भाषा

ENहिગુ
ग्रंथ पाठ

शुक्लयजुर्वेदः · अध्याय 10

10.34

अभिषेकार्थ जल आदानादि राजसूयशेष चरकसौत्रामणी। राजसूयः 1-30, चरकसौत्रामणी 31-

10.10.2

अपो देवा मधुमतीर् अगृभ्णन्न् ऊर्जस्वती राजस्वश् चितानाः ।
याभिर् मित्रावरुणाव् अभ्यषिञ्चन् याभिर् इन्द्रम् अनयन्न् अत्य् अरातीः

10.10.3

वृष्ण ऽ ऊर्मिर् असि राष्ट्रदा राष्ट्रं मे देहि स्वाहा ।
वृष्ण ऽ ऊर्मिर् असि राष्ट्रदा राष्ट्रम् अमुष्मै देहि ।
वृषसेनो ऽ सि राष्ट्रदा राष्ट्रं मे देहि स्वाहा ।
वृषसेनो ऽ सि राष्ट्रदा राष्ट्रम् अमुष्मै देहि

10.10.4

अर्थेत स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा ।
अर्थेत स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त ।
ओजस्वती स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा ।
ओजस्वती स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त ।
आपः परिवाहिणी स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा ।
आपः परिवाहिणी स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त ।
अपां पतिर् असि राष्ट्रदा राष्ट्रं मे देहि स्वाहा ।
अपां पतिर् असि राष्ट्रदा राष्ट्रम् अमुष्मै देहि ।
अपां गर्भो ऽ सि राष्ट्रदा राष्ट्रं मे देहि स्वाहा ।
ऽ अपां गर्भो ऽ सि राष्ट्रदा राष्ट्रम् अमुष्मै देहि

10.10.5

सूर्यत्वचस स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा ।
सूर्यत्वचस स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त ।
सूर्यवर्चस स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा ।
सूर्यवर्चस स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त ।
मान्दा स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा ।
मान्दा स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त ।
व्रजक्षित स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा ।
व्रजक्षित स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त ।
वाशा स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा ।
वाशा स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त ।
शविष्ठा स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा ।
शविष्ठा स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त ।
शक्वरी स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा ।
शक्वरी स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त ।
जनभृत स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा ।
जनभृत स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त ।
विश्वभृत स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा ।
विश्वभृत स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त ।
आपः स्वराज स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त ।
मधुमतीर् मधुमतीभिः पृच्यन्तां महि क्षत्रं क्षत्रियाय वन्वानाः ।
ऽ अनाधृष्टाः सीदत सहौजसो महि क्षत्रं क्षत्रियाय दधतीः

10.10.6

सोमस्य त्विषिर् असि तवेव मे त्विषिर् भूयात् ।
अग्नये स्वाहा ।
सोमाय स्वाहा ।
सवित्रे स्वाहा ।
सरस्वत्यै स्वाहा ।
पूष्णे स्वाहा ।
बृहस्पतये स्वाहा ।
इन्द्राय स्वाहा ।
घोषाय स्वाहा ।
श्लोकाय स्वाहा ।
अᳬंशाय स्वाहा ।
भगाय स्वाहा ।
अर्यम्णे स्वाहा

10.10.7

पवित्रे स्थो वैष्णव्यौ ।
सवितुर् वः प्रसव ऽ उत् पुनाम्य् अच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः ।
अनिभृष्टम् असि वाचो बन्धुस् तपोजाः सोमस्य दात्रम् असि स्वाहा राजस्वः

10.10.8

सधमादो द्युम्निनीर् आप ऽ एता अनाधृष्टा ऽ अपस्यो वसानाः ।
पस्त्यासु चक्रे वरुणः सधस्थम् अपाᳬं शिशुर् मातृतमास्व् अन्तः

10.10.9

क्षत्रस्योल्वम् असि ।
क्षत्रस्य जराय्व् असि ।
क्षत्रस्य योनिर् असि ।
क्षत्रस्य नाभिर् असि ।
इन्द्रस्य वात्रघ्नम् ।
मित्रस्यासि वरुणस्यासि ।
त्वयायं वृत्रं वधेत् ।
दृवासि ।
रुजासि ।
क्षुमासि ।
पातैनं प्राञ्चम् ।
पातैनं प्रत्यञ्चम् ।
पातैनं तिर्यञ्चं दिग्भ्यः पात

10.10

आविर्मर्याः ।
ऽ आवित्तो ऽ अग्निर् गृहपतिः ।
आवित्त ऽ इन्द्रो वृद्धश्रवाः ।
ऽ आवित्तौ मित्रावरुणौ धृतव्रतौ ।
आवित्तः पूषा विश्ववेदाः ।
ऽ आवित्ते द्यावापृथिवी विश्वशम्भुवौ ।
आवित्तादितिर् उरुशर्मा

10.10.11

अवेष्टा दन्दशूकाः ।
प्राचीम् आ रोह गायत्री त्वावतु रथन्तरꣳ साम त्रिवृत् स्तोमो वसन्त ऽ ऋतुर् ब्रह्म द्रविणम्

10.10.12

दक्षिणाम् आ रोह त्रिष्टुप् त्वावतु बृहत् साम पञ्चदश स्तोमो ग्रीष्म ऽ ऋतुः क्षत्रं द्रविणम्

10.10.13

प्रतीचीम् आ रोह जगती त्वावतु वैरूपꣳ साम सप्तदश स्तोमो वर्षा ऽ ऋतुः विड् द्रविणम्

10.10.14

उदीचीम् आ रोहानुष्टुप् त्वावतु वैराजꣳ सामैकविꣳश स्तोमः शरद् ऋतुः फलं द्रविणम्

10.10.15

ऊर्ध्वाम् आ रोह पङ्क्तिस् त्वावतु शाक्वररैवते सामनी त्रिणवत्रयस्त्रिꣳशौ स्तोमौ हेमन्तशिशिराव् ऋतू वर्चो द्रविणम् ।
प्रत्यस्तं नमुचेः शिरः

10.10.16

सोमस्य त्विषिर् असि तवेव मे त्विषिर् भूयात् ।
मृत्योः पाहि ।
ओजो ऽसि सहो ऽस्य् अमृतम् असि

10.10.17

हिरण्यरूपा ऽउषसो विरोक ऽउभाव् इन्द्रा ऽउदिथः सूर्यश् च ।
आ रोहतं वरुण मित्र गर्तं ततश् चक्षाथाम् अदितिं दितिं च ।
मित्रो ऽसि वरुणो ऽसि

10.10.18

सोमस्य त्वा द्युम्नेनाभिषिञ्चाम्य् अग्नेर् भ्राजसा सूर्यस्य वर्चसेन्द्रस्येन्द्रियेण ।
क्षत्राणां क्षत्रपतिर् एध्य् अति दिद्यून् पाहि

10.10.19

इमं देवा ऽअसपत्नꣳ सुवध्वं महते क्षत्राय महते ज्यैष्ठ्याय महते जानराज्यायेन्द्रस्येन्द्रियाय ।
इमम् अमुष्य पुत्रम् अमुष्यै पुत्रम् अस्यै विश ऽएष वो मी राजा सोमो स्माकं ब्राह्मणाना राजा

10.10.20

प्र पर्वतस्य वृषभस्य पृष्ठान् नावश् चरन्ति स्वसिच ऽइयानाः ।
ता ऽ आववृत्रन्न् अधराग् उदक्ता ऽ अहिं बुध्न्यम् अनु रीयमाणाः ।
विष्णोर् विक्रमणम् असि ।
विष्णोर् विक्रान्तम् असि ।
विष्णोः क्रान्तम् असि

10.10.21

प्रजापते न त्वद् एतान्य् अन्यो विश्वा रूपाणि परि ता बभूव ।
यत्कामास् ते जुहुमस् तन् नो ऽ अस्तु ।
अयम् अमुष्य पिताऽसाव् अस्य पिता ।
वयꣳ स्याम पतयो रयीणा स्वाहा ।
रुद्र यत् ते क्रिवि परं नाम तस्मिन् हुतम् अस्य् अमेष्टम् असि स्वाहा

10.10.22

इन्द्रस्य वज्रो ऽसि ।
मित्रावरुणयोस् त्वा प्रशास्त्रोः प्रशिषा युनज्मि ।
अव्यथायै त्वा स्वधायै त्वाऽरिष्टो अर्जुनः ।
मरुतां प्रसवेन जय ।
आपाम मनसा ।
सम् इन्द्रियेण

10.10.23

मा त ऽ इन्द्र ते वयं तुराषाड् अयुक्तासो ऽ अब्रह्मता विदसाम ।
तिष्ठा रथम् अधि यं वज्रहस्ता रश्मीन् देव युवसे स्वश्वान्

10.10.24

अग्नये गृहपतये स्वाहा ।
सोमाय वनस्पतये स्वाहा ।
मरुताम् ओजसे स्वाहा ।
इन्द्रस्येन्द्रियाय स्वाहा ।
पृथिवि मातर् मा मा हिꣳसीर् मो ऽ अहं त्वाम्

10.10.25

हꣳसः शुचिषद् वसुर् अन्तरिक्षसद् होता वेदिषद् अतिथिर् दुरोणसत् ।
नृषद् वरसद् ऋतसद् व्योमसद् अब्जा गोजा ऽ ऋतजा ऽ अद्रिजा ऽ ऋतं बृहत्

10.10.26

इयद् अस्यायुर् अस्यायुर् मयि धेहि युङ्ङ् असि वर्चो ऽसि वर्चो मयि धेहि ।
ऊर्ग् अस्य् ऊर्जं मयि धेहि ।
इन्द्रस्य वां वीर्यकृतो बाहू ऽअभ्युपाव हरामि

10.10.27

स्योनासि सुषदासि ।
क्षत्रस्य योनिर् असि ।
स्योनाम् आ सीद सुषदाम् आ सीद क्षत्रस्य योनिम् आ सीद

10.10.28

नि षसाद घृतव्रतो वरुणः पस्त्यास्व् आ ।
साम्राज्याय सुक्रतुः

10.10.29

अभिभूर् अस्य् एतास् ते पञ्च दिशः कल्पन्ताम् ।
ब्रह्मꣳस् त्वं ब्रह्मासि सवितासि सत्यप्रसवः ।
वरुणो ऽसि सत्यौजाः ।
ऽ इन्द्रो ऽसि विशौजाः ।
रुद्रोऽ सि सुशेवः ।
बहुकार श्रेयस्कर भूयस्कर ।
इन्द्रस्य वज्रो ऽसि तेन मे रध्य

10.10.30

अग्निः पृथुर् धर्मणस् पतिर् जुषाणो अग्निः पृथुर् धर्मणस् पतिर् आज्यस्य वेतु स्वाहा ।
स्वाहाकृताः सूर्यस्य रश्मिभिर् यतध्वꣳ सजातानां मध्यमेष्ठ्याय

10.10.31

सवित्रा प्रसवित्रा सरस्वत्या वाचा त्वष्ट्रा रूपैः पूष्णा पशुभिर् इन्द्रेणास्मे बृहस्पतिना ब्रह्मणा वरुणेनौजसाग्निना तेजसा सोमेन राज्ञा विष्णुना दशम्या देवतया प्रसूतः प्र सर्पामि

10.10.32

अश्विभ्यां पच्यस्व ।
सरस्वत्यै पच्यस्व ।
इन्द्राय सुत्राम्णे पच्यस्व ।
वायुः पूतः पवित्रेण प्रत्यङ्क् सोमो अतिस्रुतः ।
इन्द्रस्य युज्यः सखा

10.10.33

कुविद् अङ्ग यवमन्तो वयं चिद् यथा दान्त्य् अनुपूर्वं वियूय ।
इहेहैषां कृणुहि भोजनानि ये बर्हिषो नम ऽ उक्तिं यजन्ति ।
उपयामगृहीतो ऽस्य् अश्विभ्यां त्वा सरस्वत्यै त्वेन्द्राय त्वा सुत्राम्णे

10.10.34

वयꣳ सुरामम् अश्विना नमुचाव् आसुरे सचा ।
विपिपाना शुभस् पती इन्द्रं कर्मस्व् आवतम्

पुत्रम् इव पितराव् अश्विनोभेन्द्रावथुः काव्यैर् दꣳसनाभिः ।
यत् सुरामं व्यपिबः शचीभिः सरस्वती त्वा मघवन्न् अभिष्णक् ॥

मूल पाठ: śuklayajurvedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc