भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 5.22

5.22.1

व्यास उवाच ॥
विधिं तात वदेदानीं जीव जन्मविधानतः ॥
गर्भे स्थितिं च तस्यापि वैराग्यार्थं मुनीश्वर

5.22.2

सनत्कुमार उवाच॥
शृणु व्यास समासेन शास्त्रसारमशेषतः ॥
वदिष्यामि सुवैराग्यं मुमुक्षोर्भवबंधकृत्

5.22.3

पाकपात्रस्य मध्ये तु पृथगन्नं पृथग्जलम्॥
अग्नेरूर्ध्वं जलं स्थाप्यं तदन्नं च जलोपरि

5.22.4

जलस्याधस्स चाग्निर्हि स्थितोऽग्निं धमते शनैः ॥
वायुनाधम्यमानोऽग्निरत्युष्णं कुरुते जलम्

5.22.5

तदन्नमुष्णतोयेन समन्तात्पच्यते पुनः॥
द्विधा भवति तत्पक्वं पृथक्किट्टं पृथग्रसः

5.22.6

मलैर्द्वादशभिः किट्टं भिन्नं देहाद्बहिर्भवेत्॥
रसस्तु देहे सरति स पुष्टस्तेन जायते

5.22.7

कर्णाक्षिनासिका जिह्वा दन्ताः शिश्नो गुदं नखाः ॥
मलाश्रयः कफः स्वेदो विण्मूत्रं द्वादश स्मृताः

5.22.8

हृत्पद्मे प्रतिबद्धाश्च सर्वनाड्यस्समंततः ॥
ज्ञेया रसप्रवाहिन्यस्तत्प्रकारं ब्रुवे मुने

5.22.9

तासां मुखेषु तं सूक्ष्मं प्राणस्स्थापयेत् रसम् ॥
रसेन तेन नाडीस्ताः प्राणं पूरयते पुनः

5.22.5.22.10

पुनः प्रयांति संपूर्णास्ताश्च देहं समंततः ॥
ततस्स नाडीमध्यस्थश्शरीरेणात्मना रसः

5.22.11

पच्यते पच्यमानाच्च भवेत्पाकद्वयं पुनः ॥
त्वक् तया वेष्ट्यते पूर्वं रुधिरं च प्रजायते

5.22.12

रक्ताल्लोमानि मांसं च केशाः स्नायुश्च मांसतः॥
स्नायुतश्च तथास्थीनि नखा मज्जास्थिसंभवाः

5.22.13

मज्जाकारणवैकल्यं शुक्रं हि प्रसवात्मकम्॥
इति द्वादशधान्नस्य परिणामः प्रकीर्तिताः

5.22.14

शुक्रोऽन्नाज्जायते शुक्राद्दिव्यदेहस्य संभवः॥
ऋतुकाले यदा शुक्रं निर्दोषं योनिसंस्थितम्

5.22.15

तद्वा तद्वायुसंस्पृष्टं स्त्रीरक्तेनैकतां व्रजेत् ॥
विसर्गकाले शुक्रस्य जीवः कारणसंयुतः

5.22.17

संवृतः प्रविशेद्योनिं कर्मभिस्स्वैर्नियोजितः ॥
तच्छुक्ररक्तमेकस्थमेकाहात्कलिलं भवेत् ॥३१।
पंचरात्रेण कलिलं बुद्बुदाकारतां व्रजेत् ॥
बुद्बुदस्सप्तरात्रेण मांसपेशी भवेत्पुनः

5.22.18

ग्रीवा शिरश्च स्कंधौ च पृष्ठवंशस्तथोदरम्॥
पाणिपादन्तथा पार्श्वे कटिर्गात्रं तथैव च

5.22.19

द्विमासाभ्यन्तरेणैव क्रमशस्संभवेदिह॥
त्रिभिर्मासैः प्रजायंते सर्वे ह्यंकुरसंधयः

5.22.5.22.20

मासैश्चतुर्भिरंगुल्यः प्रजायंते यथाक्रमम्॥
मुखं नासा च कर्णौ मासैः पंचभिरेव च

5.22.21

दन्तपंक्तिस्तथा गुह्यं जायंते च नखाः पुनः॥
कर्णयोस्तु भवेच्छिद्रं षण्मासाभ्यंतरेण तु

5.22.22

पायुर्मेहमुपस्थं च नाभिश्चाभ्युपजायते॥
संधयो ये च गात्रेषु मासैर्जायंति सप्तभिः

5.22.23

अंगप्रत्यंगसंपूर्णः परिपक्वस्स तिष्ठति ॥
उदरे मातुराच्छन्नो जरायौ मुनि सत्तम

5.22.24

मातुराहारचौर्य्येण षड्विधेन रसेन तु ॥
नाभिनालनिबद्धेन वर्द्धते स दिनेदिने

5.22.25

ततस्मृतिं लभेज्जीवस्संपूर्णेऽस्मिञ्शरीरके ॥
सुखं दुःखं विजानाति निद्रास्वप्नं पुराकृतम्

5.22.26

मृतश्चाहं पुनर्जातो जातश्चाहं पुनर्मृतः ॥
नानायोनिसहस्राणि मया दृष्टानि जायता

5.22.27

अधुना जातमात्रोऽहं प्राप्तसंस्कार एव च ॥
श्रेयोऽमुना करिष्यामि येन गर्भे न संभवः

5.22.28

गर्भस्थश्चिंतयत्येवमहं गर्भाद्विनिस्सृतः ॥
अन्वेष्यामि शिवज्ञानं संसारविनिवर्तकम्

5.22.29

एवं स गर्भदुःखेन महता परिपीडितः ॥
जीवः कर्मवशादास्ते मोक्षोपायं विचिंतयन्

5.22.5.22.30

यथा गिरिवराक्रांतः कश्चिद्दुःखेन तिष्ठति ॥
तथा जरायुणा देही दुःखं तिष्ठति वेष्टितः

5.22.31

पतितस्सागरे यद्वद्दुःखमास्ते समाकुलः ॥
गर्भोदकेन सिक्तांगस्सर्वदाकुलितस्तदा

5.22.32

लोहकुंभे यथा न्यस्तः पच्यते कश्चिदग्निना ॥
गर्भकुंभे तथा क्षिप्तः पच्यते जठराग्निना

5.22.33

सूचीभिरग्निवर्णाभिनिर्भिन्नस्य निरंतरम् ॥
यद्दुःखं जायते तस्य तत्र संस्थस्य चाधिकम्

5.22.34

गर्भावासात्परं दुःखं कष्टं नैवास्ति कुत्रचित् ॥
देहिनां दुःखबहुलं सुघोरमतिसंकटम्

5.22.35

इत्येतत्सुमहद्दुःखं पापिनां परिकीर्तितम् ॥
केवलं धर्मबुदीनां सप्तमासैर्भवस्सदा

5.22.36

गर्भात्सुदुर्लभं दुःखं योनियंत्रनिपीडनात् ॥
भवेत्पापात्मनां व्यास न हि धर्मयुतात्मनाम् ।

5.22.37

इक्षुवत्पीड्यमानस्य यंत्रेणैव समंततः ॥
शिरसा ताड्यमानस्य पाप मुद्गरकेण च

5.22.38

यंत्रेण पीडिता यद्वन्निस्सारा स्स्युस्तिलाः क्षणात् ॥
तथा शरीरं निस्सारं योनियंत्रनिपीडनात्

5.22.39

अस्थिपादतुलास्तंभं स्नायुबन्धेन यंत्रितम्॥
रक्तमांसमृदालिप्तं विण्मूत्रद्रव्यभाजनम्

5.22.5.22.40

केशरोमनखच्छन्नं रोगायतनमातुरम् ॥
वदनैकमहाद्वारं गवाक्षाष्टकभूषितम्

5.22.41

ओष्ठद्वयकपाटं च तथा जिह्वार्गलान्वितम्॥
भोगतृष्णातुरं मूढं रागद्वेषवशानुगम्

5.22.42

संवर्तितांगप्रत्यंगं जरायुपरिवेष्टितम्॥
संकटेनाविविक्तेन योनिमार्गेण निर्गतम्

5.22.43

विण्मूत्ररक्तसिक्तांगं विकोशिकसमुद्भवम्॥
अस्थिपञ्जरविख्यातमस्मिञ्ज्ञेयं कलेवरम्

5.22.44

शतत्रयं षष्ट्यधिकं पंचपेशीशतानि च॥
सार्द्धाभिस्तिसृभिश्छन्नं समंताद्रोमकोटिभिः

5.22.45

शरीरं स्थूलसूक्ष्माभिर्दृश्याऽदृश्या हि तास्स्मृताः ॥
एतावतीभिर्नाडीभिः कोटिभिस्तत्समंततः

5.22.46

अस्वेदमधुभिर्याभिरंतस्थः स्रवते बहिः॥
द्वात्रिंशद्दशनाः प्रोक्ता विंशतिश्च नखाः स्मृताः

5.22.47

पित्तस्य कुडवं ज्ञेयं कफस्याथाढकं स्मृतम् ॥
वसायाश्च पलं विंशत्तदर्धं कपिलस्य च

5.22.48

पंचार्द्धं तु तुला ज्ञेया पलानि दश मेदसः ॥
पलत्रयं महारक्तं मज्जायाश्च चतुर्गुणम्

5.22.49

शुक्रोर्द्धं कुडवं ज्ञेयं तद्बीजं देहिनां बलम् ॥
मांसस्य चैकपिंडेन पलसाहस्रमुच्यते

5.22.5.22.50

रक्तं पलशतं ज्ञेयं विण्मूत्रं यत्प्रमाणत॥
अंजलयश्च चत्वारश्चत्वारो मुनिसत्तम

5.22.51

इति देहगृहं ह्येतन्नित्यस्यानित्यमात्मनः ॥
अविशुद्धं विशुद्धस्य कर्मबंधाद्विनिर्मितम्

5.22.22

इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां देहोत्पत्तिवर्णनं नाम द्वाविंशोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc