भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 4.35

4.35.1

सूत उवाच ॥
श्रूयतामृषयः श्रेष्ठाः कथयामि यथा श्रुतम् ॥
विष्णुना प्रार्थितो येन संतुष्टः परमेश्वरः ॥
तदाहं कथयाम्यद्य पुण्यं नाम सहस्रकम्

4.35.2

श्रीविष्णुरुवाच ॥
शिवो हरो मृडो रुद्रः पुष्करः पुष्पलोचनः ॥
अर्थिगम्यः सदाचारः शर्वः शंभुर्महेश्वरः

4.35.3

चंद्रापीडश्चंद्रमौलिर्विश्वं विश्वंभरेश्वरः ॥
वेदांतसारसंदोहः कपाली नीललोहितः

4.35.4

ध्यानाधारोऽपरिच्छेद्यो गौरीभर्त्ता गणेश्वरः ॥
अष्टमूर्तिर्विश्वमूर्तिस्त्रिवर्गस्वर्गसाधनः

4.35.5

ज्ञानगम्यो दृढप्रज्ञो देवदेवस्त्रिलोचनः ॥
वामदेवो महादेवः पटुः परिवृढो दृढः

4.35.6

विश्वरूपो विरूपाक्षो वागीशः शुचिसत्तमः ॥
सर्वप्रमाणसंवादी वृषाङ्को वृषवाहनः

4.35.7

ईशः पिनाकी खट्वांगी चित्रवेषश्चिरंतनः ॥
तमोहरो महायोगी गोप्ता ब्रह्मा च धूर्जटिः

4.35.8

कालकालः कृत्तिवासाः सुभगः प्रणवात्मकः ॥
उन्नध्रः पुरुषो जुष्यो दुर्वासाः पुरशासनः

4.35.9

दिव्यायुधः स्कंदगुरुः परमेष्ठीः परात्परः ॥
अनादिमध्यनिधनो गिरीशो गिरिजाधवः

4.35.4.35.10

कुबेरबंधुः श्रीकंठो लोकवर्णोत्तमो मृदुः ॥
समाधिवेद्यः कोदंडी नीलकंठः परस्वधीः

4.35.11

विशालाक्षो मृगव्याधः सुरेशः सूर्यतापनः ॥
धर्मधाम क्षमाक्षेत्रं भगवान्भगनेत्रभित्

4.35.12

उग्रः पशुपतिस्तार्क्ष्यः प्रियभक्तः परंतपः ॥
दाता दयाकरो दक्षः कर्मंदीः कामशासनः

4.35.13

श्मशाननिलयः सूक्ष्मः श्मशानस्थो महेश्वरः ॥
लोककर्त्ता मृगपतिर्महाकर्त्ता महौषधिः

4.35.14

उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः॥
नीतिः सुनीतिः शुद्धात्मा सोमः सोमरतः सुखी

4.35.15

सोमपोऽमृतपः सौम्यो महातेजा महाद्युतिः ॥
तेजोमयोऽमृतमयोऽन्नमयश्च सुधापतिः

4.35.16

अजातशत्रुरालोकः संभाव्यो हव्यवाहनः ॥
लोककरो वेदकरः सूत्रकारः सनातनः

4.35.17

महर्षिकपिलाचार्यो विश्वदीप्तिस्त्रिलोचनः ॥
पिनाकपाणिर्भूदेवः स्वस्तिदः स्वस्तिकृत्सुधीः

4.35.18

धातृधामा धामकरः सर्वगः सर्वगोचरः ॥
ब्रह्मसृग्विश्वसृक्सर्गः कर्णिकारः प्रियः कविः

4.35.19

शाखो विशाखो गोशाखः शिवो भिषगनुत्तमः ॥
गंगाप्लवोदको भव्यः पुष्कलः स्थपतिः स्थिरः

4.35.4.35.20

विजितात्मा विधेयात्मा भूतवाहनसारथिः ॥
सगणो गणकायश्च सुकीर्तिच्छिन्नसंशयः

4.35.21

कामदेवः कामपालो भस्मोद्धूलितविग्रहः ॥
भस्मप्रियो भस्मशायी कामी कांतः कृतागमः

4.35.22

समावर्तोऽनिवृत्तात्मा धर्मपुंजः सदाशिवः ॥
अकल्मषश्च पुण्यात्मा चतुर्बाहुर्दुरासदः

4.35.23

दुर्लभो दुर्गमो दुर्गः सर्वायुधविशारदः ॥
अध्यात्मयोगनिलयः सुतंतुस्तंतुवर्धनः

4.35.24

शुभांगो लोकसारंगो जगदीशो जनार्दनः॥
भस्मशुद्धिकरो मेरुरोजस्वी शुद्धविग्रहः

4.35.25

असाध्यः साधुसाध्यश्च भृत्यमर्कटरूपधृक् ॥
हिरण्यरेताः पौराणो रिपुजीवहरो बली

4.35.26

महाह्रदो महागर्तस्सिद्धोवृंदारवंदितः ॥
व्याघ्रचर्मांबरो व्याली महाभूतो महानिधिः

4.35.27

अमृतोऽमृवपुः श्रीमान्पाञ्चजन्यः प्रभंजनः ॥
पंचविंशतितत्त्वस्थः पारिजातः परात्परः

4.35.28

सुलभस्सुव्रतश्शूरो वाङ्मयैकनिधिर्निधिः ॥
वर्णाश्रमगुरुर्वर्णी शत्रुजिच्छत्रुतापनः

4.35.29

आश्रमः क्षपणः क्षामो ज्ञानवानचलेश्वरः ॥
प्रमाणभूतो दुर्ज्ञेयः सुपर्णो वायुवाहनः ॥

4.35.4.35.30

धनुर्धरो धनुर्वेदो गुणः शशिगुणाकरः॥
सत्यस्सत्यपरोऽदीनो धर्मो गोधर्मशासनः

4.35.31

अनंतदृष्टिरानंदो दंडो दमयिता दमः ॥
अभिचार्य्यो महामायो विश्वकर्म विशारदः

4.35.32

वीतरागो विनीतात्मा तपस्वीभूतभावनः॥
उन्मत्तवेषः प्रच्छन्नो जितकामोऽजितप्रियः

4.35.33

कल्याणप्रकृतिः कल्पः सर्वलोकप्रजापतिः॥
तरस्वी तारको धीमान्प्रधानः प्रभुरव्ययः

4.35.34

लोकपालोंऽतर्हितात्मा कल्पादिः कमलेक्षणः ॥
वेदशास्त्रार्थतत्त्वज्ञोऽनियमो नियताश्रयः

4.35.35

चंद्रः सूर्यः शनिः केतुर्वरांगो विद्रुमच्छविः ॥
भक्तिवश्यः परं ब्रह्म मृगबाणापर्णोऽनघः

4.35.36

अद्रिरद्र्यालयः कांतः परमात्मा जगद्गुरुः॥
सर्वकर्मालयस्तुष्टो मंगल्यो मंगलावृतः

4.35.37

महातपा दीर्घतपाः स्थविष्ठ स्थविरो ध्रुवः ॥
अहः संवत्सरो व्याप्तिः प्रमाणं परमं तपः

4.35.38

संवत्सरकरो मंत्रः प्रत्ययः सर्वतापनः ॥
अजः सर्वेश्वरस्सिद्धो महातेजा महाबलः

4.35.39

योगी योग्यो महारेता सिद्धिः सर्वादिरग्रहः ॥
वसुर्वसुमनाः सत्यः सर्वपापहरो हरः

4.35.4.35.40

सुकीर्ति शोभनस्स्रग्वी वेदांगो वेदविन्मुनिः ॥
भ्राजिष्णुर्भोजनं भोक्ता लोकनाथो दुराधरः

4.35.41

अमृतश्शाश्वतश्शांतो बाणहस्तः प्रतापवान् ॥
कमंडलुधरो धन्वी ह्यवाङ्मनसगोचरः

4.35.42

अतींद्रियो महामायस्सर्ववासश्चतुष्पथः ॥
कालयोगी महानादो महोत्साहो महाबलः

4.35.43

महाबुद्धिर्महावीर्यो भूतचारी पुरं दरः॥
निशाचरः प्रेतचारी महाशक्तिर्महाद्युतिः

4.35.44

अनिर्देश्यवपुः श्रीमान्सर्वाचार्यमनोगतिः ॥
बहुश्रुतिर्महामायो नियतात्मा ध्रुवोऽध्रुवः

4.35.45

तेजस्तेजो द्युतिधरो जनकः सर्वशासकः ॥
नृत्यप्रियो नृत्यनित्यः प्रकाशात्मा प्रकाशकः

4.35.46

स्पष्टाक्षरो बुधो मंत्रः समानः सारसंप्लवः ॥
युगादिकृद्युगावर्तो गंभीरो वृषवाहनः

4.35.47

इष्टो विशिष्टः शिष्टेष्टः सुलभः सारशो धनः ॥
तीर्थरूपस्तीर्थनामा तीर्थादृश्यस्तु तीर्थदः

4.35.48

अपांनिधिरधिष्ठानं विजयो जयकालवित् ॥
प्रतिष्ठितः प्रमाणज्ञो हिरण्यकवचो हरिः

4.35.49

विमोचनस्सुरगणो विद्येशो बिंदुसंश्रयः ॥
वातरूपोऽमलोन्मायी विकर्ता गहनो गुहः

4.35.4.35.50

करणं कारणं कर्ता सर्वबंधविमोचनः ॥
व्यवसायो व्यवस्थानः स्थानदो जगदादिजः

4.35.51

गुरुदो ललितोऽभेदो भावात्मात्मनि संस्थितः ॥
वीरेश्वरो वीरभद्रो वीरासनविधिर्गुरुः

4.35.52

वीरचूडामणिर्वेत्ता चिदानंदो नदीधरः ॥
आज्ञाधारस्त्रिशूली च शिपिविष्टः शिवालयः

4.35.53

बालखिल्यो महावीरस्तिग्मांशुर्बधिरः खगः ॥
अभिरामः सुशरणः सुब्रह्मण्यः सुधापतिः

4.35.54

मघवान्कौशिको गोमान्विरामः सर्वसाधनः ॥
ललाटाक्षो विश्वदेहः सारः संसारचक्रभृत्

4.35.95

अमोघदंडी मध्यस्थो हिरण्यो ब्रह्मवर्चसः ॥
परमार्थः परोमायी शंबरो व्याघ्रलोचनः

4.35.56

रुचिर्बहुरुचिर्वेद्यो वाचस्पतिरहस्पतिः ॥
रविर्विरोचनः स्कंदः शास्ता वैवस्वतो यमः

4.35.57

युक्तिरुन्नतकीर्तिश्च सानुरागः पुरंजयः ॥
कैलासाधिपतिः कांतः सविता रविलोचनः

4.35.58

विश्वोत्तमो वीतभयो विश्वभर्त्ताऽनिवारितः ॥
नित्यो नियतकल्याणः पुण्यश्रवणकीर्त्तनः

4.35.59

दूरश्रवो विश्वसहो ध्येयो दुःस्वप्ननाशनः ॥
उत्तारणो दुष्कृतिहा विज्ञेयो दुःसहोऽभवः

4.35.4.35.60

अनादिर्भूर्भुवो लक्ष्मीः किरीटी त्रिदशाधिपः ॥
विश्वगोप्ता विश्वकर्त्ता सुवीरो रुचिरांगदः

4.35.61

जननो जनजन्मादिः प्रीतिमान्नीतिमान्ध्रुवः ॥
वशिष्ठः कश्यपो भानुर्भीमो भीमपराक्रमः

4.35.62

प्रणवः सत्पथाचारो महाकोशो महाधनः ॥
जन्माधिपो महा देवः सकलागमपारगः

4.35.63

तत्त्वं तत्त्वविदेकात्मा विभुर्विष्णुर्विभूषणः ॥
ऋषिर्ब्राह्मण ऐश्वर्यजन्ममृत्युजरातिगः

4.35.64

पंचयज्ञसमुत्पत्तिर्विश्वेशो विमलोदयः ॥
आत्मयोनिरनाद्यंतो वत्सलो भक्तलोकधृक्

4.35.65

गायत्रीवल्लभः प्रांशुर्विश्वावासः प्रभाकरः ॥
शिशुर्गिरिरतः सम्राट् सुषेणः सुरशत्रुहा

4.35.66

अनेमिरिष्टनेमिश्च मुकुन्दो विगतज्वरः ॥
स्वयंज्योतिर्महाज्योतिस्तनुज्योतिरचंचलः

4.35.67

पिंगलः कपिलश्मश्रुर्भालनेत्रस्त्रयीतनुः ॥
ज्ञानस्कंदो महानीतिर्विश्वोत्पत्तिरुपप्लवः

4.35.68

भगो विवस्वानादित्यो गतपारो बृहस्पतिः ॥
कल्याणगुणनामा च पापहा पुण्यदर्शनः

4.35.69

उदारकीर्तिरुद्योगी सद्योगी सदसत्त्रपः ॥
नक्षत्रमाली नाकेशः स्वाधिष्ठानः षडाश्रयः

4.35.4.35.70

पवित्रः पापहारी च मणिपूरो नभोगतिः ॥
हृत्पुंडरीकमासीनः शक्रः शांतो वृषाकपिः

4.35.71

उष्णो गृहपतिः कृष्णः समर्थोऽनर्थनाशनः ॥
अधर्मशत्रुरज्ञेयः पुरुहूतः पुरुश्रुतः

4.35.72

ब्रह्मगर्भो बृहद्गर्भो धर्मधेनुर्धनागमः ॥
जगद्धितैषी सुगतः कुमारः कुशलागमः

4.35.73

हिरण्यवर्णो ज्योतिष्मान्नानाभूतरतो ध्वनिः ॥
आरोग्यो नमनाध्यक्षो विश्वामित्रो धनेश्वरः

4.35.74

ब्रह्मज्योतिर्वसुधामा महाज्योतिरनुत्तमः ॥
मातामहो मातरिश्वा नभस्वान्नागहारधृक्

4.35.75

पुलस्त्यः पुलहोऽगस्त्यो जातूकर्ण्यः पराशरः ॥
निरावरणनिर्वारो वैरंच्यो विष्टरश्रवाः

4.35.76

आत्मभूरनिरुद्धोऽत्रिर्ज्ञानमूर्तिर्महायशाः ॥
लोकवीराग्रणीर्वीरश्चण्डः सत्यपराक्रमः

4.35.77

व्यालकल्पो महाकल्पः कल्पवृक्षः कलाधरः॥
अलंकरिष्णुरचलो रोचिष्णुर्विक्रमोन्नतः

4.35.78

आयुः शब्दपतिर्वाग्मी प्लवनश्शिखिसारथिः॥
असंसृष्टोऽतिथिश्शत्रुः प्रमाथी पादपासनः

4.35.79

वसुश्रवा कव्यवाहः प्रतप्तो विश्वभोजनः ॥
जप्यो जरादिशमनो लोहितश्च तनूनपात्

4.35.4.35.80

पृषदश्वो नभोयोनिः सुप्रतीकस्तमिस्रहा ॥
निदाघस्तपनो मेघभक्षः परपुरंजयः

4.35.81

सुखानिलस्सुनिष्पन्नस्सुरभिश्शिशिरात्मकः ॥
वसंतो माधवो ग्रीष्मो नभस्यो बीजवाहनः

4.35.82

अंगिरा गुरुरात्रेयो विमलो विश्वपावनः ॥
पावनः पुरजिच्छक्रस्त्रैविद्यो नववारण

4.35.83

मनोबुद्धिरहंकारः क्षेत्रज्ञः क्षेत्रपालकः ॥
जमदग्निर्बलनिधिर्विगालो विश्वगालवः

4.35.84

अघोरोऽनुत्तरो यज्ञः श्रेयो निःश्रेयसप्रदः ॥
शैलो गगनकुंदाभो दानवारिररिंदमः

4.35.85

चामुण्डो जनकश्चारुर्निश्शल्यो लोकशल्यधृक् ॥
चतुर्वेदश्चतुर्भावश्चतुरश्चतुर प्रियः

4.35.86

आम्नायोऽथ समाम्नायस्तीर्थदेवशिवालयः ॥
बहुरूपो महारूपस्सर्वरूपश्चराचरः

4.35.87

न्यायनिर्मायको नेयो न्यायगम्यो निरंजनः ॥
सहस्रमूर्द्धा देवेंद्रस्सर्वशस्त्रप्रभंजनः

4.35.88

मुंडी विरूपो विकृतो दंडी नादी गुणोत्तमः ॥
पिंगलाक्षो हि बह्वयो नीलग्रीवो निरामयः

4.35.89

सहस्रबाहुस्सर्वेशश्शरण्यस्सर्वलोकधृक्॥
पद्मासनः परं ज्योतिः पारम्पर्य्यफलप्रदः

4.35.4.35.90

पद्मगर्भो महागर्भो विश्वगर्भो विचक्षणः ॥
परावरज्ञो वरदो वरेण्यश्च महास्वनः

4.35.91

देवासुरगुरुर्देवो देवासुरनमस्कृतः ॥
देवासुरमहा मित्रो देवासुरमहेश्वरः

4.35.92

देवासुरेश्वरो दिव्यो देवासुरमहाश्रयाः ॥
देवदेवोऽनयोऽचिंत्यो देवतात्मात्मसंभवः

4.35.93

।
सद्यो महासुरव्याधो देवसिंहो दिवाकरः॥
विबुधामचरः श्रेष्ठः सर्वदेवोत्तमोत्तम

4.35.94

शिवज्ञानरतः श्रीमाञ्शिखी श्रीपर्वतप्रियः॥
वज्रहस्तस्सिद्धखङ्गो नरसिंहनिपातनः

4.35.95

ब्रह्मचारी लोकचारी धर्मचारी धनाधिपः ॥
नन्दी नंदीश्वरोऽनंतो नग्नव्रतधरश्शुचिः

4.35.96

लिंगाध्यक्षः सुराध्यक्षो युगाध्यक्षो युगापहः ॥
स्वधामा स्वगतः स्वर्गी स्वरः स्वरमयः स्वनः

4.35.97

बाणाध्यक्षो बीजकर्ता कर्मकृद्धर्मसंभवः ॥
दंभो लोभोऽथ वै शंभुस्सर्व भूतमहेश्वरः

4.35.98

श्मशाननिलयस्त्र्यक्षस्स तुरप्रतिमाकृतिः॥
लोकोत्तरस्फुटोलोकः त्र्यंबको नागभूषणः

4.35.99

अंधकारि मखद्वेषी विष्णुकंधरपातनः ॥
हीनदोषोऽक्षयगुणो दक्षारिः पूषदंतभित्

4.35.4.35.100

पूर्णः पूरयिता पुण्यः सुकुमारः सुलोचनः ॥
सन्मार्गमप्रियो धूर्त्तः पुण्यकीर्तिरनामयः

4.35.101

मनोजवस्तीर्थकरो जटिलो नियमेश्वरः ॥
जीवितांतकरो नित्यो वसुरेता वसुप्रदः

4.35.102

सद्गतिः सिद्धिदः सिद्धिः सज्जातिः खलकंटकः॥
कलाधरो महाकालभूतः सत्यपरायणः

4.35.103

लोकलावण्यकर्ता च लोकोत्तरसुखालयः ॥
चंद्रसंजीवनश्शास्ता लोकग्राहो महाधिपः

4.35.104

लोकबंधुर्लोकनाथः कृतज्ञः कृतिभूषितः ॥
अनपायोऽक्षरः कांतः सर्वशस्त्रभृतां वरः

4.35.105

तेजोमयो श्रुतिधरो लोकमानी घृणार्णवः ॥
शुचिस्मितः प्रसन्नात्मा ह्यजेयो दुरतिक्रमः

4.35.106

ज्योतिर्मयो जगन्नाथो निराकारो जलेश्वरः ॥
तुम्बवीणो महाकायो विशोकश्शोकनाशनः

4.35.107

त्रिलोकपस्त्रिलोकेशः सर्वशुद्धिरधोक्षजः ॥
अव्यक्तलक्षणो देवो व्यक्तोऽव्यक्तो विशांपतिः

4.35.108

परः शिवो वसुर्नासासारो मानधरो यमः ॥
ब्रह्मा विष्णुः प्रजापालो हंसो हंसगतिर्वयः

4.35.109

वेधा विधाता धाता च स्रष्टा हर्त्ता चतुर्मुखः ॥
कैलासशिखरावासी सर्वावासी सदागति

4.35.4.35.110

हिरण्यगर्भो द्रुहिणो भूतपालोऽथ भूपतिः ॥
सद्योगी योगविद्योगीवरदो ब्राह्मणप्रिय

4.35.111

देवप्रियो देवनाथो देवको देवचिंतकः ॥
विषमाक्षो विरूपाक्षो वृषदो वृषवर्धनः

4.35.112

निर्ममो निरहंकारो निर्मोहो निरुपद्रवः॥
दर्पहा दर्पदो दृप्तः सर्वार्थपरिवर्त्तकः

4.35.113

सहस्रार्चिर्भूतिभूषः स्निग्धाकृतिरदक्षिणः ॥
भूतभव्यभवन्नाथो विभवो भूतिनाशनः

4.35.114

अर्थोऽनर्थो महाकोश परकायैकपंडित ॥
निष्कंटकः कृतानंदो निर्व्याजो व्याजमर्दनः

4.35.115

सत्त्ववान्सात्त्विकः सत्यः कृतस्नेहः कृतागमः ॥
अकंपितो गुणग्राही नैकात्मानैककर्मकृत्

4.35.116

सुप्रीतः सुखदः सूक्ष्मः सुकरो दक्षिणानिलः ॥
नंदिस्कंदो धरो धुर्यः प्रकटः प्रीतिवर्धनः

4.35.117

अपराजितः सर्वसहो गोविंदः सत्त्ववाहनः ॥
अधृतः स्वधृतः सिद्धः पूतमूर्तिर्यशोधनः

4.35.118

वाराहशृंगधृक् शृंगी बलवानेकनायकः ॥
श्रुतिप्रकाशः श्रुतिमाने कबंधुरनेकधृक्

4.35.119

श्रीवत्सलः शिवारंभः शांतभद्रः समो यशः ॥
भूयशो भूषणो भूतिर्भूतिकृद्भूतभावनः

4.35.4.35.120

अकंपो भक्तिकायस्तु कालहानिः कलाविभुः ॥
सत्यव्रती महात्यागी नित्यशांतिपरायणः

4.35.121

परार्थवृत्तिर्वरदो विरक्तस्तु विशारदः॥
शुभदः शुभकर्ता च शुभनामा शुभः स्वयम्

4.35.122

अनर्थितो गुणग्राही ह्यकर्ता कनकप्रभः ॥
स्वभावभद्रो मध्यस्थ शत्रुघ्नो विघ्ननाशनः

4.35.123

शिखंडी कवची शूली जटी मुंडी च कुंडली ॥
अमृत्युः सर्वदृक् सिंहस्तेजोराशिर्महामणिः

4.35.124

असंख्येयोऽप्रमेयात्मा वीर्यवान् वीर्यकोविदः ॥
वेद्यश्च वै वियोगात्मा सप्तावरमुनीश्वरः

4.35.125

अनुत्तमो दुराधर्षो मधुरः प्रियदर्शनः ॥
सुरेश स्मरणः सर्वः शब्दः प्रतपतां वरः

4.35.126

कालपक्षः कालकालः सुकृती कृतवासुकिः ॥
महेष्वासो महीभर्ता निष्कलंको विशृंखल

4.35.127

द्युमणिस्तरणिर्धन्यः सिद्धिदः सिद्धिसाधनः ॥
विश्वतस्संवृतस्तु व्यूढोरस्को महाभुजः

4.35.128

सर्वयोनिर्निरातंको नरनारायणप्रियः ॥
निर्लेपो यतिसंगात्मा निर्व्यंगो व्यंगनाशनः

4.35.129

स्तव्यः स्तवप्रियः स्तोता व्यासमूर्तिर्निरंकुलः ॥
निरवद्यमयोपायो विद्याराशिश्च सत्कृतः

4.35.4.35.130

प्रशांतबुद्धिरक्षुण्णः संग्रहो नित्यसुंदरः ॥
वैयाघ्रधुर्यो धात्रीशः संकल्पः शर्वरीपतिः

4.35.131

परमार्थगुरुर्दत्तः सूरिराश्रितवत्सलः ॥
सोमो रसज्ञो रसदः सर्वसत्त्वावलंबनः

4.35.132

एवं नाम्नां सहस्रेण तुष्टाव हि हरं हरिः ॥
प्रार्थयामास शम्भुं वै पूजयामास पंकजः

4.35.133

ततः स कौतुकी शम्भुश्चकार चरितं द्विजाः ॥
महाद्भुतं सुखकरं तदेव शृणुतादरात्

4.35.35

इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां शिवसहस्रनामवर्णनं नाम पञ्चत्रिंशोध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc