भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 6.23

6.23.1

सुब्रह्मण्य उवाच ॥
द्वादशाहे समुत्थाय प्रातः स्नात्वा कृताह्निकः ॥
शिवभक्तान्यतीन्वापि ब्राह्मणान्वा शिवप्रियान्

6.23.2

विमन्त्र्य तान्समाहूय मध्याह्न चाप्लुताञ्छुचीन् ॥
विधिवद्भोजयेद्भक्त्या स्वाद्वन्नैर्विविधैश्शुभैः

6.23.3

सन्निधौ परमेशस्य पंचावरणमार्गतः ॥
पूजयेत्तस्य संस्थाप्य प्राणानायम्य वाग्यतः

6.23.4

महासंकल्पमार्गेण संकल्प्यास्मद्गुरोरिह॥
पूजां करिष्य इत्युक्त्वा ततो दर्भानुस्पपृशेत्

6.23.5

पादौ प्रक्षाल्य चाचम्य स्वयं कर्ता च वाग्यतः ॥
स्थापयेदासने तान्वै प्राङ्मुखान्भस्मभूषितान्

6.23.6

सदाशिवादिक्रमतो ध्यायेदष्टौ च तत्र तान् ॥
परया सम्भावनयेतरानपि मुने द्विजान् ॥
परमेष्ठिगुरुं ध्यायेत्सांबबुद्ध्या स्वनामतः ॥
गुरुश्च परमन्तस्मात्परापरगुरुं ततः

6.23.7

इदमासनमित्युक्त्वा चासनानि प्रकल्पयेत् ॥
प्रणवादिद्वितीयांते स्वस्य नाम समुच्चरन् ॥

6.23.8

आवाहयामि नम इत्यावाह्यार्घोदकेन तु ॥
पाद्यमाचमनं चार्घ्यं वस्त्रगन्धाक्षतानपि

6.23.6.23.10

दत्त्वा पुष्पैरलंकृत्य प्रणवाद्यष्टनामभिः ॥
सचतुर्थौंनमोऽन्तैश्च सुगन्धकुसुमैस्ततः ॥ ९ ।
धूपदीपौ हि दत्त्वा च सकलाराधनं कृतम् ॥
सम्पूर्णमस्त्विति प्रोच्य नमस्कुर्यात्समुत्थितः

6.23.11

पात्राणि कदलीपत्राण्यास्तीर्याद्भिविशोध्य च ॥
शुद्धान्नपायसापूपसूपव्यञ्जनपूर्वकम्

6.23.12

दत्त्वा पदार्थान्कदलीनालिकेरगुडान्वितान् ॥
पात्रासनानि च पृथग्दद्यात्सम्प्रोच्य च क्रमात्

6.23.13

परिषिच्य च सम्प्रोक्ष्य विष्णोर्हव्यमिति ब्रुवन् ॥
रक्षस्वेति करस्पर्शं कारयित्वा समुत्थितः

6.23.14

आपोशनं समर्प्याथ प्रार्थयेत्तानिदम्प्रति ॥
सदाशिवादयः प्रीता वरदाश्च भवन्तु मे

6.23.15

ये देवा इति च ततो जप्त्वेदं साक्षतं त्यजेत् ॥
नमस्कृत्य समुत्थाय सर्वत्रामृतमस्त्विति

6.23.16

उक्त्वा प्रसाद्य च जपन्गणानांत्वेत्युप क्रमात् ॥
वेदादीन् रुद्रचमकौ रुद्रसूक्तं च पंच च

6.23.17

ब्रह्माणि भोजनान्ते तु यावन्मन्त्रांश्च साक्षतान् ॥
दत्त्वोत्तरापोशनं च हस्तांघ्रिमुखशोधनम्

6.23.18

कृत्वा चान्तान्स्वासनेषु स्थापयित्वा यथासुखम्॥
शुद्धोदकम्प्रदायाथ कर्प्पूरादि यथोदितम्

6.23.19

मुखवासं दक्षिणां च पादुकासनपत्रकम् ॥
व्यजनं फलकान्दण्डं वैणवं च प्रदाय तान्

6.23.6.23.20

प्रदक्षिणनमस्कारैस्संतोष्याशिषमा वहेत ॥
पुनः प्रणम्य सम्प्रार्थ्य गुरुभक्तिमचंचलाम्

6.23.21

सदाशिवादयः प्रीता गच्छन्तु च यथासुखम् ॥
इत्युद्वास्य द्वारदेशावधि सम्यगनुव्रजन्

6.23.22

निरुद्धस्तः परावृत्य द्वास्थैर्विप्रैश्च बन्धुभिः ॥
दीनानाथैश्च सहितो भुक्त्वा तिष्ठेद्यथासुखम्

6.23.23

विकृतं न भवेत्क्वापि सत्यं सत्यं पुनः पुनः ॥
प्रत्यब्दमेव कुर्वाणो गुर्वाराधनमुत्तमम् ॥
इह भुक्त्वा महाभोगाञ्छिवलोकमवाप्नुयात्

6.23.24

॥ सूत उवाच ॥॥
एवं कृतानुग्रहमात्मशिष्यं श्रीवामदेवं मुनिवर्य्यमुक्त्वा ॥
प्रसन्नधीर्ज्ञानिवरो महात्मा कृत्वा परानुग्रहमाशु देवः

6.23.25

यन्नैमिषारण्यमुनीश्वराणां प्रोक्तं पुरा व्यासमुनीश्वरेण ॥
तस्मादसावादिगुरुर्भवांस्तु द्वितीय आर्य्यो भुवने प्रसिद्धः

6.23.26

श्रुत्वा मुनीन्द्रो भवतो मुखाज्जात्सनत्कुमारः शिवभक्तिपूर्णः ॥
व्यासाय वक्ता स च शैववर्य्यश्शुकाय वक्ता भविता च पूर्णः

6.23.27

प्रत्येकं मुनिशार्दूलं शिष्यवर्गचतुष्टयम् ॥
वेदाध्ययनसंवृत्तं धर्मस्थापनपूर्वकम्

6.23.28

वैशम्पायन एव स्यात्पैलो जैमिनिरेव च ॥
सुमन्तुश्चेति चत्वारो व्यासशिष्या महौजसः

6.23.29

अगस्त्यश्च पुलस्त्यश्च पुलहः क्रतुरेव च ॥
तव शिष्या महात्मानो वामदेव महामुने

6.23.6.23.30

सनकश्च सनन्दश्च सनातनमुनिस्ततः ॥
सनत्सुजात इत्येते योगिवर्याः शिवप्रियाः

6.23.31

सनत्कुमारशिष्यास्ते सर्ववेदार्थवित्तमाः ॥
गुरुश्च परमश्चैव परात्परगुरुस्ततः ॥
परमेष्ठिगुरुश्चैते पूज्यास्स्युश्शुकयोगिनः

6.23.32

इदं प्रणवविज्ञानं स्थितं वर्गचतुष्टये ॥
सर्वोत्कृष्टनिदानं च काश्यां सन्मुक्तिकारणम्

6.23.33

एतन्मण्डलमद्भुतं परशिवाधिष्ठान रूपं सदावेदान्तार्थविचारपूर्णमतिभिः पूज्यं यतीन्द्रैः परम् ॥
वेदादिप्रविभागकल्पितमहाकाशादिनाप्यावृतन्त्वत्संतोषकरं तथास्तु जगतां श्रेयस्करं श्रीप्रदम्

6.23.34

इदं रहस्यम्परमं शिवोदितं वेदान्तसिद्धातविनिश्चितम्परम्॥
मत्तश्श्रुतं यद्भवता ततो मुने भवन्मतम्प्राज्ञतमा वदंति

6.23.35

तस्मादनेनैव पथा गतश्शिवं शिवोहमस्मीति शिवो भवेद्यतिः ॥
पितामहादिप्रविभागमुक्तये नद्यो यथासिन्धुमिमाः प्रयान्ति

6.23.36

श्रीसूत उवाच ॥
एवम्मुनीश्वरायैतदुपदिश्य सुरेश्वरः ॥
संस्मृत्य चरणाम्भोजे पित्रो स्सर्व्वसुरार्चिते

6.23.37

कैलासशिखरम्प्राप कुमारश्शिखरावृतम् ॥
राजितम्परमाश्चर्य्यदिव्यज्ञानप्रदो गुरुः

6.23.38

वामदेवोऽपि सच्छिष्यैस्संवृतश्शिखिवाहनम् ॥
सम्प्रणम्य जगामाशु कैलासम्परमाद्भुतम्

6.23.39

गत्वा कैलासशिखरम्प्राप्येशनिकटम्मुनिः॥
ददर्श मोक्षदम्मायानाशञ्चरणमीशयोः

6.23.6.23.40

भक्त्या चार्पितसर्वांगो विस्मृत्य स्वकलेवरम् ॥
पपात सन्निधौ भूयो भूयो नत्वा समु त्थितः

6.23.41

ततो बहुविधैः स्तोत्रैर्वेदागमरसोत्कटैः ॥
तुष्टाव परमेशानं सांबिकं ससुतं मुनिः

6.23.42

निधाय चरणत्म्भोजन्देव देव्योस्स्वमूर्द्धनि ॥
पूर्णानुग्रहमासाद्य तत्रैव न्यवसत्सुखम्

6.23.43

।
भवन्तोऽपि विदित्वैवम्प्रणवार्थम्महेश्वरम्॥
वेदगुह्यं च सर्वस्वन्तार कम्ब्रह्म मुक्तिदम्

6.23.44

अत्रैव सुखमासीनाः श्रीविश्वेश्वरपादयोः ॥
सायुज्यरूपामतुलाम्भजध्वम्मुक्तिमुत्तमाम्

6.23.45

अहं गुरुपदाम्भोजसेवायै बादराश्रमम् ॥
गमिष्ये भवताम्भूयस्सत्सम्भाषणमस्तु मे

6.23.23

इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां द्वादशाहकृत्यवर्णनपूर्व्वकव्यासादिशिष्यवर्गकथनन्नाम त्रयोविंशोऽध्यायः

इति कैलाससंहिता षष्ठी समाप्तिमगमत् ॥
॥ ॐ नमश्शिवाय ॥

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc