भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 5.23

5.23.1

सनत्कुमार उवाच ॥
शृणु व्यास महाबुद्धे देहस्याशुचितां मुने ॥
महत्त्वं च स्वभावस्य समासात्कथयाम्यहम्

5.23.2

शुक्रशोणितसंयोगाद्देहस्संजायते यतः॥
नित्यं विण्मूत्रसंपूर्णस्तेनायमशुचिस्स्मृतः

5.23.3

यथांतर्विष्ठया पूर्णश्शुचिमान्न बहिर्घटः ॥
शोध्यमानो हि देहोऽयं तेनायमशुचिस्ततः

5.23.4

संप्राप्यातिपवित्राणि पंचगव्यहवींषि चा।
अशुचित्वं क्षणाद्यांति किमन्यदशुचिस्ततः

5.23.5

हृद्यान्यप्यन्नपानानि यं प्राप्य सुरभीणि च ॥
अशुचित्वं प्रयांत्याशु किमन्यदशुचिस्ततः

5.23.6

हे जनाः किन्न पश्यंति यन्निर्याति दिनेदिने ॥
स्वदेहात्कश्मलं पूतिस्तदाधारः कथं शुचिः

5.23.7

देहस्संशोध्यमानोऽपि पंचगव्यकुशांबुभिः ॥
घृष्यमाण इवांगारो निर्मलत्वं न गच्छति

5.23.8

स्रोतांसि यस्य सततं प्रभवंति गिरेरिव ॥
कफमूत्रपुरीषाद्यैस्स देहश्शुध्यते कथम्

5.23.9

सर्वाशुचिनिधानस्य शरीरस्य न विद्यते ॥
शुचिरेकः प्रदेशोऽपि विण्मूत्रस्य दृतेरिव

5.23.5.23.10

सृष्ट्वात्मदेहस्रोतांसि मृत्तोयैः शोध्यते करः ॥
तथाप्यशुचिभांडस्य न विभ्रश्यति किं करः

5.23.11

कायस्सुगंधधूपाद्यैर्य न्नेनापि सुसंस्कृतः ॥
न जहाति स्वभावं स श्वपुच्छमिव नामितम्

5.23.12

यथा जात्यैव कृष्णोर्थः शुक्लस्स्यान्न ह्युपायतः॥
संशोद्ध्यमानापि तथा भवेन्मूर्तिर्न निर्मला

5.23.13

जिघ्रन्नपि स्वदुर्गंधं पश्यन्नपि स्वकं मलम् ॥
न विरज्येत लोकोऽयं पीडयन्नपि नासिकाम्

5.23.14

अहो मोहस्य माहात्म्यं येनेदं छादितं जगत् ॥
शीघ्रं पश्यन्स्वकं दोषं कायस्य न विरज्यते

5.23.15

स्वदेहस्य विगंधेन न विरज्येत यो नरः ॥
विरागकारणं तस्य किमेतदुपदिश्यते

5.23.16

सर्वस्यैव जगन्मध्ये देह एवाशुचिर्भवेत् ॥
तन्मलावयवस्पर्शाच्छुचिरप्यशुचिर्भवेत्

5.23.17

गंधलेपापनोदार्थ शौचं देहस्य कीर्तितम् ॥
द्वयस्यापगमाच्छुद्धिश्शुद्धस्पर्शाद्विशुध्यति

5.23.18

गंगातोयेन सर्वेण मृद्भारैः पर्वतोपमैः ॥
आमृत्योराचरेच्छौचं भावदुष्टो न शुध्यति

5.23.19

तीर्थस्नानैस्तपोभिर्वा दुष्टात्मा नैव शुध्यति ॥
श्वदृतिः क्षालिता तीर्थे किं शुद्धिमधिगच्छति

5.23.5.23.20

अंतर्भावप्रदुष्टस्य विशतोऽपि हुताशनम् ॥
न स्वर्गो नापवर्गश्च देहनिर्दहनं परम्

5.23.21

सर्वेण गांगेन जलेन सम्यङ् मृत्पर्वतेनाप्यथ भावदुष्टः ॥
आजन्मनः स्नानपरो मनुष्यो न शुध्यतीत्येव वयं वदामः

5.23.22

प्रज्वाल्य वह्निं घृततैलसिक्तं प्रदक्षिणावर्तशिखं महांतम् ॥
प्रविश्य दग्धस्त्वपि भावदुष्टो न धर्ममाप्नोति फलं न चान्यत

5.23.23

गंगादितीर्थेषु वसंति मत्स्या देवालये पक्षिगणाश्च नित्यम् ॥
भावोज्झितास्ते न फलं लभंते तीर्थावगाहाच्च तथैव दानात्

5.23.24

भावशुद्धिः परं शौचं प्रमाणे सर्वकर्मसु ॥
अन्यथाऽऽलिंग्यते कांता भावेन दुहितान्यथा

5.23.25

मनसो भिद्यते वृत्तिरभिन्नेष्वपि वस्तुषु ॥
अन्यथैव सुतं नारी चिन्तयत्यन्यथा पतिम्

5.23.26

पश्यध्वमस्य भावस्य महाभाग्यमशेषतः ॥
परिष्वक्तोपि यन्नार्य्या भावहीनं न कामयेत्

5.23.27

नाद्याद्विविधमन्नाद्यं भक्ष्याणि सुरभीणि च ॥
यदि चिंतां समाधत्ते चित्ते कामादिषु त्रिषु

5.23.28

गृह्यते तेन भावेन नरो भावाद्विमुच्यते ॥
भावतश्शुचि शुद्धात्मा स्वर्गं मोक्षं च विंदति

5.23.29

भावेनैकात्मशुद्धात्मा दहञ्जुह्वन्स्तुवन्मृतः ॥
ज्ञानावाप्तेरवाप्याशु लोकान्सुबहुयाजिनाम्

5.23.5.23.30

ज्ञानामलांभसा पुंसां सद्वैराग्यमृदा पुनः ॥
अविद्यारागविण्मूत्रलेपगंधविशोधनम्

5.23.31

एवमेतच्छरीरं हि निसर्गादशुचि स्मृतम् ॥
त्वङ्मात्रसारं निःसारं कदलीसारसन्निभम्

5.23.32

ज्ञात्वैवं दोषवद्देहं यः प्राज्ञश्शिथिलो भवेत् ॥
देह भोगोद्भवाद्भावाच्छमचित्तः प्रसन्नधीः

5.23.33

सोऽतिक्रामति संसारं जीवन्मुक्तः प्रजायते ॥
संसारं कदलीसारदृढग्राह्यवतिष्ठते ॥

5.23.34

एवमेतन्महाकष्टं जन्म दुःखं प्रकीर्तितम् ॥
पुंसामज्ञानदोषेण नानाकार्मवशेन च

5.23.35

श्लोकार्धेन तु वक्ष्यामि यदुक्तं ग्रन्थकोटिभिः ॥
ममेति परमं दुःखं न ममेति परं सुखम्

5.23.36

बहवोपीह राजानः परं लोक मितो गताः ॥
निर्ममत्वसमेतास्तु बद्धाश्शतसहस्रशः

5.23.37

गर्भस्थस्य स्मृतिर्यासीत्सा च तस्य प्रणश्यति ॥
संमूर्छितेन दुःखेन योनियन्त्रनिपीडनात्

5.23.38

बाह्येन वायुना वास्य मोहसङ्गेन देहिनः ॥
स्पृष्टमात्रेण घोरेण ज्वरस्समुपजायते

5.23.39

तेन ज्वारेण महता सम्मोहश्च प्रजायते ॥
सम्मूढस्य स्मृतिभ्रंशश्शीघ्रं संजायते पुनः

5.23.5.23.40

स्मृतिभ्रंशात्ततस्तस्य स्मृतिर्न्नोऽपूर्वकर्मणः॥
रतिः संजायते तूर्णं जन्तोस्तत्रैव जन्मनि

5.23.41

रक्तो मूढश्च लोकोऽयं न कार्य्ये सम्प्रवर्तते ॥
न चात्मानं विजानाति न परं न च दैवतम्

5.23.42

न शृणोति परं श्रेयस्सति कर्णेऽपि सन्मुने ॥
न पश्यति परं श्रेयस्सति चक्षुषि तत्क्षमे

5.23.43

समे पथि शनैर्गच्छन् स्खलतीव पदेपदे ॥
सत्यां बुद्धौ न जानाति बोध्यमानो बुधैरपि

5.23.44

संसारे क्लिश्यते तेन गर्भलोभवशानुगः ॥
गर्भस्मृतेन पापेन समुज्झितमतिः पुमान्

5.23.45

इत्थं महत्परं दिव्यं शास्त्रमुक्तं शिवेन तु ॥
तपसः कथनार्थाय स्वर्गमोक्षप्रसाधनम्

5.23.46

ये सत्यस्मिच्छिवे ज्ञाने सर्वकामार्थ साधने ॥
न कुर्वन्त्यात्मनः श्रेयस्तदत्र महदद्भुतम्

5.23.47

अव्यक्तेन्द्रियवृत्तित्वाद्बाल्ये दुःखं महत्पुनः ॥
इच्छन्नपि न शक्नोति वक्तुं कर्त्तुं प्रतिक्रियाम्

5.23.48

दंतोत्थाने महद्दुःखमल्पेन व्याधिना तथा ॥।
बालरोगैश्च विविधै पीडा बालग्रहैरपि

5.23.49

क्वचित्क्षुत्तृट्परीतांगः क्वचित्तिष्ठति संरटन् ॥
विण्मूत्रभक्षणाद्यं च मोहाद्बालस्समाचरेत्

5.23.5.23.50

कौमारे कर्णपीडायां मातापित्रोश्च साधनः ॥
अक्षराध्ययनाद्यैश्च नानादुःखं प्रवर्तते

5.23.51

बाल्ये दुःखमतीत्यैव पश्यन्नपि विमूढधीः॥
न कुर्वीतात्मनः श्रेयस्तदत्र महदद्भुतम्

5.23.52

प्रवृत्तेन्द्रियवृत्तित्वात्कामरोगप्रपीडनात्॥
तदप्राप्ते तु सततं कुतस्सौख्यं तु यौवने

5.23.53

ईर्ष्यया च महद्दुःखं मोहाद्रक्तस्य तस्य च ॥
नेत्रस्य कुपितस्येव त्यागी दुःखाय केवलम्

5.23.54

न रात्रौ विंदते निद्रां कामाग्निपरिवेदितः ॥
दिवापि च कुतस्सौख्यमर्थोपार्जनचिंतया

5.23.55

स्त्रीष्वध्यासितचित्तस्य ये पुंसः शुक्रबिन्दवः ॥
ते सुखाय न मन्यन्ते स्वेदजा इव ते तथा

5.23.56

कृमिभिस्तुद्यमानस्य कुष्ठिनो वानरस्य च ॥
कंडूयनाभितापेन यद्भवेत्स्त्रिषु तद्विदः

5.23.57

यादृशं मन्यते सौख्यं गंडे पूतिविनिर्गमात् ॥
तादृशं स्त्रीषु मन्तव्यं नाधिकं तासु विद्यते

5.23.58

विण्मूत्रस्य समुत्सर्गात्सुखं भवति यादृशम्॥
तादृशं स्त्रीषु विज्ञेयं मूढैः कल्पितमन्यथा

5.23.59

नारीष्ववस्तुभूतासु सर्वदोषाश्रयासु वा।
नाणुमात्रं सुखं तासु कथितं पंचचूडया

5.23.5.23.60

सम्माननावमानाभ्यां वियोगेनेष्टसंगमात् ॥
यौवनं जरया ग्रस्तं क्व सौख्यमनुपद्रवम्

5.23.61

वलीपलितखालित्यैश्शिथिलिकृतविग्रहम्॥
सर्वक्रियास्वशक्तिं च जरया जर्जरीकृतम्

5.23.62

स्त्रीपुंसयौवनं हृद्यमन्योऽन्यस्य प्रियं पुरा॥
तदेव जरयाग्रस्तमनयोरपि न प्रियम्

5.23.63

अपूर्ववत्स्वमात्मानं जरया परिवर्तितम्॥
यः पश्यन्नपि रज्येत कोऽन्यस्तस्मादचेतनः

5.23.64

जराभिभूतः पुरुषः पुत्रीपुत्रादिबांधवैः॥
आसक्तत्वाद्दुराधर्षैर्भृत्यैश्च परिभूयते

5.23.65

धर्ममर्थं च कामं वा मोक्षं वातिजरातुरः॥
अशक्तस्साधितुं तस्माद्युवा धर्मं समाचरेत्

5.23.23

इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां संसारचिकित्सायां देहा शुचित्वबाल्याद्यवस्थादुःखवर्णनं नाम त्रयोविंशोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc