भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 6.22

6.22.1

॥ सुब्रह्मण्य उवाच ॥
एकादशेह्नि सम्प्राप्ते यो विधिस्समुदाहृतः ॥
तं वक्ष्ये मुनिशार्दूल यतीनां स्नेहतस्तव

6.22.2

सम्मार्ज्य वेदीमालिप्य कृत्वा पुण्याहवाचनम् ॥
प्रोक्ष्य पश्चिममारभ्य पूर्वान्तम्पञ्च च क्रमात्

6.22.3

मण्डलान्युत्तराशास्यः कुर्यात्स्वयमवस्थितः॥
प्रादेशमात्रं संकल्प्य चतुरस्रं च मध्यतः

6.22.4

बिन्दुत्रिकोणषट्कोणवृत्ताकाराणि च क्रमात् ॥
शंखं च पुरतस्थाप्य पूजोक्तक्रममार्गतः

6.22.5

प्राणानायम्य संकल्प्य पूजयित्वा सुरेश्वरी ॥
देवताः पञ्च पूर्वोक्ता अतिवाहिकरूपिणीः

6.22.6

संत्यज्योत्तरतो दर्भान् यश्च संस्पृशते ततः ॥
पश्चिमादि समारभ्य षडुत्थासनमार्गतः

6.22.7

मण्डलानि च तेष्वन्तः पुष्पाण्याधाय पीठवत् ॥
ॐ ह्री मित्युक्त्वाग्निरूपान्तामतिवाहिकदेवताम्

6.22.8

आवाहयामि नम इत्यन्तं सर्वत्र भावयेत् ॥
दर्शयेत्स्थापनाद्यास्तु मुद्राः प्रत्येकमादरात्

6.22.9

ह्रांह्रीमित्यादिना कुर्य्यादासामंगानि च क्रमात् ॥
पाशांकुशाभयाभीष्टपाणिचन्द्रोपलप्रभाः

6.22.6.22.10

रक्तांगुलीयकच्छायरञ्जिताखिलदिङ्मुखा ॥
रक्ताम्बरधराः कारपदपंकजशोभिताः

6.22.11

त्रिनेत्रोल्लासिवदनपूर्णचन्द्रमनोहराः ॥
माणिक्य मुकुटोद्भासिचन्द्रलेखावतंसिताः

6.22.12

कुण्डलामृष्टगण्डाश्च पीनोन्नतपयोधराः ॥
हारकेयूरकटककांचीदाममनोहराः

6.22.13

तनुमध्याः पृथुश्रोण्यो रक्तदिव्याम्बरावृताः ॥
माणिक्यमयमंजीरसिंजत्पदसरोरुहाः॥
पादांगुलीयकश्रोणीर्मंजुलातिमनोहराः

6.22.14

अनुग्रहेण मूर्तेन शिववत्किं नु साध्यते॥
तस्माच्छक्त्यात्ममूर्तेन सर्वं साध्यं महेशवत्

6.22.15

सर्वानुग्रहकर्त्रैव स्वीकृताः पंचमूर्तय॥
सर्वकार्य्यकरा दिव्याः परानुग्रहतत्पराः

6.22.16

एवं ध्यात्वा तु ताः सर्वा अनुग्रहपराश्शिवाः ॥
पादयोः पाद्यमेतासां दद्याच्छंखोदबिन्दुभिः

6.22.17

हस्तेष्वाचमनीयं च मौलिष्वर्घ्यं प्रदापयेत्॥
शंखोद बिन्दुभिस्तासां स्नानकर्म च भावयेत्

6.22.18

रक्ताम्बराणि दिव्यानि सोत्तरीयाणि दापयेत् ॥
मुकुटादीन्यनर्घ्याणि दद्यादाभरणानि च

6.22.19

सुवासितं च श्रीखण्डमक्षतांश्चातिशोभनान्॥
सुरभीणि मनोज्ञानि कुसुमानि च दापयेत्

6.22.6.22.20

धूपं च परमामोदं साज्यवर्ति च दीपकम्॥
सर्वं समर्पयामीति प्रणवं ह्रीमुपक्रमात्

6.22.21

नमोऽन्तंचततोदद्यात्पायस्तमधुनाप्लुतम्॥
साज्यशर्करयापूपकदलीगुडपूरितम्

6.22.22

प्रत्येकं कदलीपत्रे भरितं च सुवासितम् ॥
भूर्भुवस्स्वरिति प्रोच्य प्रोक्ष्णादीनि कारयेत

6.22.23

ॐ ह्रीमिति समुच्चार्य्य नैवेद्यं वह्निजायया ॥
पानीयं नम इत्युक्त्वा परम्प्रेम्णा समर्पयेत्

6.22.24

तत उद्वासयेत्प्रीत्या पूर्वतो मुनिसत्तम ॥
स्थलं विशोध्य गंडूषाचमनार्घ्याणि दापयेत्

6.22.25

तांबूलं धूप दीपौ च प्रदक्षिणनमस्कृती ॥
विधाय प्रार्थयेदेताश्शिरस्यंजलिमादधत्

6.22.26

श्रीमातरस्सुप्रसन्ना यतिं शिवपदैषिणम्॥
रक्षणीय म्प्रब्रुवन्तु परमेशपदाब्जयोः

6.22.27

इति संप्रार्थ्य तास्सर्वा विसृज्य च यथागतम्॥
तासाम्प्रसादमुद्धृत्य कन्यकाभ्यः प्रदापयेत

6.22.28

गोभ्यो वा जलमध्ये वा निक्षिपेन्नान्यथा क्वचित् ॥
अत्रैव पार्वणं कुर्य्यान्नैकोद्दिष्टं यतेः क्वचित्

6.22.29

अत्रायं पार्वणश्राद्धे नियमः प्रोच्यते मया ॥
तं शृणुष्व मुनिश्रेष्ठ येन श्रेयो भवेत्ततः

6.22.6.22.30

कर्ता स्नात्वा धृतप्राण उपवीती समाहितः॥
सपवित्रकरस्त्वस्यां पुण्यतिथ्यामिति ब्रुवन्

6.22.31

करिष्ये पार्वणं श्राद्धमिति संकल्प्य चोत्तरे ॥
दद्याद्दर्भानुत्तमांश्च ह्यासनार्थं जलं स्पृशेत्

6.22.32

तत्रोपवेशयेद्भक्त्या साभ्यंगं कृतमज्जनान् ॥
आहूय चतुरो विप्राञ्छिवभक्तान्दृढव्रतान्

6.22.33

विश्वेदेवार्थं भवता प्रसादः क्रियतामिति ॥
आत्मने भवता पश्चादन्तरात्मन इत्यपि

6.22.34

परमात्मन इत्येवं प्रोच्य प्रार्थ्यं च तान्यतिः ॥
श्रद्धया चरणन्तेषां कुर्य्याद्याथार्थ्यमादरात्

6.22.35

पादौ प्रक्षाल्य तेषान्तु प्राङ्मुखानुपवेश्य च ॥
गन्धादिभिरलंकृत्य भोजयेच्च शिवा ग्रतः

6.22.36

गोमयेनोपलिप्यात्र दर्भान्प्रागग्रकल्पितान् ॥
आस्तीर्य्य संयतप्राणः पिण्डानां च प्रदानकम्

6.22.37

करिष्य इति संकल्प्य मण्डलत्रयमर्च्य च ॥
आत्मानमन्तरात्मानं परमात्मनमप्यतः

6.22.38

चतुर्थ्यन्तं वदन्पश्चादिमं पिण्डमितीरयन् ॥
ददामीति च सम्प्रोच्य दद्यात्पिण्डान्स्वभक्तितः

6.22.39

कुशोदकं ततो दद्याद्यथाविधिविधानतः ॥
तत उत्थाप्य वै कुर्य्यात्प्रदक्षिणनमस्कृती

6.22.6.22.40

ततो दत्त्वा ब्राह्मणेभ्यो दक्षिणां च यथाविधि ॥
नारायणबलिं कुर्य्यात्तस्मिन्नेव स्थले दिने

6.22.41

रक्षार्थमेव सर्वत्र विष्णोः पूजाविधिः स्मृतः ॥
कुर्य्याद्विष्णोर्महापूजां पायसान्नं निवेदयेत्

6.22.42

द्वादशाथ समाहूय ब्राह्मणान्वेदपारगान् ॥
केशवादिभिरभ्यर्च्य गन्धपुष्पाक्षतादिभिः

6.22.43

उपानच्छत्रवस्त्रादि दत्त्वा तेभ्यो यथाविधि ॥
सन्तोषयेन्महाभक्त्या विविधैर्वच नैश्शुभैः

6.22.44

आस्तीर्य्य दर्भान्पूर्वाग्रान्भूस्स्वाहा च भुवस्सुवः ॥
प्रणवादि प्रोच्य भूमौ पायसान्नं बलिं हरेत्

6.22.45

एकादशाह सुविधिर्मया प्रोक्तो मुनीश्वर ॥
द्वादशाहविधिं वक्ष्ये शृणुष्वादरतो द्विज

6.22.22

इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां यतीनामेकादशाहकृत्यवर्णनन्नाम द्वाविंशोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc