भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 4.31

4.31.1

सूत उवाच ॥ ॥
अतः परं प्रवक्ष्यामि लिंगं रामेश्वराभिधम् ॥
उत्पन्नं च यथा पूर्वमृषयश्शृणुतादरात्

4.31.2

पुरा विष्णुः पृथिव्यां चावततार सतां प्रियः

4.31.3

तत्र सीता हृता विप्रा रावणेनोरुमायिना ॥
प्रापिता स्वगृहं सा हि लंकायां जनकात्मजा

4.31.4

अन्वेषणपरस्तस्याः किष्किन्धाख्यां पुरीमगात् ॥
सुग्रीवहितकृद्भूत्वा वालिनं संजघान ह

4.31.5

तत्र स्थित्वा कियत्कालं तदन्वेषणतत्परः ॥
सुग्रीवाद्यैर्लक्ष्मणेन विचारं कृतवान्स वै

4.31.6

कपीन्संप्रेषयामास चतुर्दिक्षु नृपात्मजः ॥
हनुमत्प्रमुखान्रामस्तदन्वेषणहेतवे

4.31.7

अथ ज्ञात्वा गतां लंकां सीतां कपिवराननात् ॥
सीताचूडामणिं प्राप्य मुमुदे सोऽति राघवः

4.31.8

सकपीशस्तदा रामो लक्ष्मणेन युतो द्विजाः ॥
सुग्रीवप्रमुखैः पुण्यैर्वानरैर्बलवत्तरैः

4.31.9

पद्मैरष्टादशाख्यैश्च ययौ तीरं पयोनिधेः ॥
दक्षिणे सागरे यो वै दृश्यते लवणाकरः

4.31.4.31.10

तत्रागत्य स्वयं रामो वेलायां संस्थितो हि सः ॥
वानरैस्सेव्यमानस्तु लक्ष्मणेन शिवप्रियः

4.31.11

हा जानकि कुतो याता कदा चेयं मिलिष्यति ॥
अगाधस्सागरश्चैवातार्या सेना च वानरी

4.31.12

राक्षसो गिरिधर्त्ता च महाबलपराक्रमः॥
लंकाख्यो दुर्गमो दुर्ग इंद्रजित्तनयोस्य वै

4.31.13

इत्येवं स विचार्यैव तटे स्थित्वा सलक्ष्मणः॥
आश्वासितो वनौकोभिरंगदादिपुरस्सरैः

4.31.14

एतस्मिन्नंतरे तत्र राघवश्शैवसत्तमः॥
उवाच भ्रातरं प्रीत्या जलार्थी लक्ष्मणाभिधम्

4.31.15

राम उवाच ॥
भ्रातर्लक्ष्मण वीरेशाहं जलार्थी पिपासितः ॥
तदानय द्रुतं पाथो वानरैः कैश्चिदेव हि

4.31.16

सूत उवाच ॥
तच्छ्रुत्वा वानरास्तत्र ह्यधावंत दिशो दश ॥
नीत्वा जलं च ते प्रोचुः प्रणिपत्य पुरः स्थिताः

4.31.17

वानरा ऊचुः ॥
जलं च गृह्यतां स्वामिन्नानीतं तत्त्वदाज्ञया॥
महोत्तमं च सुस्वादु शीतलं प्राणतर्पणम्

4.31.18

सूत उवाच॥
सुप्रसन्नतरो भूत्वा कृपादृष्ट्या विलोक्य तान् ॥
तच्छ्रुत्वा रामचन्द्रोऽसौ स्वयं जग्राह तज्जलम्

4.31.19

स शैवस्तज्जलं नीत्वा पातुमारब्धवान्यदा ॥
तदा च स्मरणं जातमित्थमस्य शिवेच्छया

4.31.21

न कृतं दर्शनं शंभोर्गृह्यते च जलं कथम् ॥
स्वस्वामिनः परेशस्य सर्वानंदप्रदस्य वै । 4.31.२० ॥
इत्युक्त्वा च जलं पीतं तदा रघुवरेण च॥
पश्चाच्च पार्थिवीं पूजां चकार रघुनंदनः

4.31.22

आवाहनादिकांश्चैव ह्युपचारान्प्रकल्प्य वै ।
विधिवत्षोडश प्रीत्या देवमानर्च शङ्करम्

4.31.23

प्रणिपातैस्स्तवैर्दिव्यैश्शिवं संतोष्य यत्नतः॥
प्रार्थयामास सद्भक्त्या स रामश्शंकरं मुदा

4.31.24

राम उवाच ॥ ॥
स्वामिञ्छंभो महादेव सर्वदा भक्तवत्सल ॥
पाहि मां शरणापन्नं त्वद्भक्तं दीनमानसम्

4.31.25

एतज्जलमगाधं च वारिधेर्भवतारण ॥
रावणाख्यो महावीरो राक्षसो बलवत्तरः

4.31.26

वानराणां बलं ह्येतच्चंचलं युद्धसाधनम् ॥
ममकार्यं कथं सिद्धं भविष्यति प्रियाप्तये

4.31.27

तस्मिन्देव त्वया कार्यं साहाय्यं मम सुव्रत ॥
साहाय्यं ते विना नाथ मम कार्य्यं हि दुर्लभम्

4.31.28

त्वदीयो रावणोऽपीह दुर्ज्जयस्सर्वथाखिलैः ॥
त्वद्दत्तवरदृप्तश्च महावीरस्त्रिलोकजित्

4.31.29

अप्यहं तव दासोऽस्मि त्वदधीनश्च सर्वथा ॥
विचार्येति त्वया कार्यः पक्षपातस्सदाशिव

4.31.4.31.30

सूत उवाच ॥
इत्येवं स च संप्रार्थ्य नमस्कृत्य पुनःपुनः ॥
तदा जयजयेत्युच्चैरुद्धोषैश्शंकरेति च

4.31.31

इति स्तुत्वा शिवं तत्र मंत्रध्यानपरायणः ॥
पुनः पूजां ततः कृत्वा स्वाम्यग्रे स ननर्त ह

4.31.32

प्रेमी विक्लिन्नहृदयो गल्लनादं यदाकरोत् ॥
तदा च शंकरो देवस्सुप्रसन्नो बभूव ह

4.31.33

सांगस्सपरिवारश्च ज्योतीरूपो महेश्वरः ॥
यथोक्तरूपममलं कृत्वाविरभवद्द्रुतम्

4.31.34

ततस्संतुष्टहृदयो रामभक्त्या महेश्वरः ॥
शिवमस्तु वरं ब्रूहि रामेति स तदाब्रवीत्

4.31.35

तद्रूपं च तदा दृष्ट्वा सर्वे पूतास्ततस्स्वयम् ॥
कृतवान्राघवः पूजां शिवधर्मपरायणः

4.31.36

स्तुतिं च विविधां कृत्वा प्रणिपत्य शिवं मुदा ॥
जयं च प्रार्थयामास रावणाजौ तदात्मनः

4.31.37

ततः प्रसन्नहृदयो रामभक्त्या महेश्वरः ॥
जयोस्तु ते महाराज प्रीत्या स पुनरब्रवीत्

4.31.38

शिवदत्तं जयं प्राप्य ह्यनुज्ञां समवाप्य च ॥
पुनश्च प्रार्थयामास सांजलिर्नतमस्तकः

4.31.39

॥ राम उवाच ॥
त्वया स्थेयमिह स्वामिंल्लोकानां पावनाय च ॥
परेषामुपकारार्थं यदि तुष्टोऽसि शंकर

4.31.4.31.40

॥ सूत उवाच ॥
इत्युक्तस्तु शिवस्तत्र लिंगरूपोऽभवत्तदा ॥
रामेश्वरश्च नाम्ना वै प्रसिद्धो जगतीतले

4.31.41

रामस्तु तत्प्रभावाद्वै सिन्धुमुत्तीर्य चांजसा ॥
रावणादीन्निहत्याशु राक्षसान्प्राप तां प्रियाम्

4.31.42

रामेश्वरस्य महिमाद्भुतोऽभूद्भुवि चातुलः ॥
भुक्तिमुक्तिप्रदश्चैव सर्वदा भक्तकामदः

4.31.43

दिव्यगंगाजलेनैव स्नापयिष्यति यश्शिवम् ॥
रामेश्वरं च सद्भक्त्या स जीवन्मुक्त एव हि

4.31.44

इह भुक्त्वाखिलान्भोगान्देवानां दुर्लभानपि ॥
अंते प्राप्य परं ज्ञानं कैवल्यं प्राप्नुयाद्ध्रुवम्

4.31.45

इति वश्च समाख्यातं ज्योतिर्लिगं शिवस्य तु ॥
रामेश्वराभिधं दिव्यं शृण्वतां पापहारकम्

4.31.31

इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंतायां रामेश्वरमाहात्म्यवर्णनं नामैकत्रिंशोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc