्रह्म सꣳशितं वीर्यं बलम् ।
सꣳशितं क्षत्रं जिष्णु यस्याहम् अस्मि पुरोहितः

11.11.83

उद् एषां बाहू ऽ अतिरम् उद् वर्चो ऽ अथो बलम् ।
क्षिणोमि ब्रह्मणामित्रान् उन् नयामि स्वाꣳ अहम्

अन्नपते ऽन्नस्य नो देह्य् अनमीवस्य शुष्मिणः ।
प्र-प्र दातारं तारिष ऽऊर्जं नो धेहि द्विपदे चतुष्पदे ॥

मूल पाठ: śuklayajurvedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc